Skip to main content

Uttara-khaṇḍa · Chapter 208

Chapter 208

Unit 620 of 693Uttara-khaṇḍa · Chapter 208Uttara-khaṇḍa · Chapter 2081 source entries

Uttara-khaṇḍa · Chapter 208

Source

नारद उवाच- विमलस्तं द्विजं नीत्वा द्वारकायामिहागतः । पुनस्तौ सस्नतुं धीरौ श्रीपतेर्भक्तिकाम्यया । भूयः खे मेघगंभीरा वागासीदिति भूपते १। आकाशवागुवाच- शृणुतं द्विजशार्दूलौ हरेस्तीर्थमिदं शुभम् । एतत्तीर्थ प्रसादाद्वां विष्णुभक्तिर्भविष्यति । यया जहाति लोकोऽयमविद्या मोहमुल्बणम् २। नारद उवाच- निशम्येतिद्विजश्रेष्ठौ तां वाचमशरीरिणीम् । प्रसादोऽयं हरेरासीदित्यूचाते परस्पराम् ३। स्नात्वा तौ विधिवत्तत्र लब्ध्वा भक्तिं हरेः पराम् । चेलतुः प्रणिपत्येदं भाषमाणौ मिथस्तदा ४। द्विजावूचतुः । यथावयोर्हि संयोगः पथिजातो विचारतः । यथा गृहकलत्रादि संयोगो भुवि जायते । सांप्रतं विरहोभावी यथा नौ मार्गवर्तिनौ ५। तथादारसुतादीनां कालव्यास्यवर्तिनाम् । धन्यः स पुरुषो लोके यो दारसुतसंगमम् ६। विज्ञाय क्षणिकं नित्यं संश्रयेत्श्रीपतिं भजेत् । नारद उवाच- स्मरणं करणीयं मे दासोऽहं त्वत्पदाश्रयः ७। संदेशः प्रेषणीयो मामित्युक्त्वा स्वगृहं गतौ । शृणु राजन्यथा तेन मित्रेण विमलस्य तु ८। मोक्षणं राक्षसीनां तु विहितं पथिगच्छता । व्रजन्स ब्राह्मणः प्राप्तस्तं देशं जलवर्जितम् ९। यत्र ताः पापविप्लुष्टा राक्षस्यः क्षुत्तृषाकुलाः । अथ ताः पथिगच्छंतं दूराद्दृष्ट्वा द्विजोत्तमम् १०। सजलामत्रहस्तं तं मिथस्त्विति बभाषिरे । राक्षस्य ऊचुः - आयाति पथिकः कश्चिज्जलपात्रं करे दधत् ११। अस्माकं क्षुत्तृषोः शांतिर्मनागपि भविष्यति । एनं संभक्षयिष्यामः पास्यामोऽस्य करे स्थितम् १२। पात्रं जलं वयं तृष्णा क्षुधार्ताः शतवर्षतः । नारद उवाच- काचिदाहेत्यहं पूर्वमस्योष्णं कालखंडकम् १३। भक्षयित्वा ततो रक्तं पीत्वा यास्यामि जीवितम् । अन्या प्राह कियद्द्रव्यं विद्यतेऽस्य गजानने १४। मम व्याघ्राननायास्तु पानायापि न दृश्यते । अन्या वै रथचक्राख्या श्रूयतां वचनं मम १५। करिष्ये कुंडलमहं केनांत्रैरस्य मेखलाम् । अन्यावददहं दंतैरेकतः श्यामलीकृतैः १६। रमे षोडशभिर्द्यूतशालायां तद्विशारदः । इत्युक्त्वा ताः मिथः सर्वास्तंद्विजं प्रति दुद्रुवुः १७। विवृतास्या ललज्जिह्वाः प्रद्योतैकमहाभुजाः । आयांतीस्ताः समालोक्य ब्राह्मणो भयविह्वलः १८। आत्मानमभितश्चक्रे रक्षां वेदोदितां नृप । ता आगत्य स्थिता दूरं राक्षस्यो भीमविक्रमाः १९। तेजसा तस्य मंत्रैश्च प्रत्यादिष्टा नराधिपः । ऊचुश्च को भवानत्र कुतः प्राप्तोऽसि तद्वद २०। त्वद्दर्शनान्मनोऽस्माकं प्रसादमधिगच्छति । त्वत्पादस्पर्शनात्किं नो न विप्र भविता