Pātāla-khaṇḍa · Chapter 48
Sourceशेष उवाच। इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा । विस्मयं मानयामास हृदि शौनकमब्रवीत् १। शत्रुघ्न उवाच। कर्मणो गहना वार्ता यया सात्वकनामधृत् । दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः २। स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा । येन कर्मविपाकेन यादृशं नरकं भवेत् ३। शौनक उवाच। धन्योसि राघवश्रेष्ठ यत्ते मतिरियं शुभा । जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः ४। कथयामि विचित्राणां कर्मणां विविधा गतीः । ताः शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात् ५। परवित्तं परापत्यं कलत्रं पारकं च यः । बलात्कारेण गृह्णाति भोगबुद्ध्या च दुर्मतिः ६। कालपाशेन संबद्धो यमदूतैर्महाबलैः । तामिस्रे पात्यते तावद्यावद्वर्षसहस्रकम् ७। तत्र ताडनमुद्धूताः कुर्वंति यमकिंकराः । पापभोगेन संतप्तस्ततो योनिं तु शौकरीम् ८। तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति । रोगादिचिह्नितं तत्र दुर्यशो ज्ञापकं स्वकम् ९। भूतद्रोहं विधायैव केवलं स्वकुटुंबकम् । पुष्णाति पापनिरतः सोंऽधतामिस्रके पतेत् १०। ये नरा इह जंतूनां वधं कुर्वंति वै मृषा । ते रौरवे निपात्यंते भिद्यंते रुरुभी रुषा ११। यः स्वोदरार्थे भूतानां वधमाचरति स्फुटम् । महारौरवसंज्ञे तु पात्यते स यमाज्ञया १२। यो वै निजं तु जनकं ब्राह्मणं द्वेष्टि पापकृत् । कालसूत्रे महादुष्टे योजनायुतविस्तृते १३। यावंति पशुरोमाणि गवां द्वेषं करोति यः । तावद्वर्षसहस्राणि पच्यते यमकिंकरैः १४। यो भूमौ भूपतिर्भूत्वा दंडायोग्यं तु दंडयेत् । करोति ब्राह्मणस्यापि देहदंडं च लोलुपः १५। स सूकरमुखैर्दुष्टैः पीड्यते यमकिंकरैः । पश्चाद्दुष्टासु योनीषु जायते पापमुक्तये १६। ब्राह्मणानां गवां ये तु द्रव्यं वृत्तं तथाल्पकम् । वृत्तिं वा गृह्णते मोहाल्लुंपंति स्वबलान्नराः १७। ते परत्रांधकूपे च पात्यंते च महार्दिताः । योऽन्नं स्वयमुपाहृत्य मधुरं चात्तिलोलुपः १८। न देवाय न सुहृदे ददाति रसनापरः । स पतत्येव नरके कृमिभोजनसंज्ञिते १९। अनापदि नरो यस्तु हिरण्यादीन्यपाहरेत् । ब्रह्मस्वं वा महादुष्टे संदंशे नरके पतेत् २०। यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः । स पात्यते तैलतप्ते कुंभीपाकेऽतिदारुणे २१। यो नागम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेत् । तं तया किंकराः सूर्म्या परिरंभं च कुर्वते २२। ये बलाद्वेदमर्यादां लुंपंति स्वबलोद्धताः । ते वैतरण्यां पतिता मांसशोणितभक्षकाः २३। वृषलद्यं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत् । पूयोदे निपतत्येव महादुःखसमन्वितः २४। ये दंभमाश्रयंते वै धूर्ता लोकस्य वंचने । वैशसे नरके मूढाः पतंति यमताडिताः २५। ये सवर्णां स्त्रियं मूढा रेतः स्वं पाययंति च । रेतःकुल्यासु ते पापा रेतःपानेषु तत्पराः २६। ये चौरा वह्निदा दुष्टा गरदा ग्रामलुंठकाः । सारमेयादने