Skip to main content

Uttara-khaṇḍa · Chapter 7

Chapter 7

Unit 419 of 693Uttara-khaṇḍa · Chapter 7Uttara-khaṇḍa · Chapter 71 source entries

Uttara-khaṇḍa · Chapter 7

Source

नारद उवाच- ततो जालंधरः क्रुद्धः प्राह तं दैत्यसूदनम् । कपटेन बलं हत्वा क्व यास्यसि बलाधम १। इत्युक्त्वा तं शतमखं सिंधुसूनुः प्रतापवान् । ससूताश्वध्वजरथं छादयामास मार्गणैः २। पपात मूर्च्छितः शक्रो रथोपरि शरैः क्षतः । दृष्ट्वा तं पतितं शक्रं जगर्जार्णवनंदनः ३। मूर्च्छां त्यक्त्वा मुमोचेंद्रो वज्रं जालंधरं प्रति । तदाद्रिदलनं हस्ते गृहीत्वा सिंधुसंभवः ४। वज्रं कक्षापुटे धृत्वा रथादुत्तीर्य सत्वरम् । अभ्यधावत दैत्येंद्रो देवेंद्रं धर्तुमाहवे ५। ततो दुद्राव मघवा रथं त्यक्त्वा हरिं स्मरन् । रथमिंद्रस्य मदवानारुह्यार्णवनंदनः ६। यंतारं मातलिं कृत्वा ययौ प्राप्तमनोरथः । रथमिंद्रस्य तरसा यत्र यत्र ययौ बले ७। जालंधरो महाबाहुः स्वयं चांबुधरो यथा । ततः स कोपात्पुरुषोत्तमः स्वयं खड्गं समुद्यम्य च नंदकं रणे ८। संप्रेरयित्वा गरुडं मनोजवं जघान कोपेन च दैत्यवाहिनीम् । रथान्हयान्कुंजरपत्तिसंघान्स पातयामास बलात्सहस्रशः ९। जनार्दनः कश्यपसूनुसंवृतश्चकार संख्ये चरितं भयावहम् । केशास्थिमज्जारुधिरौघवाहिनीं पिशाचवेतालविहंगसेविताम् १०। करोरुजंघायुधशस्त्रपूरितां सुदुस्तरां व्याघ्रगजेंद्र सेविताम् । रक्तांत्रहारांगदभूषितांतां विघूर्णनेत्रोत्सवकांतिवाससम् ११। विष्णुना निहतं सैन्यं दृष्ट्वा दानवपुंगवाः । जालंधराज्ञया सर्वे रुरुधुः परितो हरिम् १२। दैत्यास्ते तत्र बाणौघान्वर्षमाणा यथांबुदाः । यथाद्विरेफाः कमलं पर्वतं जलदा इव १३। चूतं यथा पक्षिगणा गगनं धूपसंचयः । न दृश्योऽभूत्तदा विष्णुर्न तार्क्ष्यो रणसंकटे १४। सर्वे ते रथमारूढा सर्वशस्त्रैर्महासुराः । वैकुंठाधिपतिं जघ्नुर्गर्जंतो भीमनिस्वनैः १५। तान्सर्वान्भीमरूपेण दैत्यारिः कुपितस्तदा । रणे निपातयामास वायुः पर्णचयं यथा १६। शैलरोमा ततो विष्णुं दैत्यः कोपादधावत । हरेरपि शरास्तस्य शरीरे शीर्णतां गताः १७। शैलरोमा च दैत्यारि शरीरं चाहनच्छरैः । हरिः खड्गं विनिर्धूय शिरस्तस्य जहार ह १८। छिन्ने शिरसि दैत्यस्य कबंधो विक्रमन्रणे । शैलरोमा भुजाभ्यां च तार्क्ष्यं जग्राह पक्षयोः १९। शिरश्चोत्पत्य तरसा विलग्नं स्कंधयोर्दृढम् । ततस्तत्रास्ययुद्धेन हृषीकेशोऽपि विस्मितः २०। शिरः संलग्नमालोक्य गरुडो न्यपतद्भुवि । पुनश्चोत्पत्य वेगेन शिरःस्थानं समाश्रयत् २१। शैलरोमा ततो विष्णुं जहार गरुडाद्बली । हरिर्जघ्ने तलेनाशु गतायुश्चापतद्भुवि २२। ततो जालंधरः सूतं खड्गरोमाणमब्रवीत् । संप्रेषय रथं तत्र यत्र देवो जनार्दनः २३। जालंधरस्य वचनात्खङ्गरोमानयद्रथम् । दृष्ट्वा तं पुरतो विष्णुमुवाचार्णवनंदनः २४। निःशंकं जहि मां विष्णो नाहं त्वा हन्मि माधव । तस्य तद्वचनं श्रुत्वा क्रोधसंरक्तलोचनः २५। नारायणः प्राणहरैः शरैरेनमपूरयत् । विष्णुना च विभिन्नांगोऽर्णवसूनुः प्रतापवान् २६। हरिं संपूरयामास मार्गणौघैर्निरंतरम् । नारायणः प्राणहरैः शरैरेनमपूरयत् २७। गरुडं पतितं दृष्ट्वासिंधुसूनोः शरैर्भुवि । रथं संस्मारयामास वैकुंठस्थं जनार्दनः २८। सरथस्तस्य संप्राप्तः सूतहीनो हयैर्वृतः । अश्वैर्युतं रथं दृष्ट्वा विस्मितो भगवान्रणे २९। संबोधयित्वा गरुडं सारथ्ये समयोजयत् । स धृत्वा मुकुटं मूर्ध्नि कौस्तुभं हृदये मणिम् ३०। पुरुषार्थान्हयान्कृत्वा ययौ जालंधरं हरिः । मेदिनीं रथचक्रेण दारयंश्च सुरैः सह ३१। जघान तरसा बाणैर्दानवानां च वाहिनीम् । देवराजेन संदिष्टो वीतिहोत्रो रणांगणे ३२। ददाह दानवानीकं समीरणसमन्वितम् । तदाह तं भगवता दैत्यसैन्यं सुरैः सह ३३। जालंधरः स्वल्पशेषं दध्यौ दृष्ट्वा बलं स्वकम् । अथाह भार्गवं राजा मत्सैन्यं निहतं सुरैः ३४। त्वयि तिष्ठति मंत्रज्ञे विख्यातो विद्यया भवान् । किं तया विद्यया ब्रह्मन्क्षत्रेणाथ बलेन च ३५। या न रक्षति रोगार्तान्यद्बलं शरणागतान् । जालंधरवचः श्रुत्वा भार्गवस्तमभाषत ३६। पश्य राजन्मम बलं ब्राह्मणस्य रणांगणे । इत्युक्त्वा वारिणा स्पृष्टा हुंकारेण प्रबोधिताः ३७। उत्थापितास्ते कविना शरौघैः प्राणहारकैः । देवाहता रणे पेतुः समंतात्सिंधुसूनुना ३८। बाणैर्जर्जरदेहास्ते धृतप्राणा नराधिप । न मृतास्त्वमरत्वाच्च बाणैर्भिन्नाश्च सत्तम ३९। ततो नारायणो देवो बृहस्पतिमभाषत । धिग्बलं दैवतगुरो यो न जीवयसे सुरान् ४०। धिषणस्तु जगन्नाथमुवाच त्वरितं तदा । ओषधीभिरहं स्वामिन्जीवयिष्यामि निर्जरान् ४१। इत्युक्त्वा धिषणः सोऽपि ययौ क्षीरार्णवस्थितम् । द्रोणमद्रिं तदा गत्वा सुखं गृह्यौषधीः स्वयम् ४२। गुरुस्तासां च योगेन जीवयामास निर्जरान् । उत्थितास्ते ततो देवा जघ्नुर्दानववाहिनीम् ४३। देवान्समुत्थितान्दृष्ट्वा बभाषे सिंधुजः कविम् । विना त्वद्विद्यया काव्य कथमेते समुत्थिताः ४४। इति दैत्योक्तमाकर्ण्य शुक्रः प्राहार्णवात्मजम् । क्षीरसागरमध्यस्थो द्रोणोनाम महागिरिः ४५। औषध्यस्तत्र तिष्ठंति जीवयंति च या मृतान् । तत्र गत्वा सुराचार्यो गृहीत्वोषधिसंचयम् ४६। रणे विनिहतान्देवानुत्थापयति मंत्रतः । भार्गवोक्तमथाकर्ण्य सैन्यभारं महाबलः ४७। शुंभे निक्षिप्य तरसा ययौ जालंधरोऽर्णवम् । अथ प्रविष्टः क्षीराब्धौ वेश्मदिव्यं महाप्रभम् ४८। प्रविश्य तत्र क्षीराब्धेः क्रीडास्थानं ददर्श सः । नोष्णो न शीतलो वायुर्न तमो यत्र दृश्यते ४९। यत्र गायंति नृत्यंति क्रीडंति च वरस्त्रियः । सुपीनस्तनभाराढ्याः कृशोदर्यः सुदंतिकाः 6.7.५०। नेत्रविभ्रमविक्षेपैर्नितंबपरिवर्त्तनैः । अंगैः संमोहनै रम्यैर्बाहुवल्लीविचालनैः ५१। पादविन्यासरणि तैर्मधुरैर्वचनस्तवैः । सौगंध्यसौख्यदैर्वासैर्नेत्रभ्रमरहुंकृतैः ५२। चामरांदोललीलाभिः स्रग्भिः स्मितविलोकितैः। सेवां चक्रुर्विलासिन्यस्तत्र सुतः।।५३।।। क्रीडंतं तत्र दुग्धाब्धिं संवीक्ष्य समरोत्सुकः। अथाह प्रणिपत्यासौ क्षीराब्धिं तात हंसि माम्। द्रोणाचलौषधीर्व्याजादंबुभिः प्लावयस्वतः ५४। क्षीरसागर उवाच-। तं प्राप्तं शरणं पुत्र प्लावयाम्यूर्मिभिः कथम् । मुनींद्रास्तं न शंसंति यस्त्यजेच्छरणागतम् ५५। पितृव्यवचनं श्रुत्वा संक्रोधात्संततं गिरिम् । तलप्रहरणेनैव ताडयामास दैत्यराट् ५६। ततो द्रोणगिरी राजन्भीतो जालंधराद्भृशम् । अथाजगाम रूपेण प्राह जालंधरं प्रति ५७। तवाहमभवं दासो रक्ष मां शरणागतम् । रसातलं महाबाहो यास्यामि तव शासनात् ५८। यावत्त्वं