फलम् । अतो मूर्द्धसु नो देहि स्वकीयं पादपंकजम् २१। नारद उवाच- इत्याकर्ण्य वचस्तासां जगाद हरिदत्तजः । द्विज उवाच- कृत्वा पवित्रतीर्थानि ब्राह्मणोऽहं समागतः २२। सांप्रतं पुष्करं यामि भवतीभिः किमिच्छते । यतस्तत्प्रार्थ्यतां दातुं शक्तो दास्यामि चेत्तदा २३। राक्षस्य ऊचुः । येषु तीर्थेषु विप्रेंद्र त्वया स्नातं वदस्व नः । तानि सर्वाणि पुण्यानि मोचयातः कुजन्मनः । अस्मानतितरां तृष्णा क्षुद्भ्यां दारुणदुःखदात् २४। ब्राह्मण उवाच- अवंतीमाश्रमात्पूर्वमहं हरिपुरीमितः । गतोऽहं द्वारकां तस्मात्स्नात्वा सोमोद्भवा जले २५। ततः प्राप्तः प्रभासाख्यं तीर्थं नीरधितीरगम् । तस्मात्सेतुनिबंधेऽहं स्नातः परमपावने २६। तस्मादहं महापुण्यां किष्किंधां समुपागतः । हतो यत्र तु रामेण वाली कपिगणेश्वरः २७। तस्मान्मठं सरस्वत्यानर्मदातीरसंस्थितम् । समागतोऽहं यत्रास्ति भारती सर्वसेविता २८। ततोऽहंमावेशंवेणींतांनत्वादक्षिणापथे । शिवकांची विष्णुकांच्यौ दृष्टे तत्र मया पुरौ २९। ययोर्मरणतो जंतुः शिवो विष्णुश्च जायते । ततोऽहंमुत्कलं प्राप्तो यत्रास्ति हरिरीश्वरः ३०। चतुर्वर्गप्रदः साक्षाद्भक्तानामपि कांक्षितम् । तमर्चयित्वा विधिवद्भक्षयित्वा निवेदितम् ३१। प्रसादभूतं तस्यैव गंगासागरसंगमम् । तत्र देवानृषीन्पितॄंस्तर्पयित्वा यथाविधि ३२। यत्र गंगाशतमुखी जाता तत्राहमागमम् । ततो गयामुपागत्य पिंडान्दत्त्वा यथाविधि ३३। पितृभ्यस्तुलसीपुष्पचंदनोदकपूजितान् । कोशलां शरयूं वारिकर्णधारनभस्वता ३४। पवित्रिताखिलजनांस्पर्शनेनाहमागमम् । तत्रास्ति गोप्रताराख्यं तीर्थं त्रिदशदुर्ल्लभम् ३५। तत्र स्नानादिकं कर्म निशाचर्यः कृतं मया । ततः काशीमहंप्राप्तो राजधानीमुमापतेः ३६। नत्वा विश्वेश्वरं देवं बिंदुमाधवमेव च । स्नातं मणिकर्णिकायां ज्ञानवाप्यां च भक्तितः ३७। त्रिरात्रिमुषितस्तत्र प्रयागं पुनरागमम् । पौषशुक्लचतुर्दश्यां साक्षाद्यत्र प्रजापतिः ३८। एकस्मिन्माघमासे तु स्नानं कृत्वाऽरुणोदये । पुनस्तस्मात्समायातो नैमिषं गोमतीतटे ३९। यत्र तीर्थानि सर्वाणि वसंति च स्वमायया । ततोऽहं मथुरां प्राप्तो यत्र विश्रांतिसंज्ञकम् ४०। तीर्थं तत्सन्निधौ पुण्यमसिकुंडाख्यमुत्तमम् । कृष्णगंगा ध्रुवाक्रूर केशिकालीयतीर्थभृत् ४१। यमुनास्ति महापुण्या यत्र सर्वार्थदायिनी । उभयोः कूलयोस्तस्या वनानि द्वादश श्रिया ४२। राजमानानि खेचर्यः समस्तार्थकराणि च । संति तेषु नरः स्नात्वा पीत्वा भूयो न जायते ४३। ततोहमागमं पुण्यं हस्तिनापुरमुत्तमम् । यत्र श्रीपतिपादाब्ज जाता गंगा सरिद्वरा ४४। ततो नारायणस्थानं हिमवद्भूमिसंस्थितम् । आगत्य माधवं दृष्ट्वा केदारमहमागमम् ४५। तत्र संपूज्य विश्वेशं पीत्वा हंसोदकं पुनः । हरिद्वारं महापुण्यमागमं जाह्नवीतटे ४६। तत्र स्नात्वापितॄन्देवानृषीन्संतर्प्य चाप्यहम् । समागतः कुरुक्षेत्रे यत्र प्राची सरस्वती ४७। तत्राप्यहं क्रियाः सर्वाः कृतवान्नियतेंद्रियः । अर्चयित्वा च पादाब्जं श्रीपतेः पुष्करं प्रति ४८। चलितो मार्गमध्ये तु विमलो नाम मे सखा । मिलितो मां व्रजन्गेहमिंद्रप्रस्थात्तु तीर्थतः ४९। नीतोऽहं तेन राक्षस्यः पुनस्तत्र द्विजन्मना । तीर्थेति मे परावृत्य शक्रप्रस्थेऽखिलार्थदे ५०। तत्रास्ति द्वारका पुण्या निर्मिता विष्णुना स्वयम् । तत्रावलोकितः साक्षाद्विष्णुर्वाक्यान्नरूपतः ५१। तत्राहं स च संस्नातौ विष्णुभक्तिप्रलब्धये । दत्ता सा विष्णुना मह्यं तस्मै च कृष्णमूर्तिना ५२। श्रुत्वा तत्र हरेर्वाणी न रूपं वै विलोकितम् । भक्तिर्लब्धा ततः स्थानाद्यमहं पुष्करं प्रति ५३। तस्य तीर्थाधिपस्येदं द्वारकाख्यस्य वै जलम् । कमंडलुगतं पुण्यं निशाचर्यो वदाम्यहम् ५४। भवतीभिरहं पृष्टो यत्तदाख्यातमेव मे । दृष्ट्वा वो दुर्दशामेतां कृपा मे जायते हृदि ५५। उच्यतां किं करोम्यद्य भवतीनां वशो ह्यहम् । ज्ञानं भवतु युष्माकमिति ताः सिषिचेंभसा ५६। तास्तज्जलाभिमर्शात्तु सर्वेषां जन्मकर्मणां । संस्मृत्य तत्यजुश्चैव राक्षसं देहमुल्बणम् ५७। आसाद्य देवतादेहं विमानं सप्तमागतम् । आरुह्याप्सरसो भूत्वा ताः प्रणेमुर्द्विजन्मने ५८। ऊचुश्च भो द्विजश्रेष्ठ द्वारकाजलसंगमात् । राक्षसत्वाद्वयं मुक्ता गच्छामस्त्रिदशालयम् ५९। इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका द्विज । नातः परतरं लोकेऽन्यत्तीर्थमखिलार्थदम् ६०। नारद उवाच- इत्युक्त्वा ताःसमारूढा विमानेषु महीपते । जग्मुः प्रार्चीं दिशं तेन दत्ताज्ञा वै द्विजन्मना ६१। यमुनातीरवर्तिन्या द्वारकाया महीपते । शृण्वन्माहात्म्यमेतस्या नरः पापैः प्रमुच्यते ६२। वेदज्ञानां ब्राह्मणानां शतस्येच्छासु भोजनात् । यत्फलं श्रवणादस्मान्महिम्नस्तत्प्रजायते ६३। गोविंदाराधने सम्यग्यथा वै सौख्यमिंद्रियम् । माहात्म्यश्रवणादस्या द्वारकायास्तथा नृप ६४। सूर्येंदुग्रहणे दानात्सुवर्णपलविंशतेः । यत्फलं शृण्वतैतस्या माहात्म्यं तदवाप्यते ६५। विमलस्य सुतप्राप्तिं श्रुत्वा सुत इहाप्यते । तत्सख्युर्भक्तिलाभं च लभ्यते भक्तिरुत्तमा ६६। राक्षसीनां विमोक्षं यः शृणोति श्रद्धयान्वितः । स याति ता इव श्रेष्ठं विमानेन सुरालयम् ६७। नृपवरमहिमा ते वर्णितो द्वारकायास्त्रिभुवनजनसेव्या शक्रतीर्थस्थितायाः । किमपरमतिपुण्यं वर्णयामि त्वदग्रे कथय न हि विधेयः श्रेयसि स्वे विलंबः ६८। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिन्दी। माहात्म्ये द्वारकायाख्यानंनाम अष्टाधिकद्विशततमोऽध्यायः २०८।

