Skip to main content

Uttara-khaṇḍa · Chapter 252

Chapter 252

Unit 664 of 693Uttara-khaṇḍa · Chapter 252Uttara-khaṇḍa · Chapter 2521 source entries

Uttara-khaṇḍa · Chapter 252

Source

श्रीरुद्र उवाच- अथ मगधाधिपः कंसवधानंतरं द्विषन्नेव यादवान्सदा पीडयामास ते दुःखिताः कृष्णमूचुः १। स च भीमार्जुनावाहूय संमंत्रयामास कृष्णः अनेन रुद्र पूःजितस्तत्प्रसादाच्छस्त्रैरवध्यः परं केनापिप्रकारेण हंतव्य इति २। अथ विचार्य भीममाह एनं प्रतिमल्लयुद्धं कुरु तत्तेन प्रतिज्ञातम् ३। अथ सकल चराचरजगद्वंद्यो वासुदेवो भीमार्जुनसहितो जरासंधस्य पुरीं गत्वा विप्रवेषेण तस्यांतःपुरमवाप ४। सोऽपि महावीर्यान्क्षत्त्रियान्युद्धे निर्जित्य बलाद्गृहीत्वा स्ववेश्मनि निरुध्य मासिमासि कृष्णचतुर्दश्यामेकैकं हत्वा तद्रक्तेनैव बलिं भैरवायाकरोत् ५। एवंविधं सकलजनपार्थिववधं कुर्वतो जरासंधस्य समुद्यमानो भीमार्जुनसहितस्तस्य गृहे विप्रवेषेणैव प्रविवेश ६। स तु तान्दृष्ट्वा दंडवत्प्रणतो भूत्वा यथोचितासनेषु निवेश्य मधुपर्कविधानेन संपूज्य धन्योस्मि कृतकृत्योस्मि किमर्थं भवन्तो मे समीप आगतास्तद्वक्तव्यमहं तत्सर्वं भवद्भ्यो दास्यामीत्युवाच ७। तेषां वासुदेवः प्रहसन्पार्थिवं तमुवाच कृष्णभीमार्जुना युद्धार्थमागताः स्म अस्माकमन्यतमं द्वंद्वयुद्धार्थं वृणीष्वेत्यवदत् ८। सोऽपि तथेत्यवदत्ततो द्वंद्वयुद्धार्थं मारुतिं वरयामास ९। ततो भीमजरासंधयोरभितो भयंकरं मल्लयुद्धं निरंतरं पंचविंशतिवासरमभूत् १०। ततः कृष्णेनैव संचोदितो वायुपुत्रस्तस्य शरीरं द्विधाकृत्य भूमौ निपातयामास ।। एवं जरासंधं पांडुपुत्रेण हत्वा तान्जरासंधनिरोधितान्वासुदेवोऽपि पार्थिवान्मोचयामास ११। निहत्य वायुपुत्रेण जरांसंधं यदूद्वहः । तद्गृहे सन्निरुद्धांस्तु मोचयामास पार्थिवान् १२। ते च तत्र नमस्कृत्य स्तुत्वा च मधुसूदनम् । स्वान्स्वान्जनपदान्सर्वे जग्मुः कृष्णेन रक्षिताः १३। अथ ताभ्यामिंद्रप्रस्थं गत्वा वासुदेवस्तत्र महाक्रतुं राजसूयं युधिष्ठिरं कारयामास १४। तत्र समाप्ते क्रतौ अग्रपूजां भीष्मानुमतेन कृष्णाय दत्तवान् १५। तत्र शिशुपालः कृष्णं बहून्याक्षेपवाक्यान्युक्तवान् १६। कृष्णोऽपि सुदर्शनेन तस्य शिरश्चिच्छेद १७। असौ जन्मत्रयावसाने हरेः सारूप्यमगमत् १८। अथ शिशुपालं निहतं श्रुत्वा दंतवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम १९। कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन योद्धुं मथुरामाययौ २०। दंतवक्त्रवासुदेवयोरहोरात्रं मथुरापुरद्वारि यमुनातीरे संग्रामः समवर्त्तत कृष्णस्तु गदया तं जघान २१। स तु चूर्णितसर्वांगो वज्रनिर्भिन्न महीधर इव गतासुरवनितले पपात २२। सोऽपि हरेः सायुज्यं योगिगम्यं नित्यानंदसुखं शाश्वतं परमं पदमवाप २३। इत्थं जयविजयौ सनकादिशापव्याजेन केवलं भगवतोलीलार्थं संसृताववतीर्य जन्मत्रयेऽपि तेनैव निहतौ जन्मत्रयावसाने मुक्तिमवाप्तौ २४। कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नंदव्रजं गत्वा प्राक्तनौ पितरावभिवाद्य आश्वास्य ताभ्यां साश्रुकंठमालिगितः सकलगोपवृद्धान्प्रणम्याश्वास्य रत्नाभरणादिभिस्तत्रस्थान्संतर्पयामास २५। कालिंद्याः पुलिने रम्ये पुण्यवृक्षसमावृते । गोपनारीभिरनिशं क्रीडयामास केशवः २६। रम्यकेलिसुखेनैव गोपवेषधरो हरिः । बद्धप्रेमरसेनात्र मासद्वयमुवास ह २७। अथ तत्रस्था नंदगोपादयः सर्वेजनाः पुत्रदारसहिताः पशुपक्षिमृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढाः परमं वैकुंठलोकमवापुः २८। कृष्णस्तु नंदगोपव्रजौकसां सर्वेषां परमं निरामयं स्वपदं दत्वा दिवि देवगणैः संस्तूयमानो द्वारवतीं श्रीमतीं विवेश २९। तत्र वसुदेवोग्रसेनसंकर्षणप्रद्युम्नानिरुद्धाक्रूरादिभिः प्रत्यहं संपूजित षोडशसहस्रभार्याभिरष्टाभिर्दिव्यमहिषीभिश्च विश्वरूपधरो दिव्यरत्नमय नानागृहांतरेषु सुतकुसुमांचित श्लक्ष्णतरपर्यंकेषु रमयामास ३०। अथ रामकृष्णसतीर्थ्यो विप्रो बालसखा सदात्यंतदारिद्र्यपीडितो मुष्टिमात्रान्याचनाप्तपृथुकाञ्जीर्णवाससि निबध्य वासुदेवं द्रष्टुं श्रीमतीं द्वारकानगरीमाजगाम ३१। स तु रुक्मिण्यंतःपुरद्वारि क्षणं तूष्णीं तस्थौ ३२। कृष्णोऽपि समागतं ब्राह्मणं ज्ञात्वा प्रद्युम्नेन नमस्कृत्वा वामकरं गृहीत्वा गृहांतरे स्वासने निवेश्य भयाद्वेपमानं तं रुक्मिणीहस्तगतसुवर्णकलशजलेन पादौ प्रक्षाल्य मधुपर्केण पूजयामास ३३। सुधामृतोपमैरन्नपानाद्यैस्तर्पयित्वा तस्य जीर्णवस्त्रांतरे याचनाप्तपृथुकान्स्वयमेव हस्तेन गृहीत्वा प्रहसन्जग्रास ३४। कृष्णेन पृथुके भक्षिते तस्मिन्नेव क्षणे तस्य बहुधनधान्यवस्त्राभरणसंभूतं महदैश्वर्यमभूत् ३५। स तु कृष्णेन विसृष्टो मम किंचिद्वस्त्रं वा धनं वा कृष्णेन न दत्तमिति मन्यमानः स्वपुरं विवेश ३६। अथ बहुधनधान्ययुतं स्वगृहं दृष्ट्वा तत्प्रसादादिदं लब्धमिति वदन्प्रहृष्टेनांतरात्मना दिव्य वस्त्राभरणादिना भार्यया सह सर्वान्कामान्भुक्त्वा हरिसंतुष्ट्यै बहुयज्ञानिष्ट्वा