Skip to main content

Bhūmi-khaṇḍa · Chapter 7

Chapter 7

Unit 89 of 693Bhūmi-khaṇḍa · Chapter 7Bhūmi-khaṇḍa · Chapter 71 source entries

Bhūmi-khaṇḍa · Chapter 7

Source

दितिरुवाच- सत्यमुक्तं त्वया नाथ सर्वमेव न संशयः । भर्तृस्नेहं परित्यज्य गता सापत्न्यजं द्विज १। अभिमानेन दुःखेन मानभंगेन सत्तम । महादुःखेन संतप्ता करिष्ये प्राणमोचनम् २। कश्यप उवाच- श्रूयतामभिधास्यामि यथा शांतिर्भविष्यति । न कः कस्य भवेत्पुत्रो न माता न पिता शुभे ३। न भ्राता बांधवः कस्य न च स्वजनबांधवाः । एवं संसारसंबंधो मायामोहसमन्वितः ४। स्वयमेव पिता देवि स्वयं माताथ बांधवाः । स्वयं स्वजनवर्गश्च स्वयं धर्मः सनातनः ५। आचारेण नरो देवि सुखित्वमुपजायते । अनाचारेण पापेन नाशं याति तथा ध्रुवम् ६। क्रूरयोनिं प्रयात्येवं नरो देवि न संशयः । कर्मणा सत्यहीनेन महापापेन मोहतः ७। रिपुत्वे वर्त्तते मर्त्यः प्राणिनां नित्यसंस्थितः । रिपवस्तस्य वर्तन्ते यत्र तत्र न संशयः ८। मैत्रेण वर्तते मर्त्यो यदा लोके प्रिये शुभे । तदा तस्य भवंत्येव मित्राः सर्वत्र भामिनि ९। कृषिकारो यदा देवि छन्नं बीजं सुसंस्थितम् । यादृशं तु भवत्येव तादृशं फलमश्नुते १०। तथा तव च पुत्रैश्च साधुभिः स्पर्धितं सह । कर्मणस्तस्य तत्प्राप्तं फलं भुंक्ष्व सुसंस्थितम् ११। तव पुत्रा महाभागे तपः शांति विवर्जिताः । तेन पापेन ते सर्वे पतिता वै महत्पदात् १२। एवं ज्ञात्वा शमं गच्छ मुंच दुःखं सुखं तथा । कस्य पुत्राश्च मित्राणि कस्य स्वजन बांधवाः १३। आत्मकर्मानुसारेण सुखं जीवंति जंतवः । परार्थे चिंतनं देवि तत्त्वज्ञानेन पंडिताः १४। न कुर्वंति महात्मानो व्यर्थमेव न संशयः । पंचभूतात्मकं कायं केवलं संधिजर्जरम् १५। आत्ममित्रं कृतं तेन सर्वं देवि सुखाशया । आत्मा नाम महापुण्यः सर्वगः सर्वदर्शकः १६। सर्वसिद्धिस्तु सर्वात्मा सात्विकः सर्वसिद्धिदः । एवं सर्वमयो देवि भ्रमत्येको निरञ्जनः १७। भ्रमता निर्जने येन मूर्तिमंतो द्विजोत्तमाः । चत्वारो दर्शिताः पुण्या मूर्तिमंतो महौजसः १८। पंचमः श्वसनश्चैव पूर्वाणां मित्रमेव च । अथो आत्मा समायातो ज्ञानसाहाय्यमेव वा १९। स तान्दृष्ट्वा महात्मा वै ज्ञानमात्मा समब्रवीत् । ज्ञान पश्य अमी पंच मंत्रयंतः परस्परम् २०। एतान्गत्वाब्रवीहि त्वं यूयं क इति पृच्छ ह । ज्ञानं वाक्यं परं श्रुत्वा सार्थं तस्य महात्मनः २१। तदाहात्मानमाराध्यमेतैः किं ते प्रयोजनम् । तत्त्वतो ब्रूहि मे देव सदा शुद्धोसि सर्वदा २२। आत्मोवाच- एते पंच महाभागा रूपवंतो मनस्विनः । गत्वा संदर्शयाम्येनानाभाष्ये ज्ञान श्रूयताम् २३। भव्यानेतान्प्रवक्ष्यामि पंचमीं गतिमागतान् । दूतत्वं गच्छ भो ज्ञान कुशलो दूतकर्मणि २४। ज्ञानमुवाच- त्वमात्मञ्छृणु मे वाक्यं सत्यं सत्यं वदाम्यहम् । एतेषां संगतिस्तात कार्या नैव त्वया कदा २५। पंचानामपि शुद्धात्मन्न कार्यं शुभमिच्छता । भवतः संगतिं मोह इच्छत्येष महामते २६। आत्मोवाच- एतेषां संगतिं ज्ञान कस्माद्वारयते भवान् । तन्मे