nārada uvāca- vimalastaṃ dvijaṃ nītvā dvārakāyāmihāgataḥ | punastau sasnatuṃ dhīrau śrīpaterbhaktikāmyayā | bhūyaḥ khe meghagaṃbhīrā vāgāsīditi bhūpate 1| ākāśavāguvāca- śṛṇutaṃ dvijaśārdūlau harestīrthamidaṃ śubham | etattīrtha prasādādvāṃ viṣṇubhaktirbhaviṣyati | yayā jahāti loko'yamavidyā mohamulbaṇam 2| nārada uvāca- niśamyetidvijaśreṣṭhau tāṃ vācamaśarīriṇīm | prasādo'yaṃ harerāsīdityūcāte parasparām 3| snātvā tau vidhivattatra labdhvā bhaktiṃ hareḥ parām | celatuḥ praṇipatyedaṃ bhāṣamāṇau mithastadā 4| dvijāvūcatuḥ | yathāvayorhi saṃyogaḥ pathijāto vicārataḥ | yathā gṛhakalatrādi saṃyogo bhuvi jāyate | sāṃprataṃ virahobhāvī yathā nau mārgavartinau 5| tathādārasutādīnāṃ kālavyāsyavartinām | dhanyaḥ sa puruṣo loke yo dārasutasaṃgamam 6| vijñāya kṣaṇikaṃ nityaṃ saṃśrayetśrīpatiṃ bhajet | nārada uvāca- smaraṇaṃ karaṇīyaṃ me dāso'haṃ tvatpadāśrayaḥ 7| saṃdeśaḥ preṣaṇīyo māmityuktvā svagṛhaṃ gatau | śṛṇu rājanyathā tena mitreṇa vimalasya tu 8| mokṣaṇaṃ rākṣasīnāṃ tu vihitaṃ pathigacchatā | vrajansa brāhmaṇaḥ prāptastaṃ deśaṃ jalavarjitam 9| yatra tāḥ pāpavipluṣṭā rākṣasyaḥ kṣuttṛṣākulāḥ | atha tāḥ pathigacchaṃtaṃ dūrāddṛṣṭvā dvijottamam 10| sajalāmatrahastaṃ taṃ mithastviti babhāṣire | rākṣasya ūcuḥ - āyāti pathikaḥ kaścijjalapātraṃ kare dadhat 11| asmākaṃ kṣuttṛṣoḥ śāṃtirmanāgapi bhaviṣyati | enaṃ saṃbhakṣayiṣyāmaḥ pāsyāmo'sya kare sthitam 12| pātraṃ jalaṃ vayaṃ tṛṣṇā kṣudhārtāḥ śatavarṣataḥ | nārada uvāca- kācidāhetyahaṃ pūrvamasyoṣṇaṃ kālakhaṃḍakam 13| bhakṣayitvā tato raktaṃ pītvā yāsyāmi jīvitam | anyā prāha kiyaddravyaṃ vidyate'sya gajānane 14| mama vyāghrānanāyāstu pānāyāpi na dṛśyate | anyā vai rathacakrākhyā śrūyatāṃ vacanaṃ mama 15| kariṣye kuṃḍalamahaṃ kenāṃtrairasya mekhalām | anyāvadadahaṃ daṃtairekataḥ śyāmalīkṛtaiḥ 16| rame ṣoḍaśabhirdyūtaśālāyāṃ tadviśāradaḥ | ityuktvā tāḥ mithaḥ sarvāstaṃdvijaṃ prati dudruvuḥ 17| vivṛtāsyā lalajjihvāḥ pradyotaikamahābhujāḥ | āyāṃtīstāḥ samālokya brāhmaṇo bhayavihvalaḥ 18| ātmānamabhitaścakre rakṣāṃ vedoditāṃ nṛpa | tā āgatya sthitā dūraṃ rākṣasyo bhīmavikramāḥ 19| tejasā tasya maṃtraiśca pratyādiṣṭā narādhipaḥ | ūcuśca ko bhavānatra kutaḥ prāpto'si tadvada 20| tvaddarśanānmano'smākaṃ prasādamadhigacchati | tvatpādasparśanātkiṃ no na vipra bhavitā phalam | ato mūrddhasu no dehi svakīyaṃ pādapaṃkajam 21| nārada uvāca- ityākarṇya vacastāsāṃ jagāda haridattajaḥ | dvija uvāca- kṛtvā pavitratīrthāni brāhmaṇo'haṃ samāgataḥ 22| sāṃprataṃ puṣkaraṃ yāmi bhavatībhiḥ kimicchate | yatastatprārthyatāṃ dātuṃ śakto dāsyāmi cettadā 23| rākṣasya ūcuḥ | yeṣu tīrtheṣu vipreṃdra tvayā snātaṃ vadasva naḥ | tāni sarvāṇi puṇyāni mocayātaḥ kujanmanaḥ | asmānatitarāṃ tṛṣṇā kṣudbhyāṃ dāruṇaduḥkhadāt 24| brāhmaṇa uvāca- avaṃtīmāśramātpūrvamahaṃ haripurīmitaḥ | gato'haṃ dvārakāṃ tasmātsnātvā somodbhavā jale 25| tataḥ prāptaḥ prabhāsākhyaṃ tīrthaṃ nīradhitīragam | tasmātsetunibaṃdhe'haṃ snātaḥ paramapāvane 26| tasmādahaṃ mahāpuṇyāṃ kiṣkiṃdhāṃ samupāgataḥ | hato yatra tu rāmeṇa vālī kapigaṇeśvaraḥ 27| tasmānmaṭhaṃ sarasvatyānarmadātīrasaṃsthitam | samāgato'haṃ yatrāsti bhāratī sarvasevitā 28| tato'haṃmāveśaṃveṇīṃtāṃnatvādakṣiṇāpathe | śivakāṃcī viṣṇukāṃcyau dṛṣṭe tatra mayā purau 29| yayormaraṇato jaṃtuḥ śivo viṣṇuśca jāyate | tato'haṃmutkalaṃ prāpto yatrāsti harirīśvaraḥ 30| caturvargapradaḥ sākṣādbhaktānāmapi kāṃkṣitam | tamarcayitvā vidhivadbhakṣayitvā niveditam 31| prasādabhūtaṃ tasyaiva gaṃgāsāgarasaṃgamam | tatra devānṛṣīnpitṝṃstarpayitvā yathāvidhi 32| yatra gaṃgāśatamukhī jātā tatrāhamāgamam | tato gayāmupāgatya piṃḍāndattvā yathāvidhi 33| pitṛbhyastulasīpuṣpacaṃdanodakapūjitān | kośalāṃ śarayūṃ vārikarṇadhāranabhasvatā 34| pavitritākhilajanāṃsparśanenāhamāgamam | tatrāsti gopratārākhyaṃ tīrthaṃ tridaśadurllabham 35| tatra snānādikaṃ karma niśācaryaḥ kṛtaṃ mayā | tataḥ kāśīmahaṃprāpto rājadhānīmumāpateḥ 36| natvā viśveśvaraṃ devaṃ biṃdumādhavameva ca | snātaṃ maṇikarṇikāyāṃ jñānavāpyāṃ ca bhaktitaḥ 37| trirātrimuṣitastatra prayāgaṃ punarāgamam | pauṣaśuklacaturdaśyāṃ sākṣādyatra prajāpatiḥ 38| ekasminmāghamāse tu snānaṃ kṛtvā'ruṇodaye | punastasmātsamāyāto naimiṣaṃ gomatītaṭe 39| yatra tīrthāni sarvāṇi vasaṃti ca svamāyayā | tato'haṃ mathurāṃ prāpto yatra viśrāṃtisaṃjñakam 40| tīrthaṃ tatsannidhau puṇyamasikuṃḍākhyamuttamam | kṛṣṇagaṃgā dhruvākrūra keśikālīyatīrthabhṛt 41| yamunāsti mahāpuṇyā yatra sarvārthadāyinī | ubhayoḥ kūlayostasyā vanāni dvādaśa śriyā 42| rājamānāni khecaryaḥ samastārthakarāṇi ca | saṃti teṣu naraḥ snātvā pītvā bhūyo na jāyate 43| tatohamāgamaṃ puṇyaṃ hastināpuramuttamam | yatra śrīpatipādābja jātā gaṃgā saridvarā 44| tato nārāyaṇasthānaṃ himavadbhūmisaṃsthitam | āgatya mādhavaṃ dṛṣṭvā kedāramahamāgamam 45| tatra saṃpūjya viśveśaṃ pītvā haṃsodakaṃ punaḥ | haridvāraṃ mahāpuṇyamāgamaṃ jāhnavītaṭe 46| tatra snātvāpitṝndevānṛṣīnsaṃtarpya cāpyaham | samāgataḥ kurukṣetre yatra prācī sarasvatī 47| tatrāpyahaṃ kriyāḥ sarvāḥ kṛtavānniyateṃdriyaḥ | arcayitvā ca pādābjaṃ śrīpateḥ puṣkaraṃ prati 48| calito mārgamadhye tu vimalo nāma me sakhā | milito māṃ vrajangehamiṃdraprasthāttu tīrthataḥ 49| nīto'haṃ tena rākṣasyaḥ punastatra dvijanmanā | tīrtheti me parāvṛtya śakraprasthe'khilārthade 50| tatrāsti dvārakā puṇyā nirmitā viṣṇunā svayam | tatrāvalokitaḥ sākṣādviṣṇurvākyānnarūpataḥ 51| tatrāhaṃ sa ca saṃsnātau viṣṇubhaktipralabdhaye | dattā sā viṣṇunā mahyaṃ tasmai ca kṛṣṇamūrtinā 52| śrutvā tatra harervāṇī na rūpaṃ vai vilokitam | bhaktirlabdhā tataḥ sthānādyamahaṃ puṣkaraṃ prati 53| tasya tīrthādhipasyedaṃ dvārakākhyasya vai jalam | kamaṃḍalugataṃ puṇyaṃ niśācaryo vadāmyaham 54| bhavatībhirahaṃ pṛṣṭo yattadākhyātameva me | dṛṣṭvā vo durdaśāmetāṃ kṛpā me jāyate hṛdi 55| ucyatāṃ kiṃ karomyadya bhavatīnāṃ vaśo hyaham | jñānaṃ bhavatu yuṣmākamiti tāḥ siṣiceṃbhasā 56| tāstajjalābhimarśāttu sarveṣāṃ janmakarmaṇāṃ | saṃsmṛtya tatyajuścaiva rākṣasaṃ dehamulbaṇam 57| āsādya devatādehaṃ vimānaṃ saptamāgatam | āruhyāpsaraso bhūtvā tāḥ praṇemurdvijanmane 58| ūcuśca bho dvijaśreṣṭha dvārakājalasaṃgamāt | rākṣasatvādvayaṃ muktā gacchāmastridaśālayam 59| iṃdraprasthāṃtarāvartinyeṣā yā dvārakā dvija | nātaḥ parataraṃ loke'nyattīrthamakhilārthadam 60| nārada uvāca- ityuktvā tāḥsamārūḍhā vimāneṣu mahīpate | jagmuḥ prārcīṃ diśaṃ tena dattājñā vai dvijanmanā 61| yamunātīravartinyā dvārakāyā mahīpate | śṛṇvanmāhātmyametasyā naraḥ pāpaiḥ pramucyate 62| vedajñānāṃ brāhmaṇānāṃ śatasyecchāsu bhojanāt | yatphalaṃ śravaṇādasmānmahimnastatprajāyate 63| goviṃdārādhane samyagyathā vai saukhyamiṃdriyam | māhātmyaśravaṇādasyā dvārakāyāstathā nṛpa 64| sūryeṃdugrahaṇe dānātsuvarṇapalaviṃśateḥ | yatphalaṃ śṛṇvataitasyā māhātmyaṃ tadavāpyate 65| vimalasya sutaprāptiṃ śrutvā suta ihāpyate | tatsakhyurbhaktilābhaṃ ca labhyate bhaktiruttamā 66| rākṣasīnāṃ vimokṣaṃ yaḥ śṛṇoti śraddhayānvitaḥ | sa yāti tā iva śreṣṭhaṃ vimānena surālayam 67| nṛpavaramahimā te varṇito dvārakāyāstribhuvanajanasevyā śakratīrthasthitāyāḥ | kimaparamatipuṇyaṃ varṇayāmi tvadagre kathaya na hi vidheyaḥ śreyasi sve vilaṃbaḥ 68| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kālindī| māhātmye dvārakāyākhyānaṃnāma aṣṭādhikadviśatatamo'dhyāyaḥ 208|

