Sṛṣṭi-khaṇḍa · Chapter 75
Sourceव्यास उवाच-। श्रुत्वा महेश्वराद्वाक्यं देवाः शक्रपुरोगमाः। दुद्रुवुर्दैत्यसंघांस्तान्सर्वे सर्वान्समंततः१। आजगाम महाबाहुः कुंभो नाम महासुरः। नैर्ऋतो यक्षराजानं गदया चाहनद्भृशम्२। गुह्यकेशो गदापातैर्जघान भृशमुत्तमम्। ततोन्योन्यं गदायुद्धमभवद्भीषणं तयोः३। चक्रबंधं महाबंधं पुरोवध्यनिबंधनम्। प्राचुरं भीषणं यानं स्फोटतैलाभिवास्तिकम्४। तेन कृत्वा महायुद्धमवसाने धनेश्वरः। पातयामास तं स्फोटं तस्य कुंभस्य चोरसि५। भग्नदंष्ट्रस्ततः कुंभो निपपात महीतले। स्यंदनस्थो महावीर्यो जंभो हरिहयं तदा६। जघानशरसंघैश्च तथैवैरावणं भृशम्। वासवो भिदुरेणैव संबिभेदासुरोत्तमम्७। स पपात धरापृष्ठे गतासुर्लोहितोक्षितः। तथारण्यं सुघोरं च अघोरं घोरमेव च८। चतुरो गणमुख्यांश्च शक्त्या बिभेद संयुगे। सेनान्यश्चैव प्रत्येकं पातयामास लाघवात्९। सौरभं शरसंघैश्च जयंतो वशमानयत्। शक्तिहस्तं च संह्रादं यमदंडं नरांतकम्१०। हत्वा च पातयामास स भस्मीकृतविग्रहः। कालश्च खड्गपातेन पातयामास बाभ्रवम्११। शक्त्या मृत्युर्बिभेदाश्वं तथा निर्घृणकं रणे। अग्निना दह्यमानाश्च सप्तैते च महाबलाः१२। भद्रबाहुर्महाबाहुः सुगंधो गंध एव च। भौरिको वल्लिको भीम एते सेनाग्रगामिनः१३। रणे संदग्धदेहाश्च पेतुरुर्व्यां गतासवः। पाशबद्धा महावीर्या वरुणस्य महात्मनः१४। पेतुरुर्व्यां महासत्वाः शूराः शूरभयानकाः। शूरस्य रश्मिजालेन निहताः पञ्चदानवाः१५। तुरुतुंबुरुदुर्मेधस्साधका साधकाभिधाः। क्रूर क्रौंच रणेशान मोदसंमोद षण्मुखाः१६। शरैर्निपातिता दैत्याः संयुगे मातरिश्वना। नैर्ऋतो गदया भीमं पातयामास भूतले१७। शूलपातैश्च रुद्राणां शतशो दैत्यदानवाः। निपेतुः संयुगे भीताः संमुखा रणपंडिताः१८। वसूनां शरपातैश्च शूराणां रश्मिमालिनाम्। मेघानां करकाभिश्च वज्रपातैस्सुदारुणैः१९। निपातिता रणे दैत्याः शतशो बलशालिनः। कुबेरस्य गदापातैर्निपतंति सहस्रशः२०। शक्रस्य भिदुरेणैव भेदिता दैत्यपुंगवाः। असंख्याताः पतंत्युर्व्यां स्कंदशक्त्या तथा हताः२१। गणेशपर्शुपातेन पतंति मुख्यमुख्यकाः। वैकुंठकरमुक्तेन चक्रेण तीव्रकर्मणा२२। दैत्यानां प्रवराणां च शिरांसि निपतंति कौ। शमनो यमदंडेन कोटिकोटिसहस्रशः२३। अपातयत्तदा भूम्यां कालः खड्गेन दानवान्। मृत्युश्शक्त्या तथा दैत्यान्पाशी पाशेन चापरान्२४। पातेन तक्षकादीनां सुधांशोः शिशिरेण च। अश्वारोही खरोमन्योहनिपाशस्तथा गजान्२५। परिघेण गजं कुंभे दैत्यानां नाशयत्ततः। एवमश्वान्गजांश्चैव लाघवात्स न्यपातयत्२६। एवं सिद्धैश्च गंधर्वैरप्सरोभिर्महाबलैः। अन्याभिर्देवताभिश्च समातृगणनायकैः२७। निपातिता महोघोरा ये ते प्रलयदानवाः। शरैश्च खड्गपातैश्च शूलशक्तिपरश्वधैः२८। यष्टिपरिघकुंतैश्च पातयंत्यसुरान्सुराः। एवं संक्षीयमाणेषु दैत्यराट्समपद्यत२९। आदित्यरथसंकाशं रथरत्नविभूषितम्। शातकुंभमयं दिव्यं घंटाचामरभूषितम्३०। पताकाध्वजसंपूर्णं रम्यं शक्ररथोपमम्। समारुह्य महावीरो हिरण्याक्षोऽसुराधिपः३१। जघान शरजालैश्च दुर्निवार्यः सुरासुरैः। ससैन्यानि गजान्वीरो रथांश्च सह सैंधवान्३२। पातयामास भूमौ च शतशोथ सहस्रशः। एवं चरन्स वृंदेषु निखिलेषु दिवौकसाम्३३। पातयामास दैत्येंद्रः शरौघान्मृत्युसन्निभान्। क्रमेण समरे चाथ देवसैन्यान्यमंथत३४। यथा पुष्करिणीवृंदे गजः कंजवनं शितैः। शरपातैरथो वेगात्सिंहनादैः पुनः पुनः३५। धरण्यां पतिता वेगात्तदा दैत्येश्वरस्य च। दशभिश्च सुतीक्ष्णाग्रैर्जयंतं स जघान ह३६। रेमंतं पंचभिर्बाणैः शक्रं पंचदशेन तु। चित्ररथं विंशतिभिःपंचविंशतिभिर्गुहम्३७। हेरंबं त्रिशरेणैव चत्वारिंशच्छरैर्यमम्। तथैव कालं मृत्युं च पाणिना द्विगुणेन च३८। गुह्यकेशं जगत्प्राणं दशभिर्दशभिः शरैः। षडिभश्च सप्तभिश्चैव रुद्रान्सर्वान्पृथक्पृथक्३९। वसून्सर्वांश्च सशरैः सिद्धगंधर्वपन्नगान्। दशाष्टदशभिः षडिभर्युद्धे देवान्भिनत्त्यसौ४०। ओजौघादतिवीर्यात्तु शीघ्रलाघवर्दशनान्। आपत्प्राप्ताः सुरा भीत्या प्रतिकर्तुं न चेश्वराः४१। महेशशूलसंकाशैः शरैर्मर्मविभेदिभिः। ताडिता निर्जरा युद्धे मूर्च्छिता धरणीं ययुः४२। तस्यैव संमुखे स्थातुं न शेकुः प्रवरास्सुराः। ततो देवा विनिर्धूतास्त्रिदिवेशेन संयुताः४३। शरण्यं ते हरिं तत्र शरणं