ते वै पात्यंते पातकान्विताः २७। कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसंभृतः । परकीयं तु द्रव्यं यो हरति प्रसभं बली २८। सोऽवीचिनरके पापी अवाग्वक्त्रः पतत्यधः । तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत् २९। यो नरो रसनास्वादात्सुरां पिबति मूढधीः । तं पाययंति लोहस्य रसं धर्मस्य किंकराः ३०। यो गुरूनवमन्येत स्वविद्याचारदर्पितः । स मृतः पात्यते क्षारनरकेऽधोमुखः पुमान् ३१। विश्वासघातं कुर्वंति ये नरा धर्मनिष्कृताः । शूलप्रोते च नरके पात्यंते बहुयातने ३२। पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः । दंदशूके च पतितो दंदशूकैः स दश्यते ३३। एवं राजन्ननेके वै नरकाः पापकारिणाम् । पापं कृत्वा प्रयांत्येते पीडां यांति सुदारुणाम् ३४। यैर्न श्रुता रामकथा न परोपकृतिः कृता । तेषां सर्वाणि दुःखानि भवंति नरकांतरे ३५। अत्र यस्य सुखं स्वर्गे भूयात्तस्य इतीर्यते । ये दुःखिनो रोगयुता नरकादागताश्च ते ३६। शेष उवाच। एतच्छ्रुत्वा महीपालः कंपमानः क्षणे क्षणे । पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये ३७। तत्तत्पापस्य चिह्नानि कथयस्व महामुने । केन पापेन किं चिह्नं भूलोके उपजायते ३८। इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिम् । शृणु राजन्प्रवक्ष्यामि चिह्नानि पापकारिणाम् ३९। शौनक उवाच। सुरापः श्यामदंतश्च नरकांते प्रजायते । अभक्ष्यभक्षकारी च जायते गुल्मकोदरः ४०। उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः । श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गंधिमान्भवेत् ४१। अनिवेद्य सुरादिभ्यो भुंजानो जायते नरः । उदरे रोगवान्दुःखी महारोगप्रपीडितः ४२। परान्नविघ्नकरणादजीर्णमभिजायते । मंदोदराग्निर्भवति सति द्रव्ये कदन्नदः ४३। विषदश्छर्दिरोगी स्यान्मार्गहा पादरोगवान् । पिशुनो नरकस्यांते जायते श्वासकासवान् ४४। धूर्तोऽपस्माररोगी स्याच्छूली च परतापनः । दावाग्निदायकश्चैव रक्तातीसारवान्भवेत् ४५। सुरालये जले वापि शकृत्क्षेपं करोति यः । गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ४६। गर्भपातनजा रोगाः क्षयमेहजलोदराः । प्रतिमा भंगकारी च अप्रतिष्ठश्च जायते ४७। दुष्टवादी खंडितः स्यात्खल्वाटः परनिंदकः । सभायां पक्षपाती च जायते पक्षघातवान् ४८। परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत् । तुंदीवरी ताम्रचौरः कांस्यहृत्पुंडरीकिकः ४९। त्रपुहारी च पुरुषो जायते पिंगमूर्द्धजः । शीसहारी च पुरुषो जायते शीर्षरोगवान् ५०। घृतचौरस्तु पुरुषो जायते नेत्ररोगवान् । लोहहारी च पुरुषो बर्बरांगः प्रजायते ५१। चर्महारी च पुरुषो जायते मेदसा वृतः । मधुचौरस्तु पुरुषो जायते बस्तिगंधवान् ५२। तैलचौर्येण भवति नरः कण्ड्वातिपीडितः । आमान्नहरणाच्चैव दंतहीनः प्रजायते ५३। पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवेत् । मातृगामी च पुरुषो जायते लिंगवर्जितः ५४। गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते । भगिनीं चैव गमने पीतकुष्ठः प्रजायते ५५। स्वसुतागमने चैव रक्तकुष्ठः प्रजायते । भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते ५६। स्वामिगम्यादिगमने जायते दद्रुमंडलम् । विश्वस्तभार्यागमने गजचर्मा प्रजायते ५७। पितृष्वस्रभिगमने दक्षिणांगे व्रणी भवेत् । मातुलान्यास्तु गमने वामांगे व्रणवान्भवेत् ५८। पितृव्यपत्नीगमने कटौ कुष्ठः प्रजायते । मित्रभार्याभिगमने मृतभार्यः प्रजायते ५९। स्वगोत्रस्त्रीप्रसंगेन जायते च भगंदरः । तपस्विनीप्रसंगेन प्रमेहो जायते नरे ६०। श्रोत्रियस्त्रीप्रसंगेन जायते नासिकाव्रणी । दीक्षितस्त्रीप्रसंगेन जायते दुष्टरक्तसृक् ६१। स्वजातिजायागमने जायते हृदयव्रणी । जात्युन्नतस्त्रीगमने जायते मस्तकव्रणी ६२। पशुयोनौ च गमनान्मूत्रघातः प्रजायते । एते दोषा नराणां स्युर्नरकांते न संशयः ६३। स्त्रीणामपि भवंत्येते तत्तत्पुरुषसंगमात् । एवं राजन्हि चिह्नानि कीर्तितानि सुपापिनाम् ६४। दानपुण्यप्रसंगेन तीर्थादिक्रियया तथा । रामस्य चरितं श्रुत्वा तपसा वाक्षयं व्रजेत् ६५। सर्वेषामेव पापानां हरिकीर्तिधुनी नृणाम् । क्षालयेत्पापिनां पंकं नात्र कार्या विचारणा ६६। यो नावमन्येत हरिं तस्य यागाविधि श्रुताः । तीर्थान्यपि सुपुण्यानि पावितुं न क्षमाणि तम् ६७। हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः । न तस्य नरकान्मुक्तिः कल्पांतेऽपि भविष्यति ६८। या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह । श्रावय श्रीशचरितं यतो वाहगतिर्भवेत् ६९। शेष उवाच। इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा । प्रणम्य तं परिक्रम्य ययौ सेवकसंयुतः ७०। तत्र गत्वा स हनुमान्हयवर्यस्य पार्श्वतः । उवाच रामचरितं महादुर्गतिनाशकम् ७१। याहि देव विमानं स्वं रामकीर्तनपुण्यतः । स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः ७२। इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः । तावद्ददर्श विमलं देवं वैमानिकं वरम् ७३। स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः । यामि स्वं भवनं राजन्नाज्ञापय महामते ७४। इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः । तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः ७५। ततो वाहो विनिर्मुक्तो गात्रस्तंभाच्च भूतलात् । ययौ तद्विपिनं सर्वं भ्रमन्पक्षिसमाकुलम् ७६। इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे हयनिर्मुक्तिर्नामाष्टचत्वारिंशत्तमोऽध्यायः ४८ ।
