Skip to main content

Kriyāyogasāra-khaṇḍa · Chapter 20

Chapter 20

Unit 687 of 693Kriyāyogasāra-khaṇḍa · Chapter 20Kriyāyogasāra-khaṇḍa · Chapter 201 source entries

Kriyāyogasāra-khaṇḍa · Chapter 20

Source

व्यास उवाच- विष्णुपूजाफलं विप्र संक्षेपात्कथितं मया । इदानीं वच्मि दानानि निशामय समाहितः १। दानं तपो द्वयोर्मध्ये दानमेकं परं स्मृतम् । तपसा पापमित्युक्तं न पापो दानकर्मणि २। तपः कृतयुगे श्रेष्ठं त्रेतायां ध्यानमेव च । सपर्या द्वापरे श्रेष्ठा दानं श्रेष्ठं कलौ युगे ३। तस्मात्कलियुगे दानं प्रीतये कमलापतेः । कर्तव्यं सततं प्राज्ञैरिच्छद्भिः परमं पदम् ४। कलया कलया चन्द्र कलां संवर्द्धते तथा । दानस्य सा गतिः प्रोक्ता तपसश्च मनीषिभिः ५। पलादपि द्विजश्रेष्ठ कर्तव्यो वित्तसंग्रहः । संचितं तु धनं प्राज्ञो दानकर्मणि संक्षिपेत् ६। धने स्थितोपि यो मर्त्यो नाश्नाति न ददाति यः । दरिद्र सः च विज्ञेयो दानभोगविवर्जितः ७। वित्तं केन सहायाति याति तेन तु को द्विज । आयाति तत्पुरा दत्तमिह पंचत्वमागते ८। दत्वा दत्वा सदा दानं मानवा ये दरिद्रति । न ते दरिद्रा विज्ञेयाः परलोके महेश्वराः ९। धनं रक्षंति कार्पण्याद्ये ते ज्ञेयाः सुदुःखिताः । अंते त्यक्त्वा च तत्सर्वं निराशा यांति जैमिने १०। परलोके द्विजश्रेष्ठः साधुसद्बलवर्जितः । निर्द्धने बंधुहीने च नादत्तमुपतिष्ठते ११। स्तोकं स्तोकं च विप्रेन्द्र भक्तिश्रद्धासमन्वितः । नित्यं देयानि दानानि वैष्णवैर्निजभक्तितः १२। सर्वेषामेव दानानामन्नदानं द्विजोत्तम । जलदानं च तत्वज्ञैरतिश्रेष्ठं प्रकीर्तितम् १३। विनान्नेन न तिष्ठंति प्राणा देहेषु देहिनाम् । अन्नदः प्राणदो ज्ञेयः प्राणदः सकलप्रदः १४। तस्मात्समस्तदानानामन्नदो लभते फलम् । अन्नदानसमं दानं जलदानं च जैमिने १५। विना तोयेन नान्नं स्यादतस्तोयं प्रदीयते । क्षुधा तृषापि विप्रेन्द्र द्वे तुल्ये तु प्रकीर्तिते १६। तस्माद्दत्वा च तोयं च श्रेष्ठं प्रोक्तं मनीषिभिः । जीवनं जीवनं नॄणां जीवनं न च जीवनम् १७। अतो जीवनरक्षार्थं जीवनं प्राज्ञ उत्सृजेत् । अन्नं तोयं च विप्रेन्द्र दत्तं येन महीतले १८। तेन सर्वाणि दानानि कृतानि नात्र संशयः । अन्नदानस्य माहात्म्यं जलदानस्य वै शृणु १९। बभूव हास्तिनपुरे कुबेर इव वित्तवान् । तस्मिन्नेव पुरे वेश्या बभूव सुरसुंदरी २०। ख्याता रतिविदग्धेति सर्वलक्षणसंयुता । तत्र क्षेमंकरी नाम ब्राह्मणी श्रेष्ठवंशजा २१। समस्तगुणसम्पन्ना विधवासीद्द्विजात्मजा । सा ब्राह्मणी द्विजश्रेष्ठ जारानुरक्तमानसा २२। निषिद्धं कर्म कुर्वंती त्यक्त्वा यात्यविवेकताम् । तया संनिहिता विप्र वेश्यापि ब्राह्मणी च सा २३। चकार सख्यं स्नेहेन वेश्यावृत्तिमुपेत्य सा । सा वेश्या ब्राह्मणी चापि द्वेऽप्येकत्र दिने दिने २४। पापानि चक्रतुः प्रीत्या असंख्यातानि जैमिने । ततो रतिविदग्धा सा वृद्धभावमुपागता २५। ब्राह्मणी चापि विप्रेन्द्र दुःशीलात्यंतपापिनी । कदाचिद्वारमुख्या सा जरंती तां निजां सखीम् २६। प्राहेति विस्मिता विप्र वचनं विनयान्विता । रतिविदग्धोवाच - सखि त्वया सहानेकं दारुणं पातकं कृतम् २७। अद्यापि पातके दृष्टिर्महती वर्तते मम । सौन्दर्यं च बलं चैव सर्वं मे जरया हृतम् २८। इत्थमस्वास्थ्यकृन्नित्यमाशां त्यक्तुं न शक्यते । स्थावरं सुमहत्प्राप्तं कृतपातकया मया २९। समागतमिवैतर्हि समीक्ष्य मरणं गतम् । उपार्जितेन