ताडिता ययुः। एतस्मिन्नंतरे विष्णुः प्राह जिष्णुं खगेश्वरम्४४। अधुना गच्छ दैत्यस्य संमुखं रणमूर्धनि। नाशाय सततस्तूर्णं गतस्तस्यांतिकं जवात्४५। सरथं मार्गणैर्भित्वा विष्णुमारोधयज्जवम्। रथस्य संमुखे दैत्य उवाच विष्णुमव्ययम्४६। अन्य सृष्टिं करोम्यद्य हत्वा त्वां च सनिर्ज्जरम्। ततो विष्णुरुवाचेदं गर्जंतं दैत्यपुंगवम्४७। शक्तस्त्वं स्पर्द्धने पाप यदि युद्धे स्थिरो भव। ततः शरशतैरेव जघान विष्णुमव्ययम्४८। असंभ्रांतः स चिच्छेद यमदंडनिभान्शरान्। पुनः शरसहस्राणि प्रेरयामास तं रणे४९। तांश्च छित्वा शरैः शौरिस्तं च विव्याध मार्गणैः। प्रगौरवादहार्याभैः संस्पर्शाद्बाडवानलैः५०। शरैश्च भेदकैस्तीक्ष्णैः खगमैश्च मनोजवैः। लाघवात्केशवास्त्रस्य तूलशुष्कतृणोपमैः५१। हैमैः शरसहस्रैस्तु ताडितो दैत्यपुंगवः। बाधयाभ्यर्दितः क्रुद्धो धृत्वा शिखरिणं रणे५२। जघान माधवं वेगाद्धिरण्याक्षो महाबलः। तं च संचूर्णयामास गदया लीलया हरिः५३। एवं पर्वतसाहस्रं पातितं तु क्रमेण हि। तथैव लाघवाच्चूर्णं हरिणा दानवारिणा५४। पुनर्बाहुसहस्राणि कृत्वासौ दानवोत्तमः। शरैः शक्तिभिरत्युग्रैः शूलैः परशुकादिभिः५५। ववर्ष बहुभिर्विष्णुं क्रोधाविष्टेन चेतसा। तांस्तु तेनैव प्रहितांश्चिच्छेद सुरसत्तमः५६। शरैर्दीप्तैर्महाघोरैरसुराणां भयंकरैः। विव्याध सर्वगात्रेषु शंभुशूलोपमैश्शरैः५७। दानवाधिपतिः संख्ये ह्यव्ययो हरिरीश्वरः। स च कश्मलतां गत्वा सर्वशक्तिमनुत्तमाम्५८। कालजिह्वोपमां घोरामष्टघंटासमन्विताम्। हरेरुरसि पीने च विद्रुत्या पातयद्द्रुतम्५९। शुशुभे स सुरश्रेष्ठस्तडित्त्वत्सान्द्रमेघवत्। ततश्च चुक्रुशुर्दैत्या जयेति साधुवादिनः६०। ततश्चक्रं दैत्यसैन्ये दानवारिर्व्यसर्जयत्। तेषां शिरांसि संच्छिद्य माधवं पुनरागमत्६१। स दैत्यं शक्तिपातेन पातयामास वै रणे। चिरात्संज्ञां समालंब्य वह्निबाणेन केशवम्६२। निजघान रणे क्रुद्धो हरिः कौबेरमाक्षिपत्। ततो मुमोच मायास्त्रं चासुरं चातिदारुणम्६३। सिंहव्याघ्रलुलायांश्च तद्वद्द्विप सरीसृपान्। जघान समरे विष्णुं हिरण्याक्षः प्रतापवान्६४। ततो मायास्त्रसंभूतान्शस्त्रास्त्रौघान्रणे हरिः। प्रचिच्छेद शरैरेव शूलेनैवमताडयत्६५। स विह्वलित सर्वांगस्तत्क्षणं लोहितोक्षितः। विचकर्ष हरन्विष्णुरसृग्विप्लुतविग्रहः६६। तच्छूलं च त्रिभिर्बाणैः प्रविव्याध सुराधिपः। वरूथं सध्वजं केतुं रथं चैवातपत्रकम्६७। यंतारं च प्रचिच्छेद दशभिश्च हरिः शरैः। पातिते च रथे दैत्यः संप्लुत्याथ रथं परम्६८। आरुरोह स दैत्येंद्रः संमुखं चाकरोद्बली। ततो युद्धं महाघोरमभवल्लोमहर्षणम्६९। हिरण्याक्षस्य च हरेर्लोकविस्मापनं महत्। अस्त्रयुद्धं तथान्योन्यं कृतप्रतिकृतं च तत्७०। ततो नियुद्धे सततं दिव्यवर्षशतं गतम्। ततो दैत्यो महासत्वो ववृधे वामनो यथा७१। मुखेन जग्राह रुषा त्रैलोक्यं सचराचरम्। भूमंडलं समुद्धृत्य विवेश च रसातलम्७२। शेषाश्च विविशुर्दैत्यास्तमनु प्रीतिसंयुताः। ततो विष्णुर्महातेजा ज्ञात्वा दैत्यबलं महत्७३। दधार रूपं वाराहं दैत्यराजजिघांसया। धृत्वा क्रोडतनुं विष्णुर्विवेश तमनुद्रुतम्७४। तत्र गत्वा रसामूले रसातलगतां महीम्। दृष्ट्वा स्वदंष्ट्रयोर्दध्रे लोकाधारां वसुंधराम्७५। तां धृत्वा गच्छतस्तस्य विष्णोरमिततेजसः। समाजगाम दैत्येंद्रो धृष्टं वाग्भिस्तुदन्ननु७६। मायाक्रोडतनुर्विष्णुर्दुर्वचांसि सहन्रुषा। जलोपरि दधारेमां धरां भूधर एव च७७। तस्यां न्यस्य स्वसत्वं च स चकार तदाचलाम्। ततः पश्चात्स संलग्नो दैत्यराट्समुपस्थितः७८। क्रोधेन महताविष्टो जघान गदया हरिम्। मायया सूकरो विष्णुस्तां गदां समवंचयत्७९। योगयुक्तो यथा मृत्युं कौमोदक्याहनच्च तम्। ततः पुना रुषाविष्टो हिरण्याक्षो महाबलः८०। मुष्टिना प्राहरद्देवं दक्षिणे तु भुजे प्रभोः। एवं युद्धं महाघोरं सव्यासव्यं गतागतम्८१। परिभ्रमणविक्षेपं कृतानुकरणं तथा। ततो ब्रह्मादयो देवा युद्धं पश्यंति खे स्थिताः८२। स्वस्ति प्रजाभ्यो देवेभ्य ऋषिभ्यश्चेति चाब्रुवन्। ऊचुश्च देवदेवेशं विष्णुं वाराहरूपिणम्८३। मा क्रीड बालवद्देव जह्यमुं देवकंटकम्। ततो विष्णुर्महातेजा मायावाराहरूपधृत्८४। ब्रह्माद्यनुमतिं प्राप्य चक्रं प्राक्षिपदुल्बणम्। सहस्रसूर्यसंकाशं सहस्रारं महाप्रभम्८५। दैत्यांतकरणं