त्वं कारणं ब्रूहि याथातथ्येन पंडित २७। ज्ञानमुवाच- एतेषां संगमात्रात्तु महद्दुःखं भविष्यति । दुःखमूला हि पंचैव शोकसंतापकारकाः २८। एवमस्तु महाप्राज्ञ करिष्ये वचनं तव । ज्ञानमाभाष्य स ह्यात्मा ध्यानेन सह संगतः २९। कश्यप उवाच- ततः पंचैव ते तत्राद्राक्षुरात्मानमेव तम् । बुद्धिमूचुः समाहूय संगच्छात्मानमेव हि ३०। दूतत्वं कुरु कल्याणि अस्माकमात्मना सह । पंचतत्त्वा महात्मानो विश्वस्यधारकाः शुभाः ३१। भवतो मैत्रमिच्छंति इत्याभाष्य महामतिम् । गत्वा बुद्धे त्वया कार्यं कर्तव्यं न इतो व्रज ३२। एवमस्तु महाभागा करिष्ये कार्यमुत्तमम् । एवमाभाषितं तेषां गत्वाऽहात्मानमेव तम् ३३। अहं बुद्धिर्महाभाग भवंतं समुपागता । दूतत्वे महतां पार्श्वात्तेषां त्वं वचनं शृणु ३४। भवन्मैत्रीं समिच्छंति अक्षयां पंच आत्मकाः । कुरु मैत्रीं महाप्राज्ञ जहि ध्यानं सुदूरतः ३५। ध्यानमुवाच- न कर्तव्यं त्वया चात्मन्नैतेषां वै समागमम् । एषां संसर्गमात्रेण महद्दुःखं भविष्यति ३६। मया ज्ञानेन हीनस्त्वं कथं कर्म करिष्यति । एवमेव न कर्तव्यं तेषां चैव समागमम् ३७। गर्भवासं नयिष्यंति भवंतं नान्यथा विभो । ज्ञानेनैव मया हीनो अज्ञानं यास्यसि ध्रुवम् ३८। एवमुक्त्वा तमात्मानं विरराम महामतिम् । ततस्तामागतां बुद्धिमात्मा प्रोवाच निश्चितः ३९। ज्ञानध्यानौ महात्मानौ मंत्रिणौ मम शोभनौ । तत्र यानं न मे युक्तं तद्बुद्धे किं करोम्यहम् ४०। एवं श्रुत्वा ततो बुद्धिस्तेषां पार्श्वे यशस्विनी । समाचष्ट समग्रं तत्कथनं ज्ञानध्यानयोः ४१। ततस्ते पंचकाः सर्वे आत्मानं प्रतिजग्मिरे । मैत्रीमेव प्रतीच्छामो भवतो नित्यमेव हि ४२। यस्माच्छुद्धोसि लोकेश तस्मात्त्वां समुपागताः । स्वयमेव विचार्यैव उत्तरं नः प्रदीयताम् ४३। आत्मोवाच- यूयं पंचैव संप्राप्ता मम मैत्रं समिच्छथ । स्वीयं गुणं प्रभावं च कथयंतु ममाग्रतः ४४। भूमिरुवाच- सर्वकार्यस्य संस्थानं चर्ममांससमन्वितम् । अस्थिमूलदृढत्वं मे नखलोमसमन्वितम् ४५। प्रभावो हि महाप्राज्ञ कायमध्ये ममैव हि । नासिकागमनो गंधस्स मे भृत्यो महामनाः ४६। आकाश उवाच- अहमाकाशकः प्राप्तो मम काये प्रभावकम् । श्रूयतामभिधास्यामि परब्रह्मस्वरूपिणम् ४७। बाह्यांतरावकाशश्च शून्यस्थाने वसाम्यहम् । तत्रामात्यौ तु कर्णौ मे श्रवणार्थं प्रतिष्ठितौ ४८। वायुरुवाच- पंचरूपेण तिष्ठामि करोम्येवं शुभाशुभम् । चर्मकायेस्थितोमात्यः स्पर्शं संश्रयते गुणम् ४९। तेज उवाच- काये संस्थः सदा नित्यं पाकयोगं करोम्यहम् । सबाह्याभ्यंतरं सर्वं द्रव्याद्रव्यं प्रदर्शये ५०। शुक्रं मज्जा तथा लाला एवं त्वक्संधिसंस्थितम् । रुधिरं प्रेषयाम्येव कायमध्ये स्थितोस्म्यहम् ५१। तत्र नेत्रावमात्यौ मे द्रव्यलब्धिप्रसाधकौ । एवं मयात्मव्यापारस्तवाग्रे कथितः परः ५२। जलमुवाचः- सुतोषयाम्यहं नित्यममृतेन कलेवरम् । एवं मे तत्र व्यापारः कायपत्तनके प्रिये ५३। अमात्यं रसनां विद्धि रसास्वादकरीं पराम् । नासिकोवाच- सुगंधेन परां पुष्टिं कायस्यापि करोम्यहम् ५४। दुर्गंधं तु