पापेन यानि वित्तानि वै मया ३०। रक्षिष्यंत्यनपत्यायां मृतायां मयि तानि के । तस्मात्सर्वाणि वित्तानि अन्यायोपार्जितानि च ३१। दातुमिच्छामि विप्रेभ्यो यदि त्वं मन्यसे सखि । ब्राह्मण्युवाच- मया यावन्ति वित्तानि पश्येति संचितानि च ३२। असत्पात्रेषु दत्तानि तानि सर्वाणि नित्यशः । तस्मादहं धनैर्हीना किं दास्यामि द्विजातये ३३। अस्ति चेद्यदि वित्तं ते दानमाशु तदा कुरु । तस्या एवं वचः श्रुत्वा सा वेश्यात्यंतहर्षिता ३४। वित्तेन सकलेनैव अन्नदानं चकार ह । हरिशर्मा च विप्रेन्द्रो धनवानतिभक्तितः ३५। पूजयामास सततं भगवंतं जनार्दनम् । जितेन्द्रियो जितक्रोधो हिंसादम्भविवर्जितः ३६। प्रीतये कमलाभर्तुः स तेपे सुमहत्तपः । गंधपुष्पैश्च बलिभिर्घृतधूपैः प्रदीपकैः ३७। पूजयामास देवेशं नित्यमेव जनार्दनम् । धनवानपि विप्रोऽसौ वित्तस्य क्षयशंकितः ३८। पिपीलिकामूषिकाश्च तथान्येऽपि च जंतवः । कृपणस्य द्विजश्रेष्ठ गृहे नित्यं बुभुक्षिताः ३९। उपार्जितं धनं सर्वं स्वयमेव दिनेदिने । बुभुजे ब्राह्मणश्रेष्ठ दानकर्मविवर्जितः ४०। सुहृदां ब्राह्मणानां च बांधवानां कदापि सः । चकार न च संभाषामर्थप्रार्थनशंकया ४१। विगणय्य स्ववित्तानि सुबहूनि निजालये । मत्वा श्रेष्ठमिवात्मानं मोदतेऽसौ द्विजोत्तम ४२। कदाचित्प्राप्तकालोऽसौ ब्राह्मणोऽत्यंतवित्तवान् । गणिका ब्राह्मणी सा च एककाले मृता द्विज ४३। अथ दूताः समायातास्तान्नेतुमतिभीषणाः । धर्मराजस्य देवस्य पाशमुद्गरपाणयः ४४। ते च चण्डादयो दूतास्तान्समादाय जैमिने । ययुर्धर्मपुरं सद्यो दुर्गमेन पथा ततः ४५। चण्ड उवाच- आनीतो हरिशर्मा च वेश्या च ब्राह्मणी च सा । तवाज्ञया जीवितेश पश्यैतान्पुरतः स्थितान् ४६। तान्समालोक्य जीवेशः प्रहस्य द्विजसत्तम । चित्रगुप्तमिति प्राह सर्वकार्यविचक्षणम् ४७। यम उवाच- एतेषां सर्वकार्याणि शुभदान्यशुभानि च । मूलाद्विचारय प्राज्ञ चित्रगुप्त महामते ४८। यमादेशात्ततस्तेषां चित्रगुप्तो विचक्षणः । सर्वं विचारयामास शुभकर्माशुभं तथा ४९। चित्रगुप्त उवाच- देवाकर्णय वक्ष्यामि पुण्यं च पातकं तथा । इयं वेश्या ब्राह्मणी च हरिशर्मा चकार यत् ५० 7.20.50। एषा रतिविदग्धाख्या गणिकाति दुराशया । चकार यानि पापानि वक्तुं तानि न शक्यते ५१। अन्यायोपार्जितैर्वित्तैरखिलैरेव सूर्यज । अन्नदानं चकारेयं गणिका गतयौवना ५२। अन्नदानप्रभावेण यातनागृहवासदैः । त्यक्तेयं पातकैः सर्वैः कोटिजन्मार्जितैरपि ५३। अन्नदानं महाराज ये कुर्वंति जनाः क्षितौ । ते पापिनोऽपि गच्छंति तद्विष्णोः परमं पदम् ५४। यावन्त्यन्नानि यच्छंति मानवाः क्षितिमण्डले । तावंत्यो ब्रह्महत्याश्च तस्य नश्यंत्यसंशयः ५५। अन्नानि यच्छतां त्यक्त्वा शरीराणि च पातकम् । गृह्णतामेव पात्राणि सहसा याति सूर्यज ५६। तस्मात्पापिनामन्नानि न गृह्णंति विचक्षणाः । मोहाद्गृह्णंति ये मूढास्त एव पापभागिनः ५७। शुभकर्माशुभं वापि वेश्यायाः कथितं प्रभो । ब्राह्मण्याः शृणु कर्माणि शुभानि चाशुभानि च ५८। इयं क्षेमंकरी नाम ब्राह्मणी शुद्धवंशजा । भद्रकीर्तिप्रिया सर्वं चकार दुरितं प्रभो ५९। त्यक्त्वा निजाश्रमाचारं निजयौवनगर्विता । बभूवात्यंतपापिष्ठा जारसंगमलोलुपा ६०। कदाचिच्छैशवे राजन्खेलंती शिशुभिः सह । रथ्यायां खननं चक्रे चतुष्कोणसमन्वितम् ६१। तस्मिन्नेव दिने मेघ उदकानि ववर्ष च । पूरितं तज्जलैः खातं तया विनिर्मितं प्रभो ६२। ततो मध्याह्नसमये गौरेकस्तृषितो