तत्प्रसादेन परमं नित्यं स्वर्गसुखमवाप ३७। अथ धृतराष्ट्रतनयो दुर्योधनः पांडुतनयान्कपटद्यूतव्याजेन राज्यमपहृत्य स्वराष्ट्राद्विवासयामास ३८। ते तु युधिष्ठिरभीमार्जुननकुलसहदेवाः सुपत्न्या द्रौ पद्या सह महारण्यं गत्वा तत्र द्वादशाब्दान्स्थित्वा संवत्सरपर्यंतमज्ञाताः सर्वे मत्स्यदेशाधिपतेर्विराटस्य निवेशने स्थित्वा वासुदेवेन सहायेन धार्तराष्ट्रान्योद्धुमाजग्मुः ३९। तेषां धार्तराष्ट्रपांडुपुत्राणां नानादेशाधिपनृपैः कुरुक्षेत्रमहापुण्ये देवानामपि भयंकरो महासंग्रामोऽभवत् ४०। अथ श्रीकृष्णोऽप्यर्जुनसारथ्यं कुर्वन्नर्जुने स्वशक्तिमावेश्य तेन दुर्योधनभीष्मद्रो- णप्रमुखान्सर्वान्पार्थिवानेकादशाक्षौहिणीबलसहितान्कुरुक्षेत्रे हत्वा पांडवान्राज्ये स्थापयित्वा निःशेषेण सर्वभूभारमपास्य स्वां पुरीं प्रविवेश ४१। कस्यचित्त्वथकालस्य कतिपयाहनि वैदिको ब्राह्मणो मृतं पंचवार्षिकं बालमादाय राजद्वारि निधाय बहुशो विलपन्बहून्याक्रोशवाक्यानि कृष्णं जगाद ४२। कृष्णस्तमाक्रोशं श्रुत्वा तूष्णीमुवास ४३। स तु मम पंचपुत्राः पूर्वं हता अयं तु षष्ठः एनं कृष्णो न जीवयिष्यति तर्हि राजद्वारि मरिष्यामीत्युवाच ४४। तस्मिन्काले अर्जुनः कृष्णं द्रष्टुमागतस्तथाविधं तं पुत्रशोकेन विलपंतं ददर्श ४५। अर्जुनोऽपि कालधर्ममुपागतं पंचवार्षिकं बालकं दृष्ट्वा कृपयाविष्टस्तव पुत्रमहंजीवयिष्यामीति ब्राह्मणायाभयं दत्वा प्रतिश्रुतवान् ४६। ब्राह्मणस्तु तेनाश्वासितो हृष्टवान् ४७। अथैतं ब्राह्मणशिशुं बहुभिः संजीविनास्त्रैरभिमंत्र्य अलब्धजीवितं दृष्ट्वा वृथा प्रतिज्ञामवाप्य बहुशोकसमन्वितस्तेनैव प्राणांस्त्यक्तुमैच्छत् ४८। कृष्णस्तु तत्सर्वं ज्ञात्वांतःपुराद्विनिष्क्रम्य तं वैदिकं प्राह तवपुत्रान्सर्वानहं दास्यामीत्युक्त्वाश्वास्य वैनतेयमारुह्यार्जुनसहितो वैष्णवं लोकमाजगाम ४९। तत्र दिव्यमणिमंडपोद्देशे देव्या सह समासीनं नारायणं दृष्ट्वा कृष्णार्जुनौ नमश्चक्रतुः ५० 6.252.50। स तौ बाहुभ्यां परिष्वज्य किमर्थमागतावित्युवाच ५१। कृष्णश्च भगवन्वैदिकस्य तनयान्मम देहीत्युवाच ५२। स तु नारायणस्तादृग्वयसि संस्थितान्ब्राह्मणपुत्रान्कृष्णाय संददौ ५३। श्रीकृष्णोऽपि तान्वैनतेयस्कंधे समारोप्य हर्षसमन्वितोऽर्जुनसहितः स्वयमप्यारुह्य दिवि देवगणैः संस्तूयमानो द्वारवतीमाविवेश ५४। तस्मै ब्राह्मणाय पंचवर्षवयःस्थान्षट्पुत्रान्ददौ सोऽप्यत्यंतर्हषसमन्वितः कृष्णं वर्द्धयस्वेत्याशिषं प्रायच्छत् ५५। अर्जुनस्तु सफलां प्रतिज्ञामवाप्य कृष्णं नमस्कृत्य युधिष्ठिरपालितां स्वां पुरीमाजगाम ५६। कृष्णस्य षोडशसहस्रभार्यास्वयुतसाहस्रपुत्रा जज्ञिरे तेषां पुत्रपौत्रसंख्यां वक्तुं न शक्यते ५७। अत्रापि श्लोकः । अष्टौशतानि पुत्राणां सहस्राण्ययुतं तथा । प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः ५८। असंख्यैस्तैर्यादवैरियं पृथिवी संवृताऽभवत् ५९। पुनरप्यवनीभारशंकया कृष्णस्तु तानृषिशापव्याजेन संहर्तुमैच्छत् ६०। कदाचित्सर्वे कुमारा नर्मदायां विहर्तुमाजग्मुः ६१। तत्र तपंतं कण्वं महर्षिं दृष्ट्वा जांबवत्याः । पुत्रं योषिद्वेषं कृत्वा तस्योदरे कात्वायसं मुसलं बद्ध्वा ऋषेः । समीपमागत्य सर्वे नमस्कृत्वा पत्नीरूपं सांबं कुमारं तस्य पुरतो निधाय । अस्या गर्भे स्त्री वा पुरुषो वा भविष्तीति ब्रूहीत्यूचुः ६२। स तु मनसा तद्विज्ञाय तानमर्षमाणः सर्वाननेन मुसलेन यूयं सर्वे निहता भवतेत्युवाच ६३। सर्वे समुद्विग्नमनसः कृष्णं समेत्य महर्षिणोक्तं तत्कर्म निवेदयामासुः ६४। कृष्णोऽपि तदायसं मुसलं चूर्णीभूतं ह्रदे निपातयामास ६५। तदयश्चूर्णीभूतबीजसमुद्भूता वज्रसन्निभा महाकाशाः संबभूवुः ६६। तत्र तं मुसलावशिष्टं कनिष्ठांगुलिमात्रं मत्स्यो जग्रास तं मत्स्यं निषादो गृहीत्वा तदुदरस्थं मुशलखण्डमादाय बाणाग्रे फलकमकरोत् ६७। कदाचित्सर्वे यादवा रामकृष्णप्रद्युम्नादयो मघवता प्रेषितां वारुणीं पीत्वा मत्ता बभूवुः६८। परस्परं वीरणं नीत्वा बहून्याक्रोशवाक्यानि वदंतो युद्धं चक्रुः क्षयं च गताः ६९। कृष्णस्तु युद्धश्रांतः कल्पतरुच्छायायां शयनं चकार स निषादो धनुर्बाणं गृहीत्वा खेटकवृत्तिं जगाम ७०। एवं निःशेषं त्यक्तजीविता बभूवुस्ते सर्वे स्वान्स्वांस्त्रिदशान्प्रपेदिरे ७१। एवं मुशलेन संहृत्य सर्वं स्वयमेको देवो बहुगुल्मसमाकीर्णमहाद्रुमछायायां सुप्तश्चतुर्विधव्यूहगतं वासुदेवात्मकमात्मानं चिंतयञ्जानूपरिपदं निधायात्मनो मानुषंवपुस्त्यक्तुमनुनिषसाद ७२। एतस्मिनन्तरे मृगयाजीविको हरेः स तदा कालप्रभावेन चक्रवज्रध्वजांकुशादिचिह्नितमतिरक्ततमं हरेः पादकमलं दृष्ट्वा विव्याध ७३। तदनंतरं श्रीकृष्णं ज्ञात्वा सुमहाभयार्तः प्रवेपमानः कृतांजलिपुटो महदपराधः सकलोपह्रियतामिति तं प्रणनाम ७४ । श्रीकृष्णस्तथाभूतं दृष्ट्वा सुधामयकराभ्यां तमुत्थाप्य भवतानापराद्धं कृतमिति वदन्महाभयपीडितमाश्वासयन्नुवाच ७५। ततो योगिगम्यमपुनरावृत्तिशाश्वतं सर्वोपनिषदमयं वैष्णवं लोकं प्रददौ ७६। असौ तस्मिन्नेव मुहूर्ते मानुषं रूपं विहाय पंचोपनिषन्मयं सकलपुत्रदारसहितो दीप्तिमयं वैष्णवं लोकं दिव्यं विमानमास्थाय सहस्रार्कद्युतिसदृशं दिव्याप्सरोगणाकीर्णं हिरण्मयं वासुदेवेत्येकं जगाम ७७। तस्मिन्काले दारुको रथमारुह्य विष्णोः समीपं विवेश ७८। कृष्णोऽपि मत्स्वरूपमर्जुनं पूर्वमानयस्वेति प्रेषयामास ७९। स तु मनोजवस्यंदनमारुह्यार्जुनसमीपमाजगाम ८०। एतस्मिन्नंतरे देव्यर्जुनस्तदारुह्य परिणीय नमस्कृत्वा किं करोमीति पुटांजलिरुवाच ८१। कृष्णस्तु तमाह पार्थाहं स्वलोकं यास्यामि त्वं तु द्वारवतीं गत्वा तत्रस्था रुक्मिण्याद्यष्टभार्या आनीय मम शरीरे प्रेषय ८२। स दारुकेण सहितो नगरीमाजगाम ८३। एतस्मिन्नंतरे देवा विमानस्था नभसि संस्थिताः स्वर्लोकं यियान्तं कृष्णं दृष्ट्वा ऋषिभिः सार्द्धं स्तुत्वा पुष्पवर्षाणि ववृषुः ८४। कृष्णोऽपि मानुषदेहं- संन्यस्यसकलजगत्स्थितिसंहारहेतुभूतं सकलक्षेत्रज्ञमंतर्यामियोगिध्येयमनामयं वासुदेवात्मकं देहं धृत्वा वैनतेयमारुह्य महर्षिभिस्तूयमानो जगाम ८५। अर्जुनो वसुदेवोग्रसेनाभ्यां रुक्मिण्यादिमहिषीभ्यस्तत्सर्वं कथयामास ८६। तच्छ्रुत्वा सर्वे पौरजनाः स्त्रियश्च द्वारवतीमुत्सृज्यांतःपुराद्बहिर्निष्क्रम्य सर्वास्ताः कृष्णवल्लभा वसुदेवोग्रसेनसहिताः शीघ्रमेव हरेः समीपं जग्मुः ८७। ते सर्वे वसुदेवोग्रसेनाक्रूराः सर्वे यदुवृद्धा वपुस्त्यक्त्वा सनातनवासुदेवं समाजग्मुः८८। रेवतीच बलभद्रशरीरं परिष्वज्याग्निं प्रविश्य तस्मिन्देहं प्राप्य दिव्यविमानारूढा भर्तुः स्थानं संकर्षणलोकं दिव्यमवाप ८९। तथैव प्रद्युम्नेन सह रुक्मपुत्री तथानिरुद्धेनोषापि सर्वाश्च यादवस्त्रियः स्वस्वभर्तुः शरीराणि संपूज्याग्निप्रवेशं चक्रुः ९०। तेषां सर्वेषामर्जुनऔर्द्ध्वदैहिकं कृतवान् ९१। तस्मिन्काले दिव्यवाजिसमायुक्तं सुग्रीवाख्यकं सर्वरत्नोपेतं दिव्यं स्यंदनमारुह्य दारुकोप्याजगाम ९२। पारिजाततरुर्देवसभासुधर्मात्रिदशेंद्रलोकमयाताम् ९३। तस्मिन्समये द्वारवतीपुरी महोदधौ निमग्नाभूत् ९४। ततः सर्वाः षोडशसहस्रभार्य्या अर्जुनेनसहेंद्रप्रस्थं गच्छंतीर्दस्यवो जगृहुः ९५। पूर्वं देवगंधर्वयोषितो ह्यष्टावक्रं महामुनिं दृष्ट्वा जहसुस्ततस्तेन शप्ता वेश्या भविष्यथ ततस्ताभि प्रसादितः पूजितश्च तत्प्रसादात्सर्वलोकैश्च नमस्कृतं वासुदेवं भर्तारमवाप्यापि तेनैव दस्युहस्तं गता अभवन् ९६। अर्जुनोऽपि दस्युभिर्निर्जितः शोकसमाविष्टो मम भुजबलं सवीर्यं कृष्णेनैव सह सर्वमैश्वर्यं निर्यातमिति मत्वा अद्य मम भाग्य क्षय इति वदन्सायं संध्यारविरिव निःशेषविनष्टतेजाः स्वां पुरीं समाजगाम ९७। एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाशं कृत्वा महांतमपि चोर्वीभारं नाशयित्वा नंदव्रजद्वारकामथुरानिवासिनः सर्वान्स्थावरजंगमान्कालभवबंधैर्मोचयित्वा परमैश्वर्गे शाश्वते योगिगम्ये हिरण्मये रम्ये सात्विके संस्थाप्य नित्यं दिव्यमहिष्यादिसंसेव्यमानो वासुदेव उवास ९८। अत्र श्लोकाः - अन्ये सर्वेऽवताराः स्युः कृष्णस्य चरितं महत् । भूभारकविनाशाय प्रादुर्भूतो रमापतिः ९९। एतत्कृष्णस्य चरितं दुष्टानां नाशहेतवे । श्रीकृष्णः करुणासिंधुर्वैकुंठे मोदते सदा १०० 6.252.100। अत्यद्भुतमिदं देवि कृष्णस्य चरितं शुभम् । संग्रहेण मयैवोक्तं तव सर्वफलप्रदम् १०१। वासुदेवस्य चरितं यः पठेद्धरिसन्निधौ । स्मरेद्वा शृणुयाद्भक्त्या स याति परमं पदम् १०२। महापातकयुक्तो वा तथोपपातकसंयुतः । बालकृष्णस्य चरितं श्रुत्वा पापैः प्रमुच्यते १०३। द्वारवत्यां समासीनं रुक्मिणीसहितं हरिम् । स्मरन्वै महदैश्वर्यमनेनाप्नोत्यसंशयः १०४। संग्रामे संकटे दुर्गे शत्रुभिः परिवेष्टिते । नेतारं सर्वदेवानां ध्यात्वा सुविजयी भवेत् १०५। यः स्मरेद्गोपकन्याभिः क्रीडंतं गोव्रजे शुभे । सर्वकामानवाप्नोति सौभाग्यं चैव विंदति १०६। महोपसर्गरोगाद्यैर्युक्तो यस्तु सनातनम् । जेतारं च महारौद्रीं कृत्यां काशीपुरे स्थिताम् १०७। किमत्र बहुनोक्तेन सर्वकालेषु चाप्सु भे । कृष्णाय नम इत्येवं मंत्रमुच्चारयेद्बुधः १०८। कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतः क्लेशनाशाय गोविंदाय नमोनमः १०९। इमं मंत्रं जपन्देवि भक्त्या प्रतिदिनं नरः । सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ११०। सर्वेषामेव देवानामीश्वरोऽसौ जनार्दनः । रक्षणाय च लोकानामवस्थांतरमेति वै १११। त्रिपुरं हंतुकामेन मया संपूजितो हरिः । बुद्धरूपधरः श्रीमान्मोहयामास तद्रिपून् ११२। मोहितास्तेन शास्त्रेण सर्वधर्मविवर्जिताः । नारायणास्त्रेण मया निहता देवशत्रवः ११३। अवतीर्य कलावंते ब्राह्मणस्य निवेशने । हनिष्यति तथा रौद्रान्म्लेच्छान्सर्वाञ्जनार्दनः ११४। तैस्तैर्भावैर्मयावस्थाः सर्वाः प्रोक्ता जगत्पतेः । किमन्यच्छ्रोतुकामासि तद्ब्रवीमि शुभानने ११५। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे। उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीकृष्णस्वधामगमननिरूपणंनाम द्विपंचाशदधिकद्विशततमोऽध्यायः २५२।