परित्यज्य काये गंधं प्रदर्शये । बुद्धियुक्ता महाभाग तस्याभावेन भाविता ५५। स्वामिकार्याय कायेस्मिन्नहं तिष्ठामि निश्चला । गंधं मम गुणं विद्धि द्विविधं यत्प्रवर्तितम् ५६। श्रवणावूचतुः- कार्याकार्यादिकं शब्दं लोकैरुक्तं शुभाशुभम् । शृणुयावः स्वकायस्थौ सत्यासत्ये प्रियाप्रिये ५७। शब्दो हि मे गुणः प्रोक्तो मम व्यापारमेव हि । योजयामि न संदेहो यदा बुद्धिः प्रपूरयेत् ५८। त्वगुवाच- पंचरूपात्मको वायुः शरीरेस्मिन्व्यवस्थितः ५९। सबाह्याभ्यंतरे चेष्टां तेषां जानामि तत्त्वतः । शीतोष्णमातपं वर्षं वायोः स्फुरणमेव च ६०। सर्वं जानामि संस्पर्शं संगश्लेषादिकं नृणाम् । स्पर्श एव गुणो मह्यमेतत्सत्यं वदाम्यहम् ६१। एवं हि ते समाख्यातो मया व्यापार एव हि । नेत्रे ऊचतुः-। संसारे यानि रूपाणि भव्याभव्यानि सत्तम ६२। यदा प्रेरयते बुद्धिस्तदा पश्याव नान्यथा । वसावः कायमध्ये वै रूपं गुणमिहावयोः ६३। एवं व्यापारसंबंधः कायमध्ये महामते । जिह्वोवाच-। बुद्धियुक्ता अहं तात रसभेदान्विचारये ६४। क्षारमम्लादिकं सर्वं नीरसं स्वादु चिंतये । व्यापारेण अनेनापि नित्ययुक्ता वसाम्यहम् ६५। इन्द्रियाणां हि सर्वेषां बुद्धिरेषा प्रणायकः । एवं पंच समायातानींद्रियाणि प्रिये शृणु ६६। स्वीयानि यानि कर्माणि कथयंति पुनः पुनः । अथ बुद्धिः समायाता तमुवाच महामतिम् ६७। मद्विहीनो यदा कायस्तदा नश्यति नान्यथा । तस्मात्त्वं मां समास्थाय वर्त्तयस्व महामते ६८। अथ कर्म समायातमात्मानमिदमब्रवीत् । अहं कर्म महाप्राज्ञ तव पार्श्वं समागतम् ६९। त्वां प्रेषयाम्यहं तेन पथा येनेह गच्छसि । एवमाकर्ण्य तत्सर्वमात्मा प्रोवाच तान्प्रति ७०। यूयं पंचात्मकैर्युक्ताः सर्वसाधारणाः किल । कस्मान्मैत्रं समिच्छंति तत्र पंचात्मकं प्रति ७१। ब्रुवंतु कारणं सर्वे ममाग्रे सर्वमेव तत् । पंचात्मका ऊचुः-। अस्मत्संगप्रसंगेन पिंडमेव प्रजायते ७२। तस्मिन्पिंडे महाबुद्धे भवान्वसति सुव्रतः । तिष्ठामो हि वयं सर्वे प्रसादात्तव तत्र हि ७३। एतस्मात्कारणान्मैत्रमिच्छामस्तव नित्यशः । आत्मोवाच- एवमस्तु महाभागा भवतां प्रियमेव च ७४। करिष्ये नात्र संदेहो मैत्रं हि प्रीतिकारणात् । वार्यमाणो महाभागो ज्ञानेनापि महात्मना ७५। ध्यानेन च महात्मासौ तेषां संगतिमागतः । स तैः प्रमोहितस्तत्र रागद्वेषादिभिस्तदा ७६। पंचतत्त्वसमायुक्तः कायित्वं गतवान्प्रभुः । यदा गर्भं समायातो विष्ठामूत्रसमाकुले ७७। दुर्गंधे पिच्छिलावर्ते पतितस्तैः स संयुतः । अंगेन व्याकुलीभूतः पंचात्मकानुवाच सः ७८। भोभोः पंचात्मकाः सर्वे शृणुध्वं वचनं मम । भवतां संप्रसंगेन महादुःखेन मोहितः ७९। तत्रास्मिन्पिच्छिले घोरे पतितो हि महाभये । पंचात्मका ऊचुः- तावत्संस्थीयतां राजन्यावद्गर्भः प्रपूरयेत् ८०। पश्चान्निर्गमनं ते वै भविष्यति न संशयः । अस्माकं हि भवान्स्वामी कायदेशे व्यवस्थितः ८१। राज्यमेवं प्रकर्तव्यं सुखभोक्ता भविष्यति । तेषां तद्वचनं श्रुत्वा आत्मा दुःखेन पीडितः ८२। गंतुमिच्छन्नसौ तस्मात्पलायनपरोभवत् ८३।