नृप । अपिबत्तत्र पानीयं तापितस्तपनातपैः ६३। तेनैव सर्वपापानि विनष्टानि महांति वै । तस्याः सूर्यसुत प्राज्ञ जलदानप्रभावतः ६४। विमुक्ताः सकलैः पापैर्व्रजेन्नारायणालयम् । कृतपापा हि देवेश ब्राह्मणीयं दुराशया ६५। विमुक्ता सकलैः पापैर्जलदानप्रभावतः । अयं विप्रो महाभक्तो देवदेवस्य चक्रिणः ६६। ततोऽस्योपरि जीवेश प्रभुरेकोऽच्युतः स्मृतः । व्यास उवाच- चित्रगुप्तस्य तद्वाक्यं समाकर्ण्य स दंडभृत् ६७। तां वेश्यां ब्राह्मणीं चापि ववंदे ब्राह्मणं च तम् । दिव्यैः सुवर्णालंकारैर्वस्त्रैर्नानाविधैस्तथा ६८। तेषां पूजां यमः श्रुत्वा कुटुंबिनां च जैमिने । उवाच प्रहसन्वाक्यं सुप्रीतो मृदुलाक्षरम् ८९। यम उवाच- यूयं सर्वे महात्मानो विनष्टाखिलपातकाः । समस्तसुखदं स्थानं गच्छत श्रीपतेः प्रभोः ७०। तानारोप्य ततो दिव्ये यमः कांचननिर्मिते । राजहंसयुते स्थाने प्रेषयामास चक्रिणः ७१। ततो दिव्यरथारूढाः सर्वाभरणभूषिताः । पुरं भगवतो जग्मुस्ते सर्वे गतपातकाः ७२। गणिका ब्राह्मणी सा च विनष्टाखिलकल्मषा । सान्निध्यं प्राप्य देवस्य तस्थौ विप्र चिरं सुखम् ७३। हरिशर्माणमालोक्य समायांतं जनार्द्दनः । ददौ वरासनं तस्मै स्नेहात्कनकनिर्मितम् ७४। पाद्यार्घ्याचमनीयैश्च तमभ्यर्च द्विजोत्तमम् । वरासनोपविष्टं च पप्रच्छेति मुदा हरिः ७५। श्रीभगवानुवाच- द्विजन्म कुशलं ब्रूहि मद्भक्तप्रवरोऽसि यत् । चिरं मे मंदिरं तिष्ठ सर्वोपद्रववर्जिते ७६। ब्राह्मण उवाच- त्वां स्मृत्वापीक्षितो देव लभते कुशलं प्रभो । त्वत्सान्निध्यं मया प्राप्तं कुशलं किमतः परम् ७७। व्यास उवाच- एतस्य वचनं श्रुत्वा भगवान्प्रणयोदितम् । दत्तवान्निजसारूप्यं प्रीतस्तस्मै द्विजन्मने ७८। ददौ तस्मै सुखं सर्वं दुर्ल्लभं कमलापतिः । आहारमात्रं न ददौ तत्कार्पण्यं स्मरन्प्रभुः ७९। दिनद्वयांतरे विप्रो निराहारः क्षुधाकुलः । प्रोवाच विष्णुं देवेशं विनयावनतः स्थितः ८०। ब्राह्मण उवाच- प्रभोप्राप्तंतवस्थानमनेकतपसांफलैः । अत्रापि क्षुधया नित्यं विफलोऽस्मि कथं प्रभो ८१। देवकन्या गणैर्दिव्यैः संप्राप्तनवयौवनैः । श्वेतचामरवातेन मंचेष्वपि निवीजितः ८२। सुगंधानां प्रसूनानां महास्रग्भिरलंकृतः । चंदनैर्लिप्तसर्वांगो राजश्रेष्ठ इव प्रभो ८३। चार्वङ्गीभिः कामिनीभिर्नित्यं मत्पुरतः प्रभो । गीतेन नृत्यते चापि नारायण तवाज्ञया ८४। वासवाद्याः सुराः सर्वे रजांसि मम पादयोः । शिरः किरीटशोभीनि नित्यमेव वहंति वै ८५। देवदेवर्षयश्चापि मुनयश्च जगत्पते । स्तुवंति मां स्तवैर्नित्यं किंकरा इव सर्वदा ८६। चतुर्बाहुरहं श्यामः शङ्खचक्रगदाब्जभृत् । प्रफुल्लपुण्डरीकाक्षः पीतवासाः सुकुण्डलः ८७। स्वर्णयज्ञोपवीती च किरीटी कुण्डली तथा । दृश्ये त्वमिव देवाद्यैर्द्वितीयो गरुडध्वजः ८८। सुखान्येतानि दत्तानि दुर्ल्लभानि त्वया प्रभो । ददासि कथमाहारं न मह्यं परमेश्वर ८९। क्षुधाग्निना च सुमहच्छरीरं मम दह्यते । यथैव ज्वलितो वृक्षः कोटरस्थेन वह्निना ९०। सुखमेतत्त्वया दत्तं हरे मह्यं न रोचते । प्रज्वलज्जठराग्नौ तु विह्वलाङ्गाय केशव ९१। कर्मणा मनसा वाचा त्वां विना जगदीश्वरम् । न पूजितो मया कश्चिद्देवदेव गणार्चितः ९२। स्वप्नेनापि जगन्नाथ तस्य भक्तिः कृता नहि । आहारं केन दोषेण ददासि नहि मे प्रभो ९३। व्यास उवाच- अथासौ भगवान्विष्णुः कौतुकी समुवाच तम् । गच्छ ब्राह्मण भद्रं ते ब्रह्माणं प्रति सत्वरम् ९४। इति श्रुत्वा वचो विप्रः