रौद्रं प्रलयाग्निसमप्रभम्। तच्चक्रं विष्णुना मुक्तं हिरण्याक्षं महाबलम्८६। चकार भस्मसात्सद्यो ब्रह्मादीनां च पश्यताम्। दैत्यांतकरणं रौद्रं चक्रं चागमदच्युतम्८७। ततो ब्रह्मादयो देवाः शक्रमुख्याश्च लोकपाः। दृष्ट्वा च विजयं विष्णोः स्तुवंति स्म समागताः८८। देवा ऊचुः-। नताः स्म विष्णुं जगदादिभूतं सुरासुरेंद्रं जगतां प्रपालकम्। यन्नाभिपद्मात्किल पद्मयोनिर्बभूव तं वै शरणं गताः स्मः८९। नमोनमो मत्स्यवपुर्द्धराय नमोस्तु ते कच्छपरूपधारिणे। नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः९०। नमोस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने। प्रलंबहंत्रे शितिवाससे नमो नमोस्तु बुद्धाय च दैत्यमोहिने९१। म्लेच्छांतकायापि च कल्किनाम्ने नमः पुनः क्रोडवपुर्धराय। जगद्धितार्थं च युगेयुगे भवान्बिभर्ति रूपं त्वसुराभवाय९२। निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः। यश्चेंद्रमुख्यान्किललोकपालान्संहेलया चैव तिरश्चकार९३। स वै त्वया देवहितार्थमेव निपातितो देववर प्रसीद। त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव९४। पाता त्वमेवास्य युगेयुगे च रूपाणि धत्से सुमनोहराणि। त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चांतकाले९५। अतो भवानेव च विश्वकारणं न ते परं जीवमजीवमीश। यत्किंच भूतं च भविष्यरूपं प्रवर्त्तमानं च तथैव रूपम्९६। सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृते च किंचित्। अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्स्वरूपम्९७। ततो भवंतं कतमोपि देव न ज्ञातुमर्हत्यविपक्वबुद्धिः। ऋते भवत्पादपरायणं जनं तेनागता स्मश्शरणं शरण्यम्९८। व्यास उवाच-। ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः। तुष्टोस्मि देवा भद्रं वो युष्मत्स्तोत्रेण सांप्रतम्९९। य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादरात्। न तस्य दुर्लभं देवास्त्रिषुलोकेषु किंचन१००। गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्। तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः१०१। सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम्। अतः परं महाज्ञानं न भूतं न भविष्यति१०२। इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे देवासुरसंग्रामसमाप्तौ विजयस्तोत्रंनाम पंचसप्ततितमोऽध्यायः७५।
vyāsa uvāca-| śrutvā maheśvarādvākyaṃ devāḥ śakrapurogamāḥ| dudruvurdaityasaṃghāṃstānsarve sarvānsamaṃtataḥ1| ājagāma mahābāhuḥ kuṃbho nāma mahāsuraḥ| nairṛto yakṣarājānaṃ gadayā cāhanadbhṛśam2| guhyakeśo gadāpātairjaghāna bhṛśamuttamam| tatonyonyaṃ gadāyuddhamabhavadbhīṣaṇaṃ tayoḥ3| cakrabaṃdhaṃ mahābaṃdhaṃ purovadhyanibaṃdhanam| prācuraṃ bhīṣaṇaṃ yānaṃ sphoṭatailābhivāstikam4| tena kṛtvā mahāyuddhamavasāne dhaneśvaraḥ| pātayāmāsa taṃ sphoṭaṃ tasya kuṃbhasya corasi5| bhagnadaṃṣṭrastataḥ kuṃbho nipapāta mahītale| syaṃdanastho mahāvīryo jaṃbho harihayaṃ tadā6| jaghānaśarasaṃghaiśca tathaivairāvaṇaṃ bhṛśam| vāsavo bhidureṇaiva saṃbibhedāsurottamam7| sa papāta dharāpṛṣṭhe gatāsurlohitokṣitaḥ| tathāraṇyaṃ sughoraṃ ca aghoraṃ ghorameva ca8| caturo gaṇamukhyāṃśca śaktyā bibheda saṃyuge| senānyaścaiva pratyekaṃ pātayāmāsa lāghavāt9| saurabhaṃ śarasaṃghaiśca jayaṃto vaśamānayat| śaktihastaṃ ca saṃhrādaṃ yamadaṃḍaṃ narāṃtakam10| hatvā ca pātayāmāsa sa bhasmīkṛtavigrahaḥ| kālaśca khaḍgapātena pātayāmāsa bābhravam11| śaktyā mṛtyurbibhedāśvaṃ tathā nirghṛṇakaṃ raṇe| agninā dahyamānāśca saptaite ca mahābalāḥ12| bhadrabāhurmahābāhuḥ sugaṃdho gaṃdha eva ca| bhauriko valliko bhīma ete senāgragāminaḥ13| raṇe saṃdagdhadehāśca petururvyāṃ gatāsavaḥ| pāśabaddhā mahāvīryā varuṇasya mahātmanaḥ14| petururvyāṃ mahāsatvāḥ śūrāḥ śūrabhayānakāḥ| śūrasya raśmijālena nihatāḥ pañcadānavāḥ15| turutuṃburudurmedhassādhakā sādhakābhidhāḥ| krūra krauṃca raṇeśāna modasaṃmoda ṣaṇmukhāḥ16| śarairnipātitā daityāḥ saṃyuge