Kriyāyogasāra-khaṇḍa · Chapter 3
Sourceजैमिनिरुवाच- क्रियायोगस्य तत्वं मे ब्रूहि व्यास महामते । क्रियायोगमहं ज्ञातुमिच्छामि भवदग्रतः १। व्यास उवाच- शरीरं मानुषं विप्र दुर्लभं चात्र भूतले । धीरः शरीरमासाद्य मोक्षार्थं योगमभ्यसेत् २। क्रियायोगध्यानयोगावुभौ योगौ प्रकीर्तितौ । तयोराद्यः क्रियायोगः कुर्वतां सर्वकामदः ३। गङ्गा श्रीर्विष्णुपूजा च दानानि द्विजसत्तम । ब्राह्मणानां तथा भक्तिर्भक्तिरेकादशी व्रते ४। धात्री तुलस्योर्भक्तिश्च तथा चातिथिपूजनम् । क्रियायोगाङ्गभूतानि प्रोक्तानीति समासतः ५। क्रियायोगादृते विप्र ध्यानयोगेन सिद्ध्यति । क्रियायोगरतो याति तद्विष्णोः परमं पदम् ६। जैमिनिरुवाच- क्रियायोगाङ्गभूतानि यानि प्रोक्तानि भोः प्रभो । तन्माहात्म्यानि कथय यदि भो मय्यनुग्रहः ७। गङ्गायाः के गुणा ब्रह्मन्विष्णुपूजाफलं च किम् । श्रेष्ठानि कानि दानानि का वा भक्तिर्द्विजन्मनाम् ८। एकादश्याः फलं किंवा धात्रीभक्तिश्च कीदृशी । तुलस्याः कीदृशी भक्तिः किं वा चातिथिपूजनम् ९। एतत्सर्वं मुने ब्रूहि श्रोतुमस्ति ममादरः । त्वत्तोऽन्य कथितुं कोऽपि न शक्नोति जगत्त्रये १०। व्यास उवाच- साधुसाधु द्विजश्रेष्ठ मनस्ते विमलं ध्रुवम् । यतो गुह्यकथामेतां श्रोतुं श्रद्धा च कौतुकम् ११। भागीरथ्या गुणं सम्यक्कथितुं न हि शक्यते । तस्मात्समासतो वक्ष्ये श्रूयतामेकचेतसा १२। गङ्गेत्यक्षरयुग्मं च जपत्यत्यन्तकोमलम् । मन्ये व्रजेत्तथाप्येनो महाभूतरसायनम् १३। सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे १४। सवासवाः सुराः सर्वे गङ्गाद्वारं मनोरमम् । समागत्य प्रकुर्वन्ति स्नानदानादिकं मुने १५। दैवयोगान्मुने तत्र ये त्यजंति कलेवरम् । मनुष्य पशु कीटाद्या लभंते परमं पदम् १६। अत्रेतिहासं विप्रर्षे कथ्यमानं मया शुणु । सम्यक्छ्रवणमात्रेण सर्वपापैः प्रमुच्यते १७। मनोभद्रो नाम राजा सोमवंश समुद्भवः । पूर्वमासीज्जगत्यस्मिन्बलवान्सर्वधर्म्मवित् १८। तस्य हेमप्रभा नाम महिषी प्रियवादिनी । पतिव्रता महाभागा सर्वलक्षणसंयुता १९। स राजा समरे हत्वा सकलानेव शात्रवान् । शशास पृथिवीं कृत्स्नां साब्धिद्वीपां महाबलः २०। स एकदा महीपालः समाहूय स्वमंत्रिणः । उवाचेदं वचः प्रीत्या सभामध्ये महायशाः २१। मनोभद्र उवाच-। अमात्याः पृथिवी सर्वा मयेयं परिपालिता । निहता रिपवः सर्वे सपुत्रबलवाहनाः २२। पालितानि स्वगोत्राणि दानैर्विप्राश्च तोषिताः । शिष्टाश्च त्रिदशाः सर्वे सपुत्रबलवाहनाः २३। पालितानि स्वगोत्राणि यज्ञैः सर्वैः सदक्षिणैः । एतद्धि जरया सर्वं महत्या मे बलं हृतम् २४। कर्माणि कानिचित्कर्त्तुं न हि शक्नोमि दुर्बलः । सामर्थ्यहीने पुरुषे राजश्रीर्न हि शोभते २५। सर्वाभरणसंयुक्ता वृद्धाङ्गा इव कामिनी । तावद्विभ्यति सर्वेऽपि शत्रवः पृथिवीतले २६। यावद्धि गतसामर्थ्यं नेच्छन्ति चारुचक्षुषा । समस्तगुणसम्पन्नामपि तद्गतमानसम् २७। पृथ्वी त्यजेन्नृपं वृद्धं स्वैरिणीपालिता यथा । भक्तिलभ्यागुणाः सर्वे गुणलभ्यं महद्यशः २८। निःश्रेयसं दानलभ्यं बललभ्या तु मेदिनी । सामर्थ्यहीनः कृपणो निश्चितो रिपुशासने २९। मूर्खमात्रवचो ग्राही स नृपः शत्रुनंदनः । ततोऽहं सकलं राज्यं विभज्य वरमंत्रिणः ३०। दातुमिच्छामि पुत्राभ्यां युष्माभिर्यदि मन्यते । मन्त्रिण ऊचुः - यदेतद्वचनं प्रोक्तं त्वया नीतिविदा नृप ३१। तदेव मतमस्माकं संदेहो नात्र विद्यते । अथायातौ नृपादेशात्संसदं प्रति सत्तमौ ३२। वीरभद्र यशोभद्र नामानौ तनयावुभौ । तौ च सर्वगुणोपेतौ कुमारौ प्रियवादिनौ ३३। पितृभक्तौ सदा शांतौ बलिनौ धर्मतत्परौ । ततः स भूपः सहसा राजनीति विदांवरः ३४। विभज्य सकलं राज्यं ददौ ताभ्यां कुतूहलात् । अत्रांतरे गृध्र एकः स्वकीयस्त्री समन्वितः ३५। आगत्य तत्सभामध्ये उपविष्टो द्विजोत्तमाः । तावागतौ समालोक्य पक्षिणावतिहर्षितौ ३६। राजाह युवयोः कस्माच्छुभागमनमुच्यताम् । गृध्र उवाच- गृध्रोऽहं पृथिवीपाल ममेयं स्त्री परंतपः ३७। आगतोऽस्मि मुदा द्रष्टुं संपदं पुत्रयोस्तव । एतयोर्महती दृष्टा विपत्तिः पूर्वजन्मनि ३८। इह जन्मनि संपत्तिं द्रष्टुमावां समागतौ । तस्यैतद्वचनं श्रुत्वा गृध्रस्य परमाद्भुतम् । राजोवाच पुनर्विप्र विस्मयाविष्टमानसः ३९। राजोवाच- अत्यद्भुतं वचो गृध्र त्वत्तः श्रुतमिदं मया । एतयोः पूर्ववृत्तान्तो भवता ज्ञायते कथम् ४०। यदि जानासि तत्वेन पूर्ववृत्तांतमेतयोः । ब्रूहि तर्हि खगश्रेष्ठ सर्वमेतदशेषतः ४१। गृध्र उवाच- नृपते वृषलावेतौ युगे द्वापरसंज्ञके । गरसंगरनामानौ सत्यघोषसुतौ स्थितौ ४२। एककाले च भूपाल मृतौ निज गृहांतरे । ततो नेतुमिमौ भूप दंष्ट्रिणो यमकिंकराः ४३। पाशहस्ताः समायाताः कोटिकोटिसहस्रशः । बबंधुश्चर्मपाशेन द्वावेतौ तौ मदोद्धतौ ४४। निन्युश्च निलयं मृत्योरतिदुर्गमवर्त्मना । इमौ दृष्ट्वा धर्मराजश्चित्रगुप्तमुवाच ह ४५। एतयोः सकलं वृत्तं चित्रगुप्त विचार्यताम् । तस्याज्ञया चित्रगुप्तः सर्वकर्मशुभाशुभम् ४६। मूलाद्विचारयामास तत इत्याह चांतकम् । चित्रगुप्त उवाच- सत्यमेतौ महाबाहो पुण्यव्रत महाशयौ ४७। अस्तिचेद्दुष्कृतं किञ्चित्सर्वकर्मविलोकितम् । स्वयंदानं समुत्सृज्य न हि दत्तं द्विजातये ४८। तेनैव कर्मणा राजन्निमौ नरकगामिनौ । दाता दानं समुत्सृज्य यो न दद्याद्दिवजातये ४९। स याति नरकं घोरं सर्वभूतभयावहम् । दाता हि न स्मरेद्दानं प्रतिग्राही न याचते ५० 7.3.50। उभयोर्नरके वासो यावच्चन्द्र दिवाकरौ । तस्मादिमौ महापापौ ब्रह्मस्वाहारिणौ प्रभो ५१। नयंतु किंकराः शीघ्रं नरकं प्रतिदारुणम् ५२। यमाज्ञया ततो दूताः संदष्टौष्ठपुटाः क्रुधा । चिक्षिपुर्नरके घोरे तावेतौ पृथिवीपते ५३। तस्मिन्नेव दिने राजन्ननया भार्यया सह । यमदूतैः समागत्य नीतोऽहं यममन्दिरम् ५४। मयापि तत्कृतं कर्म तदाकर्णय भूपते । मूलात्सर्वं प्रवक्ष्यामि शृण्वतां विस्मयप्रदम् ५५। पुरासीत्सर्वगो नाम ब्राह्मणोऽहं महाकुलः । सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ५६। इयं मंजूकषा नाम मम पत्नी यशस्विनी । पतिव्रता महाभागा पवित्रकुलसंभवा ५७। प्रमत्तोऽहं महाभाग विद्यया वयसाधनैः । अवज्ञां मनसा पित्रोश्चकाराहं युवैकदा ५८। अहं भूरि सभाश्लाघ्यो वनस्थः सर्वकर्मकृत् । धनवान्सुन्दरो ज्ञानी ज्ञातिपोषणतत्परः ५९। ममैव पुंसः पितरौ तौ च पापपरायणौ । मुखरौ दययाहीनौ पाखंडिसङ्ग लोलुपौ ६०। पौरुषं जीवनं चैव धनं चैव कुलं तथा । विद्या कीर्तिश्च सर्वस्वं पितृभ्यां विफलीकृतम् ६१। एतद्विचिन्त्य मनसा मया नृप मुहुर्मुहुः । अवज्ञया परित्यक्ता पित्रोः सेवा शुभप्रदा ६२। अनेन कर्मणा राजन्सदारोऽहं यमाज्ञया । विक्षिप्तो नरके दूतैर्यत्रतौ पापिनांवरौ ६३। एताभ्यां सह पापाभ्यां सदारेण मया नृप । स्थितं च नरके घोरे यावत्कालं शृणुष्व तत् ६४। युगकोटिसहस्राणि युगकोटिशतानि च । अनुभूतं महादुःखं नरकस्य नृपोत्तम ६५। नरकांते ततः सोऽहं कांतया सह भूपते । गृध्रपक्षकुलेजातौ मृतमांसाशनौ तथा ६६। एतावपि च तौ राजन्नरकांत गतैषिणौ । जातौ शलभयोर्वंशे भोक्तुं फलं स्वकर्मणः ६७। यदेताभ्यां कृतं कर्म्म राजञ्छलभजन्मनि । तदाकर्णय वक्ष्यामि श्रोतॄणां विस्मयप्रदम् ६८। एकदा सुमहान्वायुः समायातो महीपते । उड्डीय पातितौ तेन गङ्गागर्भे सुनिर्मले ६९। निपत्य गङ्गासलिले कोमलाङ्गाविमौ तथा । जग्मतुः पंचतां सद्यः समस्तकलुषापहम् ७०। ततो नेतुमिमौ दूता