शीघ्रं ब्रह्माणमाययौ । ब्रह्मा तं प्रति प्रोवाच कार्पण्यं तस्य दर्शयन् ९५। ब्रह्मोवाच- दुःखादुपार्जितं कर्म दीयते यन्न भूसुरे । स्वयं न भुंजते तच्च नष्टमेव न संशयः ९६। कारणं तव दुःखस्य सर्वमेव मयोदितम् । गच्छ ब्राह्मण भद्रं ते निःसंदेहोयमागतः ९७। ब्राह्मण उवाच- निजकर्मविपाकोऽयं त्वत्प्रसादाच्छ्रुतोऽखिलः । इदानीं ब्रूहि दानानि कानि देयानि मानवैः ९८। ब्रह्मोवाच- बहूनि संति दानानि तानि वक्तुं न शक्यते । संक्षेपात्कथ्यते विप्र निशामय समाहितः ९९। भूमिदानं द्विजश्रेष्ठ सर्वदानोत्तमोत्तमम् । कृतं पुण्यात्मना येन स ज्ञेयः सर्वदानकृत् १०० 7.20.100। गोचर्ममात्रं भूमिं यो ददाति द्विजसत्तम । स गच्छेत्परमं स्थानं विमुक्तः सर्वपातकैः १०१। भूमिं सस्यसमेतां यो दरिद्राय द्विजातये । ददाति ब्राह्मणश्रेष्ठ तस्य पुण्यं निशामय १०२। सर्वपापविनिर्मुक्तो नारायणपुरं व्रजेत् । तत्र भुंक्ते सुखं सर्वं यावदिंद्राश्चतुर्दश १०३। भूयो भूमिं समासाद्य सार्वभौमो नृपो भवेत् । चिरं भुक्त्वा महीं कृत्स्नां नरो नारायणो भवेत् १०४ । यस्माद्भूमिर्द्विजैर्ग्राह्या त्यक्त्वा दानशतान्यपि । भूमिदो भूमिनेता च द्वावपि स्वर्गगामिनौ १०५। मंदबुर्द्धिर्द्विजो यस्तु भूमिदानं परित्यजेत् । प्रतिजन्मनि विप्रेन्द्र स भवेदतिदुःखितः १०६। अन्येभ्योऽपि समादाय भूमिदानं य आचरेत् । तस्य विष्णुरति प्रीतो ददाति परमं पदम् १०७। ग्रामं यच्छति यो विप्र दरिद्राय द्विजातये । दापयत्यपि वा तस्य पुण्यं वापि निशामय १०८। यावंतो रेणवो भूमौ यावंतो वृष्टिबिंदवः । मन्वंतराणि तावंति विष्णुलोके वसेत्सुधीः १०९। धेनुं पयस्विनीं यस्तु सवत्सां यच्छति द्विज । तस्य ब्रवीम्यहं पुण्यमाकर्णय महात्मनः ११०। सप्तद्वीपां महीं दत्वा ससस्यां यत्फलं लभेत् । तत्फलं लभते मर्त्यो धेनुं यच्छन्द्विजातये १११। ददाति वृषभं यस्तु ब्राह्मणाय कुटुंबिने । विमुक्तः पातकै रुद्रै रुद्रलोकं स गच्छति ११२। तस्य यावंति रोमाणि शरीरे वृषभस्य च । तावत्कल्पसहस्राणि रुद्रेण सह मोदते ११३। यस्तु वेदविदे धेनुं दद्यादुभयतोमुखीम् । न तस्य पुनरावृत्ती रुद्रलोकात्कदाचन ११४। वृषं तिलसमायुक्तं कृष्णं यस्तु प्रयच्छति । स रुद्रभवने तिष्ठेद्द्विजेन्द्र तिलसंख्यया ११५। तिलप्रमाणमपि च स्वर्णं दद्याद्द्विजातये । स याति विष्णुभवनं कुलकोटिसमन्वितः ११६। यो भक्त्या रजतं यच्छेद्दरिद्राय द्विजातये । चंद्रलोकं समासाद्य सुधापानं करोति सः ११७। हीरकं मौक्तिकं चापि प्रवालं च मणिं तथा । यो ददाति द्विजश्रेष्ठ शक्रलोकं स गच्छति ११८। अश्वदानं द्विजश्रेष्ठ यः करोति महाशयः । गन्धर्वराजराजत्वं स प्राप्नोति न संशयः ११९। ददाति वारणं यस्तु युवानं दोषवर्जितम् । देवराज्ये विभागी स भवेदिन्द्र इव द्विज १२०। नरदोलां च यो दद्याद्ब्राह्मणाय सदक्षिणाम् । सोऽपीन्द्रपदमासाद्य वसेत्कल्पचतुष्टयम् १२१। शालिग्रामशिलादानं यो ददाति द्विजातये । तस्य पुण्यं प्रवक्ष्यामि समासेन शृणु द्विज १२२। सप्तद्वीपां महीं दत्वा सशैलवनकाननाम् । यत्फलं तच्च लभते शालग्रामशिलाप्रदः १२३। तुलापुरुषदानेन यत्फलं प्राप्यते नरैः । शालग्रामशिलां यच्छंस्तस्मात्कोटिगुणं लभेत् १२४। शालग्रामशिला येन प्रदत्ता द्विजसत्तम । नूनं तेन प्रदत्तानि भुवनानि चतुर्दश १२५। तुलापुरुषदानं यः प्रकरोति नरोत्तम । दिवि दिव्यांबरधरश्चिरं स च महीपतिः १२६। जननीजठरे भूयस्तस्य जन्म न