mātariśvanā| nairṛto gadayā bhīmaṃ pātayāmāsa bhūtale17| śūlapātaiśca rudrāṇāṃ śataśo daityadānavāḥ| nipetuḥ saṃyuge bhītāḥ saṃmukhā raṇapaṃḍitāḥ18| vasūnāṃ śarapātaiśca śūrāṇāṃ raśmimālinām| meghānāṃ karakābhiśca vajrapātaissudāruṇaiḥ19| nipātitā raṇe daityāḥ śataśo balaśālinaḥ| kuberasya gadāpātairnipataṃti sahasraśaḥ20| śakrasya bhidureṇaiva bheditā daityapuṃgavāḥ| asaṃkhyātāḥ pataṃtyurvyāṃ skaṃdaśaktyā tathā hatāḥ21| gaṇeśaparśupātena pataṃti mukhyamukhyakāḥ| vaikuṃṭhakaramuktena cakreṇa tīvrakarmaṇā22| daityānāṃ pravarāṇāṃ ca śirāṃsi nipataṃti kau| śamano yamadaṃḍena koṭikoṭisahasraśaḥ23| apātayattadā bhūmyāṃ kālaḥ khaḍgena dānavān| mṛtyuśśaktyā tathā daityānpāśī pāśena cāparān24| pātena takṣakādīnāṃ sudhāṃśoḥ śiśireṇa ca| aśvārohī kharomanyohanipāśastathā gajān25| parigheṇa gajaṃ kuṃbhe daityānāṃ nāśayattataḥ| evamaśvāngajāṃścaiva lāghavātsa nyapātayat26| evaṃ siddhaiśca gaṃdharvairapsarobhirmahābalaiḥ| anyābhirdevatābhiśca samātṛgaṇanāyakaiḥ27| nipātitā mahoghorā ye te pralayadānavāḥ| śaraiśca khaḍgapātaiśca śūlaśaktiparaśvadhaiḥ28| yaṣṭiparighakuṃtaiśca pātayaṃtyasurānsurāḥ| evaṃ saṃkṣīyamāṇeṣu daityarāṭsamapadyata29| ādityarathasaṃkāśaṃ ratharatnavibhūṣitam| śātakuṃbhamayaṃ divyaṃ ghaṃṭācāmarabhūṣitam30| patākādhvajasaṃpūrṇaṃ ramyaṃ śakrarathopamam| samāruhya mahāvīro hiraṇyākṣo'surādhipaḥ31| jaghāna śarajālaiśca durnivāryaḥ surāsuraiḥ| sasainyāni gajānvīro rathāṃśca saha saiṃdhavān32| pātayāmāsa bhūmau ca śataśotha sahasraśaḥ| evaṃ caransa vṛṃdeṣu nikhileṣu divaukasām33| pātayāmāsa daityeṃdraḥ śaraughānmṛtyusannibhān| krameṇa samare cātha devasainyānyamaṃthata34| yathā puṣkariṇīvṛṃde gajaḥ kaṃjavanaṃ śitaiḥ| śarapātairatho vegātsiṃhanādaiḥ punaḥ punaḥ35| dharaṇyāṃ patitā vegāttadā daityeśvarasya ca| daśabhiśca sutīkṣṇāgrairjayaṃtaṃ sa jaghāna ha36| remaṃtaṃ paṃcabhirbāṇaiḥ śakraṃ paṃcadaśena tu| citrarathaṃ viṃśatibhiḥpaṃcaviṃśatibhirguham37| heraṃbaṃ triśareṇaiva catvāriṃśaccharairyamam| tathaiva kālaṃ mṛtyuṃ ca pāṇinā dviguṇena ca38| guhyakeśaṃ jagatprāṇaṃ daśabhirdaśabhiḥ śaraiḥ| ṣaḍibhaśca saptabhiścaiva rudrānsarvānpṛthakpṛthak39| vasūnsarvāṃśca saśaraiḥ siddhagaṃdharvapannagān| daśāṣṭadaśabhiḥ ṣaḍibharyuddhe devānbhinattyasau40| ojaughādativīryāttu śīghralāghavardaśanān| āpatprāptāḥ surā bhītyā pratikartuṃ na ceśvarāḥ41| maheśaśūlasaṃkāśaiḥ śarairmarmavibhedibhiḥ| tāḍitā nirjarā yuddhe mūrcchitā dharaṇīṃ yayuḥ42| tasyaiva saṃmukhe sthātuṃ na śekuḥ pravarāssurāḥ| tato devā vinirdhūtāstridiveśena saṃyutāḥ43| śaraṇyaṃ te hariṃ tatra śaraṇaṃ tāḍitā yayuḥ| etasminnaṃtare viṣṇuḥ prāha jiṣṇuṃ khageśvaram44| adhunā gaccha daityasya saṃmukhaṃ raṇamūrdhani| nāśāya satatastūrṇaṃ gatastasyāṃtikaṃ javāt45| sarathaṃ mārgaṇairbhitvā viṣṇumārodhayajjavam| rathasya saṃmukhe daitya uvāca viṣṇumavyayam46| anya sṛṣṭiṃ karomyadya hatvā tvāṃ ca sanirjjaram| tato viṣṇuruvācedaṃ garjaṃtaṃ daityapuṃgavam47| śaktastvaṃ sparddhane pāpa yadi yuddhe sthiro bhava| tataḥ śaraśataireva jaghāna viṣṇumavyayam48| asaṃbhrāṃtaḥ sa ciccheda yamadaṃḍanibhānśarān| punaḥ śarasahasrāṇi prerayāmāsa taṃ raṇe49| tāṃśca chitvā śaraiḥ śauristaṃ ca vivyādha mārgaṇaiḥ| pragauravādahāryābhaiḥ saṃsparśādbāḍavānalaiḥ50| śaraiśca bhedakaistīkṣṇaiḥ khagamaiśca manojavaiḥ| lāghavātkeśavāstrasya tūlaśuṣkatṛṇopamaiḥ51| haimaiḥ śarasahasraistu tāḍito daityapuṃgavaḥ| bādhayābhyarditaḥ kruddho dhṛtvā śikhariṇaṃ raṇe52| jaghāna mādhavaṃ vegāddhiraṇyākṣo mahābalaḥ| taṃ ca saṃcūrṇayāmāsa gadayā līlayā hariḥ53| evaṃ parvatasāhasraṃ pātitaṃ tu krameṇa hi| tathaiva