ditiruvāca- satyamuktaṃ tvayā nātha sarvameva na saṃśayaḥ | bhartṛsnehaṃ parityajya gatā sāpatnyajaṃ dvija 1| abhimānena duḥkhena mānabhaṃgena sattama | mahāduḥkhena saṃtaptā kariṣye prāṇamocanam 2| kaśyapa uvāca- śrūyatāmabhidhāsyāmi yathā śāṃtirbhaviṣyati | na kaḥ kasya bhavetputro na mātā na pitā śubhe 3| na bhrātā bāṃdhavaḥ kasya na ca svajanabāṃdhavāḥ | evaṃ saṃsārasaṃbaṃdho māyāmohasamanvitaḥ 4| svayameva pitā devi svayaṃ mātātha bāṃdhavāḥ | svayaṃ svajanavargaśca svayaṃ dharmaḥ sanātanaḥ 5| ācāreṇa naro devi sukhitvamupajāyate | anācāreṇa pāpena nāśaṃ yāti tathā dhruvam 6| krūrayoniṃ prayātyevaṃ naro devi na saṃśayaḥ | karmaṇā satyahīnena mahāpāpena mohataḥ 7| riputve varttate martyaḥ prāṇināṃ nityasaṃsthitaḥ | ripavastasya vartante yatra tatra na saṃśayaḥ 8| maitreṇa vartate martyo yadā loke priye śubhe | tadā tasya bhavaṃtyeva mitrāḥ sarvatra bhāmini 9| kṛṣikāro yadā devi channaṃ bījaṃ susaṃsthitam | yādṛśaṃ tu bhavatyeva tādṛśaṃ phalamaśnute 10| tathā tava ca putraiśca sādhubhiḥ spardhitaṃ saha | karmaṇastasya tatprāptaṃ phalaṃ bhuṃkṣva susaṃsthitam 11| tava putrā mahābhāge tapaḥ śāṃti vivarjitāḥ | tena pāpena te sarve patitā vai mahatpadāt 12| evaṃ jñātvā śamaṃ gaccha muṃca duḥkhaṃ sukhaṃ tathā | kasya putrāśca mitrāṇi kasya svajana bāṃdhavāḥ 13| ātmakarmānusāreṇa sukhaṃ jīvaṃti jaṃtavaḥ | parārthe ciṃtanaṃ devi tattvajñānena paṃḍitāḥ 14| na kurvaṃti mahātmāno vyarthameva na saṃśayaḥ | paṃcabhūtātmakaṃ kāyaṃ kevalaṃ saṃdhijarjaram 15| ātmamitraṃ kṛtaṃ tena sarvaṃ devi sukhāśayā | ātmā nāma mahāpuṇyaḥ sarvagaḥ sarvadarśakaḥ 16| sarvasiddhistu sarvātmā sātvikaḥ sarvasiddhidaḥ | evaṃ sarvamayo devi bhramatyeko nirañjanaḥ 17| bhramatā nirjane yena mūrtimaṃto dvijottamāḥ | catvāro darśitāḥ puṇyā mūrtimaṃto mahaujasaḥ 18| paṃcamaḥ śvasanaścaiva pūrvāṇāṃ mitrameva ca | atho ātmā samāyāto jñānasāhāyyameva vā 19| sa tāndṛṣṭvā mahātmā vai jñānamātmā samabravīt | jñāna paśya amī paṃca maṃtrayaṃtaḥ parasparam 20| etāngatvābravīhi tvaṃ yūyaṃ ka iti pṛccha ha | jñānaṃ vākyaṃ paraṃ śrutvā sārthaṃ tasya mahātmanaḥ 21| tadāhātmānamārādhyametaiḥ kiṃ te prayojanam | tattvato brūhi me deva sadā śuddhosi sarvadā 22| ātmovāca- ete paṃca mahābhāgā rūpavaṃto manasvinaḥ | gatvā saṃdarśayāmyenānābhāṣye jñāna śrūyatām 23| bhavyānetānpravakṣyāmi paṃcamīṃ gatimāgatān | dūtatvaṃ gaccha bho jñāna kuśalo dūtakarmaṇi 24| jñānamuvāca- tvamātmañchṛṇu me vākyaṃ satyaṃ satyaṃ vadāmyaham | eteṣāṃ saṃgatistāta kāryā naiva tvayā kadā 25| paṃcānāmapi śuddhātmanna kāryaṃ śubhamicchatā | bhavataḥ saṃgatiṃ moha icchatyeṣa mahāmate 26| ātmovāca- eteṣāṃ saṃgatiṃ jñāna kasmādvārayate bhavān | tanme tvaṃ kāraṇaṃ brūhi yāthātathyena paṃḍita 27| jñānamuvāca- eteṣāṃ saṃgamātrāttu mahadduḥkhaṃ bhaviṣyati | duḥkhamūlā hi paṃcaiva śokasaṃtāpakārakāḥ 28| evamastu mahāprājña kariṣye vacanaṃ tava | jñānamābhāṣya sa hyātmā dhyānena saha saṃgataḥ 29| kaśyapa uvāca- tataḥ paṃcaiva te tatrādrākṣurātmānameva tam | buddhimūcuḥ samāhūya saṃgacchātmānameva hi 30| dūtatvaṃ kuru kalyāṇi asmākamātmanā saha | paṃcatattvā mahātmāno viśvasyadhārakāḥ śubhāḥ 31| bhavato maitramicchaṃti ityābhāṣya mahāmatim | gatvā buddhe tvayā kāryaṃ kartavyaṃ na ito vraja 32| evamastu mahābhāgā kariṣye kāryamuttamam | evamābhāṣitaṃ teṣāṃ gatvā'hātmānameva tam 33| ahaṃ buddhirmahābhāga bhavaṃtaṃ samupāgatā | dūtatve mahatāṃ pārśvātteṣāṃ tvaṃ vacanaṃ śṛṇu 34| bhavanmaitrīṃ samicchaṃti akṣayāṃ paṃca ātmakāḥ | kuru maitrīṃ mahāprājña jahi dhyānaṃ sudūrataḥ 35| dhyānamuvāca- na kartavyaṃ tvayā cātmannaiteṣāṃ vai samāgamam | eṣāṃ saṃsargamātreṇa mahadduḥkhaṃ bhaviṣyati 36| mayā jñānena hīnastvaṃ kathaṃ karma kariṣyati | evameva na kartavyaṃ teṣāṃ caiva samāgamam 37| garbhavāsaṃ nayiṣyaṃti bhavaṃtaṃ nānyathā vibho | jñānenaiva mayā hīno ajñānaṃ yāsyasi dhruvam 38| evamuktvā tamātmānaṃ virarāma mahāmatim | tatastāmāgatāṃ buddhimātmā provāca niścitaḥ 39| jñānadhyānau mahātmānau maṃtriṇau mama śobhanau | tatra yānaṃ na me yuktaṃ tadbuddhe kiṃ karomyaham 40| evaṃ śrutvā tato buddhisteṣāṃ pārśve yaśasvinī | samācaṣṭa samagraṃ tatkathanaṃ jñānadhyānayoḥ 41| tataste paṃcakāḥ sarve ātmānaṃ pratijagmire | maitrīmeva pratīcchāmo bhavato nityameva hi 42| yasmācchuddhosi lokeśa tasmāttvāṃ samupāgatāḥ | svayameva vicāryaiva uttaraṃ naḥ pradīyatām 43| ātmovāca- yūyaṃ paṃcaiva saṃprāptā mama maitraṃ samicchatha | svīyaṃ guṇaṃ prabhāvaṃ ca kathayaṃtu mamāgrataḥ 44| bhūmiruvāca- sarvakāryasya saṃsthānaṃ carmamāṃsasamanvitam | asthimūladṛḍhatvaṃ me nakhalomasamanvitam 45| prabhāvo hi mahāprājña kāyamadhye mamaiva hi | nāsikāgamano gaṃdhassa me bhṛtyo mahāmanāḥ 46| ākāśa uvāca- ahamākāśakaḥ prāpto mama kāye prabhāvakam | śrūyatāmabhidhāsyāmi parabrahmasvarūpiṇam 47| bāhyāṃtarāvakāśaśca śūnyasthāne vasāmyaham | tatrāmātyau tu karṇau me śravaṇārthaṃ pratiṣṭhitau 48| vāyuruvāca- paṃcarūpeṇa tiṣṭhāmi karomyevaṃ śubhāśubham | carmakāyesthitomātyaḥ sparśaṃ saṃśrayate guṇam 49| teja uvāca- kāye saṃsthaḥ sadā nityaṃ pākayogaṃ karomyaham | sabāhyābhyaṃtaraṃ sarvaṃ dravyādravyaṃ pradarśaye 50| śukraṃ majjā tathā lālā evaṃ tvaksaṃdhisaṃsthitam | rudhiraṃ preṣayāmyeva kāyamadhye sthitosmyaham 51| tatra netrāvamātyau me dravyalabdhiprasādhakau | evaṃ mayātmavyāpārastavāgre kathitaḥ paraḥ 52| jalamuvācaḥ- sutoṣayāmyahaṃ nityamamṛtena kalevaram | evaṃ me tatra vyāpāraḥ kāyapattanake priye 53| amātyaṃ rasanāṃ viddhi rasāsvādakarīṃ parām | nāsikovāca- sugaṃdhena parāṃ puṣṭiṃ kāyasyāpi karomyaham 54| durgaṃdhaṃ tu parityajya kāye gaṃdhaṃ pradarśaye | buddhiyuktā mahābhāga tasyābhāvena bhāvitā 55| svāmikāryāya kāyesminnahaṃ tiṣṭhāmi niścalā | gaṃdhaṃ mama guṇaṃ viddhi dvividhaṃ yatpravartitam 56| śravaṇāvūcatuḥ- kāryākāryādikaṃ śabdaṃ lokairuktaṃ śubhāśubham | śṛṇuyāvaḥ svakāyasthau satyāsatye priyāpriye 57| śabdo hi me guṇaḥ prokto mama vyāpārameva hi | yojayāmi na saṃdeho yadā buddhiḥ prapūrayet 58| tvaguvāca- paṃcarūpātmako vāyuḥ śarīresminvyavasthitaḥ 59| sabāhyābhyaṃtare ceṣṭāṃ teṣāṃ jānāmi tattvataḥ | śītoṣṇamātapaṃ varṣaṃ vāyoḥ sphuraṇameva ca 60| sarvaṃ jānāmi saṃsparśaṃ saṃgaśleṣādikaṃ nṛṇām | sparśa eva guṇo mahyametatsatyaṃ vadāmyaham 61| evaṃ hi te samākhyāto mayā vyāpāra eva hi | netre ūcatuḥ-| saṃsāre yāni rūpāṇi bhavyābhavyāni sattama 62| yadā prerayate buddhistadā paśyāva nānyathā | vasāvaḥ kāyamadhye vai rūpaṃ guṇamihāvayoḥ 63| evaṃ vyāpārasaṃbaṃdhaḥ kāyamadhye mahāmate | jihvovāca-| buddhiyuktā ahaṃ tāta rasabhedānvicāraye 64| kṣāramamlādikaṃ sarvaṃ nīrasaṃ svādu ciṃtaye | vyāpāreṇa anenāpi nityayuktā vasāmyaham 65| indriyāṇāṃ hi sarveṣāṃ buddhireṣā praṇāyakaḥ | evaṃ paṃca samāyātānīṃdriyāṇi priye śṛṇu 66| svīyāni yāni karmāṇi kathayaṃti punaḥ punaḥ | atha buddhiḥ samāyātā tamuvāca mahāmatim 67| madvihīno yadā kāyastadā naśyati nānyathā | tasmāttvaṃ māṃ samāsthāya varttayasva mahāmate 68| atha karma samāyātamātmānamidamabravīt | ahaṃ karma mahāprājña tava pārśvaṃ samāgatam 69| tvāṃ preṣayāmyahaṃ tena pathā yeneha gacchasi | evamākarṇya tatsarvamātmā provāca tānprati 70| yūyaṃ paṃcātmakairyuktāḥ sarvasādhāraṇāḥ kila | kasmānmaitraṃ samicchaṃti tatra paṃcātmakaṃ prati 71| bruvaṃtu kāraṇaṃ sarve mamāgre sarvameva tat | paṃcātmakā ūcuḥ-| asmatsaṃgaprasaṃgena piṃḍameva prajāyate 72| tasminpiṃḍe mahābuddhe bhavānvasati suvrataḥ | tiṣṭhāmo hi vayaṃ sarve prasādāttava tatra hi 73| etasmātkāraṇānmaitramicchāmastava nityaśaḥ | ātmovāca- evamastu mahābhāgā bhavatāṃ priyameva ca 74| kariṣye nātra saṃdeho maitraṃ hi prītikāraṇāt | vāryamāṇo mahābhāgo jñānenāpi mahātmanā 75| dhyānena ca mahātmāsau teṣāṃ saṃgatimāgataḥ | sa taiḥ pramohitastatra rāgadveṣādibhistadā 76| paṃcatattvasamāyuktaḥ kāyitvaṃ gatavānprabhuḥ | yadā garbhaṃ samāyāto viṣṭhāmūtrasamākule 77| durgaṃdhe picchilāvarte patitastaiḥ sa saṃyutaḥ | aṃgena vyākulībhūtaḥ paṃcātmakānuvāca saḥ 78| bhobhoḥ paṃcātmakāḥ sarve śṛṇudhvaṃ vacanaṃ mama | bhavatāṃ saṃprasaṃgena mahāduḥkhena mohitaḥ 79| tatrāsminpicchile ghore patito hi mahābhaye | paṃcātmakā ūcuḥ- tāvatsaṃsthīyatāṃ rājanyāvadgarbhaḥ prapūrayet 80| paścānnirgamanaṃ te vai bhaviṣyati na saṃśayaḥ | asmākaṃ hi bhavānsvāmī kāyadeśe vyavasthitaḥ 81| rājyamevaṃ prakartavyaṃ sukhabhoktā bhaviṣyati | teṣāṃ tadvacanaṃ śrutvā ātmā duḥkhena pīḍitaḥ 82| gaṃtumicchannasau tasmātpalāyanaparobhavat 83|