विद्यते । ददाति यस्तु वै कन्यां सालंकारां नरोत्तमः १२७। स गच्छेद्विष्णुभवनं पुनरावृत्तिवर्जितः । यः कन्याविक्रयं मूढो मोहात्प्रकुरुते नरः १२८। स गच्छेन्नरकं घोरं पुरीषह्रदसंज्ञकम् । विक्रीतायाश्च कन्याया यः पुत्रो जायते द्विज १२९। स चांडाल इव ज्ञेयः सर्वधर्मबहिष्कृतः । कन्याविक्रयिणः पुंसो मुखं पश्येन्न शास्त्रवित् १३०। पश्येदज्ञानतो वापि कुर्याद्भास्करदर्शनम् । यत्किंचित्क्रियते कर्म कन्याविक्रयिणः पुरः १३१। शुभं तत्सकलं कर्म गच्छेद्विफलतां द्विज । कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः १३२। कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः । बहुनात्र किमुक्तेन संक्षेपेण ब्रवीमि ते १३३। हीरकक्षितिकन्यानां फलं स्याच्च शताधिकम् । उपानहं चातपत्रं यस्तु यच्छति भूतले १३४। शृणु तस्य तु वै पुण्यं संक्षेपेण ब्रवीमि ते । इह वर्षशतं जीवेत्सर्वसंपत्समन्वितः १३५। मृतः शक्रपुरं प्राप्य शतकल्पचतुष्टयम् । ददाति नूतनं वस्त्रं स याति परमां गतिम् १३६। वस्त्रं पुरातनं यच्छेद्धेनुं च रजतीं तथा । कन्यां रजस्वलां यस्तु स सदा नरकं व्रजेत् १३७। फलदो मानवो विप्र गच्छति त्रिदशालयम् । भुंक्ते कल्पसहस्राणि फलं तत्रामृतोपमम् १३८। शाकप्रदो याति विप्र शंभोर्भगवतः पदम् । तत्र कल्पद्वयं भुंक्ते पायसं दुर्ल्लभं सुरैः १३९। दुग्धदो दधिदश्चैव घृतदस्तक्रदस्तथा । प्राप्नोति वै सुधापानं पुरो भगवतो हरेः १४०। पुष्पदो मनुजो विप्र गन्धदश्च सुरालयम् । तिष्ठेद्युगसहस्राणि पुष्पगन्धविभूषितः १४१। शय्यादानं द्विजश्रेष्ठ यः करोति द्विजोत्तम । स ब्रह्मलोकमागत्य पर्यंकशयनश्चिरम् १४२। दीपदः पीठदश्चैव सर्वपापविवर्जितः । दिव्यसिंहासनस्थश्च जलदीपावलीवृतः १४३। तांबूलदो नरो राजन्भुवि भुंक्तेऽखिलं शुभम् । दिवि देवाङ्गनाक्रोडे सुप्तस्तांबूलमत्ति वै १४४। विद्यादानं द्विजश्रेष्ठ यः करोति नरोत्तम । संप्राप्य संनिधिं विष्णोस्तिष्ठेद्युगशतद्वयम् १४५। ततो ज्ञानं समासाद्य तत्रैव द्विजसत्तम । प्राप्नोति दुर्ल्लभं मोक्षं प्रसादात्कमलापतेः १४६। अनाथं ब्राह्मणं यस्तु पाठयत्यतिदुःखितम् । स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् १४७। कुलीनोऽपि द्विजश्रेष्ठो न भाति विद्यया विना । तस्माद्दिवजं पाठयंतः प्रयांति परमं पदम् १४८। भुवि प्रत्यक्षदेवोऽपि ब्राह्मणो देवताश्रयः । सर्ववर्णगुरुर्नैव विद्याहीनो विराजते १४९। संसारे यानि दानानि संति हेमादिकानि च । तानि तेन प्रदत्तानि ब्राह्मणो येन पाठितः १५० 7.20.150। कुर्यात्पुस्तकदानं यो नरो भक्तिसमन्वितः । तस्य पुण्यं द्विजश्रेष्ठ संक्षेपात्ते वदाम्यहम् १५१। तत्राक्षराणि यावंति पत्रे पत्रे च पुस्तके । प्रत्यक्षरे लभेत्पुण्यं कपिलाकोटिदानजम् १५२। यावद्दिनं पुस्तकं तत्प्रपठंति द्विजातयः । तावन्मन्वंतरं तिष्ठेद्वैकुंठे पुस्तकप्रदः १५३। एवमादीन्यनेकानि संति दानानि भूसुर । सम्यग्वक्तुं जगत्यस्मिन्कः शक्तो द्विशतैरपि १५४। ब्रह्महत्यादि पापानि क्रियंते यानि मानवैः । हन्यंते तानि पापानि तस्माद्दानं समाचरेत् १५५। आत्मपुण्येन यद्दानं दीयते च त्रिभिर्जनैः । यावद्द्रव्यं फलं तस्मात्तस्य दानस्य लभ्यते १५६। प्रीतये कमलाभर्तुर्यद्दानं दीयते जनैः । तस्यकोटिगुणं पुण्यं लभते नात्र संशयः १५७। तस्मान्नारायणप्रीतिहेतवे मतिमान्नरः । दानं समाचरेद्विप्र भक्तिकर्मसमन्वितः १५८। तपसोऽपि परं दानं निरुक्तं तत्वदर्शिभिः । अतो यत्नादपि प्राज्ञो दानकर्मसमाचरेत् १५९। दानं तपो द्वे अपि यः प्रकरोति नरोत्तमः । तस्य तुल्यो जगत्यस्मिन्विद्यते न हि भूसुर १६०। इति श्रीपद्मपुराणे क्रियायोगसारे सर्वदानमाहात्म्यंनाम विंशोऽध्यायः २० ।

vyāsa uvāca- viṣṇupūjāphalaṃ vipra saṃkṣepātkathitaṃ mayā | idānīṃ vacmi dānāni niśāmaya samāhitaḥ 1| dānaṃ tapo dvayormadhye dānamekaṃ paraṃ smṛtam | tapasā pāpamityuktaṃ na pāpo dānakarmaṇi 2| tapaḥ kṛtayuge śreṣṭhaṃ tretāyāṃ dhyānameva ca | saparyā dvāpare śreṣṭhā dānaṃ śreṣṭhaṃ kalau yuge 3| tasmātkaliyuge dānaṃ prītaye kamalāpateḥ | kartavyaṃ satataṃ prājñairicchadbhiḥ paramaṃ padam 4| kalayā kalayā candra kalāṃ saṃvarddhate tathā | dānasya sā gatiḥ proktā tapasaśca manīṣibhiḥ 5| palādapi dvijaśreṣṭha kartavyo vittasaṃgrahaḥ | saṃcitaṃ tu dhanaṃ prājño dānakarmaṇi saṃkṣipet 6| dhane sthitopi yo martyo nāśnāti na dadāti yaḥ | daridra saḥ ca vijñeyo dānabhogavivarjitaḥ 7| vittaṃ kena sahāyāti yāti tena tu ko dvija | āyāti tatpurā dattamiha paṃcatvamāgate 8| datvā datvā sadā dānaṃ mānavā ye daridrati | na te daridrā vijñeyāḥ paraloke maheśvarāḥ 9| dhanaṃ rakṣaṃti kārpaṇyādye te jñeyāḥ suduḥkhitāḥ | aṃte tyaktvā ca tatsarvaṃ nirāśā yāṃti jaimine 10| paraloke dvijaśreṣṭhaḥ sādhusadbalavarjitaḥ | nirddhane baṃdhuhīne ca nādattamupatiṣṭhate 11| stokaṃ stokaṃ ca viprendra bhaktiśraddhāsamanvitaḥ | nityaṃ deyāni dānāni vaiṣṇavairnijabhaktitaḥ 12| sarveṣāmeva dānānāmannadānaṃ dvijottama | jaladānaṃ ca tatvajñairatiśreṣṭhaṃ prakīrtitam 13| vinānnena na tiṣṭhaṃti prāṇā deheṣu dehinām | annadaḥ prāṇado jñeyaḥ prāṇadaḥ sakalapradaḥ 14| tasmātsamastadānānāmannado labhate phalam | annadānasamaṃ dānaṃ jaladānaṃ ca jaimine 15| vinā toyena nānnaṃ syādatastoyaṃ pradīyate | kṣudhā tṛṣāpi viprendra dve tulye tu prakīrtite 16| tasmāddatvā ca toyaṃ ca śreṣṭhaṃ proktaṃ manīṣibhiḥ | jīvanaṃ jīvanaṃ nṝṇāṃ jīvanaṃ na ca jīvanam 17| ato jīvanarakṣārthaṃ jīvanaṃ prājña utsṛjet | annaṃ toyaṃ ca viprendra dattaṃ yena mahītale 18| tena sarvāṇi dānāni kṛtāni nātra saṃśayaḥ | annadānasya māhātmyaṃ jaladānasya vai śṛṇu 19| babhūva hāstinapure kubera iva vittavān | tasminneva pure veśyā babhūva surasuṃdarī 20| khyātā ratividagdheti sarvalakṣaṇasaṃyutā | tatra kṣemaṃkarī nāma brāhmaṇī śreṣṭhavaṃśajā 21| samastaguṇasampannā vidhavāsīddvijātmajā | sā brāhmaṇī dvijaśreṣṭha jārānuraktamānasā 22| niṣiddhaṃ karma kurvaṃtī tyaktvā yātyavivekatām | tayā saṃnihitā vipra veśyāpi brāhmaṇī ca sā 23| cakāra sakhyaṃ snehena veśyāvṛttimupetya sā | sā veśyā brāhmaṇī cāpi dve'pyekatra dine dine 24| pāpāni cakratuḥ prītyā asaṃkhyātāni jaimine | tato ratividagdhā sā vṛddhabhāvamupāgatā 25| brāhmaṇī cāpi viprendra duḥśīlātyaṃtapāpinī | kadācidvāramukhyā sā jaraṃtī tāṃ nijāṃ sakhīm 26| prāheti vismitā vipra vacanaṃ vinayānvitā | ratividagdhovāca - sakhi tvayā sahānekaṃ dāruṇaṃ pātakaṃ kṛtam 27| adyāpi pātake dṛṣṭirmahatī vartate mama | saundaryaṃ ca balaṃ caiva sarvaṃ me jarayā hṛtam 28| itthamasvāsthyakṛnnityamāśāṃ tyaktuṃ na śakyate | sthāvaraṃ sumahatprāptaṃ kṛtapātakayā mayā 29| samāgatamivaitarhi samīkṣya maraṇaṃ gatam | upārjitena pāpena yāni vittāni vai mayā 30| rakṣiṣyaṃtyanapatyāyāṃ mṛtāyāṃ mayi tāni ke | tasmātsarvāṇi vittāni anyāyopārjitāni ca 31| dātumicchāmi viprebhyo yadi tvaṃ manyase sakhi | brāhmaṇyuvāca- mayā yāvanti vittāni paśyeti saṃcitāni ca 32| asatpātreṣu dattāni tāni sarvāṇi nityaśaḥ | tasmādahaṃ dhanairhīnā kiṃ dāsyāmi dvijātaye 33| asti cedyadi vittaṃ te dānamāśu tadā kuru | tasyā evaṃ vacaḥ śrutvā sā veśyātyaṃtaharṣitā 34| vittena sakalenaiva annadānaṃ cakāra ha | hariśarmā ca viprendro dhanavānatibhaktitaḥ 35| pūjayāmāsa satataṃ bhagavaṃtaṃ janārdanam | jitendriyo jitakrodho hiṃsādambhavivarjitaḥ 36| prītaye kamalābhartuḥ sa tepe sumahattapaḥ | gaṃdhapuṣpaiśca balibhirghṛtadhūpaiḥ pradīpakaiḥ 37| pūjayāmāsa deveśaṃ nityameva janārdanam | dhanavānapi vipro'sau vittasya kṣayaśaṃkitaḥ 38| pipīlikāmūṣikāśca tathānye'pi ca jaṃtavaḥ | kṛpaṇasya dvijaśreṣṭha gṛhe nityaṃ bubhukṣitāḥ 39| upārjitaṃ dhanaṃ sarvaṃ svayameva dinedine | bubhuje brāhmaṇaśreṣṭha dānakarmavivarjitaḥ 40| suhṛdāṃ brāhmaṇānāṃ ca bāṃdhavānāṃ kadāpi saḥ | cakāra na ca saṃbhāṣāmarthaprārthanaśaṃkayā 41| vigaṇayya svavittāni subahūni nijālaye | matvā śreṣṭhamivātmānaṃ modate'sau dvijottama 42| kadācitprāptakālo'sau brāhmaṇo'tyaṃtavittavān | gaṇikā brāhmaṇī sā ca ekakāle mṛtā dvija 43| atha dūtāḥ samāyātāstānnetumatibhīṣaṇāḥ | dharmarājasya devasya pāśamudgarapāṇayaḥ 44| te ca caṇḍādayo dūtāstānsamādāya jaimine | yayurdharmapuraṃ sadyo durgamena pathā tataḥ 45| caṇḍa uvāca- ānīto hariśarmā ca veśyā ca brāhmaṇī ca sā | tavājñayā jīviteśa paśyaitānpurataḥ sthitān 46| tānsamālokya jīveśaḥ prahasya dvijasattama | citraguptamiti prāha sarvakāryavicakṣaṇam 47| yama uvāca- eteṣāṃ sarvakāryāṇi śubhadānyaśubhāni ca | mūlādvicāraya prājña citragupta mahāmate 48| yamādeśāttatasteṣāṃ citragupto vicakṣaṇaḥ | sarvaṃ vicārayāmāsa śubhakarmāśubhaṃ tathā 49| citragupta uvāca- devākarṇaya vakṣyāmi puṇyaṃ ca pātakaṃ tathā | iyaṃ veśyā brāhmaṇī ca hariśarmā cakāra yat 50 7.20.50| eṣā ratividagdhākhyā gaṇikāti durāśayā | cakāra yāni pāpāni vaktuṃ tāni na śakyate 51| anyāyopārjitairvittairakhilaireva sūryaja | annadānaṃ cakāreyaṃ gaṇikā gatayauvanā 52| annadānaprabhāveṇa yātanāgṛhavāsadaiḥ | tyakteyaṃ pātakaiḥ sarvaiḥ koṭijanmārjitairapi 53| annadānaṃ mahārāja ye kurvaṃti janāḥ kṣitau | te pāpino'pi gacchaṃti tadviṣṇoḥ paramaṃ padam 54| yāvantyannāni yacchaṃti mānavāḥ kṣitimaṇḍale | tāvaṃtyo brahmahatyāśca tasya naśyaṃtyasaṃśayaḥ 55| annāni yacchatāṃ tyaktvā śarīrāṇi ca pātakam | gṛhṇatāmeva pātrāṇi sahasā yāti sūryaja 56| tasmātpāpināmannāni na gṛhṇaṃti vicakṣaṇāḥ | mohādgṛhṇaṃti