कुरुषे राज्यं तावत्स्थास्याम्यहं प्रभो । ओषधीनां विरावेण सिद्धानां रोदनेन च ५९। रसातलं जगामाद्रिः सिंधुसूनोः प्रपश्यतः । ततो जालंधरो वीर आजगाम महारणम् ६०। पूर्वकल्पितमारुह्य रथस्थं केशवं ययौ । रथस्थं माधवं दृष्ट्वा जहासोच्चैर्नदीसुतः ६१। तावत्त्वं तिष्ठ शकटे यावद्धन्यामरीनहम् । एवमुक्त्वा जघानाशु शरैस्तां देववाहिनीम् ६२। बाणैर्विदारिता देवास्त्राहीत्यूचुर्बृहस्पतिम् । ततो बृहस्पतिः शीघ्रमगमत्क्षीरसागरम् ६३। अदृष्ट्वा तं ततो द्रोणमभूच्चिन्तापरो नृप । अथागत्य रणं तूर्णममरान्प्राह गीष्पतिः ६४। पलायध्वं सुराः सर्वे द्रोणाद्रिः क्षयमागतः । एवमुक्तवतस्तस्य गुरोश्चिच्छेद सिंधुजः ६५। यज्ञोपवीतं केशांश्च बाणैस्तीक्ष्णैर्हसन्सुरान् । ततो दुद्राव वेगेन गुरुः प्राणभयार्दितः ६६। देवाः सर्वे रणं हित्वा पलायांचक्रिरे नृप । एवं विद्राव्य देवान्वै जनार्द्दनमधावत ६७। हृषीकेशोऽपि दैत्येशमन्वधावद्रणोत्सुकः । ततो युद्धमभूद्धोरं विष्णोर्जालंधरस्य च ६८। दुर्द्धर्षणो बाणजालैः प्लावयामास केशवम् । तान्बाणान्खंडशः कृत्वा पूरयित्वा शरैर्महान् ६९। वासुदेवोसुरं बाणैर्जालंधरमपीडयत् । जालंधरो रथं त्यक्त्वा शरपीडितविग्रहः ७०। विष्णुं विजेतुं दुद्राव संयतिस्थमथ द्रुतम् । तमायांतं रणे दृष्ट्वा हरिर्विव्याध सायकैः ७१। बाणानंगेसहद्विष्णोः प्राप्तोऽसौ रथसंनिधौ । हस्तेनैकेन गरुडं द्वितीयेन रथं हरेः ७२। भ्रामयित्वांबरे शश्वत्श्वेतद्वीपे न्यपातयत् । जालंधरकरक्षिप्तो गरुडोऽपि पपात ह ७३। क्रौंचद्वीपे स तत्रैव विश्राममकरोच्चिरम् । अच्युतः प्रच्युतस्तस्माद्भ्रमतो रथमंडलात् ७४। रणमागत्य दैत्येशं तिष्ठतिष्ठेत्यभाषत । दृष्ट्वा तमागतं भूयः केशवं समरप्रियः ७५। पूरयन्मार्गणैर्भूमिं जगर्जार्णवनंदनः ७६। विव्याध दैत्यं हरिराशु शक्त्या हृदि स्फुरंत्या स ततः पपात । सूतो न यत्तं समरान्निवासं तं प्राह रे केन कृतोस्म्यलज्जः ७७। दैत्यारि जालंधरयोर्महत्तदा बभूव युद्धं धरणीतलस्थयोः । प्रेम्णा श्रियस्तं न जघान दानवं स्वयं हरिस्तस्य शरैः पपात ७८। ततो निरीक्ष्य गोविंदं पतितं धरणीतले । प्रगृह्यार्णवजो दैत्य आरुरोह निजं रथम् । ततस्तमिंदिरा प्राप्ता रुदंती विष्णुवल्लभा ७९। संस्थिता कमला तत्र पतिं कमललोचनम् । पतितं तु पतिं वीक्ष्य लक्ष्मीः प्राहार्णवात्मजम् ८०। शृणुष्व वचनं भ्रातर्जितो विष्णुर्धृतस्त्वया । भगिन्या न च वैधव्यं दातुं युक्तं महाबल ८१। श्रुत्वा तु वचनं तस्या मुमोच जगतः पतिम् । जालंधरो महाबाहुः स्वस्रे भक्त्या ननाम च ८२। ववंदे चरणौ विष्णोः स्वसुः स्नेहात्तदांजसा । विष्णुर्जालंधरं प्राह तुष्टोऽस्मि तव कर्मणा । वरं वरय दैत्येश किं प्रयच्छामि ते वरम् ८३। जालंधर उवाच-। यदि त्वं मम तुष्टोऽसि शौर्येणानेन केशव । स्थातव्यं मत्पितुः स्थाने त्वया कमलया सह ८४। तथेत्युक्त्वा च संस्मृत्य गरुडं धरणीधरः । आरुह्य च जगन्नाथः क्षीराब्धिं प्रियया सह ८५। तदाप्रभृति कृष्णस्य वासः श्वशुरमंदिरे । अब्धौ वसति देवेशो लक्ष्म्याः प्रियचिकीर्षया ८६। इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिता-। यामुत्तरखंडे युधिष्ठिरनारदसंवादे सप्तमोऽध्यायः ७।

nārada uvāca- tato jālaṃdharaḥ kruddhaḥ prāha taṃ daityasūdanam | kapaṭena balaṃ hatvā kva yāsyasi balādhama 1| ityuktvā taṃ śatamakhaṃ siṃdhusūnuḥ pratāpavān | sasūtāśvadhvajarathaṃ chādayāmāsa mārgaṇaiḥ 2| papāta mūrcchitaḥ śakro rathopari śaraiḥ kṣataḥ | dṛṣṭvā taṃ patitaṃ śakraṃ jagarjārṇavanaṃdanaḥ 3| mūrcchāṃ tyaktvā mumoceṃdro vajraṃ jālaṃdharaṃ prati | tadādridalanaṃ haste gṛhītvā siṃdhusaṃbhavaḥ 4| vajraṃ kakṣāpuṭe dhṛtvā rathāduttīrya satvaram | abhyadhāvata daityeṃdro deveṃdraṃ dhartumāhave 5| tato dudrāva maghavā rathaṃ tyaktvā hariṃ smaran | rathamiṃdrasya madavānāruhyārṇavanaṃdanaḥ 6| yaṃtāraṃ mātaliṃ kṛtvā yayau prāptamanorathaḥ | rathamiṃdrasya tarasā yatra yatra yayau bale 7| jālaṃdharo mahābāhuḥ svayaṃ cāṃbudharo yathā | tataḥ sa kopātpuruṣottamaḥ svayaṃ khaḍgaṃ samudyamya ca naṃdakaṃ raṇe 8| saṃprerayitvā garuḍaṃ manojavaṃ jaghāna kopena ca daityavāhinīm | rathānhayānkuṃjarapattisaṃghānsa pātayāmāsa balātsahasraśaḥ 9| janārdanaḥ kaśyapasūnusaṃvṛtaścakāra saṃkhye caritaṃ bhayāvaham | keśāsthimajjārudhiraughavāhinīṃ piśācavetālavihaṃgasevitām 10| karorujaṃghāyudhaśastrapūritāṃ sudustarāṃ vyāghragajeṃdra sevitām | raktāṃtrahārāṃgadabhūṣitāṃtāṃ vighūrṇanetrotsavakāṃtivāsasam 11| viṣṇunā nihataṃ sainyaṃ dṛṣṭvā dānavapuṃgavāḥ | jālaṃdharājñayā sarve rurudhuḥ parito harim 12| daityāste tatra bāṇaughānvarṣamāṇā yathāṃbudāḥ | yathādvirephāḥ kamalaṃ parvataṃ jaladā iva 13| cūtaṃ yathā pakṣigaṇā gaganaṃ dhūpasaṃcayaḥ | na dṛśyo'bhūttadā viṣṇurna tārkṣyo raṇasaṃkaṭe 14| sarve te rathamārūḍhā sarvaśastrairmahāsurāḥ | vaikuṃṭhādhipatiṃ jaghnurgarjaṃto bhīmanisvanaiḥ 15| tānsarvānbhīmarūpeṇa daityāriḥ kupitastadā | raṇe nipātayāmāsa vāyuḥ parṇacayaṃ yathā 16| śailaromā tato viṣṇuṃ daityaḥ kopādadhāvata | harerapi śarāstasya śarīre śīrṇatāṃ gatāḥ 17| śailaromā ca daityāri śarīraṃ cāhanaccharaiḥ | hariḥ khaḍgaṃ vinirdhūya śirastasya jahāra ha 18| chinne śirasi daityasya kabaṃdho vikramanraṇe | śailaromā bhujābhyāṃ ca tārkṣyaṃ jagrāha pakṣayoḥ 19| śiraścotpatya tarasā vilagnaṃ skaṃdhayordṛḍham | tatastatrāsyayuddhena hṛṣīkeśo'pi vismitaḥ 20| śiraḥ saṃlagnamālokya garuḍo nyapatadbhuvi | punaścotpatya vegena śiraḥsthānaṃ samāśrayat 21| śailaromā tato viṣṇuṃ jahāra garuḍādbalī | harirjaghne talenāśu gatāyuścāpatadbhuvi 22| tato jālaṃdharaḥ sūtaṃ khaḍgaromāṇamabravīt | saṃpreṣaya rathaṃ tatra yatra devo janārdanaḥ 23| jālaṃdharasya vacanātkhaṅgaromānayadratham | dṛṣṭvā taṃ purato viṣṇumuvācārṇavanaṃdanaḥ 24| niḥśaṃkaṃ jahi māṃ viṣṇo nāhaṃ tvā hanmi mādhava | tasya tadvacanaṃ śrutvā krodhasaṃraktalocanaḥ 25| nārāyaṇaḥ prāṇaharaiḥ śarairenamapūrayat | viṣṇunā ca vibhinnāṃgo'rṇavasūnuḥ pratāpavān 26| hariṃ saṃpūrayāmāsa mārgaṇaughairniraṃtaram | nārāyaṇaḥ prāṇaharaiḥ śarairenamapūrayat 27| garuḍaṃ patitaṃ dṛṣṭvāsiṃdhusūnoḥ śarairbhuvi | rathaṃ saṃsmārayāmāsa vaikuṃṭhasthaṃ janārdanaḥ 28| sarathastasya saṃprāptaḥ sūtahīno hayairvṛtaḥ | aśvairyutaṃ rathaṃ dṛṣṭvā