śeṣa uvāca| iti proktaṃ tu muninā saṃśrutya paravīrahā | vismayaṃ mānayāmāsa hṛdi śaunakamabravīt 1| śatrughna uvāca| karmaṇo gahanā vārtā yayā sātvakanāmadhṛt | divaṃ prāpto'pi mahatā karmaṇā rākṣasīkṛtaḥ 2| svāminvada maharṣe tvaṃ karmaṇāṃ svagatiryathā | yena karmavipākena yādṛśaṃ narakaṃ bhavet 3| śaunaka uvāca| dhanyosi rāghavaśreṣṭha yatte matiriyaṃ śubhā | jānannapi hitārthāya lokānāṃ tvaṃ bravīṣi bhoḥ 4| kathayāmi vicitrāṇāṃ karmaṇāṃ vividhā gatīḥ | tāḥ śṛṇuṣva mahārāja yacchrutvā mokṣamāpnuyāt 5| paravittaṃ parāpatyaṃ kalatraṃ pārakaṃ ca yaḥ | balātkāreṇa gṛhṇāti bhogabuddhyā ca durmatiḥ 6| kālapāśena saṃbaddho yamadūtairmahābalaiḥ | tāmisre pātyate tāvadyāvadvarṣasahasrakam 7| tatra tāḍanamuddhūtāḥ kurvaṃti yamakiṃkarāḥ | pāpabhogena saṃtaptastato yoniṃ tu śaukarīm 8| tatra bhuktvā mahāduḥkhaṃ mānuṣatvaṃ gamiṣyati | rogādicihnitaṃ tatra duryaśo jñāpakaṃ svakam 9| bhūtadrohaṃ vidhāyaiva kevalaṃ svakuṭuṃbakam | puṣṇāti pāpanirataḥ soṃ'dhatāmisrake patet 10| ye narā iha jaṃtūnāṃ vadhaṃ kurvaṃti vai mṛṣā | te raurave nipātyaṃte bhidyaṃte rurubhī ruṣā 11| yaḥ svodarārthe bhūtānāṃ vadhamācarati sphuṭam | mahārauravasaṃjñe tu pātyate sa yamājñayā 12| yo vai nijaṃ tu janakaṃ brāhmaṇaṃ dveṣṭi pāpakṛt | kālasūtre mahāduṣṭe yojanāyutavistṛte 13| yāvaṃti paśuromāṇi gavāṃ dveṣaṃ karoti yaḥ | tāvadvarṣasahasrāṇi pacyate yamakiṃkaraiḥ 14| yo bhūmau bhūpatirbhūtvā daṃḍāyogyaṃ tu daṃḍayet | karoti brāhmaṇasyāpi dehadaṃḍaṃ ca lolupaḥ 15| sa sūkaramukhairduṣṭaiḥ pīḍyate yamakiṃkaraiḥ | paścādduṣṭāsu yonīṣu jāyate pāpamuktaye 16| brāhmaṇānāṃ gavāṃ ye tu dravyaṃ vṛttaṃ tathālpakam | vṛttiṃ vā gṛhṇate mohālluṃpaṃti svabalānnarāḥ 17| te paratrāṃdhakūpe ca pātyaṃte ca mahārditāḥ | yo'nnaṃ svayamupāhṛtya madhuraṃ cāttilolupaḥ 18| na devāya na suhṛde dadāti rasanāparaḥ | sa patatyeva narake kṛmibhojanasaṃjñite 19| anāpadi naro yastu hiraṇyādīnyapāharet | brahmasvaṃ vā mahāduṣṭe saṃdaṃśe narake patet 20| yaḥ svadehaṃ prapuṣṇāti nānyaṃ jānāti mūḍhadhīḥ | sa pātyate tailatapte kuṃbhīpāke'tidāruṇe 21| yo nāgamyāṃ striyaṃ mohādyoṣidbhāvācca kāmayet | taṃ tayā kiṃkarāḥ sūrmyā pariraṃbhaṃ ca kurvate 22| ye balādvedamaryādāṃ luṃpaṃti svabaloddhatāḥ | te vaitaraṇyāṃ patitā māṃsaśoṇitabhakṣakāḥ 23| vṛṣaladyaṃ yaḥ striyaṃ kṛtvā tayā gārhasthyamācaret | pūyode nipatatyeva mahāduḥkhasamanvitaḥ 24| ye daṃbhamāśrayaṃte vai dhūrtā lokasya vaṃcane | vaiśase narake mūḍhāḥ pataṃti yamatāḍitāḥ 25| ye savarṇāṃ striyaṃ mūḍhā retaḥ svaṃ pāyayaṃti ca | retaḥkulyāsu te pāpā retaḥpāneṣu tatparāḥ 26| ye caurā vahnidā duṣṭā garadā grāmaluṃṭhakāḥ | sārameyādane te vai pātyaṃte pātakānvitāḥ 27| kūṭasākṣyaṃ vadatyaddhā puruṣaḥ pāpasaṃbhṛtaḥ | parakīyaṃ tu dravyaṃ yo harati prasabhaṃ balī 28| so'vīcinarake pāpī avāgvaktraḥ patatyadhaḥ | tatra duḥkhaṃ mahadbhuktvā pāpiṣṭhāṃ yonimāvrajet 29| yo naro rasanāsvādātsurāṃ pibati