English translation

Nārada said :

1. Taking the brāhmaṇa (with him) Vimala came here to Dvārakā . And the two wise ones with a desire for devotion for Viṣṇu bathed there. In the sky there was again heard the divine voice, deep like that of clouds.

The divine voice said :

2. Listen, O best brāhmaṇas , this is Viṣṇu’s holy place. You will have, due to the grace of this holy place, devotion for Viṣṇu, due to which people abandon the strong infatuation due to Māyā .

Nārada said :

3-4. The two best brāhmaṇas having heard the incorporeal speech, said to each other: “This is Viṣṇu’s favour.” The two, having duly bathed there and obtained great devotion for Viṣṇu, saluting him and talking to each other walked.

The brāhmaṇas said :

5-7a. As we two, walking on the path came in contact with each other, as on the earth contact with a house and wife etc. takes place, so the future separation of us, being on the way, is (but) proper. So is (the contact and separation from) the wife, son etc. being in the mouth of tiger in the form of Death. That man who realising the contact with wife and sons to be transient, would ever resort to and worship Viṣṇu, is blessed.

Nārada said :

7b-11a. “(Please) remember me. I am your servant, resorting to your feet. You may send me a message.” Saying like this, they went home. O king, listen, how that friend of Vimala, going along the path, brought about the liberation of the demonesses. The brāhmaṇa, while going, reached that place void of water, where the demonesses scorched by sins stood oppressed by hunger and thirst. Then they, seeing from a distance that brāhmaṇa with a pot containing water in his hand, said to one another:

The demonesses said :

11b-13a. Some traveller, holding a pot of water in his hand is corning. Our hunger and thirst will be at least partially satisfied. We shall eat him up and drink the water in the pot in his hand. We are oppressed by hunger and thirst for a hundred years.

Nārada said :

13b-21. One said: “Having first eaten his hot liver, then having drunk his blood, I shall gain life.” The other said: “How much material does he have, O Gajānanā? Even for me, Vyāghrānanā, it is not seen to be enough for drinking.” Another one called Rathacakrā, (said): “Hear my words. From one I shall fashion an ear-ring, and a girdle from (other) intestine.”Another one said: “I, skilled in gambling, will play dice in the gambling hall with his sixteen teeth, made black from one side.” All of them, thus speaking among themselves, ran to the brāhmaṇa, with their mouths opened, tongues lolling and bright great arms. Seeing them coming, the brāhmaṇa was overcome by fear. O king, he protected himself all round, as told in the Vedas . The demonesses of fierce valour having come (to him), stood away from him. O king, they were repelled by his lustre and hymns. And they said: “Tell us, who are you? Wherefrom have you come? Seeing you our mind is delighted. O brāhmaṇa, what will be the fruit of touching your feet? Therefore, place your lotus-like feet on our heads.”

Nārada said :

22a. Hearing their words Haridattaja ( Haridatta ’s son?) said:

The brāhmaṇa said :

22b-23. I am a brāhmaṇa who has come after visiting holy places. Now I am going to Puṣkara . What do you desire? Since, if I am able to give it, I shall do so.

The demonesses said :

24. O brāhmaṇa, tell us in which holy places you bathed. All those are meritorious. Liberate us from this bad existence, giving terrible agony due to great hunger and thirst.

The brāhmaṇa said :

25-38. From my hermitage I went first to Haripura , Avantī . From there I went to Dvārakā. Having bathed in the water of Somodbhavā, I went to the holy place Prabhāsa situated on the shore of the sea. Then I bathed at the highly purifying Setunibandha. From there I came to the very holy Kiṣkindhā where Rāma had killed Valin , the lord of the host of monkeys. From there I came to the Sarasvatī temple situated on the bank of Narmadā where Sarasvatī, served by all, dwells. Then I reached Veṇī , saluted her and saw the two cities Śivakāñcī and Viṣṇukāñcī in the southern part of India , due to having died where a man becomes Śiva and Viṣṇu. From there I reached Utkala where lord Viṣṇu, actually giving the four ends of human life and the desired objects to his devotees dwells. Having duly worshipped him, and eaten the eatables offered to him, I went to Gaṅgāsāgara which was his favour only. Then having duly gratified gods, sages and (my) dead ancestors, I came to that place where Gaṅga had a hundred faces (i.e. flew in a hundred courses). Then having gone to Gaya and having duly offered piṇḍa , endowed with Tulasī blossoms, sandal and water to the dead ancestors, I came to Kośala , to Śarayū which by means of her touch cloudy due to the water, had purified all people. There is a holy place called Gopratāra difficult to be reached (even) by gods. O demonesses, there I did the acts like bathing etc. From there I reached Kāśī , the capital of the lord of Umā. Having saluted god Viśveśvara , so also Bindumādhava , I devoutly bathed in the Jñānavāpī at Maṇikarṇikā . Having stayed there for three nights, I again came to Prayāga where actually Brahmā (lives) on the fourteenth day of the bright half of Pauṣa .