lāghavāccūrṇaṃ hariṇā dānavāriṇā54| punarbāhusahasrāṇi kṛtvāsau dānavottamaḥ| śaraiḥ śaktibhiratyugraiḥ śūlaiḥ paraśukādibhiḥ55| vavarṣa bahubhirviṣṇuṃ krodhāviṣṭena cetasā| tāṃstu tenaiva prahitāṃściccheda surasattamaḥ56| śarairdīptairmahāghorairasurāṇāṃ bhayaṃkaraiḥ| vivyādha sarvagātreṣu śaṃbhuśūlopamaiśśaraiḥ57| dānavādhipatiḥ saṃkhye hyavyayo harirīśvaraḥ| sa ca kaśmalatāṃ gatvā sarvaśaktimanuttamām58| kālajihvopamāṃ ghorāmaṣṭaghaṃṭāsamanvitām| harerurasi pīne ca vidrutyā pātayaddrutam59| śuśubhe sa suraśreṣṭhastaḍittvatsāndrameghavat| tataśca cukruśurdaityā jayeti sādhuvādinaḥ60| tataścakraṃ daityasainye dānavārirvyasarjayat| teṣāṃ śirāṃsi saṃcchidya mādhavaṃ punarāgamat61| sa daityaṃ śaktipātena pātayāmāsa vai raṇe| cirātsaṃjñāṃ samālaṃbya vahnibāṇena keśavam62| nijaghāna raṇe kruddho hariḥ kauberamākṣipat| tato mumoca māyāstraṃ cāsuraṃ cātidāruṇam63| siṃhavyāghralulāyāṃśca tadvaddvipa sarīsṛpān| jaghāna samare viṣṇuṃ hiraṇyākṣaḥ pratāpavān64| tato māyāstrasaṃbhūtānśastrāstraughānraṇe hariḥ| praciccheda śaraireva śūlenaivamatāḍayat65| sa vihvalita sarvāṃgastatkṣaṇaṃ lohitokṣitaḥ| vicakarṣa haranviṣṇurasṛgviplutavigrahaḥ66| tacchūlaṃ ca tribhirbāṇaiḥ pravivyādha surādhipaḥ| varūthaṃ sadhvajaṃ ketuṃ rathaṃ caivātapatrakam67| yaṃtāraṃ ca praciccheda daśabhiśca hariḥ śaraiḥ| pātite ca rathe daityaḥ saṃplutyātha rathaṃ param68| āruroha sa daityeṃdraḥ saṃmukhaṃ cākarodbalī| tato yuddhaṃ mahāghoramabhavallomaharṣaṇam69| hiraṇyākṣasya ca harerlokavismāpanaṃ mahat| astrayuddhaṃ tathānyonyaṃ kṛtapratikṛtaṃ ca tat70| tato niyuddhe satataṃ divyavarṣaśataṃ gatam| tato daityo mahāsatvo vavṛdhe vāmano yathā71| mukhena jagrāha ruṣā trailokyaṃ sacarācaram| bhūmaṃḍalaṃ samuddhṛtya viveśa ca rasātalam72| śeṣāśca viviśurdaityāstamanu prītisaṃyutāḥ| tato viṣṇurmahātejā jñātvā daityabalaṃ mahat73| dadhāra rūpaṃ vārāhaṃ daityarājajighāṃsayā| dhṛtvā kroḍatanuṃ viṣṇurviveśa tamanudrutam74| tatra gatvā rasāmūle rasātalagatāṃ mahīm| dṛṣṭvā svadaṃṣṭrayordadhre lokādhārāṃ vasuṃdharām75| tāṃ dhṛtvā gacchatastasya viṣṇoramitatejasaḥ| samājagāma daityeṃdro dhṛṣṭaṃ vāgbhistudannanu76| māyākroḍatanurviṣṇurdurvacāṃsi sahanruṣā| jalopari dadhāremāṃ dharāṃ bhūdhara eva ca77| tasyāṃ nyasya svasatvaṃ ca sa cakāra tadācalām| tataḥ paścātsa saṃlagno daityarāṭsamupasthitaḥ78| krodhena mahatāviṣṭo jaghāna gadayā harim| māyayā sūkaro viṣṇustāṃ gadāṃ samavaṃcayat79| yogayukto yathā mṛtyuṃ kaumodakyāhanacca tam| tataḥ punā ruṣāviṣṭo hiraṇyākṣo mahābalaḥ80| muṣṭinā prāharaddevaṃ dakṣiṇe tu bhuje prabhoḥ| evaṃ yuddhaṃ mahāghoraṃ savyāsavyaṃ gatāgatam81| paribhramaṇavikṣepaṃ kṛtānukaraṇaṃ tathā| tato brahmādayo devā yuddhaṃ paśyaṃti khe sthitāḥ82| svasti prajābhyo devebhya ṛṣibhyaśceti cābruvan| ūcuśca devadeveśaṃ viṣṇuṃ vārāharūpiṇam83| mā krīḍa bālavaddeva jahyamuṃ devakaṃṭakam| tato viṣṇurmahātejā māyāvārāharūpadhṛt84| brahmādyanumatiṃ prāpya cakraṃ prākṣipadulbaṇam| sahasrasūryasaṃkāśaṃ sahasrāraṃ mahāprabham85| daityāṃtakaraṇaṃ raudraṃ pralayāgnisamaprabham| taccakraṃ viṣṇunā muktaṃ hiraṇyākṣaṃ mahābalam86| cakāra bhasmasātsadyo brahmādīnāṃ ca paśyatām| daityāṃtakaraṇaṃ raudraṃ cakraṃ cāgamadacyutam87| tato brahmādayo devāḥ śakramukhyāśca lokapāḥ| dṛṣṭvā ca vijayaṃ viṣṇoḥ stuvaṃti sma samāgatāḥ88| devā ūcuḥ-| natāḥ sma viṣṇuṃ jagadādibhūtaṃ surāsureṃdraṃ jagatāṃ prapālakam| yannābhipadmātkila padmayonirbabhūva taṃ vai śaraṇaṃ gatāḥ smaḥ89| namonamo matsyavapurddharāya namostu te kacchaparūpadhāriṇe| namaḥ prakurmaśca nṛsiṃharūpiṇe tathā punarvāmanarūpiṇe