śrīrudra uvāca- atha magadhādhipaḥ kaṃsavadhānaṃtaraṃ dviṣanneva yādavānsadā pīḍayāmāsa te duḥkhitāḥ kṛṣṇamūcuḥ 1| sa ca bhīmārjunāvāhūya saṃmaṃtrayāmāsa kṛṣṇaḥ anena rudra pūḥjitastatprasādācchastrairavadhyaḥ paraṃ kenāpiprakāreṇa haṃtavya iti 2| atha vicārya bhīmamāha enaṃ pratimallayuddhaṃ kuru tattena pratijñātam 3| atha sakala carācarajagadvaṃdyo vāsudevo bhīmārjunasahito jarāsaṃdhasya purīṃ gatvā vipraveṣeṇa tasyāṃtaḥpuramavāpa 4| so'pi mahāvīryānkṣattriyānyuddhe nirjitya balādgṛhītvā svaveśmani nirudhya māsimāsi kṛṣṇacaturdaśyāmekaikaṃ hatvā tadraktenaiva baliṃ bhairavāyākarot 5| evaṃvidhaṃ sakalajanapārthivavadhaṃ kurvato jarāsaṃdhasya samudyamāno bhīmārjunasahitastasya gṛhe vipraveṣeṇaiva praviveśa 6| sa tu tāndṛṣṭvā daṃḍavatpraṇato bhūtvā yathocitāsaneṣu niveśya madhuparkavidhānena saṃpūjya dhanyosmi kṛtakṛtyosmi kimarthaṃ bhavanto me samīpa āgatāstadvaktavyamahaṃ tatsarvaṃ bhavadbhyo dāsyāmītyuvāca 7| teṣāṃ vāsudevaḥ prahasanpārthivaṃ tamuvāca kṛṣṇabhīmārjunā yuddhārthamāgatāḥ sma asmākamanyatamaṃ dvaṃdvayuddhārthaṃ vṛṇīṣvetyavadat 8| so'pi tathetyavadattato dvaṃdvayuddhārthaṃ mārutiṃ varayāmāsa 9| tato bhīmajarāsaṃdhayorabhito bhayaṃkaraṃ mallayuddhaṃ niraṃtaraṃ paṃcaviṃśativāsaramabhūt 10| tataḥ kṛṣṇenaiva saṃcodito vāyuputrastasya śarīraṃ dvidhākṛtya bhūmau nipātayāmāsa || evaṃ jarāsaṃdhaṃ pāṃḍuputreṇa hatvā tānjarāsaṃdhanirodhitānvāsudevo'pi pārthivānmocayāmāsa 11| nihatya vāyuputreṇa jarāṃsaṃdhaṃ yadūdvahaḥ | tadgṛhe sanniruddhāṃstu mocayāmāsa pārthivān 12| te ca tatra namaskṛtya stutvā ca madhusūdanam | svānsvānjanapadānsarve jagmuḥ kṛṣṇena rakṣitāḥ 13| atha tābhyāmiṃdraprasthaṃ gatvā vāsudevastatra mahākratuṃ rājasūyaṃ yudhiṣṭhiraṃ kārayāmāsa 14| tatra samāpte kratau agrapūjāṃ bhīṣmānumatena kṛṣṇāya dattavān 15| tatra śiśupālaḥ kṛṣṇaṃ bahūnyākṣepavākyānyuktavān 16| kṛṣṇo'pi sudarśanena tasya śiraściccheda 17| asau janmatrayāvasāne hareḥ sārūpyamagamat 18| atha śiśupālaṃ nihataṃ śrutvā daṃtavaktraḥ kṛṣṇena yoddhuṃ mathurāmājagāma 19| kṛṣṇastu tacchrutvā rathamāruhya tena yoddhuṃ mathurāmāyayau 20| daṃtavaktravāsudevayorahorātraṃ mathurāpuradvāri yamunātīre saṃgrāmaḥ samavarttata kṛṣṇastu gadayā taṃ jaghāna 21| sa tu cūrṇitasarvāṃgo vajranirbhinna mahīdhara iva gatāsuravanitale papāta 22| so'pi hareḥ sāyujyaṃ yogigamyaṃ nityānaṃdasukhaṃ śāśvataṃ paramaṃ padamavāpa 23| itthaṃ jayavijayau sanakādiśāpavyājena kevalaṃ bhagavatolīlārthaṃ saṃsṛtāvavatīrya janmatraye'pi tenaiva nihatau janmatrayāvasāne muktimavāptau 24| kṛṣṇo'pi taṃ hatvā yamunāmuttīrya naṃdavrajaṃ gatvā prāktanau pitarāvabhivādya āśvāsya tābhyāṃ sāśrukaṃṭhamāligitaḥ sakalagopavṛddhānpraṇamyāśvāsya ratnābharaṇādibhistatrasthānsaṃtarpayāmāsa 25| kāliṃdyāḥ puline ramye puṇyavṛkṣasamāvṛte | gopanārībhiraniśaṃ krīḍayāmāsa keśavaḥ 26| ramyakelisukhenaiva gopaveṣadharo hariḥ | baddhapremarasenātra māsadvayamuvāsa ha 27| atha tatrasthā naṃdagopādayaḥ sarvejanāḥ putradārasahitāḥ paśupakṣimṛgādayaśca vāsudevaprasādena divyarūpadharā vimānamārūḍhāḥ paramaṃ vaikuṃṭhalokamavāpuḥ 28| kṛṣṇastu naṃdagopavrajaukasāṃ sarveṣāṃ paramaṃ nirāmayaṃ svapadaṃ datvā divi devagaṇaiḥ saṃstūyamāno dvāravatīṃ śrīmatīṃ viveśa 29| tatra vasudevograsenasaṃkarṣaṇapradyumnāniruddhākrūrādibhiḥ pratyahaṃ saṃpūjita ṣoḍaśasahasrabhāryābhiraṣṭābhirdivyamahiṣībhiśca viśvarūpadharo divyaratnamaya nānāgṛhāṃtareṣu sutakusumāṃcita ślakṣṇataraparyaṃkeṣu ramayāmāsa 30| atha rāmakṛṣṇasatīrthyo vipro bālasakhā sadātyaṃtadāridryapīḍito muṣṭimātrānyācanāptapṛthukāñjīrṇavāsasi nibadhya vāsudevaṃ draṣṭuṃ śrīmatīṃ dvārakānagarīmājagāma 31| sa tu rukmiṇyaṃtaḥpuradvāri kṣaṇaṃ tūṣṇīṃ tasthau 32| kṛṣṇo'pi samāgataṃ brāhmaṇaṃ jñātvā pradyumnena namaskṛtvā vāmakaraṃ gṛhītvā gṛhāṃtare svāsane niveśya bhayādvepamānaṃ taṃ rukmiṇīhastagatasuvarṇakalaśajalena pādau prakṣālya madhuparkeṇa pūjayāmāsa 33| sudhāmṛtopamairannapānādyaistarpayitvā tasya jīrṇavastrāṃtare yācanāptapṛthukānsvayameva hastena gṛhītvā prahasanjagrāsa 34| kṛṣṇena pṛthuke bhakṣite tasminneva kṣaṇe tasya bahudhanadhānyavastrābharaṇasaṃbhūtaṃ mahadaiśvaryamabhūt 35| sa tu kṛṣṇena visṛṣṭo mama kiṃcidvastraṃ vā dhanaṃ vā kṛṣṇena na dattamiti manyamānaḥ svapuraṃ viveśa 36| atha bahudhanadhānyayutaṃ svagṛhaṃ dṛṣṭvā tatprasādādidaṃ labdhamiti vadanprahṛṣṭenāṃtarātmanā divya vastrābharaṇādinā bhāryayā saha sarvānkāmānbhuktvā harisaṃtuṣṭyai bahuyajñāniṣṭvā tatprasādena paramaṃ nityaṃ svargasukhamavāpa 37| atha dhṛtarāṣṭratanayo duryodhanaḥ pāṃḍutanayānkapaṭadyūtavyājena rājyamapahṛtya svarāṣṭrādvivāsayāmāsa 38| te tu yudhiṣṭhirabhīmārjunanakulasahadevāḥ supatnyā drau padyā saha mahāraṇyaṃ gatvā tatra dvādaśābdānsthitvā saṃvatsaraparyaṃtamajñātāḥ sarve matsyadeśādhipatervirāṭasya niveśane sthitvā vāsudevena sahāyena dhārtarāṣṭrānyoddhumājagmuḥ 39| teṣāṃ dhārtarāṣṭrapāṃḍuputrāṇāṃ nānādeśādhipanṛpaiḥ kurukṣetramahāpuṇye devānāmapi bhayaṃkaro mahāsaṃgrāmo'bhavat 40| atha śrīkṛṣṇo'pyarjunasārathyaṃ kurvannarjune svaśaktimāveśya tena duryodhanabhīṣmadro- ṇapramukhānsarvānpārthivānekādaśākṣauhiṇībalasahitānkurukṣetre hatvā pāṃḍavānrājye sthāpayitvā niḥśeṣeṇa sarvabhūbhāramapāsya svāṃ purīṃ praviveśa 41| kasyacittvathakālasya katipayāhani vaidiko brāhmaṇo mṛtaṃ paṃcavārṣikaṃ bālamādāya rājadvāri nidhāya bahuśo vilapanbahūnyākrośavākyāni kṛṣṇaṃ jagāda 42| kṛṣṇastamākrośaṃ śrutvā tūṣṇīmuvāsa 43| sa tu mama paṃcaputrāḥ pūrvaṃ hatā ayaṃ tu ṣaṣṭhaḥ enaṃ kṛṣṇo na jīvayiṣyati tarhi rājadvāri mariṣyāmītyuvāca 44| tasminkāle arjunaḥ kṛṣṇaṃ draṣṭumāgatastathāvidhaṃ taṃ putraśokena vilapaṃtaṃ dadarśa 45| arjuno'pi kāladharmamupāgataṃ paṃcavārṣikaṃ bālakaṃ dṛṣṭvā kṛpayāviṣṭastava putramahaṃjīvayiṣyāmīti brāhmaṇāyābhayaṃ datvā pratiśrutavān 46| brāhmaṇastu tenāśvāsito hṛṣṭavān 47| athaitaṃ brāhmaṇaśiśuṃ bahubhiḥ saṃjīvināstrairabhimaṃtrya alabdhajīvitaṃ dṛṣṭvā vṛthā pratijñāmavāpya bahuśokasamanvitastenaiva prāṇāṃstyaktumaicchat 48| kṛṣṇastu tatsarvaṃ jñātvāṃtaḥpurādviniṣkramya taṃ vaidikaṃ prāha tavaputrānsarvānahaṃ dāsyāmītyuktvāśvāsya vainateyamāruhyārjunasahito vaiṣṇavaṃ lokamājagāma 49| tatra divyamaṇimaṃḍapoddeśe devyā saha samāsīnaṃ nārāyaṇaṃ dṛṣṭvā kṛṣṇārjunau namaścakratuḥ 50 6.252.50| sa tau bāhubhyāṃ pariṣvajya kimarthamāgatāvityuvāca 51| kṛṣṇaśca bhagavanvaidikasya tanayānmama dehītyuvāca 52| sa tu nārāyaṇastādṛgvayasi saṃsthitānbrāhmaṇaputrānkṛṣṇāya saṃdadau 53| śrīkṛṣṇo'pi tānvainateyaskaṃdhe samāropya harṣasamanvito'rjunasahitaḥ svayamapyāruhya divi devagaṇaiḥ saṃstūyamāno dvāravatīmāviveśa 54| tasmai brāhmaṇāya paṃcavarṣavayaḥsthānṣaṭputrāndadau so'pyatyaṃtarhaṣasamanvitaḥ kṛṣṇaṃ varddhayasvetyāśiṣaṃ prāyacchat 55| arjunastu saphalāṃ pratijñāmavāpya kṛṣṇaṃ namaskṛtya yudhiṣṭhirapālitāṃ svāṃ purīmājagāma 56| kṛṣṇasya