vismito bhagavānraṇe 29| saṃbodhayitvā garuḍaṃ sārathye samayojayat | sa dhṛtvā mukuṭaṃ mūrdhni kaustubhaṃ hṛdaye maṇim 30| puruṣārthānhayānkṛtvā yayau jālaṃdharaṃ hariḥ | medinīṃ rathacakreṇa dārayaṃśca suraiḥ saha 31| jaghāna tarasā bāṇairdānavānāṃ ca vāhinīm | devarājena saṃdiṣṭo vītihotro raṇāṃgaṇe 32| dadāha dānavānīkaṃ samīraṇasamanvitam | tadāha taṃ bhagavatā daityasainyaṃ suraiḥ saha 33| jālaṃdharaḥ svalpaśeṣaṃ dadhyau dṛṣṭvā balaṃ svakam | athāha bhārgavaṃ rājā matsainyaṃ nihataṃ suraiḥ 34| tvayi tiṣṭhati maṃtrajñe vikhyāto vidyayā bhavān | kiṃ tayā vidyayā brahmankṣatreṇātha balena ca 35| yā na rakṣati rogārtānyadbalaṃ śaraṇāgatān | jālaṃdharavacaḥ śrutvā bhārgavastamabhāṣata 36| paśya rājanmama balaṃ brāhmaṇasya raṇāṃgaṇe | ityuktvā vāriṇā spṛṣṭā huṃkāreṇa prabodhitāḥ 37| utthāpitāste kavinā śaraughaiḥ prāṇahārakaiḥ | devāhatā raṇe petuḥ samaṃtātsiṃdhusūnunā 38| bāṇairjarjaradehāste dhṛtaprāṇā narādhipa | na mṛtāstvamaratvācca bāṇairbhinnāśca sattama 39| tato nārāyaṇo devo bṛhaspatimabhāṣata | dhigbalaṃ daivataguro yo na jīvayase surān 40| dhiṣaṇastu jagannāthamuvāca tvaritaṃ tadā | oṣadhībhirahaṃ svāminjīvayiṣyāmi nirjarān 41| ityuktvā dhiṣaṇaḥ so'pi yayau kṣīrārṇavasthitam | droṇamadriṃ tadā gatvā sukhaṃ gṛhyauṣadhīḥ svayam 42| gurustāsāṃ ca yogena jīvayāmāsa nirjarān | utthitāste tato devā jaghnurdānavavāhinīm 43| devānsamutthitāndṛṣṭvā babhāṣe siṃdhujaḥ kavim | vinā tvadvidyayā kāvya kathamete samutthitāḥ 44| iti daityoktamākarṇya śukraḥ prāhārṇavātmajam | kṣīrasāgaramadhyastho droṇonāma mahāgiriḥ 45| auṣadhyastatra tiṣṭhaṃti jīvayaṃti ca yā mṛtān | tatra gatvā surācāryo gṛhītvoṣadhisaṃcayam 46| raṇe vinihatāndevānutthāpayati maṃtrataḥ | bhārgavoktamathākarṇya sainyabhāraṃ mahābalaḥ 47| śuṃbhe nikṣipya tarasā yayau jālaṃdharo'rṇavam | atha praviṣṭaḥ kṣīrābdhau veśmadivyaṃ mahāprabham 48| praviśya tatra kṣīrābdheḥ krīḍāsthānaṃ dadarśa saḥ | noṣṇo na śītalo vāyurna tamo yatra dṛśyate 49| yatra gāyaṃti nṛtyaṃti krīḍaṃti ca varastriyaḥ | supīnastanabhārāḍhyāḥ kṛśodaryaḥ sudaṃtikāḥ 6.7.50| netravibhramavikṣepairnitaṃbaparivarttanaiḥ | aṃgaiḥ saṃmohanai ramyairbāhuvallīvicālanaiḥ 51| pādavinyāsaraṇi tairmadhurairvacanastavaiḥ | saugaṃdhyasaukhyadairvāsairnetrabhramarahuṃkṛtaiḥ 52| cāmarāṃdolalīlābhiḥ sragbhiḥ smitavilokitaiḥ| sevāṃ cakrurvilāsinyastatra sutaḥ||53||| krīḍaṃtaṃ tatra dugdhābdhiṃ saṃvīkṣya samarotsukaḥ| athāha praṇipatyāsau kṣīrābdhiṃ tāta haṃsi mām| droṇācalauṣadhīrvyājādaṃbubhiḥ plāvayasvataḥ 54| kṣīrasāgara uvāca-| taṃ prāptaṃ śaraṇaṃ putra plāvayāmyūrmibhiḥ katham | munīṃdrāstaṃ na śaṃsaṃti yastyajeccharaṇāgatam 55| pitṛvyavacanaṃ śrutvā saṃkrodhātsaṃtataṃ girim | talapraharaṇenaiva tāḍayāmāsa daityarāṭ 56| tato droṇagirī rājanbhīto jālaṃdharādbhṛśam | athājagāma rūpeṇa prāha jālaṃdharaṃ prati 57| tavāhamabhavaṃ dāso rakṣa māṃ śaraṇāgatam | rasātalaṃ mahābāho yāsyāmi tava śāsanāt 58| yāvattvaṃ kuruṣe rājyaṃ tāvatsthāsyāmyahaṃ prabho | oṣadhīnāṃ virāveṇa siddhānāṃ rodanena ca 59| rasātalaṃ jagāmādriḥ siṃdhusūnoḥ prapaśyataḥ | tato jālaṃdharo vīra ājagāma mahāraṇam 60| pūrvakalpitamāruhya rathasthaṃ keśavaṃ yayau | rathasthaṃ mādhavaṃ dṛṣṭvā jahāsoccairnadīsutaḥ 61| tāvattvaṃ tiṣṭha śakaṭe yāvaddhanyāmarīnaham | evamuktvā jaghānāśu śaraistāṃ devavāhinīm 62| bāṇairvidāritā devāstrāhītyūcurbṛhaspatim | tato bṛhaspatiḥ śīghramagamatkṣīrasāgaram 63| adṛṣṭvā taṃ tato droṇamabhūccintāparo nṛpa | athāgatya raṇaṃ tūrṇamamarānprāha gīṣpatiḥ 64| palāyadhvaṃ surāḥ sarve droṇādriḥ kṣayamāgataḥ | evamuktavatastasya gurościccheda siṃdhujaḥ 65| yajñopavītaṃ keśāṃśca bāṇaistīkṣṇairhasansurān | tato dudrāva vegena guruḥ prāṇabhayārditaḥ 66| devāḥ sarve raṇaṃ hitvā palāyāṃcakrire nṛpa | evaṃ vidrāvya devānvai janārddanamadhāvata 67| hṛṣīkeśo'pi daityeśamanvadhāvadraṇotsukaḥ | tato yuddhamabhūddhoraṃ viṣṇorjālaṃdharasya ca 68| durddharṣaṇo bāṇajālaiḥ plāvayāmāsa keśavam | tānbāṇānkhaṃḍaśaḥ kṛtvā pūrayitvā śarairmahān 69| vāsudevosuraṃ bāṇairjālaṃdharamapīḍayat | jālaṃdharo rathaṃ tyaktvā śarapīḍitavigrahaḥ 70| viṣṇuṃ vijetuṃ dudrāva saṃyatisthamatha drutam | tamāyāṃtaṃ raṇe dṛṣṭvā harirvivyādha sāyakaiḥ 71| bāṇānaṃgesahadviṣṇoḥ prāpto'sau rathasaṃnidhau | hastenaikena garuḍaṃ dvitīyena rathaṃ hareḥ 72| bhrāmayitvāṃbare śaśvatśvetadvīpe nyapātayat | jālaṃdharakarakṣipto garuḍo'pi papāta ha 73| krauṃcadvīpe sa tatraiva viśrāmamakarocciram | acyutaḥ pracyutastasmādbhramato rathamaṃḍalāt 74| raṇamāgatya daityeśaṃ tiṣṭhatiṣṭhetyabhāṣata | dṛṣṭvā tamāgataṃ bhūyaḥ keśavaṃ samarapriyaḥ 75| pūrayanmārgaṇairbhūmiṃ jagarjārṇavanaṃdanaḥ 76| vivyādha daityaṃ harirāśu śaktyā hṛdi sphuraṃtyā sa tataḥ papāta | sūto na yattaṃ samarānnivāsaṃ taṃ prāha re kena kṛtosmyalajjaḥ 77| daityāri jālaṃdharayormahattadā babhūva yuddhaṃ dharaṇītalasthayoḥ | premṇā śriyastaṃ na jaghāna dānavaṃ svayaṃ haristasya śaraiḥ papāta 78| tato nirīkṣya goviṃdaṃ patitaṃ dharaṇītale | pragṛhyārṇavajo daitya āruroha nijaṃ ratham | tatastamiṃdirā prāptā rudaṃtī viṣṇuvallabhā 79| saṃsthitā kamalā tatra patiṃ kamalalocanam | patitaṃ tu patiṃ vīkṣya lakṣmīḥ prāhārṇavātmajam 80| śṛṇuṣva vacanaṃ bhrātarjito viṣṇurdhṛtastvayā | bhaginyā na ca vaidhavyaṃ dātuṃ yuktaṃ mahābala 81| śrutvā tu vacanaṃ tasyā mumoca jagataḥ patim | jālaṃdharo mahābāhuḥ svasre bhaktyā nanāma ca 82| vavaṃde caraṇau viṣṇoḥ svasuḥ snehāttadāṃjasā | viṣṇurjālaṃdharaṃ prāha tuṣṭo'smi tava karmaṇā | varaṃ varaya daityeśa kiṃ prayacchāmi te varam 83| jālaṃdhara uvāca-| yadi tvaṃ mama tuṣṭo'si śauryeṇānena keśava | sthātavyaṃ matpituḥ sthāne tvayā kamalayā saha 84| tathetyuktvā ca saṃsmṛtya garuḍaṃ dharaṇīdharaḥ | āruhya ca jagannāthaḥ kṣīrābdhiṃ priyayā saha 85| tadāprabhṛti kṛṣṇasya vāsaḥ śvaśuramaṃdire | abdhau vasati deveśo lakṣmyāḥ priyacikīrṣayā 86| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitā-| yāmuttarakhaṃḍe yudhiṣṭhiranāradasaṃvāde saptamo'dhyāyaḥ 7|