आयाताश्चारुचक्षुषः । आयातानि विमानानि सर्वभोगान्वितानि च ७१। विमुक्तौ सर्वपापेभ्यस्तुलसी माल्य शोभितौ । दिव्यंविमानमारुह्य गतौ विष्णुपुरं प्रति ७२। तावत्कालं स्थितौ राजन्ब्रह्मणोऽव्यक्तजन्मनः । ब्रह्माज्ञया समायातौ तत इन्द्रपुरं प्रति ७३। भुक्तवंतौ सुखं तत्र दुर्ल्लभं यत्सुरैरपि । तावत्कालं स्थितौ राजन्भोक्तुं कृच्छ्रां वसुंधराम् ७४। पवित्रे भवतो वंशे जातावेतौ महायशौ । गङ्गायां त्यजतो देहं भूयो जन्म न विद्यते ७५। तथापि वसुधां भोक्तुं जातौ पुण्यतमाविमौ । चिरं भुक्त्वा महीं कृत्स्नां पुत्रपौत्रसमन्वितौ ७६। गङ्गामरणमासाद्य योगिनामपि दुर्ल्लभम् । नारायणस्य सायुज्यमिमौ भूप गमिष्यतः ७७। एतत्सर्वं मया प्रोक्तं पूर्व वृत्तांतमेतयोः । जातिस्मरप्रभावेन नृपवर्गशिरोमणी ७८। गङ्गामरणमासाद्य गतावेतौ दशामिमाम् । आवयोः कः परित्राणं करिष्यति दुरात्मनोः ७९। मित्रावज्ञा मनुष्याणां नरकक्लेशदायिनी । ममैव पृथिवीपाल दृष्टा केवलमेवतत् ८०। पित्रभक्तिर्द्विजश्रेष्ठ इहामुत्र च दुःखदा । इह संपद्विनाशाय परत्र नरकाय च ८१। वरं मन्ये महीपाल ब्रह्महत्यादि पातकम् । कदाचिन्निष्कृतिस्तस्मादियं भवति शाश्वती ८२। दुःखार्जितं पुण्यवृक्षं सर्वक्लेशविनाशनम् । पित्रवज्ञाकुठारेण च्छिंदंति भुवि मानवाः ८३। यत्किञ्चिद्दीयते राजन्पित्र्ये वक्त्रे परंतप । तदश्नाति स्वयं विष्णुः पितृरूपो हरिर्यतः ८४। प्रत्यक्षदेवौ पितरौ सेवंते येत्वहर्निशम् । सर्वसिद्धिर्भवेत्तेषां प्रसादाज्जगतीपतेः ८५। पितृभक्तिविहीना ये दिनं तिष्ठंति मानवाः । तावत्कल्पसहस्रं तु तिष्ठंति नरके जनाः ८६। तस्मादिदं महादुःखं बभूव मम सांप्रतम् । मोक्षं कदा गमिष्यामि सदारोऽहं न वेद्मि तत् ८७। व्यासउवाच- एतत्तस्य वचः श्रुत्वा प्रगृह्य द्विजसत्तम । बभूव हर्षितो राजा विस्मितश्च पुनः पुनः ८८। राजोवाच- आश्चर्यं हि वचो गृध्र श्रुतमेतन्मुखात्तव । मम चैषां च हृदये प्रतीतिर्न हि जायते ८९। अथांतरिक्षे वागुच्चैरिति जाता नृपोत्तम । सत्यं सत्यं सत्यमिदं संदेहोनात्र विद्यते ९०। ततः स पक्षी विप्रर्षे सहसा भार्यया सह । गङ्गा माहात्म्यकथनात्पूर्वस्थित इवाभवत् ९१। दिवि दुंदुभयो नेदुर्जगुर्गन्धर्वसत्तमाः । ननृतुश्चाप्सरोवर्गा ह्यपतत्पुष्पवर्षणम् ९२। विमानमागतं दिव्यं सर्वभोगसमन्वितम् । समायाता दूतगणाः प्रेषिताः कैटभद्विषा ९३। अथासौ सर्वगो विप्र प्रियया सह भार्यया । सद्यो विमानमारुह्य जगाम भवनं हरेः ९४। एतच्छ्रुत्वाद्भुतं कर्म स राजा द्विजसत्तम । सपुत्रदारः सेवायां गङ्गायास्तत्परोऽभवत् ९५। भागीरथ्या समं तीर्थं नास्ति वै भुवनत्रये । यन्नामोच्चारणादेव सर्वगो मोक्षमाप्नुयात् ९६। गङ्गाद्वारस्य माहात्म्यं कथितं ते द्विजोत्तम । समस्तपापविध्वंसि किमन्यच्छ्रोतुमिच्छसि ९७। अध्यायमेतत्परमादरेण पठंति ये देवगृहे मनुष्याः । शृण्वंति ये च द्विजवर्गभक्ता नश्यंति तेषां दुरितानि सद्यः ९८। इति श्रीपद्मपुराणे क्रियायोगसारे तृतीयोऽध्यायः ३ ।
jaiminiruvāca- kriyāyogasya tatvaṃ me brūhi vyāsa mahāmate | kriyāyogamahaṃ jñātumicchāmi bhavadagrataḥ 1| vyāsa uvāca- śarīraṃ mānuṣaṃ vipra durlabhaṃ cātra bhūtale | dhīraḥ śarīramāsādya mokṣārthaṃ yogamabhyaset 2| kriyāyogadhyānayogāvubhau yogau prakīrtitau | tayorādyaḥ kriyāyogaḥ kurvatāṃ sarvakāmadaḥ 3| gaṅgā śrīrviṣṇupūjā ca dānāni dvijasattama | brāhmaṇānāṃ tathā bhaktirbhaktirekādaśī vrate 4| dhātrī tulasyorbhaktiśca tathā cātithipūjanam | kriyāyogāṅgabhūtāni proktānīti samāsataḥ 5| kriyāyogādṛte vipra dhyānayogena siddhyati | kriyāyogarato yāti