ṣoḍaśasahasrabhāryāsvayutasāhasraputrā jajñire teṣāṃ putrapautrasaṃkhyāṃ vaktuṃ na śakyate 57| atrāpi ślokaḥ | aṣṭauśatāni putrāṇāṃ sahasrāṇyayutaṃ tathā | pradyumnaḥ prathamasteṣāṃ sarveṣāṃ rukmiṇīsutaḥ 58| asaṃkhyaistairyādavairiyaṃ pṛthivī saṃvṛtā'bhavat 59| punarapyavanībhāraśaṃkayā kṛṣṇastu tānṛṣiśāpavyājena saṃhartumaicchat 60| kadācitsarve kumārā narmadāyāṃ vihartumājagmuḥ 61| tatra tapaṃtaṃ kaṇvaṃ maharṣiṃ dṛṣṭvā jāṃbavatyāḥ | putraṃ yoṣidveṣaṃ kṛtvā tasyodare kātvāyasaṃ musalaṃ baddhvā ṛṣeḥ | samīpamāgatya sarve namaskṛtvā patnīrūpaṃ sāṃbaṃ kumāraṃ tasya purato nidhāya | asyā garbhe strī vā puruṣo vā bhaviṣtīti brūhītyūcuḥ 62| sa tu manasā tadvijñāya tānamarṣamāṇaḥ sarvānanena musalena yūyaṃ sarve nihatā bhavatetyuvāca 63| sarve samudvignamanasaḥ kṛṣṇaṃ sametya maharṣiṇoktaṃ tatkarma nivedayāmāsuḥ 64| kṛṣṇo'pi tadāyasaṃ musalaṃ cūrṇībhūtaṃ hrade nipātayāmāsa 65| tadayaścūrṇībhūtabījasamudbhūtā vajrasannibhā mahākāśāḥ saṃbabhūvuḥ 66| tatra taṃ musalāvaśiṣṭaṃ kaniṣṭhāṃgulimātraṃ matsyo jagrāsa taṃ matsyaṃ niṣādo gṛhītvā tadudarasthaṃ muśalakhaṇḍamādāya bāṇāgre phalakamakarot 67| kadācitsarve yādavā rāmakṛṣṇapradyumnādayo maghavatā preṣitāṃ vāruṇīṃ pītvā mattā babhūvuḥ68| parasparaṃ vīraṇaṃ nītvā bahūnyākrośavākyāni vadaṃto yuddhaṃ cakruḥ kṣayaṃ ca gatāḥ 69| kṛṣṇastu yuddhaśrāṃtaḥ kalpatarucchāyāyāṃ śayanaṃ cakāra sa niṣādo dhanurbāṇaṃ gṛhītvā kheṭakavṛttiṃ jagāma 70| evaṃ niḥśeṣaṃ tyaktajīvitā babhūvuste sarve svānsvāṃstridaśānprapedire 71| evaṃ muśalena saṃhṛtya sarvaṃ svayameko devo bahugulmasamākīrṇamahādrumachāyāyāṃ suptaścaturvidhavyūhagataṃ vāsudevātmakamātmānaṃ ciṃtayañjānūparipadaṃ nidhāyātmano mānuṣaṃvapustyaktumanuniṣasāda 72| etasminantare mṛgayājīviko hareḥ sa tadā kālaprabhāvena cakravajradhvajāṃkuśādicihnitamatiraktatamaṃ hareḥ pādakamalaṃ dṛṣṭvā vivyādha 73| tadanaṃtaraṃ śrīkṛṣṇaṃ jñātvā sumahābhayārtaḥ pravepamānaḥ kṛtāṃjalipuṭo mahadaparādhaḥ sakalopahriyatāmiti taṃ praṇanāma 74 | śrīkṛṣṇastathābhūtaṃ dṛṣṭvā sudhāmayakarābhyāṃ tamutthāpya bhavatānāparāddhaṃ kṛtamiti vadanmahābhayapīḍitamāśvāsayannuvāca 75| tato yogigamyamapunarāvṛttiśāśvataṃ sarvopaniṣadamayaṃ vaiṣṇavaṃ lokaṃ pradadau 76| asau tasminneva muhūrte mānuṣaṃ rūpaṃ vihāya paṃcopaniṣanmayaṃ sakalaputradārasahito dīptimayaṃ vaiṣṇavaṃ lokaṃ divyaṃ vimānamāsthāya sahasrārkadyutisadṛśaṃ divyāpsarogaṇākīrṇaṃ hiraṇmayaṃ vāsudevetyekaṃ jagāma 77| tasminkāle dāruko rathamāruhya viṣṇoḥ samīpaṃ viveśa 78| kṛṣṇo'pi matsvarūpamarjunaṃ pūrvamānayasveti preṣayāmāsa 79| sa tu manojavasyaṃdanamāruhyārjunasamīpamājagāma 80| etasminnaṃtare devyarjunastadāruhya pariṇīya namaskṛtvā kiṃ karomīti puṭāṃjaliruvāca 81| kṛṣṇastu tamāha pārthāhaṃ svalokaṃ yāsyāmi tvaṃ tu dvāravatīṃ gatvā tatrasthā rukmiṇyādyaṣṭabhāryā ānīya mama śarīre preṣaya 82| sa dārukeṇa sahito nagarīmājagāma 83| etasminnaṃtare devā vimānasthā nabhasi saṃsthitāḥ svarlokaṃ yiyāntaṃ kṛṣṇaṃ dṛṣṭvā ṛṣibhiḥ sārddhaṃ stutvā puṣpavarṣāṇi vavṛṣuḥ 84| kṛṣṇo'pi mānuṣadehaṃ- saṃnyasyasakalajagatsthitisaṃhārahetubhūtaṃ sakalakṣetrajñamaṃtaryāmiyogidhyeyamanāmayaṃ vāsudevātmakaṃ dehaṃ dhṛtvā vainateyamāruhya maharṣibhistūyamāno jagāma 85| arjuno vasudevograsenābhyāṃ rukmiṇyādimahiṣībhyastatsarvaṃ kathayāmāsa 86| tacchrutvā sarve paurajanāḥ striyaśca dvāravatīmutsṛjyāṃtaḥpurādbahirniṣkramya sarvāstāḥ kṛṣṇavallabhā vasudevograsenasahitāḥ śīghrameva hareḥ samīpaṃ jagmuḥ 87| te sarve vasudevograsenākrūrāḥ sarve yaduvṛddhā vapustyaktvā sanātanavāsudevaṃ samājagmuḥ88| revatīca balabhadraśarīraṃ pariṣvajyāgniṃ praviśya tasmindehaṃ prāpya divyavimānārūḍhā bhartuḥ sthānaṃ saṃkarṣaṇalokaṃ divyamavāpa 89| tathaiva pradyumnena saha rukmaputrī tathāniruddhenoṣāpi sarvāśca yādavastriyaḥ svasvabhartuḥ śarīrāṇi saṃpūjyāgnipraveśaṃ cakruḥ 90| teṣāṃ sarveṣāmarjunaaurddhvadaihikaṃ kṛtavān 91| tasminkāle divyavājisamāyuktaṃ sugrīvākhyakaṃ sarvaratnopetaṃ divyaṃ syaṃdanamāruhya dārukopyājagāma 92| pārijātatarurdevasabhāsudharmātridaśeṃdralokamayātām 93| tasminsamaye dvāravatīpurī mahodadhau nimagnābhūt 94| tataḥ sarvāḥ ṣoḍaśasahasrabhāryyā arjunenasaheṃdraprasthaṃ gacchaṃtīrdasyavo jagṛhuḥ 95| pūrvaṃ devagaṃdharvayoṣito hyaṣṭāvakraṃ mahāmuniṃ dṛṣṭvā jahasustatastena śaptā veśyā bhaviṣyatha tatastābhi prasāditaḥ pūjitaśca tatprasādātsarvalokaiśca namaskṛtaṃ vāsudevaṃ bhartāramavāpyāpi tenaiva dasyuhastaṃ gatā abhavan 96| arjuno'pi dasyubhirnirjitaḥ śokasamāviṣṭo mama bhujabalaṃ savīryaṃ kṛṣṇenaiva saha sarvamaiśvaryaṃ niryātamiti matvā adya mama bhāgya kṣaya iti vadansāyaṃ saṃdhyāraviriva niḥśeṣavinaṣṭatejāḥ svāṃ purīṃ samājagāma 97| evaṃ hitārthāya sarvadevānāṃ samastabhūbhāravināśāya yaduvaṃśe'vatīrya sakalarākṣasavināśaṃ kṛtvā mahāṃtamapi corvībhāraṃ nāśayitvā naṃdavrajadvārakāmathurānivāsinaḥ sarvānsthāvarajaṃgamānkālabhavabaṃdhairmocayitvā paramaiśvarge śāśvate yogigamye hiraṇmaye ramye sātvike saṃsthāpya nityaṃ divyamahiṣyādisaṃsevyamāno vāsudeva uvāsa 98| atra ślokāḥ - anye sarve'vatārāḥ syuḥ kṛṣṇasya caritaṃ mahat | bhūbhārakavināśāya prādurbhūto ramāpatiḥ 99| etatkṛṣṇasya caritaṃ duṣṭānāṃ nāśahetave | śrīkṛṣṇaḥ karuṇāsiṃdhurvaikuṃṭhe modate sadā 100 6.252.100| atyadbhutamidaṃ devi kṛṣṇasya caritaṃ śubham | saṃgraheṇa mayaivoktaṃ tava sarvaphalapradam 101| vāsudevasya caritaṃ yaḥ paṭheddharisannidhau | smaredvā śṛṇuyādbhaktyā sa yāti paramaṃ padam 102| mahāpātakayukto vā tathopapātakasaṃyutaḥ | bālakṛṣṇasya caritaṃ śrutvā pāpaiḥ pramucyate 103| dvāravatyāṃ samāsīnaṃ rukmiṇīsahitaṃ harim | smaranvai mahadaiśvaryamanenāpnotyasaṃśayaḥ 104| saṃgrāme saṃkaṭe durge śatrubhiḥ pariveṣṭite | netāraṃ sarvadevānāṃ dhyātvā suvijayī bhavet 105| yaḥ smaredgopakanyābhiḥ krīḍaṃtaṃ govraje śubhe | sarvakāmānavāpnoti saubhāgyaṃ caiva viṃdati 106| mahopasargarogādyairyukto yastu sanātanam | jetāraṃ ca mahāraudrīṃ kṛtyāṃ kāśīpure sthitām 107| kimatra bahunoktena sarvakāleṣu cāpsu bhe | kṛṣṇāya nama ityevaṃ maṃtramuccārayedbudhaḥ 108| kṛṣṇāya vāsudevāya haraye paramātmane | praṇataḥ kleśanāśāya goviṃdāya namonamaḥ 109| imaṃ maṃtraṃ japandevi bhaktyā pratidinaṃ naraḥ | sarvapāpavinirmukto viṣṇulokamavāpnuyāt 110| sarveṣāmeva devānāmīśvaro'sau janārdanaḥ | rakṣaṇāya ca lokānāmavasthāṃtarameti vai 111| tripuraṃ haṃtukāmena mayā saṃpūjito hariḥ | buddharūpadharaḥ śrīmānmohayāmāsa tadripūn 112| mohitāstena śāstreṇa sarvadharmavivarjitāḥ | nārāyaṇāstreṇa mayā nihatā devaśatravaḥ 113| avatīrya kalāvaṃte brāhmaṇasya niveśane | haniṣyati tathā raudrānmlecchānsarvāñjanārdanaḥ 114| taistairbhāvairmayāvasthāḥ sarvāḥ proktā jagatpateḥ | kimanyacchrotukāmāsi tadbravīmi śubhānane 115| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe| umāmaheśvarasaṃvāde śrīkṛṣṇacarite śrīkṛṣṇasvadhāmagamananirūpaṇaṃnāma dvipaṃcāśadadhikadviśatatamo'dhyāyaḥ 252|