39-49. At a dawn of Māgha , having bathed there, again from there I came to Naimiṣa on the bank of Gomatī , where all holy places, with their enchantment dwell. From there I reached Mathura where there is the. holy place called Visrānti. Near it is a holy, excellent pool called Asikuṇḍa. There very holy Yamunā giving everything and having the holy places of Kṛṣṇagaṅgā , Dhruvā , Krūrakeśī, Kālī exists. On both her banks are forests shining with splendour and producing all holy places. Having bathed in them and drunk (their water) a man is not born again. From there I came to the holy, excellent city of Hastināpura . There is the best riverGaṅgā that rose from lotus-like feet of Viṣṇu. Then coming to the place of Nārāyaṇa situated in the Himalayan region and seeing Mādhava (there), I came to Kedāra . Having worshipped Viśveśa (there) and having drunk the water of Haṃsā (lake), I came to the very holy Haridvāra , on the bank of Gaṅgā . Having bathed there and having gratified gods, sages and (my) dead ancestors, I came to Kurukṣetra where there is Prācī Sarasvatī. There too, I with my senses controlled, performed all rites, and having worshipped Viṣṇu’s lotus-like feet I went to Puṣkara. On the way my friend named Vimala, going from the holy place Indraprastha , met me.

50-60. O demonesses, the brāhmaṇa, causing me to return, took me to the holy place Śakra -(i.e. Indra -) prastha , giving all (desired) objects. There is holy Dvārakā fashioned by Viṣṇu himself. There I actually saw Viṣṇu, not in form but through words. There he and I bathed to obtain devotion for Viṣṇu. Viṣṇu, of the form of Kṛṣṇa , gave it to him and me. We heard Viṣṇu’s words, but did not see his form. We secured devotion for him. From that place I came to Puṣkara. O demonesses, I tell you that this water in the water-pot is from that holy place called Dvārakā, the chief among holy places. I have told you what you had asked me. Seeing this bad plight of you, compassion is produced in my heart. Tell me what I should do. I am at your disposal. Let knowledge come to you.

Saying so, he sprinkled them with (that) water. Due to the touch of that water they remembered all the acts in their (various) existences, and gave up their powerful demonish bodies. Obtaining divine bodies, and turning into celestial nymphs, they got into an aeroplane that had come from heaven, and saluted the brāhmaṇa. And they said: “O best brāhmaṇa, due to contact with the water from Dvārakā we are freed from demonhood, and are (now) going to heaven. O brāhmaṇa, there is no other better holy place giving all desired objects than this Dvārakā situated in Indraprastha.”

Nārada said :

61-68. Speaking like this, O king, they got into the aeroplanes. And ordered by the brāhmaṇa, they went by that (aeroplane) to the eastern direction. A man, hearing the greatness of this Dvārakā situated on the bank of Yamunā, is freed from sins, O king. The same fruit as is had by giving meals to a hundred brāhmaṇas as desired by them, is produced by listening to this greatness. O king, as happiness is experienced on worshipping Viṣṇu, similarly (it is had) bylistening to the greatness of this Dvārakā. That fruit which is got by giving twenty palas of gold (to a brāhmaṇa) at the time of the solar eclipse and the lunar eclipse, is obtained by one hearing the greatness of this (Dvārakā). Having heard (the account of) the acquisition of a son by Vimala, (a man) obtains a son; and hearing (the account of) the acquisition of his friend’s devotion (a man) secures the best devotion. He who, endowed with devotion, listens to (the account of) the liberation of the demonesses, goes like them in an aeroplane to heaven. O best king, I have described to you the greatness of Dvārakā that should be resorted by men in the three worlds and that is situated at Śakratīrtha . Tell me, what other (account) more meritorious than this, I should relate to you. No delay should be done in (securing) one’s bliss.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 22580, revision 336621 (2022-04-25T13:45:32Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365792.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.