tadviṣṇoḥ paramaṃ padam 6| jaiminiruvāca- kriyāyogāṅgabhūtāni yāni proktāni bhoḥ prabho | tanmāhātmyāni kathaya yadi bho mayyanugrahaḥ 7| gaṅgāyāḥ ke guṇā brahmanviṣṇupūjāphalaṃ ca kim | śreṣṭhāni kāni dānāni kā vā bhaktirdvijanmanām 8| ekādaśyāḥ phalaṃ kiṃvā dhātrībhaktiśca kīdṛśī | tulasyāḥ kīdṛśī bhaktiḥ kiṃ vā cātithipūjanam 9| etatsarvaṃ mune brūhi śrotumasti mamādaraḥ | tvatto'nya kathituṃ ko'pi na śaknoti jagattraye 10| vyāsa uvāca- sādhusādhu dvijaśreṣṭha manaste vimalaṃ dhruvam | yato guhyakathāmetāṃ śrotuṃ śraddhā ca kautukam 11| bhāgīrathyā guṇaṃ samyakkathituṃ na hi śakyate | tasmātsamāsato vakṣye śrūyatāmekacetasā 12| gaṅgetyakṣarayugmaṃ ca japatyatyantakomalam | manye vrajettathāpyeno mahābhūtarasāyanam 13| sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā | gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame 14| savāsavāḥ surāḥ sarve gaṅgādvāraṃ manoramam | samāgatya prakurvanti snānadānādikaṃ mune 15| daivayogānmune tatra ye tyajaṃti kalevaram | manuṣya paśu kīṭādyā labhaṃte paramaṃ padam 16| atretihāsaṃ viprarṣe kathyamānaṃ mayā śuṇu | samyakchravaṇamātreṇa sarvapāpaiḥ pramucyate 17| manobhadro nāma rājā somavaṃśa samudbhavaḥ | pūrvamāsījjagatyasminbalavānsarvadharmmavit 18| tasya hemaprabhā nāma mahiṣī priyavādinī | pativratā mahābhāgā sarvalakṣaṇasaṃyutā 19| sa rājā samare hatvā sakalāneva śātravān | śaśāsa pṛthivīṃ kṛtsnāṃ sābdhidvīpāṃ mahābalaḥ 20| sa ekadā mahīpālaḥ samāhūya svamaṃtriṇaḥ | uvācedaṃ vacaḥ prītyā sabhāmadhye mahāyaśāḥ 21| manobhadra uvāca-| amātyāḥ pṛthivī sarvā mayeyaṃ paripālitā | nihatā ripavaḥ sarve saputrabalavāhanāḥ 22| pālitāni svagotrāṇi dānairviprāśca toṣitāḥ | śiṣṭāśca tridaśāḥ sarve saputrabalavāhanāḥ 23| pālitāni svagotrāṇi yajñaiḥ sarvaiḥ sadakṣiṇaiḥ | etaddhi jarayā sarvaṃ mahatyā me balaṃ hṛtam 24| karmāṇi kānicitkarttuṃ na hi śaknomi durbalaḥ | sāmarthyahīne puruṣe rājaśrīrna hi śobhate 25| sarvābharaṇasaṃyuktā vṛddhāṅgā iva kāminī | tāvadvibhyati sarve'pi śatravaḥ pṛthivītale 26| yāvaddhi gatasāmarthyaṃ necchanti cārucakṣuṣā | samastaguṇasampannāmapi tadgatamānasam 27| pṛthvī tyajennṛpaṃ vṛddhaṃ svairiṇīpālitā yathā | bhaktilabhyāguṇāḥ sarve guṇalabhyaṃ mahadyaśaḥ 28| niḥśreyasaṃ dānalabhyaṃ balalabhyā tu medinī | sāmarthyahīnaḥ kṛpaṇo niścito ripuśāsane 29| mūrkhamātravaco grāhī sa nṛpaḥ śatrunaṃdanaḥ | tato'haṃ sakalaṃ rājyaṃ vibhajya varamaṃtriṇaḥ 30| dātumicchāmi putrābhyāṃ yuṣmābhiryadi manyate | mantriṇa ūcuḥ - yadetadvacanaṃ proktaṃ tvayā nītividā nṛpa 31| tadeva matamasmākaṃ saṃdeho nātra vidyate | athāyātau nṛpādeśātsaṃsadaṃ prati sattamau 32| vīrabhadra yaśobhadra nāmānau tanayāvubhau | tau ca sarvaguṇopetau kumārau priyavādinau 33| pitṛbhaktau sadā śāṃtau balinau dharmatatparau | tataḥ sa bhūpaḥ sahasā rājanīti vidāṃvaraḥ 34| vibhajya sakalaṃ rājyaṃ dadau tābhyāṃ kutūhalāt | atrāṃtare gṛdhra ekaḥ svakīyastrī samanvitaḥ 35| āgatya tatsabhāmadhye upaviṣṭo dvijottamāḥ | tāvāgatau samālokya pakṣiṇāvatiharṣitau 36| rājāha yuvayoḥ kasmācchubhāgamanamucyatām | gṛdhra uvāca- gṛdhro'haṃ pṛthivīpāla