English translation

Śrī Rudra said :

1-3. After the killing of Kaṃsa , the king of Magadha , hating Yādavas , always troubled them. They, being afflicted, told (about it) to Kṛṣṇa . Kṛṣṇa called Bhīma and Arjuna and consulted them: “He has worshipped Rudra . Due to his favour he cannot be killed with weapons. But somehow he must be killed.” Then having thought he said to Bhīma: “Wrestle with him.” He promised to do so.

4-8. Then Vāsudeva , fit to be saluted by all the mobile and immobile world, went along with Bhīma and Arjuna in the guise of a brāhmaṇa to his city and reached his harem. He too having vanquished in battle very powerful kṣatriyas and having confined them, killed one of them every month and with his blood only made an offering to Bhairava . Thus exerting to kill Jarāsandha who had killed many men and kings, he along with Bhīma and Arjuna entered his house in the guise of a brāhmaṇa. He, seeing them, saluted them (by prostrating himself) like a staff, seated them on proper seats, worshipped them with madhuparka , and said to them: “I am fortunate; I am blessed. Why have you approached me? Tell it to me. I shall give all that to you.” Out of them Vāsudeva, smiling, said to the king: “We Kṛṣṇa, Bhīma, and Arjuna have come to fight with you. Choose one of us for a duel.”