English translation

Nārada said :

1-3a. Then Jālandhara who was angry, spoke to ( Indra ), the killer of the demon: “ O you of a mean power, where will you go after killing Bala through trickery?” Speaking thus to Indra, that brave son of the Ocean, cut off, with arrows, his chariot along with the charioteer, horses andflag. Indra, wounded by the arrows, fell after fainting on (i.e. in) his chariot.

3b-9. Seeing that Indra had fallen down, the Ocean’s son roared. Giving up his swoon (i.e. regaining consciousness), Indra discharged his thunderbolt against Jālandhara. Then holding a piece of a mountain the Ocean’s son held the thunderbolt at his side and quickly getting down his chariot, ran to Indra with a desire to seize him in the battle. Then, Indra, abandoning the chariot and remembering Viṣṇu , ran away. The arrogant son of the Ocean got into Indra’s chariot, and making Mātalin the charioteer, went with his desire fulfilled. That mighty-armed Jālandhara went quickly like a cloud after getting into Indra’s chariot (as he liked). Then, Viṣṇu through anger raised his sword (called) Nandaka in the battle, and inciting Garuḍa , having mind’s speed, struck the army of the demons angrily. He, with force, knocked down chariots, horses, elephants and foot-soldiers in thousands.

10-12. Viṣṇu, surrounded (i.e. accompanied) by Kaśyapa ’s son performed a fierce feat in the battle. (The battlefield had become) a river, which carried hair, bones, marrow and stream of blood, which was resorted to by goblins, vampires and birds, which was filled with hands, thighs, shanks, missiles and weapons, which was very difficult to cross, which was resorted to by tigers and lordly elephants, which was adorned with blood, entrails, necklaces and armlets. Seeing the army which blocked the beautiful festival to the the rolling eyes, struck by Viṣṇu, all the excellent demons, obstructed Viṣṇu on all sides at the order of Jālandhara.

13-15. There those demons showered volleys of arrows, as clouds shower (water), as bees shower (i.e. moisten) a lotus, as the clouds shower a mountain (with water), or as hosts of birds shower (i.e. moisten) a mango-tree, or as a mass of incense showers (i.e. fills) the sky. In that danger of the battle, Viṣṇu was not visible, so also Garuḍa was not visible. All those great demons who had got into their chariots, roaring with fearful sounds, struck Viṣṇu with all weapons.

16-20. The angry enemy of the demons (i.e. Viṣṇu), with a fierce form, knocked down all of them in the war as wind knocks down a mass of leaves. Then the demon Śailaroman, angrily ran to Viṣṇu. Even the arrows ofViṣṇu were shattered on (i.e. after striking) his body. Śailaroman also struck with arrows the body of Viṣṇu who taking out his sword cut off his head. When the demon’s head was cut off, his trunk, walking on the battlefield seized Garuḍa by his wings with his hands. His head too quickly jumped and stuck fast to his shoulders. Then seeing the fighting of his face even Viṣṇu was amazed.

21-25a. Seeing the head stuck (to the shoulders), Garuḍa fell down on the ground. Again speedily flying, he resorted to the place of the head. Then the powerful Śailaroman snatched off Viṣṇu from Garuḍa. Viṣṇu struck him with the palm of his hand; and he fell dead on the ground. Then Jālandhara said to Khaḍgaroman, his charioteer: “Drive the chariot there, where god Viṣṇu is.” By the words (i.e. the order) of Jālandhara, Khaḍgaroman took the chariot (to that spot). Seeing that Viṣṇu in front of him, the Ocean’s son said: “O Viṣṇu, kill me fearlessly. I shall not kill you, O Mādhava .”

25b-29. Hearing those words of him, Viṣṇu, with his eyes red due to anger, filled (i.e. covered) him with fatal arrows. The Ocean’s brave son, with his body pierced by Viṣṇu, continuously covered Viṣṇu with streams (i.e. volleys) of arrows. Garuḍa, pierced by his hundreds of arrows, fell unconscious. Seeing Garuḍa fallen on the ground (after being struck) by the arrows of the Ocean’s son, Viṣṇu was reminded of his chariot that stood in Vaikuṇṭha . That chariot, without a charioteer, (but) surrounded by horses, came to him. Seeing that chariot yoked with horses on the battlefield the lord was amazed.

30-34. Having brought Garuḍa to consciousness, he appointed him as its driver. That Viṣṇu, putting the crown on his head, the Kaustubha gem on his chest, and prompting the horses to exert, went up to Jālandhara. With (other) gods, he tore the earth with the chariot’s wheel(s); he quickly struck the army of the demons with (his) arrows. Ordered by the lord of gods, Fire burnt the demon’s army (as he was) aided by Wind. At that time, the lord, along with the gods, destroyed the army of the demons. Seeing his army of which a small-portion was left, Jālandhara thought, and then (he) the king said to Śukra :

35-39. “When (even) you, well-versed in incantations, were there, the gods destroyed my army. You are well-known for your lore. O brāhmaṇa , what is the use of the lore which does not protect those who are afflicted with diseases, and what is the use of that kṣatra power which does not protect those seeking refuge?” Hearing the words of Jālandhara, Śukra said to him: “O king, (now) see the power of me, a brāhmaṇa.” Saying so, he touched them with water (i.e. sprinkled water over them, and) roused them with the ‘hum’ sound. They were (thus) roused by Śukra. The Ocean’s son struck the gods with fatal arrows, and they fell in the battle all around. O king, with their bodies shattered by arrows, they sustained their life. They, pierced by arrows, did not die because of their immortality, O best one.

40-45a. Then god Viṣṇu said to Bṛhaspati : “O preceptor of gods, fie upon the power of you who are not bringing the gods back to life.” Bṛhaspati then immediately said to the lord of the world (i.e. Viṣṇu): “O lord, by means of the herbs I shall bring the gods back to life.” Speaking like this, Bṛhaspati too went to the mountain Droṇa , lying in the ocean; and comfortably taking the herbs (from the mountain), Bṛhaspati, by using them, brought the gods back to life. Then the gods who rose, killed the army of the demons. Seeing the gods to have risen, the Ocean’s son (Jālandhara) said to Śukra: “O Śukra, how did they get up without your lore?” Hearing these words spoken by the demon, Śukra said to the Ocean’s son:

45b-48a. “There is a great mountain named Droṇa, that lies in the ocean. There are herbs there, which bring the dead back to life. The preceptor of gods (Bṛhaspati), having gone there, and having taken the herbs (from there), rouses, with an incantation, the gods killed in the battle.” Hearing what Śukra said, Jālandhara, having entrusted the responsibility of his army to Śumbha , went to the Ocean.