mameyaṃ strī paraṃtapaḥ 37| āgato'smi mudā draṣṭuṃ saṃpadaṃ putrayostava | etayormahatī dṛṣṭā vipattiḥ pūrvajanmani 38| iha janmani saṃpattiṃ draṣṭumāvāṃ samāgatau | tasyaitadvacanaṃ śrutvā gṛdhrasya paramādbhutam | rājovāca punarvipra vismayāviṣṭamānasaḥ 39| rājovāca- atyadbhutaṃ vaco gṛdhra tvattaḥ śrutamidaṃ mayā | etayoḥ pūrvavṛttānto bhavatā jñāyate katham 40| yadi jānāsi tatvena pūrvavṛttāṃtametayoḥ | brūhi tarhi khagaśreṣṭha sarvametadaśeṣataḥ 41| gṛdhra uvāca- nṛpate vṛṣalāvetau yuge dvāparasaṃjñake | garasaṃgaranāmānau satyaghoṣasutau sthitau 42| ekakāle ca bhūpāla mṛtau nija gṛhāṃtare | tato netumimau bhūpa daṃṣṭriṇo yamakiṃkarāḥ 43| pāśahastāḥ samāyātāḥ koṭikoṭisahasraśaḥ | babaṃdhuścarmapāśena dvāvetau tau madoddhatau 44| ninyuśca nilayaṃ mṛtyoratidurgamavartmanā | imau dṛṣṭvā dharmarājaścitraguptamuvāca ha 45| etayoḥ sakalaṃ vṛttaṃ citragupta vicāryatām | tasyājñayā citraguptaḥ sarvakarmaśubhāśubham 46| mūlādvicārayāmāsa tata ityāha cāṃtakam | citragupta uvāca- satyametau mahābāho puṇyavrata mahāśayau 47| asticedduṣkṛtaṃ kiñcitsarvakarmavilokitam | svayaṃdānaṃ samutsṛjya na hi dattaṃ dvijātaye 48| tenaiva karmaṇā rājannimau narakagāminau | dātā dānaṃ samutsṛjya yo na dadyāddivajātaye 49| sa yāti narakaṃ ghoraṃ sarvabhūtabhayāvaham | dātā hi na smareddānaṃ pratigrāhī na yācate 50 7.3.50| ubhayornarake vāso yāvaccandra divākarau | tasmādimau mahāpāpau brahmasvāhāriṇau prabho 51| nayaṃtu kiṃkarāḥ śīghraṃ narakaṃ pratidāruṇam 52| yamājñayā tato dūtāḥ saṃdaṣṭauṣṭhapuṭāḥ krudhā | cikṣipurnarake ghore tāvetau pṛthivīpate 53| tasminneva dine rājannanayā bhāryayā saha | yamadūtaiḥ samāgatya nīto'haṃ yamamandiram 54| mayāpi tatkṛtaṃ karma tadākarṇaya bhūpate | mūlātsarvaṃ pravakṣyāmi śṛṇvatāṃ vismayapradam 55| purāsītsarvago nāma brāhmaṇo'haṃ mahākulaḥ | saurāṣṭradeśavāsī ca vedavedāṅgapāragaḥ 56| iyaṃ maṃjūkaṣā nāma mama patnī yaśasvinī | pativratā mahābhāgā pavitrakulasaṃbhavā 57| pramatto'haṃ mahābhāga vidyayā vayasādhanaiḥ | avajñāṃ manasā pitroścakārāhaṃ yuvaikadā 58| ahaṃ bhūri sabhāślāghyo vanasthaḥ sarvakarmakṛt | dhanavānsundaro jñānī jñātipoṣaṇatatparaḥ 59| mamaiva puṃsaḥ pitarau tau ca pāpaparāyaṇau | mukharau dayayāhīnau pākhaṃḍisaṅga lolupau 60| pauruṣaṃ jīvanaṃ caiva dhanaṃ caiva kulaṃ tathā | vidyā kīrtiśca sarvasvaṃ pitṛbhyāṃ viphalīkṛtam 61| etadvicintya manasā mayā nṛpa muhurmuhuḥ | avajñayā parityaktā pitroḥ sevā śubhapradā 62| anena karmaṇā rājansadāro'haṃ yamājñayā | vikṣipto narake dūtairyatratau pāpināṃvarau 63| etābhyāṃ saha pāpābhyāṃ sadāreṇa mayā nṛpa | sthitaṃ ca narake ghore yāvatkālaṃ śṛṇuṣva tat 64| yugakoṭisahasrāṇi yugakoṭiśatāni ca | anubhūtaṃ mahāduḥkhaṃ narakasya nṛpottama 65| narakāṃte tataḥ so'haṃ kāṃtayā saha bhūpate | gṛdhrapakṣakulejātau mṛtamāṃsāśanau tathā 66| etāvapi ca tau rājannarakāṃta gataiṣiṇau | jātau śalabhayorvaṃśe bhoktuṃ phalaṃ svakarmaṇaḥ 67| yadetābhyāṃ kṛtaṃ karmma rājañchalabhajanmani | tadākarṇaya vakṣyāmi śrotṝṇāṃ vismayapradam 68| ekadā sumahānvāyuḥ samāyāto mahīpate | uḍḍīya pātitau tena