English translation

Diti said :

1-2. O Lord, you have spoken all the truth; there is no doubt about it. Abandoning love for my husband, I entertained rivalry (with my co-wife), O brāhmaṇa . (Now) being tormented by pride, agony, humiliation and great grief, I shall, O best one, give up my life.

Kaíyapa said :

3-5. (Please) listen, I shall tell (i.e. explain) you in such a way that there will be (i.e. you will have) peace (of mind). O auspicious one, nobody is anybody’s son, or mother or father. Nobody has a brother or a relative. None has kinsmen and friends. In the mundane existence such is the relation, affected by illusion and infatuation. O respectable lady, one is one’s own mother, one’s own relatives and kinsmen. One is oneself the eternal moral virtue.

6-8. O you honourable lady, a man becomes happy due to (good) conduct. He surely perishes due to bad conduct and sin. Due to this he even goes to (i.e. is born in) a wicked species; there is no doubt about this. A man, deluded by an untruthful act and a great sin, always remains as an enemy of (other) beings. Here and there (i.e. everywhere) he has enemies; there is no doubt about this.

9. O you dear, auspicious and beautiful lady, when a man lives in a friendly way, he has friends everywhere.

10-11. O respectable lady, when the seed is concealed (underground) and is well-placed, the farmer gets the fruit exactly in accordance with it. Similarly your sons have vied with the good. Enjoy the fruit of that deed that has come to you.

12-13a. O illustrious one, your sons are destitute of penance and peace; due to that sin they have fallen from a great position. Realising this, be tranquil, and give up pain or pleasure.

13b-14a. To whom do the friends belong? To whom do relatives and friends belong? Beings live happily in accordance with their own deeds.

14b-15a. Due to their knowledge of the reality, the wise and the glorious do not think about another’s interest. (To do so) is futile; there is no doubt about this.

15b-21a. The body is constituted of the five elements, and is just infirm because of the joints. O respectable lady, with a hope for happiness, it has befriended everything. Ātman (i.e. the soul) is greatly meritorious, omnipresent, and sees everything; he is virtuous, and grants all (kinds of) prosperity. Thus occupying everything, and being untinged, he, O respectable lady, moves all alone. While (thus) moving, he saw, in a secluded place, four meritorious best brāhmaṇas , (as it were) great power embodied. The fifth one was Wind, the friend of the former (four). Then the soul sought the help of Knowledge. The illustrious one, seeing them, said to Jñāna (Knowledge): “O Jñāna, see these five; they are consulting one another. Go to them and talk to them. Ask them: ‘Who are you?’”

21b-22. Hearing those very significant words of that glorious one, Jñāna (Knowledge), propitiating him, said to him: “What have you to do with them? Tell me the truth (since) you are always pure.”

Ātman (soul) said :

23-24. These five are glorious, handsome and high-minded. I shall go, meet them, and shall speak to them. O Jñāna (Knowledge), listen: I shall speak to these worthy ones, who have come to the fifth one viz. Speed (i.e. Wind). O Knowledge, be (my) messenger; you are skilled in the act of a messenger.

Jñāna (Knowledge ) said :

25-26. O soul, listen to my words, I am telling you the truth, and the truth (only). O dear one, O you of pure heart, you, desiring for the good, should never have the company of these five. O you very intelligent one, this Moha (i.e. Infatuation) is longing for your company.

Ātman (the soul) said :

27. Why do you, O Jñāna, avoid the company of these? O wise one, tell me the real reason of this.

Jñāna (Knowledge ) said :

28. There will be great grief just due to their company. These five are the root of grief and cause affliction and tormentation.

Ātman said :

29. Let it be so; I shall do as you tell me.

That Ātman, (thus) speaking to Jñāna, associated himself with Dhyāna (Meditation).

Kaśyapa said :

30. Then all the five saw that Ātman. Having called Buddhi (Intellect) they said to her: “Be united with Ātman only.

31-32. O you auspicious one, act as the messenger between Ātman and us. O Buddhi, having gone to him say to: ‘The five elements, [1] the magnanimous ones, the supporters ofthe world and the auspicious ones desire your friendship.’ You have to do this mission of ours. (Please) go from here.” ( Buddhi said :)

33. “Let it be so; O glorious ones, I shall carry out this best mission of you.” Having thus spoken to them, she went to that Ātman, and said to him:

34-35. “O blessed one, I am Buddhi, I have approached you as a messenger from (i.e. of) the great (elements). Listen to their words (i.e. message). The five-natured (elements) desire your eternal friendship. Form friendship (with them), O you highly intelligent one, and abandon (i.e. keep) Dhyāna far away.”

Dhyāna ( Meditation said ):

36. O Ātman, you should not have their company. Merely by their contact there will be great grief (i.e. great grief will befall you).

37. How would you do your duty, when you are forsaken by Jñāna and me? So, you should not at all associate yourself with them.

38. O mighty one, they will make you live in the womb; there is no other go. Without Jñāna and me, you will certainly go to Ajñāna (i.e. Ignorance).

39. Thus speaking to that highly intelligent Ātman, Dhyāna ceased to speak. Then, Ātman, who was determined (to form friendship with the five elements), spoke to Buddhi, who had come to him:

40. “The illustrious Jñāna and Dhyāna are my virtuous ministers. It is not proper to go to them. So, O Buddhi, what shall I do (now)?”

41. Hearing thus (i.e. these words), the glorious Buddhi told in the vicinity of (i.e. to) them (i.e. the five elements) the full narration of Jñāna and Dhyāna (i.e. told everything that Jñāna and Dhyāna had said).

42-43. Then all the five (elements) went to Ātman (and said to him):) “We constantly desire your friendship only. O you lord of the worlds, since you are pure, we have approached you. Thinking for yourself only (i.e. independently of Jñāna and Dhyāna), please give us a reply.”