9-12. He too said, “All right.” Then he chose Bhīma for the duel. Then a fierce, continuous duel took place between Bhīma and Jarāsandha (lasting for) twenty-five days. Then prompted by Kṛṣṇa only (Bhīma) the son of Vāyu , split his (i.e. Jarāsandha’s) body into two, and dropped it on the ground. Thus Kṛṣṇa, getting Jarāsandha killed by Pāṇḍu ’s son (Bhīma), freed the kings confined by Jarāsandha. (Kṛṣṇa) the descendant of Yadu , getting Jarāsandha killed by (Bhīma) Vāyu’s son, freed the kings confined in his house.

13-20. All those, protected by Kṛṣṇa, having saluted and praised Kṛṣṇa, went to their respective countries. Then, going to Indraprastha with the two (i.e. Bhīma and Arjuna), Kṛṣṇa made Yudhiṣṭhira perform the Rājasūya sacrifice. There, after the sacrifice was over, the chief honour was given to Kṛṣṇa with the consent of Bhīṣma . There Śiśupāla spoke many abusive words to Kṛṣṇa. Kṛṣṇa too cut off his head with the Sudarśana (disc). He, after three existences, was assimilated into Viṣṇu . Having heard that Śiśupāla was killed, Dantavaktra came to Mathura to fight with Kṛṣṇa. Kṛṣṇa, having learnt about it, got into his chariot, and came to Mathurā .

21-24. On the bank of Yamunā , at the gate of Mathurā, a fight lasting a day and night took place between Dantavaktra and Kṛṣṇa; and Kṛṣṇa killed him with (his) mace. He with his entire body smashed dropped dead on the ground like a mountain broken through with the thunderbolt. He too obtained the eternal, highest position, the absorption into Viṣṇu, obtainable by the meditating saints. Thus Jaya and Vijaya , under the pretext of the curse of Sanaka and others, descended into the mundane existence merely for the sport of the lord, and in the three existences they were killed by him alone. They obtained liberation at the end of three existences.

25. Kṛṣṇa also, having killed him (i.e. Śiśupāla), having crossed Yamunā, having gone to Nandavraja , having saluted his old parents, and having consoled them and embraced by them with their throats (choked) with tears, having embraced all old cowherds, having cheered them up with gems, ornaments, etc. gratified the residents there.

26-30. On the charming sandy bank of Yamunā, covered with auspicious trees, Kṛṣṇa incessantly sported with the cow-herdesses. Viṣṇu, dressed as a cowherd, lived here for a couple of months with (i.e. enjoying) pleasure of charming sport and steady love. Then all the cowherds like Nanda , all people along. with their sons and wives, beasts, birds, and animals took up a divine form due to Kṛṣṇa’s favour, got into an aeroplane, and reached the highest world of Viṣṇu. Kṛṣṇa, having given all the residents of Nanda- vraja his own pure, highest position, and being praised in heaven by hosts of gods, entered the glorious Dvārakā . There, he taking up an omnipresent form, and along. with Vasudeva , Ugrasena , Saṃkarṣaṇa , Pradyumna , Aniruddha , Akrūra etc., and everyday worshipped by his sixteen thousand wives and his eight divine queens, enjoyed on very soft beds graced with flowers in many mansions.

31-35. Then a fellow religious student of Rāma and Kṛṣṇa, a brāhmaṇa, their friend from childhood, very much oppressed by poverty, came, after having tied a handful of rice parched and flattened, obtained by begging, in an old piece of cloth, to the glorious city of Dvārakā to see Kṛṣṇa. He stood silent for a moment at the door of Rukmiṇī ’s harem. Kṛṣṇa too, knowing that a brāhmaṇa had come, went forth to greet him; and having saluted him and held him by his hand, seated him on an excellent seat in his house, and worshipped him who was trembling with fear with madhuparka after washing his feet with the water from a golden pitcher in the hands of Rukmiṇī. Having gratified him with food, drink etc. resembling nectar, he himself took with his hand the parched and flattened rice that he had obtained by begging, and ate it with a smile. The moment Kṛṣṇa ate the parched and flattened rice, he had great affluence due to much wealth, corn, (many) garments and ornaments.

36-39. Dismissed byKṛṣṇa, he, thinking that Kṛṣṇa did not give him a small piece of cloth, or wealth, entered his own city. Then seeing his own house full of much wealth and corn, he said: “Due to his favour I have gotthis.” With his mind delighted by means of the divine garments and ornaments, he, along with his wife, enjoyed all pleasures, performed many sacrifices to please Viṣṇu, and due to his favour got the happiness of heaven. Then Dhṛtarāṣṭra ’s son Duryodhana , (having deceived) Pāṇḍu’s sons under the pretext of gambling that was deceitful, took away their kingdom, and expelled them from his country. Those—Yudhiṣṭhira, Bhīma, Arjuna, Nakula and Sahadeva —along with their good wife Draupadī , went to a great forest. Having lived there for twelve years, and (having lived) incognito for a year, all of them lived in the house of Virāṭa , the king of Matsya (country); and came, with Kṛṣṇa’s help to fight with the sons of Dhṛtarāṣṭra.

40-43. There took place a great war, causing fear even to gods, between the sons of Dhṛtarāṣṭra and of Pāṇḍu at the very holy Kurukṣetra . Then Śrīkṛṣṇa also, acting as the charioteer of Arjuna, put his power into Arjuna, and getting all kings led by Bhiṣma, Droṇa etc. and along with an army consisting of eleven akṣauhiṇīs killed by him, he put the Pāṇḍavas on the kingdom (i.e. the throne). And having completely removed the burden of the earth, he entered his own city. After some time, on some day, a brāhmaṇa brought his five-year old dead son, and putting him at the gate of the palace, lamenting much, spoke many words of censure to Kṛṣṇa. Hearing that imprecation, Kṛṣṇa remained silent.

44-48. He (i.e. the brāhmaṇa) said: “My five sons have been formerly killed. This is the sixth one. If Kṛṣṇa does not bring him back to life, I shall die at the royal gate.” At that time Arjuna had come to see Kṛṣṇa. He saw him lamenting like that due to the grief (caused by the loss) of his son. Arjuna too, seeing the five-year old boy dead, was full of pity, and granting the brāhmaṇa protection, promised him: “I shall bring your son back to life.” The brāhmaṇa, thus cheered up by him, was de : lighted. Then having consecrated the brāhmaṇā-child with liferestoring missiles, seeing him not regaining life, and finding himself of a futile promise, he, full of great grief, desired to give up his life with that only.

49-53. And Kṛṣṇa, knowing all that, came out of his harem, and said to that brāhmaṇa well-versed in the Vedas : “I shall give (you back) all your sons.” Having cheered him, mounting upon Garuḍa , he, along with Arjuna came to Viṣṇu’s world. Seeing Viṣṇu, along with the goddess ( Lakṣmī ) there, in a part of the jewelled pavilion, Kṛṣṇa and Arjuna saluted him. He embraced them with his arms, and asked them why they had come (there). Kṛṣṇa said: “O revered one, give me the sons of the brāhmaṇa well-versed in the Vedas.” Then that Nārāyaṇa gave Kṛṣṇa those sons of the brāhmaṇa, who were of that age.

54-57. Śrī Kṛṣṇa too, putting them on the shoulders of Garuḍa, and being full of joy, himself also mounted upon Garuḍa, and being praised by groups of gods, entered Dvāravatī . To that brāhmaṇa he gave the six sons aged five. He (i.e. the brāhmaṇa) too, extremely joyful, gave a blessing to Kṛṣṇa: “May you prosper.” And Arjuna having had his promise fulfilled, saluted Kṛṣṇa and went to his own city protected by Yudhiṣṭhira. A myriad thousand sons were born to the sixteen thousand wives of Kṛṣṇa. It is not possible to tell the number of their sons and grandsons. Here (i.e. with regard to this) also there is a verse:

58-62. There were eight hundred thousands and a myriad of sons. Of all of them, Pradyumna, Rukmiṇī’s son was the first. This earth was covered with those innumerable Yādavas. Fearing a burden to the earth again, Kṛṣṇa desired to destroy them under the pretext of a sage’s curse. Sometime all the young boys came to sport in Narmadā . There, seeing the great sage Kaṇva practising austerity, they made Jāmbavatī ’s son put on the dress of a woman, and tying an iron pestle to his belly, they approached the sage, and placing Sāmba ’s son in the guise of a wife (husband?), said to him: “Tell us whether in (i.e.from) her womb a female or a male would be born.”