namaḥ90| namostu te kṣatravināśanāya rāmāya rāmāya daśāsyanāśine| pralaṃbahaṃtre śitivāsase namo namostu buddhāya ca daityamohine91| mlecchāṃtakāyāpi ca kalkināmne namaḥ punaḥ kroḍavapurdharāya| jagaddhitārthaṃ ca yugeyuge bhavānbibharti rūpaṃ tvasurābhavāya92| niṣūdito'yaṃ hyadhunā kila tvayā daityo hiraṇyākṣa iti pragalbhaḥ| yaśceṃdramukhyānkilalokapālānsaṃhelayā caiva tiraścakāra93| sa vai tvayā devahitārthameva nipātito devavara prasīda| tvamasya viśvasya visargakartā brāhmeṇa rūpeṇa ca devadeva94| pātā tvamevāsya yugeyuge ca rūpāṇi dhatse sumanoharāṇi| tvameva kālāgniharaśca bhūtvā viśvaṃ kṣayaṃ neṣyasi cāṃtakāle95| ato bhavāneva ca viśvakāraṇaṃ na te paraṃ jīvamajīvamīśa| yatkiṃca bhūtaṃ ca bhaviṣyarūpaṃ pravarttamānaṃ ca tathaiva rūpam96| sarvaṃ tvamevāsi carācarākhyaṃ na bhāti viśvaṃ tvadṛte ca kiṃcit| astīti nāstīti ca bhedaniṣṭhaṃ tvayyeva bhātaṃ sadasatsvarūpam97| tato bhavaṃtaṃ katamopi deva na jñātumarhatyavipakvabuddhiḥ| ṛte bhavatpādaparāyaṇaṃ janaṃ tenāgatā smaśśaraṇaṃ śaraṇyam98| vyāsa uvāca-| tato viṣṇuḥ prasannātmā uvāca tridivaukasaḥ| tuṣṭosmi devā bhadraṃ vo yuṣmatstotreṇa sāṃpratam99| ya idaṃ prapaṭhedbhaktyā vijayastotramādarāt| na tasya durlabhaṃ devāstriṣulokeṣu kiṃcana100| gavāṃ śatasahasrasya samyagdattasya yatphalam| tatphalaṃ samavāpnoti kīrtanācchravaṇānnaraḥ101| sarvakāmapradaṃ nityaṃ devadevasya kīrtanam| ataḥ paraṃ mahājñānaṃ na bhūtaṃ na bhaviṣyati102| iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe devāsurasaṃgrāmasamāptau vijayastotraṃnāma paṃcasaptatitamo'dhyāyaḥ75|
English translation
Vyāsa said :
1. Having heard (those) words from (i.e. uttered by) the great god, all gods led by Indra , rushed, from all sides, to the hosts of the demons.
2. (There) came the great demon, Kumbha by name, who very much struck the king of the Yakṣas (i.e. Kubera ) with a mace.
3. The lord of the Guhyakas (i.e. Kubera) hit him very strongly with the strokes of (his) mace. Then there was a fierce war between the two.
4-5. There was in the battle a great arrangement (of the soldiers) like a wheel, where the one that came forward was seized and killed. The attack was very fierce. A boring tool was used. The lord of wealth (i.e. Kubera) fought a great battle with him, and in the end struck the tool on the chest of that Kumbha.
6-7a. Then Kumbha, with his fangs broken, fell down on the ground. Then the very powerful Jambha , remaining in his chariot only struck the horse of Indra, and also Airāvaṇa with volleys of arrows.
7b-9. Indra struck the best demon with his thunderbolt only. Wet with blood he fell dead on the ground. Then with the (missile called) śakti , he pierced the four important chiefs— Araṇya , Sughora, Aghora and Ghora . Kārtikeya cleverly struck down each one of them.
10-11. (Indra’s son) Jayanta subdued, with volleys of arrows, Saurabha , and also Saṃhrāda with a śakti in his hand, and Yamadaṇḍa and Narāntaka . Having hit them he struck them down, reducing their bodies to ashes. With the stroke of his sword, Kāla struck down Bābhrava .
12-14a. Mṛtyu , with śakti struck Aśva and Nigṛṇa in the battle. These very powerful seven— Bhadrabāhu , Mahābāhu , Sugandha , Gandha , Bhaurika , Vallika , and Bhīma —the leaders of the army, being burnt by Agni , fell down dead, with their bodies burnt in the battle, on the ground.
14b. Very courageous, brave, very powerful (demons) causing fear (even) to the brave, fell down on the ground, being bound by the noose of the noble Varuṇa .