Ātman said :

44. All you five have come; (and) you seek my friendship. Tell before (i.e. to) me your merit and power.

Bhūmi (the Earth) said :

45. My firmness rooted in the bones is the basis of all operations, is connected with skin and flesh, and with nails and the hair on the body.

46. O you very wise one, my strength is in the body. That magnanimous odour passing through the nose is my servant.

Ākāśa (Ether) said :

47-48. I, Ether, have come. Listen; I shall tell you about the lustre, of the nature of the highest Brahman ; space is without and within; I live in a vacant place. My ministers are the two ears; they are set up for hearing.

Vāyu (Wind) said :

49. I remain in five forms, [2] and in this way I perform auspicious and inauspicious things. My minister, remaining on the habitation of the skin, resorts to the quality of touch.

Tejas ( Fire ) said :

50-54a. Always remaining in the body, I digest (articles of food). I manifest all matter and non-matter, without and within. I send forth semen, marrow, saliva, and also blood remaining in the skin and joints. I remain in the body. The two eyes are my ministers that cause the perception of matter. Thus before (i.e. to) you I have narrated my function. Everyday I well nourish the body with nectar. Such is my operation in the dear city of the body. Know [3] the tongue to be my minister who very much enjoys the tastes.

Nāsikā (Nose) said :

54b-56. I give great nourishment to the body with fragrance. Casting off bad odour, I manifest (good) odour over the body. O you illustrious one, united with Buddhi, and displayed by her existence, I remain steady in this body for the mission of my master. Know odour to be my quality which proceeds in two ways.

The two Ears said :

57-58. Remaining in our body (i.e. the body to which we belong), we hear words telling about what ought or ought not to be done, and also auspicious and inauspicious words, true and false words, pleasant and unpleasant words uttered by people. My (i.e. our) quality is sound, and there is no doubt that I (i.e. we) employ my (i.e. our) operation when the intellect would intensify me (i.e. us).

The Skin said :

59-62a. The five-formed wind is well-settled without and within the body. I feel the movement of these (five forms). I feel cold, hot, sun, rain, and throbbing of the wind. I feel every touch, every contact (with) phlegm etc. of men. My quality is touch alone. I am telling the truth. Thus I have told you about my function.

The two Eyes said :

62b-64a. O best one, when the Intellect urges, and not otherwise, we observe all proper and improper forms that exist in the world. We remain in the body, and form is our quality. Thus is the propriety of our function in the body, O you highly intelligent one.

The Tongue spoke :

64b-66a. O dear one, united with Buddhi, I spread the kinds of taste. I find out every (taste) like saline, sour, insipid or sweet. Always associated with this function, I remain (in the body). This Intellect is the leader of all the sense-organs.

66b-67a. O dear one, listen, thus these five sense-organs have come together; and they again and again narrated their respective functions.

67b-68. Then Intellect approached the very intelligent one and said to him: “When the body is without me, it perishes; not otherwise. Therefore, O you highly intelligent one (i.e. Ātman), carry on, after having resorted to flesh (i.e. body).

69-70a. Then Karma (Fate) came there and said this (i.e. these words) to Ātman: “O you very wise one, I am Karma, and have approached you. I send you along the path by which you go here (i.e. in the world).”

70b-72a. Having heard all that, Ātman said to them: “You are united with the five-natured ones and are indeed common to all. Why do you seek the friendship of the five-natured one? You may (please) tell before (i.e. to) me the entire reason.”

The five-natured ones said :

72b-74a. Due to our contact the body is produced; O you of a high intelligence, you who follow a good vow, stay in that body. Due to your favour all of us (also) stay there. For this reason we always desire your friendship.

Ātman said :

74b-75a. O illustrious ones, let that, which is dear to you, be so. There is no doubt that I shall befriend you through affection.

75b-76a. The glorious and high-minded one, though warded off by the noble Jñāna and also by Dhyāna, sought their company.

76b-77a. Then the lord, being deluded by attachment and hatred, and associated with the five elements, became embodied.

77b-80a. When he (i.e. Ātman) goes to the womb (i.e. is conceived), he, fallen into the lubricious eddy, full of excrement and urine, along with them, with his body distressed, said to the five-natured ones. “O you five-natured ones, all of you listen to my words. Due to your contact, I, being deluded by great grief, have fallen into this lubricious, very terrible and fearful (eddy).”

The five-natured ones said :

80b-82a. O lord, remain there till the foetus is full (i.e. mature). Then, there is no doubt that, you will come out of it. You are our lord, settled in the region of the body. Thus you should rule; you will be enjoying pleasures.

82b-83. Hearing those words of (i.e. uttered by) them, Ātman, oppressed by grief, and desiring to go (away), became intent on running (away).

[1]: [1] : The five elements are: Earth, Water, Fire. Wind and Ether.

[2]: [2] : The five forms of Vāyu are: Prāṇa, Apāna, Vyāna, Udāna, Samāna.

[3]: [3] : Before this verse some such words as ‘Āpaḥ ūcuḥ’ are missing.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 24105, revision 333734 (2022-03-16T01:59:35Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364214.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.