mūḍhadhīḥ | taṃ pāyayaṃti lohasya rasaṃ dharmasya kiṃkarāḥ 30| yo gurūnavamanyeta svavidyācāradarpitaḥ | sa mṛtaḥ pātyate kṣāranarake'dhomukhaḥ pumān 31| viśvāsaghātaṃ kurvaṃti ye narā dharmaniṣkṛtāḥ | śūlaprote ca narake pātyaṃte bahuyātane 32| piśuno yo narānsarvānudvejayati vākyataḥ | daṃdaśūke ca patito daṃdaśūkaiḥ sa daśyate 33| evaṃ rājannaneke vai narakāḥ pāpakāriṇām | pāpaṃ kṛtvā prayāṃtyete pīḍāṃ yāṃti sudāruṇām 34| yairna śrutā rāmakathā na paropakṛtiḥ kṛtā | teṣāṃ sarvāṇi duḥkhāni bhavaṃti narakāṃtare 35| atra yasya sukhaṃ svarge bhūyāttasya itīryate | ye duḥkhino rogayutā narakādāgatāśca te 36| śeṣa uvāca| etacchrutvā mahīpālaḥ kaṃpamānaḥ kṣaṇe kṣaṇe | papraccha bhūyastaṃ vipraṃ sarvasaṃśayanuttaye 37| tattatpāpasya cihnāni kathayasva mahāmune | kena pāpena kiṃ cihnaṃ bhūloke upajāyate 38| iti śrutvā tu tadvākyaṃ muniḥ provāca bhūpatim | śṛṇu rājanpravakṣyāmi cihnāni pāpakāriṇām 39| śaunaka uvāca| surāpaḥ śyāmadaṃtaśca narakāṃte prajāyate | abhakṣyabhakṣakārī ca jāyate gulmakodaraḥ 40| udakyāvīkṣitaṃ bhuktvā jāyate kṛmilodaraḥ | śvamārjārādisaṃspṛṣṭaṃ bhuktvā durgaṃdhimānbhavet 41| anivedya surādibhyo bhuṃjāno jāyate naraḥ | udare rogavānduḥkhī mahārogaprapīḍitaḥ 42| parānnavighnakaraṇādajīrṇamabhijāyate | maṃdodarāgnirbhavati sati dravye kadannadaḥ 43| viṣadaśchardirogī syānmārgahā pādarogavān | piśuno narakasyāṃte jāyate śvāsakāsavān 44| dhūrto'pasmārarogī syācchūlī ca paratāpanaḥ | dāvāgnidāyakaścaiva raktātīsāravānbhavet 45| surālaye jale vāpi śakṛtkṣepaṃ karoti yaḥ | gudarogo bhavettasya pāparūpaḥ sudāruṇaḥ 46| garbhapātanajā rogāḥ kṣayamehajalodarāḥ | pratimā bhaṃgakārī ca apratiṣṭhaśca jāyate 47| duṣṭavādī khaṃḍitaḥ syātkhalvāṭaḥ paraniṃdakaḥ | sabhāyāṃ pakṣapātī ca jāyate pakṣaghātavān 48| paroktahāsyakṛtkāṇaḥ kunakhī viprahemahṛt | tuṃdīvarī tāmracauraḥ kāṃsyahṛtpuṃḍarīkikaḥ 49| trapuhārī ca puruṣo jāyate piṃgamūrddhajaḥ | śīsahārī ca puruṣo jāyate śīrṣarogavān 50| ghṛtacaurastu puruṣo jāyate netrarogavān | lohahārī ca puruṣo barbarāṃgaḥ prajāyate 51| carmahārī ca puruṣo jāyate medasā vṛtaḥ | madhucaurastu puruṣo jāyate bastigaṃdhavān 52| tailacauryeṇa bhavati naraḥ kaṇḍvātipīḍitaḥ | āmānnaharaṇāccaiva daṃtahīnaḥ prajāyate 53| pakvānnaharaṇāccaiva jihvārogayuto bhavet | mātṛgāmī ca puruṣo jāyate liṃgavarjitaḥ 54| gurujāyābhigamanānmūtrakṛcchraḥ prajāyate | bhaginīṃ caiva gamane pītakuṣṭhaḥ prajāyate 55| svasutāgamane caiva raktakuṣṭhaḥ prajāyate | bhrātṛbhāryābhigamane gulmakuṣṭhaḥ prajāyate 