15-17. The five demons named Turu, Tumburu , Durmedha, Sādhaka and Asādhaka were struck down by the mass of the Sun’s rays. In the battle, Vāyu struck with his arrows demons led by the six viz. Krūra , Krauñca , Raṇa , Īśāna , Moda and Sammoda. Naiṛrta with a mace struck down Bhīma on the ground.
18. Hundreds of demons, facing the gods, being killed in war, being frightened, fell in the battle struck by the lances of the Rudras .
19-20. Hundreds of mighty demons were struck in the battle with the strokes of the arrows discharged by the Vasus , brave and encircled with rays, with hails from the clouds, and with very terrible strokes of the thunderbolt. Thousands (of demons) fell due to the strokes of the mace of Kubera.
21. The best of the demons were pierced with the thunderbolt of Indra. Similarly, struck with the śakti of Kārtikeya, innumerable (demons) fell down on the ground.
22. The principal (demons) fell (being hit) with the stroke of Gaṇeśa ’s axe. Due to the disc released from Viṣṇu ’s hand of a severe act, heads of important demons fell on the ground.
23-24. Śamana (i.e. Yama ) with (the strokes of) his deadly staff struck down crores of thousands of demons. Kala struck down the demons with (the strokes of) his śakti. Varuṇa in the same way, struck down others.
25. With the stroke of Takṣakas etc. and the Moon’s chill Khara mounted on a horse was struck; and the noose (of Varuṇa) in the same way struck the elephants.
26. Then he destroyed the demons’ elephant (by striking) with an iron beam on his temple. Thus with skill he struck down the horses and the elephants.
27-28a. Thus the very mighty Siddhas , Gandharvas and the celestial nymphs, and other deities along with the mothers and the chiefs of the Gaṇas , struck down the very fearful and destructive demons.
28b-29a. The gods struck down the demon with arrows, with strokes of swords, with spears, śaktis , hatchets, sticks, iron-beams and lances.
290-31. When the demons were thus being destroyed, the very brave chief of the demons, their king, Hiraṇyākṣa , came there seated in a chariot which resembled the Sun’s chariot, which was decorated with all jewels with which a chariot is decorated, which was made of gold, which was divine, which was adorned with bells and chowries, which was filled with banners and flags, which was beautiful and which was like Indra’s chariot.
32-33a. He, who was invincible to the gods and the demons, struck with volleys of arrows the armies and the hero struck down on the ground hundreds of thousands of elephants and chariots with horses.
33b-35. Thus the lord of the demons moving among all the hosts of gods sent down volleys of arrows resembling death. As an elephant shakes the lotus-pond, he gradually shook the armies of gods in the war. Due to the sharp falls and lion-like roars of the lord of demons (the gods) repeatedly and rapidly fell down on the ground.
36-40. He struck (Indra’s son) Jayanta with ten arrows, Remanta with five, and Indra with fifteen arrows; (he struck) Citraratha with twenty arrows, Guha with twenty-five, Heramba (i.e. Gaṇeśa) with three, and Yama with forty arrows. In the same way he hit Kāla and Mṛtyu with both hands. He struck (Kubera) the lord of the Guhyakas and Vāyu with ten arrows each. With six and seven arrows he struck Rudras separately, He struck all the Vasus, Siddhas, Gandharvas and serpents with ten, eighteen arrows and the (other) gods with six arrows in the war.
41. The powerful gods, being distressed and frightened due to the stream of his vigour, his great power and due to the sight of his quick dexterity, were unable to retaliate.
42. The gods struck in the battle with arrows resembling the trident of Śiva and cutting the vitals, swooned and fell on the ground.
43-44a. (Even) the chief gods could not stand before him. Then the gods (thus) fully shaken and beaten (by Hiraṇyākṣa) went, along with Indra, to Viṣṇu the protector, to seek his succor.
44b-45a. In the meantime, Viṣṇu said to Garuḍa , the lord of the birds: “Now go, in front of (i.e. face) the demon in the battle.”
45b-47a. He then immediately went speedily to destroy the demon. Having struck the chariot (of Viṣṇu) with arrows he checked his speed and then going in front of his chariot he said to the immutable Viṣṇu: “Having today killed you along with (other) gods, I shall fashion another creation.”
47b-48a. Then Viṣṇu said these words to the roaring, superior demon: “O sinful one, if you are able to compete (with me), then (first) be settled in the battle.”
48b-49. Then he struck Viṣṇu with hundreds of arrows. Without being ruffled, he cut (those) arrows resembling the staff of Yama. Again he (i.e. the demon) discharged thousands of arrows at him.
50. Having cut them off with arrows, Viṣṇu struck him with arrows, looking unavoidable due to their great weight and (resembling) the submarine fire in touch.
51-52a. The best demon was struck by Viṣṇu, with thousands of golden arrows that were piercing, sharp, moving in the sky, having the speed of the mind—as the missiles of Keśava were very quick—resembling cotton and hay.
52b-53. The angry, very strong, Hiraṇyākṣa, being distressed due to (his missiles) being interrupted, took, in the battle, a mountain and hit Viṣṇu (with) it. (But) Viṣṇu easily pounded it with (his) mace.
54. Thus he dropped a thousand mountains, but Viṣṇu the enemy of the demons, with the same dexterity, crushed them.
55. Again the best demon, with his mind full of anger, putting up thousands of arms, showered Viṣṇu with many very sharp arrows, śaktis, spears and axes etc.
56. The best god (i.e. Viṣṇu) cut those very missiles with very fierce, blazing arrows, causing fear to the demons.
57-59. He pierced him (i.e. Hiraṇyākṣa) on all his limbs with arrows resembling Śiva’s trident. In the battle (which the lord of demons and the immutable Viṣṇu fought) the demon, being distressed, quickly ran and dropped an all-powerful, excellent, fierce śakti resembling the tongue of death, and having eight bells, on the large chest of Viṣṇu.
60. (With that) the best god (i.e. Viṣṇu) looked charming like a compact cloud accompanied by lightning. Then the demons, saying ‘Well (done)’ cried ‘Be victorious.’
61. Then (Viṣṇu), the enemy of the demons, discharged his disc at the demons’ army. Having cut off their heads, it came back to Viṣṇu (again).