gaṅgāgarbhe sunirmale 69| nipatya gaṅgāsalile komalāṅgāvimau tathā | jagmatuḥ paṃcatāṃ sadyaḥ samastakaluṣāpaham 70| tato netumimau dūtā āyātāścārucakṣuṣaḥ | āyātāni vimānāni sarvabhogānvitāni ca 71| vimuktau sarvapāpebhyastulasī mālya śobhitau | divyaṃvimānamāruhya gatau viṣṇupuraṃ prati 72| tāvatkālaṃ sthitau rājanbrahmaṇo'vyaktajanmanaḥ | brahmājñayā samāyātau tata indrapuraṃ prati 73| bhuktavaṃtau sukhaṃ tatra durllabhaṃ yatsurairapi | tāvatkālaṃ sthitau rājanbhoktuṃ kṛcchrāṃ vasuṃdharām 74| pavitre bhavato vaṃśe jātāvetau mahāyaśau | gaṅgāyāṃ tyajato dehaṃ bhūyo janma na vidyate 75| tathāpi vasudhāṃ bhoktuṃ jātau puṇyatamāvimau | ciraṃ bhuktvā mahīṃ kṛtsnāṃ putrapautrasamanvitau 76| gaṅgāmaraṇamāsādya yogināmapi durllabham | nārāyaṇasya sāyujyamimau bhūpa gamiṣyataḥ 77| etatsarvaṃ mayā proktaṃ pūrva vṛttāṃtametayoḥ | jātismaraprabhāvena nṛpavargaśiromaṇī 78| gaṅgāmaraṇamāsādya gatāvetau daśāmimām | āvayoḥ kaḥ paritrāṇaṃ kariṣyati durātmanoḥ 79| mitrāvajñā manuṣyāṇāṃ narakakleśadāyinī | mamaiva pṛthivīpāla dṛṣṭā kevalamevatat 80| pitrabhaktirdvijaśreṣṭha ihāmutra ca duḥkhadā | iha saṃpadvināśāya paratra narakāya ca 81| varaṃ manye mahīpāla brahmahatyādi pātakam | kadācinniṣkṛtistasmādiyaṃ bhavati śāśvatī 82| duḥkhārjitaṃ puṇyavṛkṣaṃ sarvakleśavināśanam | pitravajñākuṭhāreṇa cchiṃdaṃti bhuvi mānavāḥ 83| yatkiñciddīyate rājanpitrye vaktre paraṃtapa | tadaśnāti svayaṃ viṣṇuḥ pitṛrūpo hariryataḥ 84| pratyakṣadevau pitarau sevaṃte yetvaharniśam | sarvasiddhirbhavetteṣāṃ prasādājjagatīpateḥ 85| pitṛbhaktivihīnā ye dinaṃ tiṣṭhaṃti mānavāḥ | tāvatkalpasahasraṃ tu tiṣṭhaṃti narake janāḥ 86| tasmādidaṃ mahāduḥkhaṃ babhūva mama sāṃpratam | mokṣaṃ kadā gamiṣyāmi sadāro'haṃ na vedmi tat 87| vyāsauvāca- etattasya vacaḥ śrutvā pragṛhya dvijasattama | babhūva harṣito rājā vismitaśca punaḥ punaḥ 88| rājovāca- āścaryaṃ hi vaco gṛdhra śrutametanmukhāttava | mama caiṣāṃ ca hṛdaye pratītirna hi jāyate 89| athāṃtarikṣe vāguccairiti jātā nṛpottama | satyaṃ satyaṃ satyamidaṃ saṃdehonātra vidyate 90| tataḥ sa pakṣī viprarṣe sahasā bhāryayā saha | gaṅgā māhātmyakathanātpūrvasthita ivābhavat 91| divi duṃdubhayo nedurjagurgandharvasattamāḥ | nanṛtuścāpsarovargā hyapatatpuṣpavarṣaṇam 92| vimānamāgataṃ divyaṃ sarvabhogasamanvitam | samāyātā dūtagaṇāḥ preṣitāḥ kaiṭabhadviṣā 93| athāsau sarvago vipra priyayā saha bhāryayā | sadyo vimānamāruhya jagāma bhavanaṃ hareḥ 94| etacchrutvādbhutaṃ karma sa rājā dvijasattama | saputradāraḥ sevāyāṃ gaṅgāyāstatparo'bhavat 95| bhāgīrathyā samaṃ tīrthaṃ nāsti vai bhuvanatraye | yannāmoccāraṇādeva sarvago mokṣamāpnuyāt 96| gaṅgādvārasya māhātmyaṃ kathitaṃ te dvijottama | samastapāpavidhvaṃsi kimanyacchrotumicchasi 97| adhyāyametatparamādareṇa paṭhaṃti ye devagṛhe manuṣyāḥ | śṛṇvaṃti ye ca dvijavargabhaktā naśyaṃti teṣāṃ duritāni sadyaḥ 98| iti śrīpadmapurāṇe kriyāyogasāre tṛtīyo'dhyāyaḥ 3 |
English translation
Jaimini said :
1. O very intelligent Vyāsa , tell me the truth about the yoga of devout deeds. From you I desire to know this yoga of devout deeds.