56| svāmigamyādigamane jāyate dadrumaṃḍalam | viśvastabhāryāgamane gajacarmā prajāyate 57| pitṛṣvasrabhigamane dakṣiṇāṃge vraṇī bhavet | mātulānyāstu gamane vāmāṃge vraṇavānbhavet 58| pitṛvyapatnīgamane kaṭau kuṣṭhaḥ prajāyate | mitrabhāryābhigamane mṛtabhāryaḥ prajāyate 59| svagotrastrīprasaṃgena jāyate ca bhagaṃdaraḥ | tapasvinīprasaṃgena prameho jāyate nare 60| śrotriyastrīprasaṃgena jāyate nāsikāvraṇī | dīkṣitastrīprasaṃgena jāyate duṣṭaraktasṛk 61| svajātijāyāgamane jāyate hṛdayavraṇī | jātyunnatastrīgamane jāyate mastakavraṇī 62| paśuyonau ca gamanānmūtraghātaḥ prajāyate | ete doṣā narāṇāṃ syurnarakāṃte na saṃśayaḥ 63| strīṇāmapi bhavaṃtyete tattatpuruṣasaṃgamāt | evaṃ rājanhi cihnāni kīrtitāni supāpinām 64| dānapuṇyaprasaṃgena tīrthādikriyayā tathā | rāmasya caritaṃ śrutvā tapasā vākṣayaṃ vrajet 65| sarveṣāmeva pāpānāṃ harikīrtidhunī nṛṇām | kṣālayetpāpināṃ paṃkaṃ nātra kāryā vicāraṇā 66| yo nāvamanyeta hariṃ tasya yāgāvidhi śrutāḥ | tīrthānyapi supuṇyāni pāvituṃ na kṣamāṇi tam 67| hasate kīrtyamānaṃ yaścaritraṃ jñānadurbalaḥ | na tasya narakānmuktiḥ kalpāṃte'pi bhaviṣyati 68| yā hi rājanvimokṣārthaṃ hayasyānucaraiḥ saha | śrāvaya śrīśacaritaṃ yato vāhagatirbhavet 69| śeṣa uvāca| iti śrutvā prahṛṣṭo'bhūcchatrughnaḥ paravīrahā | praṇamya taṃ parikramya yayau sevakasaṃyutaḥ 70| tatra gatvā sa hanumānhayavaryasya pārśvataḥ | uvāca rāmacaritaṃ mahādurgatināśakam 71| yāhi deva vimānaṃ svaṃ rāmakīrtanapuṇyataḥ | svairaṃ cara svaloke tvaṃ mukto bhava kuyonitaḥ 72| iti vākyaṃ samākarṇya śatrughno yāvadāsthitaḥ | tāvaddadarśa vimalaṃ devaṃ vaimānikaṃ varam 73| sa uvāca vimukto'haṃ rāmakīrtanasaṃśruteḥ | yāmi svaṃ bhavanaṃ rājannājñāpaya mahāmate 74| ityuktvā prayayau devo vimāne sve paristhitaḥ | tadā vismayamāpuste śatrughnena sahānugāḥ 75| tato vāho vinirmukto gātrastaṃbhācca bhūtalāt | yayau tadvipinaṃ sarvaṃ bhramanpakṣisamākulam 76| iti śrīpadmapurāṇe pātālakhaṃḍe rāmāśvamedhe śeṣavātsyāyanasaṃvāde hayanirmuktirnāmāṣṭacatvāriṃśattamo'dhyāyaḥ 48 |
English translation
Śeṣa said :
1. He who killed the enemy’s heroes, having heard what the sage told, was amazed at heart, and said to Śaunaka :
Śatrughna said :
2-3. The way of fate is mysterious, due to which that ( brāhmaṇa ) named Sāttvika , though he had reached heaven (i.e. had become divine), was made a demon by his deeds. O lord, O great sage, tell me about the path (i.e. the consequence) of deeds, and which hell is (obtained by beings) due to the result of which deeds.