62. He struck down the demon with the stroke of a śakti in the battle. Regaining consciousness after a long time, he struck Viṣṇu with a fiery arrow.
63. The angry Viṣṇu discharged the Kubera missile. Then he (i.e. Hiraṇyākṣa) discharged, in the battle, at Viṣṇu, the illusory missile, which was demonish and very fierce.
64. He, the brave one, also struck Viṣṇu with lions, tigers, buffaloes, and poisonous serpents.
65. Then Viṣṇu cut off, with his arrows, the streams of weapons and missiles (discharged by Hiraṇyākṣa) in the battle, and struck him with a spear.
66-67a. That moment only, he with his body wet with blood, dragged him and with three arrows the lord of the gods cut off his spear.
67b-68a. Viṣṇu, with ten arrows, cut off the chariot’s fender along with the flag and banner and the umbrella, and also the charioteer.
68b-70. When the chief demon’s chariot was struck down, he, the powerful one, jumped to another chariot, got into it and brought it in front (of Viṣṇu). Then a very fierce and thrilling battle took place between Hiraṇyākṣa and Viṣṇu and the great battle caused wonder among people. Then a battle with an attack and a counter-attack took place between the two.
71. A hundred divine years passed uninterruptedly in the battle (i.e. the battle continued without a break for a hundred divine years). Then, the very powerful demon grew (in size) like Vāmana .
72. Angrily he seized, with his mouth, the three worlds with the mobile and the immobile. Lifting the earth he entered the nether region.
73-74a. The remaining demons, fully pleased, entered that region after him. Then Viṣṇu, of a great lustre, knowing the great power of the demon, took the form of a boar to kill the demon.
74b-75. Taking up a hog’s body (i.e. form) Viṣṇu quickly entered (the nether region) after him. Going to the root of the earth, and seeing it having gone to the nether region, he held the earth, the support of the people, on his two fangs.
76. When Viṣṇu was going, holding the earth, the lord of the demons came to him, hurting him boldly with (bad) words.
77. Viṣṇu, who had taken up the form of a hog, tolerated the bad words and angrily put the earth on a mountain in the water.
78-79a. Depositing his power into the earth, he made it steady. Then after that the demon-king who had stuck to it stood up, and full of great anger, struck Viṣṇu with a mace.
79b-80a. Viṣṇu (in the) hog (-form) avoided (the stroke of) the mace, as one, endowed with deep and abstract meditation, avoids death; and struck him (with his mace called) Kaumodakī .
80b-81. Then the very powerful Hiraṇyakṣa, full of anger, again struck the lord on his right arm, with a fist. Thus a great fight, in which the right and left hands were used, and the warriors were coming forward and going back, took place.
82-83a. They turned round, confused and imitated each other. Brahma and other gods, remaining in the sky, watched the fight; and they said: “Well-being to the beings, gods and sages.”
83b-84a. They said to Viṣṇu, the lord of gods who had taken up the form of a hog: “O god, do not play like a child. Kill him who is a source of trouble to the gods.”
84b-87a. Then very lustrous Viṣṇu, who had taken up the form of an illusory hog, taking the consent of Brahma and others threw the powerful disc, which resembled a thousand suns in lustre, which had a thousand spokes, which was very radiant, which was terrible and which was capable of killing the demon and which resembled the fire at the end of the world. That disc, released by Viṣṇu, reduced to ashes the very powerful Hiraṇyakṣa, when Brahma and others were watching (i.e. in the presence of Brahma and others).
87b-88. (Then) the disc came (back) to Viṣṇu. Then gods like Brahma and others, and the regents of the quarters led by Indra seeing Viṣṇu’s victory, arrived there, and praised him.
Gods said :
89. We salute Viṣṇu, who is the origin of the world, who is the lord of the gods and demons, who is the protector of the worlds. We seek the shelter of him (i.e. Viṣṇu) from whose lotus-like navel, it is said, Brahma was born.
90. Our salutation to you (O Viṣṇu) who had taken up the fish-form; our salutation to you, who had taken up the form of a tortoise; we salute you of the form of Nṛsiṃha ; and also of the Vāmana-form.
91-92a. Our salutation to you who (in the incarnation as) Paraśurāma destroyed the kṣatriyas , and to Rama , the destroyer of Rāvaṇa . Our salutation to (you) the killer of Pralamba ; to Rāma ; to Buddha ; to the deluder of the demon; to the destroyer of mlecchas ; to (the form) named Kalki ; and (to you) who had taken up the form of a hog.
92b-93. In every yuga , you take up (different)forms for the good of the world and the destruction of the demons. Now you have killed the daring demon Hiraṇyākṣa, who easily conquered the important regents of the quarters led by Indra.
94. You have struck him down for the good of gods. O best of gods, be pleased. O god of gods, you, in the form of Brahma, are the creator of this (whole world). You are the creator of this (whole) world.
95. You are also its protector. In every yuga, you also take up very lovely forms. Turning yourself ṃto the destructive fire and (into the form of) Śiva, you yourself destroy the (whole) world at the time of (its) end.
96-97a. Therefore, you are the cause of the (whole) world; beyond you there is no life or absence of it. You alone are the past or the future or the present form called the mobile and immobile. The world does not shine forth without you.
97b-98. The form based on distinction between existence and non-existence or real and unreal depends upon you only. Therefore, O god, no one with an immature intellect, except the person devoted to your feet, is able to comprehend you (i.e. your true nature). Therefore, we are seeking the shelter of you, who are the protector.
Vyāsa said :
99-102. Then Viṣṇu, with his mind pleased, said to the gods: “Well-being to you, O gods, I am now pleased by this hymn of praise. O gods, for him, who would devoutly and respectfully recite this hymn of praise of (my) victory, nothing is inaccessible in the three worlds. A man by narrating or listening to it obtains the fruit which is obtained by properly giving a hundred thousand cows. The daily narration of the account of the victory of the god of gods gives everything. There was no greater knowledge than this, nor will there be greater knowledge than this.”
Complete chapter-aligned witnesses. Sanskrit Wikisource page 45229, revision 334623 (2022-04-06T19:44:26Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364198.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.