Vyiāa said :
2-6. It is difficult to obtain the human body (i.e. existence) on this earth, O brāhmaṇa . A wise man, after having got a body, should practise yoga for salvation. There are said to be two kinds of yoga: of acts and of meditation. The first of the two viz. that of acts, gives all desired objects to those who practise it. Worship of Gaṅgā , of Śrī Viṣṇu , (giving) presents, so also devotion to brāhmaṇas and to the Ekādaśī -vow, similarly devotion to Dhātrī and Tulasī and honouring guests are in brief said to be the constituents of the yoga of acts, O best brāhmaṇa. O brāhmaṇa, without the yoga of acts the yoga of meditation does not succeed. One engaged in the yoga of acts goes to the highest position of Viṣṇu.
Jaimini said :
7-10. O lord, tell me the importance of those which are the constituents of the yoga of acts, if you favour me. What are the virtues of Gaṅgā? O brāhmaṇa, what is the fruit of Viṣṇu-worship? Which are the best presents? What is the devotion to the brāhmaṇas? What is the fruit of the Ekādasī-vow? What kind of devotion is devotion to Dhātrī? What kind of devotion is Tulasī-devotion? What is honouring a guest? O sage, tell all this to me. I have got eagerness to hear all this. In the three worlds none else but you are able to tell it.
Vyāsa said :
11-16. Well, well, O best brāhmaṇa, your mind is certainly pure, since you have a strong desire and curiosity to hear this secret account. It is not possible to narrate thoroughly the merit of Bhāgīrathī . Therefore, I shall tell you in brief. Listen with an attentive mind. When one mutters the very soft couple of letters ‘Gaṅgā’, I think his sin would go away. It gratifies great beings. Gaṅgā is easily accessible everywhere. It is not easily accessible at (these) three places: Gaṅgādvāra , Prayāga , and at the place where Gaṅgā joins the ocean. O sage, all gods including Indra , come to the charming Gaṅgādvāra, and bathe there, offer presents etc. O sage, those human beings, animals, insects etc. that accidentally die there, obtain the highest position.
17-21. O brāhmaṇa, listen to a historical account about this, being told by me. By properly listening to it (a man) gets freed from all sins. Formerly in this world there was a powerful king named Manobhadra, who knew the entire prescribed course of conduct and who was born in the family of Soma . His queen was Hemaprabhā who was a loyal wife, who spoke pleasing words, who was very fortunate, and who was endowed with all (auspicious) marks. The very powerful king, having killed in battle one and all of his enemies, ruled over the entire -earth along with the oceans and islands. That very glorious king once called all his ministers and in the assembly spoke (to them) these words with affection:
Manobhadra said :
22-25. O ministers, I have protected this entire earth. All enemies, with their sons, army and elephants have been killed by me. I looked after members of my family by means of all sacrifices with the accompaniment of presents (to brāhmaṇas). (But now) this power of me has been taken away by (this) mighty old age. I, being weak, am unable to perform certain acts. Royal glory like a lovely but an old woman, full of all ornaments, does not look splendid with a powerless person. As long as women of charming eyes do not desire a king to lose his power, all his enemies on the earth are afraid of him.
26-3la. The earth would abandon an old king, though he is endowed with all virtues, and though he has set his heart upon her, as a wanton lady (though) looked after (by a man leaves him). All virtues are obtained by means of devotion. Great glory is obtained through virtues. Bliss is obtainable through (giving) gifts. The Earth is obtainable through might. A man without might is helpless, and is not firm in taming his enemy. A king who accepts the words of a fool only, delights his enemies. Therefore, O excellent ministers, I, dividing my entire kingdom, desire to give it to my two sons, if you agree.
The ministers said :
31b-36. We agree to these words expressed by you, the wise one, O king. There is no doubt about it.
Then, by the king’s order, his two young sons named Vīrabhadra and Yaśobhadra , who were the best, endowed with virtues, spoke pleasing words, were devoted to their father, always calm, strong, eagerly engaged in piety, came to the assembly. Then the king, the best among those who knew politics, suddenly divided his kingdom and gave it to them through curiosity. In the meanwhile, O best brāhmaṇas, a vulture along with his mate came there and sat in the assembly. Seeing the two (princes) to have come, the two birds were very much delighted.
37a. The king said: “Tell (me), what is your auspicious arrival due to?”
The vulture said :
37b-39. O king, O conqueror, I am a vulture. I have gladly come to see the prosperity of your sons. These two have seen (i.e. faced) a great calamity in their former birth. To see their prosperity in this birth we have come (here).
Hearing the very wonderful words of the vulture, the king, with his mind full of wonder spoke again, O brāhmaṇa.
The king said :
40-41. O vulture, I have heard these very wonderful words from you. How do you know the former account of these two? O best among birds, if you know the former account of these two, then tell it in full.
The vulture said :
42-45. O king, in the age called Dvāpara these two were cāṇḍālas . They were the sons of Satyaghoṣa, and their names were Gara and Saṅgara. O king, once they died in their house. To take them from there Yama ’s servants with large teeth, having nooses in their hands and numbering thousands of crores came there and fastened these two, inflated with pride, with leather-nooses. And they took them to Yama’s abode along a path very difficult to tread upon. Seeing these two, Yama said to Citragupta :
46-47a. “O Citragupta, take into account the entire conduct of these two.” By his order Citragupta considered their auspicious and inauspicious acts from the beginning and said to Yama:
Citragupta said :
47b-51. These two large-armed ones, are really (men) of meritorious vows and a great heart. If there is any bad act seen among all acts, it is not giving a present to a brāhmaṇa, after picking it on their own. O king, due to that act only, these two went to hell. The giver who after picking a gift does not give it to a brāhmaṇa, goes to a fierce hell causing fear to all beings. The giver would not remember the gift; the receiver does not ask for it. Both live in hell as long as the moon and the sun are (in the sky). Therefore, O lord, these two, snatching the wealth of a brāhmaṇa, are great sinners.