Śaunaka said :
4-36. O best among the descendants of Raghu , you are blessed that you have such a good thought. Though you know (it) you are saying (i.e. asking about) for the good of the people. I (shall) tell (you about) various results of various deeds. O great king, listen to them. Hearing (about) them one would obtain salvation. He, of a wicked mind, who forcibly seizes the wealth of others, the child of another person, and an other’s wife for the sake of enjoyment, is dropped after being tied with Yama ’s noose into the Tāmisra hell for a thousand years. There the arrogant servants of Yama beat him up. Then tormented by the fruition of his sins, he goes to (i.e. is born in) the species of pigs. Having experienced great misery there he goes to human species (i.e. is born as a human being) which is characterised by diseases etc. and which acquaints him with his infamy. He engaged in (committing) sins, deceives (other) beings, and feeds his own family only. He would fall into (the hell called) Andhatāmisraka. Those men who kill beings here (i.e. in this world) wrongly fall into (the hell called) Raurava and are eaten up by ruru (deer). He who, for (filling) his own belly, plainly kills (other) beings, is, through Yama’s order, dropped into (the hell called) Mahāraurava . He, the sinner, who hates his own father or a brāhmaṇa, (is dropped) into the vicious (hell called) Kālasūtra extending over a myriad yojanas . He who hates cows is roasted for as many years as the hair on (the bodies of) the beasts by Yama’s servants. That king who would, on the earth, punish him who does not deserve punishment or that greedy king who gives physical punishment to a brāhmaṇa, is harassed by Yama’s servants having faces like those of pigs. Then for being free from (his) sins he is born in wicked stocks. Those men who through their might foolishly snatch or destroy the little wealth of brāhmaṇas or the means of subsistence of cows, are oppressed very much, and are thrown into (the hell called) Andhakūpa in the other world. He who being greedy brings and eats all alone sweet food, and intent on tasting (i.e. enjoying) it does not give it either to a deity or to his friend, certainly falls into the hell called Kṛmibhojana . That man who, when not facing a calamity, would snatch away gold etc. or the wealth of a brāhmaṇa, would fall into the very vicious hell (called) Sanda -ṃśa. The fool who nourishes his own body (only) and does not know (i.e. care for) anyone else, is dropped into the very terrible hell (called) Kumbhīpāka hot with oil. The servants of Yama make the man who would, through folly, desire an unapproachable lady to be his wife, embrace her metallic image (in hell). Those who, insolent through their might, violate the propriety of conduct as laid down by the Vedas , fall into Taraṇī and become eaters of flesh and blood. He who having made a śūdra woman his wife would lead the householder’s life with her, is full of great misery and certainly falls into the Pūyoda (hell). Those fools, those rogues who practise religious hypocrisy for cheating people, are beaten by Yama and fall into Vaiśasa hell. Those fools, those sinners who make their wives of the same caste drink their semen, are engaged in drinking semen in a stream of semen. Thieves, those who set fire, those who are wicked, those who administer poison, those who plunder villages, being full of sins, are thrown into Sārameyādana (hell). A man who, full of sin, forcibly snatches the wealth of others, falls with his face downwards into Avīcinaraka. Having experienced much misery there he would go to (i.e. would be born in) the most sinful stock. The servants of Yama make him, the foolish man who through (sheer love of) taste drinks liquor, drink liquid iron. That man who through the pride of his knowledge and conduct, would disregard his elders, is after death thrown with his face downwards into the Kṣāranaraka. Those men who deviating from righteous conduct commit treachery, are thrown into the hell (called) Śūlaprota full of many torments. That wicked man who inflicts pain on all men through his words, falls into the Daṇḍaśūka (hell) and is bitten by snakes. Thus, O king, there are many hells for the sinners. Having committed sins they go (to them); and these (sinners) experience terrible agony. Those who have not listened to the story of Rāma or have not obliged others, have all (kinds) of miseries in hell. It is said that he who has happiness here, would have it in heaven. Those who are miserable and diseased, have come from hell.
Śeṣa said :
37-39. Hearing this the king, trembling every moment, again asked the brāhmaṇa to get all his doubts removed. (He said:) “O great sage, tell (me) the characteristics of the respective sins. Due to which sin, and having which characteristics, is (a man) born on the earth?” Hearing those words of him, the sage said to the king: “O king, listen, I shall tell (you) the characteristics of the sinners.”