48b-54. Having gone into the Ocean of Milk, he entered a divine, very bright house and saw there the pleasure-chamber of the Ocean of Milk. In it neither hot nor cold breezes (blew). Darkness was not noticed there. There excellent females, rich with the burden of breasts, having slim bellies and good teeth, sang, danced and sported. The sportive females served there by casting amorous glances, moving to and fro, with fascinating bodies, by means of lovely movements of their creeper-like arms, and the sounds of their steps, with sweet words and eulogies, by giving the pleasure of fragrance, with the hummings of the bees in the form of their eyes, by sportively moving the chowries, with garlands, and smiling glances. Having gone there the Ocean’s son who was eager to fight and seeing the Ocean of Milk sporting there, saluted the Ocean of Milk, and said to him: “O uncle, you are killing me. With the water inundate (Bṛhaspati) under the pretext of the herbs from the Droṇa mountain.”

The Ocean of Milk said :

55-61. O son, how shall I inundate with my waves him who has sought my refuge? The best sages do not praise him who abandons him who has sought his refuge.

Hearing the words of his paternal uncle, the king of the demons continuously, angrily, struk the (Droṇa) mountain with the soles of his feet. Then, O king, mountain Droṇa who was very much afraid of Jālandhara, came, in his (original) form to Jālandhara, and said to him: “I have become your servant. Protect me who have sought your refuge. O you of great arms, by your order I shall (even) go to lower region. I shall stay (there) till you rule the kingdom.” Accompanied by the cry of the herbs and the weeping of the siddhas , the (Droṇa) mountain went to the lower region, (even) when the Ocean’s son was observing. Then the hero Jālandhara came to the great battlefield. Having got into the chariot already made ready, he went to Viṣṇu. The son of the River (i.e. Jālandhara) seeing Viṣṇu seated in the chariot, laughed loudly. (He said to him:)

62-69. “Wait in your chariot till I kill (other) enemies.” Speaking like this, he quickly struck the army of gods. The gods rent by (his) arrows, said to Bṛhaspati: “Protect (us).” Then Bṛhaspati quickly went to the Ocean of Milk. O king, not seeing (the mountain) Droṇa (there) he became very anxious. Then Bṛhaspati, having quickly come (back) to the battlefield, said to the gods: “O gods, all of you run away. The Droṇa mountain has perished.” Of Bṛhaspati who was speaking like this, the Ocean’s son, laughing at the gods, cut off the sacred thread and hair with sharp arrows. Then Bṛhaspati afflicted through fear to his life speedily ran away. O king, all gods (also) leaving the battlefield, fled. Having thus made the gods flee, he ran to Viṣṇu. Viṣṇu also, eager to fight, ran to the lord of demons. Then a fierce battle took place between Viṣṇu and Jālandhara. Dreadful by means of his volleys of arrows he overcame Viṣṇu.

70-74. Cutting to pieces those arrows and filling (i.e. covering) him with arrows, mighty Viṣṇu, harassed the demon Jālandhara with arrows. Jālandhara, with his body injured by the arrows, abandoned his chariot, and quickly ran to Viṣṇu standing in the battle to vanquish him. Seeing him coming, Viṣṇu pierced him with arrows. He bore the arrows of Viṣṇu on his body and came near his chariot. Whirling repeatedly Garuḍa with one hand and Viṣṇu’s chariot with the other (hand), he dropped them on the Śveta-dvīpa . Garuḍa, thrown from Jālandhara’s hand, also fell down. For a long time he took rest in Krauñca-dvīpa only. Viṣṇu, freeing himself from the whirling chariot, came to the battlefield, and said to the lord of demons: “Wait, wait.”

75-78. The Ocean’s son who liked fighting, seeing Viṣṇu who had again come to the battlefield, covered the ground with arrows and roared. Viṣṇu quickly pierced the demon on his chest with a (missile called) śakti that was throbbing. He (then) fell down. His son (then) took him from the battlefield to his residence, and said to him: “Oh, who has made me void of shame?” Then a great fight between (Viṣṇu) the enemy of the demons and Jālandhara, standing on the ground, took place there. Viṣṇu did not kill the demon out of his love for Lakṣmī ; (but) himself fell down (struck) by his arrows.

79-83. Then seeing Viṣṇu fallen on the ground, the Ocean’s son, took him and got into his own chariot. Then Lakṣmī, dear to Viṣṇu, came weeping to him. Lakṣmī stood there. Seeing her husband, havingeyeslike lotuses, fallen, Lakṣmī said to the Ocean’s son: “O brother, listen to (my) words. You have vanquished and held Viṣṇu. O you of great power, it is not proper for you to bestow widowhood on your sister.” Hearing her words, he released the lord of the world (i.e. Viṣṇu). (Then) Jālandhara, of mighty arms, devoutly saluted his sister (i.e. Lakṣmī). Then he quickly saluted Viṣṇu’s feet through his love for his sister. Viṣṇu said to Jālandhara: “I am pleased with your act. O lord of demons, ask for a boon. Which boon shall I grant to you?”

Jālandhara said :

84-86. O Viṣṇu, if you are pleased with this (act of) valour of me, then you should stay with Lakṣmī, at my father’s abode.

Saying, ‘All right’, the lord of the earth, remembered (i.e. thought of) Garuḍa (and on his arrival) mounted upon him and (went) to the Ocean of Milk with his wife (Lakṣmī). Since then Kṛṣṇa (i.e. Viṣṇu) lives in his father-in-law’s house. The lord of the gods desiring to do what is dear to Lakṣmī, lives in the ocean.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 44517, revision 334361 (2022-04-02T00:09:15Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365438.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.