63-67. He, knowing it mentally, and not tolerating it, said to them all: “Be killed with this pestle.” All,with their minds dejected, approached Kṛṣṇa, and reported to him what the sage had said, and that act (of them). Kṛṣṇa too threw the pounded iron pestle into a pool. From the seed of the iron (pestle) reduced to powder great kāśa (grass) resembling the thunderbolt came up. A fish ate a portion of the pestle, of the size of the small finger. A fisherman, catching that fish, took the piece of the pestle lying in the belly of the fish and fashioned (out of it) the point at the end of an arrow.

68-71. Sometime all the Yādavas like Rāma, Kṛṣṇa, Pradyumna became intoxicated after drinking the spirituous liquor sent by Indra . They took to fighting with one another, and shouting loud words fought (among themselves) and perished. Kṛṣṇa, tired of fighting, slept in the shade of a desire-yielding tree. A hunter, taking a bow and an arrow, took to hunting. Thus they who had fully abandoned their lives, went to their respective gods.

72-74. Having thus destroyed everything with the pestle, the god himself slept in the shade of a great tree surrounded by many clumps of trees. Thinking about himself of the nature of Vāsudeva having four forms, and putting (one) foot on (another) knee, he sat (there) to abandon his human form. In the meanwhile, the hunter, due to the urging of Death, saw Hari ’s very red foot marked with a disc, a vajra , a banner, a goad etc., and pierced it. Then recognising him to be Śrī Kṛṣṇa, and struck by great fear and trembling he joined the palms of his hands and saluted him (saying), “Remove all my faults.”

75-77. Śrī Kṛṣṇa seeing him in that condition, made him rise with his hands full of nectar, and said to him (words) consoling him who was oppressed by great fear: “You have not committed a fault.” Then he granted him the world of Viṣṇu, which is accessible to the meditating saints (only), from which there is no return, which is eternal and full of all secret things. He gave up his human form just at that moment only; and along with all his sons and wives got into a bright, divine aeroplane and went to Viṣṇu’s world which resembled a thousand suns in brightness, was crowded with hosts of celestial nymphs and was golden, and which had Viṣṇu in it.

78-83. At that time, Dāruka getting into a chariot, approached Viṣṇu. Kṛṣṇa too sent him (back, telling him), “First bring Arjuna of my nature.” He, getting into a chariot having the mind’s speed, came near Arjuna. O goddess, in the meanwhile Arjuna got into it, went round (Śrī Kṛṣṇa), saluted him, and with the palms of his hands joined said: “Wat do (i.e. should) I do?” And Kṛṣṇa said to him: “O Pārtha , I shall go to my own world. Going to Dvāravatī and bringing (my) eight wives like Rukmiṇī staying there, send them into my body.” With Dāruka he came to the city.

84-86. In the meanwhile, gods seated in their aeroplanes and remaining in the sky, saw Kṛṣṇa going to heaven; and along with the sages praised him and dropped on him showers of flowers. Kṛṣṇa too gave up his human body, took up the body of the form of Vāsudeva, which was the cause of the maintenance and destruction of the entire world, which was all the individual souls, which was meditated upon by meditating saints checking their internal feelings, mounted upon Garuḍa, and being praised by great sages, went (to Vaikuṇṭha ). Arjuna told it to all the queens like Rukmiṇī, along with Vasudeva and Ugrasena.

87-90. Hearing that all citizens and ladies abandoned Dvā-ravatī and all those ladies dear to Kṛṣṇa, went out of the harem, and along with Vasudeva and Ugrasena quickly approached Hari. All those old Yādavas like Vasudeva, Ugrasena and Akrūra, abandoned their bodies and came to the eternal Vāsudeva. Revatī also embraced Balabhadra ’s body and entered fire. Having obtained a (divine) body in it, she got into a divine aeroplane and went to the divine world of Saṃkarṣaṇa, the place of her husband. In the same way Rukmaputrī with Pradyumna, Uṣā with Aniruddha and all Yādava ladies honoured the bodies of their husbands and entered fire.

91-94. Arjuna performed the obsequies of all of them. At that time Dāruka also, getting into the divine chariot called Sugrīva , yoked with divine horses and full of all gems, came (there). The Pārijāta tree and the assembly of gods also came to the world of the lord of gods. At that time the city of Dvāravatī submergd in the great ocean.

95-97. Then the enemies of gods seized all the sixteen thousand wives (of Śrī Kṛṣṇa) going to Indraprastha along with Arjuna. Formerly the wives of gods and gandharvas had laughed at the great sage Aṣṭāvakra after seeing him. He cursed them: “You will be prostitutes.” Then he was propitiated and honoured by them. Due to his grace they, even after obtaining Vāsu - deva saluted by all the worlds, as their husband, got into the hands of the enemies of gods due to that (curse) only. Arjuna too, vanquished by the enemies of gods was overcome by grief. He thought: “The strength of my arms and all my glory have gone away with Kṛṣṇa.” And saying (to himself): “Today my fortune has perished”, he, with his lustre entirely perished like that of the evening sun, came to his own city.

98. Thus, for the good of all gods, for destroying the burden of the entire earth, Vāsudeva descended into the Yadu-family. He destroyed all demons and removed a great burden of the earth. He freed all the residents of Nandavraja, Dvārakā and Mathurā and all the mobile and immobile from the bonds of death and mundane existence, and settled them in (Vaikuṇṭha) which is full of great splendour, is eternal, which is accessible (only) to the meditating saints, is golden, charming and pure, and always being waited upon by divine queens etc. he lived (in Vaikuṇṭha). In this connection there are these verses:

99-107. There might be all other incarnations. (But) the deeds of Kṛṣṇa are great. The lord of Ramā appeared for destroying those who caused burden to the earth. These deeds of Kṛṣṇa were for destroying the wicked. Śrī Kṛṣṇa, the ocean of pity, always delights in Vaikuṇṭha. O goddess, these auspicious deeds of Kṛṣṇa are very wonderful. I told them to you in brief. They give all fruits. He who would recite, remember or listen to this life(-account) of Vāsudeva with devotion near (the image of) Hari, goes to the highest position. Even he who has (committed) major sins or minor sins, is freed after listening to the deeds of young Kṛṣṇa. He who remembers Hari seated with Rukmiṇī in Dvāravatī, undoubtedly acquires great power. He, after meditating upon him, the leader of all gods, while in a battle, a danger, a difficulty or while surrounded by his enemy, would be highly successful. He who would remember him sporting with the young cowherdesses in the auspicious Govraja , gets all the desired (objects) and also good fortune. So also he who, suffering from great misfortune and diseases etc., would remember the eternal one, the vanquisher of the very fierce Kṛtyā living in the city of Kāśī (would be happy).

108-115. O you desiring the fruits of all times, what is the use of speaking much in this regard? A wise man should only utter the formula: ‘Salutation to Kṛṣṇa’. ‘Repeated salutations to Kṛṣṇa, Vāsudeva, Hari, the highest soul. I, bowing down repeatedly salute Govinda for the destruction of my affliction.’ O goddess, a man should, everyday, with devotion, mutter this formula. Being free from all sins, he would obtain Viṣṇu’s world. This lord Janārdana assumes different form(s) for the protection of all gods and of the worlds. I, with a desire to kill Tripura , worshipped Viṣṇu. The glorious one, taking up the form of Buddha , deluded his enemies. Those who were deluded by that teaching gave up all religious practices. (These) enemies of gods were killed by me with Viṣṇu’s missile. Viṣṇu, descending in a brāhmaṇa’s house at the end of Kali , will kill all the cruel Mlecchas . I have described along with all those appearances, all the forms of the lord of the world. O you of an auspicious face, what else do you want to listen to? I shall narrate it.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 14563, revision 336712 (2022-04-26T10:49:22Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365837.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.