Śaunaka said :
40-69. One who drinks liquors and one having black teeth is born in hell. One who eats what is prohibited, is born as one having chronic enlargement of the spleen. He who eats (food) seen by a woman in her course, is born as one who has worms in his belly. Having eaten (food) touched by a dog, a cat etc. a man would be of (i.e. give out) foul smell. A man who eats (food) without offering (it) to gods etc. has a disease in his belly, is unhappy, and is troubled by a great malady. By creating obstacles in the food of others (i.e. by spoiling their food), indigestion takes place (in the body of the man who spoils others’ food). He who though he has wealth (i.e. though he can afford to give good food), gives bad food, has slow digestion. A man who gives (i.e. administers) poison, gets vomitting sickness; he who kills (a person) on the way, has a disease in his feet. A wicked man is born as one suffering from asthma and cough in hell. A rogue would suffer from epilepsy; and he who torments others would suffer from colic. He who causes forest conflagration would suffer from dysentery. He who would throw dung into a temple or into water, would suffer from a very terrible disease of the anus (as) a manifestation of his sin. The diseases caused by miscarriage are consumption, urinary diseases and dropsy. A man who breaks the image (of a deity), does not have stability (in life). One who speaks wickedly becomes maimed; one who censures others becomes bald-headed. A man who laughs at what others say becomes squint-eyed; he who steals gold of a brāhmaṇa has bad nails. He who steals copper becomes corpulent. He who steals bell-metal becomes a leper. A man who snatches tin has his hair tawny. A man who takes away lead suffers from headache. A man who steals iron becomes a blockhead. A man who steals hide is surrounded by (i.e. full of) fat. A man who steals honey smells like a goat. By stealing oil a man is extremely troubled by itch. By stealing raw food a man becomes toothless; and by taking away cooked food he would suffer from a disease of the tongue. By copulating with his teacher’s wife a man suffers from strangury. By copulating with his sister he becomes a leper. So also by cohabiting with his daughter he suffers from leprosy. By cohabiting with his brother’s wife he suffers from leprosy called gulma - kuṣṭha . By cohabiting with her who is approachable only by his master, he suffers from leprosy with red spots on the cheeks. By cohabiting with the wife of his confidant he suffers from ring-worm. By having sexual intercourse with his father's sister he would have boils in the right side of his body. By cohabiting with his maternal uncle’s wife he would have boils on the left side of his body. He has leprosy on his waist by cohabiting with the wife of his paternal uncle. By having sexual intercourse with his friend’s wife he becomes one whose wife dies (i.e. becomes a widower). By having sexual intercourse with a woman of his own family he suffers from fistula in the anus. One who cohabits with a female ascetic suffers from urinary disease. By having sexual intercourse with the wife of a learned brāhmaṇa he suffers from ulcer in the nose. By cohabiting with the wife of him who is initiated a man has a flow of defective blood. He who cohabits with the wife of his kinsman suffers from the ulcer of the heart. He who has sexual intercourse with a woman of a higher caste suffers from the ulcer of the head. By cohabiting with a beast he suffers from a urinary disease. There is no doubt that men suffer from these diseases in hell. Women also suffer from these diseases by having sexual intercourse with the respective men. Thus, O king, the characteristics of great sinners are narrated. The sin would perish by means of religious merit due to charity, by hearing Rama ’s deeds, or by (practising) penance. The river of the narration of the deeds of Viṣṇu would wash all the sins—the mud—of the sinners. There should be no doubt about this. (Even) Gaṅgā does not purify him who despises Hari . Even very meritorious holy places are not able to purify him. He who being weak in knowledge (i.e. being ignorant) laughs at the deeds being narrated, does not get freedom from hell even at the end of the world. O king, go with your followers for freeing the horse. Relate the deeds of the lord of Srī, so that the horse would move.
Śeṣa said :
70-76. Having heard this, Śatrughna , the killer of the enemy’s heroes, became delighted and accompanied by his servants saluted him, and turning back went (back). Having, with Hanūmat, gone to the side of (i.e. near) the excellent horse, he narrated Rāma’s deeds destroying terrible misfortunes. “Go (in) to the divine vehicle due to the religious merit obtained by the narration (of the deeds) of Rāma. Move freely in the world. Be free from the bad birth.” When after having these words Śatrughna stood by, he saw an excellent (man) borne in a divine car. He said: “By listening to the narration (of the deeds) of Rāma, I have become free. O very intelligent king, I (shall) go to my abode. Give me leave to go.” Saying so the divine one seated in his divine car, left. At that time, the followers (of Śatrughna) along with Śatrughna were amazed. Then the horse was free from the stiffness and the ground; and wandering through that forest full of birds proceeded.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 43942, revision 336119 (2022-04-18T20:36:04Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365359.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.