52. Let the servants quickly take them to a fierce hell.
53-58. O lord of the earth, then the messengers, with their lips bitten due to anger, threw these two into a fierce hell. O king, on the same day Yama’s servants coming to me took me along with my spouse to Yama’s abode. O king, listen to the act which I also had done. I shall tell it from the beginning. It causes amazement to the listeners. Formerly I was a brāhmaṇa named Sarvaga , belonging to a great family, living in the Saurāṣṭra country, and master of the Vedas and the Vedāṅgas . This my glorious, loyal, very fortunate wife named Mañjukaṣā, was born in a pure family. I was mad due to learning, age and means, O glorious one. I, a youth, once mentally disrespected my parents. (I thought:)
59-63. ‘I am worthy of being praised in the assembly of many. I am a hermit. I perform all (good) acts. I am wealthy. I am handsome. I am wise. I am engaged in feeding my relatives. But the parents of just a man like me are attached to sinful acts. They are talkative. They are cruel, and strongly desire the company of heretics. My parents have rendered fruitless valour, life, wealth, so also the family, knowledge, fame and all (my) possessions.’ O king, repeatedly thinking like this in my mind, I, through disrespect, gave up service to parents, which gives auspicious (results). Due to this act, O king, I was thrown by (Yama’s) messengers, by Yama’s order, into the hell where the two great sinners (lived).
64-67. O king, listen how long I, along with my wife, lived in this fierce hell with these two sinners. O best king, I experienced the great misery of hell for thousands of crores of yugas and hundreds of crores of yugas. Then, O king, my wife and I were born in the family of vultures, eating the flesh of dead bodies. These two, O king, who desired to put an end to (their stay in) hell, were born in the family of locusts to experience the fruit of their deeds.
68-77. O king, listen to the deeds these two did in their existence as locusts. I shall tell them, which would amaze the listeners. O king, once a very mighty wind blew. It made the two fly up and dropped them into the very spotless interior of Gaṅgā. These two, of delicate bodies, having fallen into the water of Gaṅgā, instantly met with death removing all sins. Then messengers of charming eyes came to take them. So also aeroplanes endowed with all enjoyments came (there). These two, freed from all sins, and adorned with Tulasī and flowers, got into a divine-aeroplane, and went to Viṣṇu’s city. O king, they remained there till Brahmā ’s existence was manifested. Then by Brahmā’s order they came to Indra’s city. There they enjoyed pleasures difficult to be obtained even by gods. O king, they remained there till the time the very glorious ones were born in your family to enjoy the entire earth. For him who casts his body into Gaṅgā, there is no rebirth. Yet these two, very meritorious ones, were born to enjoy the earth. O king, these two, along with their sons and grandsons, will enjoy the earth for a long time, will meet with, death in Gaṅgā, which is difficult to be had even by the meditating saints, and will be absorbed into Viṣṇu.
78-79. Due to my power of recollecting the former existences, I have told you all this former account. These two crest-jewels of the class of kings, have reached this state after having met with death in Gaṅgā. Who will protect the two of us, the wicked ones.
80-87. Disrespect for friends gives men the affliction (to be suffered) in hell. O king, it was seen just in my case. O best brāhmaṇa, absence of devotion to parents gives pain in this world and in the next. In this world it leads to the destruction of wealth and in the next world (i.e. after death) it leads to hell. O king, I think the sin like a brāhmaṇa’s murder is better. There is at sometime acquittance from it. But this (misery) is eternal. On the earth men cut off, with the axe of disrespect for their parents, the tree of religious merit, destroying all afictions, and secured with great trouble. O king, Viṣṇu himself eats whatever is presented into the mouth of the father (and mother), since, O hero, Viṣṇu is of the form of the father (and mother). Parents are actually deities. Those who serve them day and night, have all fulfilments due to the grace of the lord of the world. Those men who remain (even) for a day without serving their parents live for a thousand kalpas in hell. Therefore, this great misery has come to me now. I do not know when I, along with my wife, go to (i.e. obtain) salvation.
Vyāsa said :
88. Having heard these words of him, and having grasped them, O best brāhmaṇa, the king became delighted and being amazed, spoke again:
The king said :
89-94. O vulture, I have heard these wonderful words from your mouth. But I and these (ministers) do not properly apprehend them.
Then, O best king (?) there was heard a loud voice in the sky: “This is true, true, true. There is no doubt about it.” Then, O brāhmaṇa sage, the bird, along with his wife, became as he was before the narration of the greatness of Gaṅgā. Drums were sounded. Best gandharvas sang. Hosts of celestial nymphs danced. Shower(s) of flowers dropped down. A divine aeroplane, endowed with all enjoyments, arrived. The hosts of messengers, sent by (Viṣṇu) the enemy of Kaiṭabha , (also) came (there). Then (the bird) moving everywhere, along with his dear wife forthwith got into the aeroplane and went to Viṣṇu’s abode.
95-96. O best brāhmaṇa, the king, having heard about the wonderful act, became, along with his sons and wife, exclusively devoted to the worship of Gaṅgā. In the three worlds there is no holy place like Gaṅgā, by merely uttering the name of which (one) moving everywhere would obtain salvation.
97-98. O best brāhmaṇa, I have narrated to you the greatness of Gaṅgādvāra, which destroys all sins. What else do you desire to hear? The sins of those men who listen to this chapter with great respect in a temple, and of those devotees of the class of brāhmaṇas, who listen to it, perish suddenly.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 14767, revision 336751 (2022-04-27T03:27:25Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365844.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.