ye mūḍhāsta eva pāpabhāginaḥ 57| śubhakarmāśubhaṃ vāpi veśyāyāḥ kathitaṃ prabho | brāhmaṇyāḥ śṛṇu karmāṇi śubhāni cāśubhāni ca 58| iyaṃ kṣemaṃkarī nāma brāhmaṇī śuddhavaṃśajā | bhadrakīrtipriyā sarvaṃ cakāra duritaṃ prabho 59| tyaktvā nijāśramācāraṃ nijayauvanagarvitā | babhūvātyaṃtapāpiṣṭhā jārasaṃgamalolupā 60| kadācicchaiśave rājankhelaṃtī śiśubhiḥ saha | rathyāyāṃ khananaṃ cakre catuṣkoṇasamanvitam 61| tasminneva dine megha udakāni vavarṣa ca | pūritaṃ tajjalaiḥ khātaṃ tayā vinirmitaṃ prabho 62| tato madhyāhnasamaye gaurekastṛṣito nṛpa | apibattatra pānīyaṃ tāpitastapanātapaiḥ 63| tenaiva sarvapāpāni vinaṣṭāni mahāṃti vai | tasyāḥ sūryasuta prājña jaladānaprabhāvataḥ 64| vimuktāḥ sakalaiḥ pāpairvrajennārāyaṇālayam | kṛtapāpā hi deveśa brāhmaṇīyaṃ durāśayā 65| vimuktā sakalaiḥ pāpairjaladānaprabhāvataḥ | ayaṃ vipro mahābhakto devadevasya cakriṇaḥ 66| tato'syopari jīveśa prabhureko'cyutaḥ smṛtaḥ | vyāsa uvāca- citraguptasya tadvākyaṃ samākarṇya sa daṃḍabhṛt 67| tāṃ veśyāṃ brāhmaṇīṃ cāpi vavaṃde brāhmaṇaṃ ca tam | divyaiḥ suvarṇālaṃkārairvastrairnānāvidhaistathā 68| teṣāṃ pūjāṃ yamaḥ śrutvā kuṭuṃbināṃ ca jaimine | uvāca prahasanvākyaṃ suprīto mṛdulākṣaram 89| yama uvāca- yūyaṃ sarve mahātmāno vinaṣṭākhilapātakāḥ | samastasukhadaṃ sthānaṃ gacchata śrīpateḥ prabhoḥ 70| tānāropya tato divye yamaḥ kāṃcananirmite | rājahaṃsayute sthāne preṣayāmāsa cakriṇaḥ 71| tato divyarathārūḍhāḥ sarvābharaṇabhūṣitāḥ | puraṃ bhagavato jagmuste sarve gatapātakāḥ 72| gaṇikā brāhmaṇī sā ca vinaṣṭākhilakalmaṣā | sānnidhyaṃ prāpya devasya tasthau vipra ciraṃ sukham 73| hariśarmāṇamālokya samāyāṃtaṃ janārddanaḥ | dadau varāsanaṃ tasmai snehātkanakanirmitam 74| pādyārghyācamanīyaiśca tamabhyarca dvijottamam | varāsanopaviṣṭaṃ ca papraccheti mudā hariḥ 75| śrībhagavānuvāca- dvijanma kuśalaṃ brūhi madbhaktapravaro'si yat | ciraṃ me maṃdiraṃ tiṣṭha sarvopadravavarjite 76| brāhmaṇa uvāca- tvāṃ smṛtvāpīkṣito deva labhate kuśalaṃ prabho | tvatsānnidhyaṃ mayā prāptaṃ kuśalaṃ kimataḥ param 77| vyāsa uvāca- etasya vacanaṃ śrutvā bhagavānpraṇayoditam | dattavānnijasārūpyaṃ prītastasmai dvijanmane 78| dadau tasmai sukhaṃ sarvaṃ durllabhaṃ kamalāpatiḥ | āhāramātraṃ na dadau tatkārpaṇyaṃ smaranprabhuḥ 79| dinadvayāṃtare vipro nirāhāraḥ kṣudhākulaḥ | provāca viṣṇuṃ deveśaṃ vinayāvanataḥ sthitaḥ 80| brāhmaṇa uvāca- prabhoprāptaṃtavasthānamanekatapasāṃphalaiḥ | atrāpi kṣudhayā nityaṃ viphalo'smi kathaṃ prabho 81| devakanyā gaṇairdivyaiḥ saṃprāptanavayauvanaiḥ | śvetacāmaravātena maṃceṣvapi nivījitaḥ 82| sugaṃdhānāṃ prasūnānāṃ mahāsragbhiralaṃkṛtaḥ | caṃdanairliptasarvāṃgo rājaśreṣṭha iva prabho 83| cārvaṅgībhiḥ kāminībhirnityaṃ matpurataḥ prabho | gītena nṛtyate cāpi nārāyaṇa tavājñayā 84| vāsavādyāḥ surāḥ sarve rajāṃsi mama pādayoḥ | śiraḥ kirīṭaśobhīni nityameva vahaṃti vai 85| devadevarṣayaścāpi munayaśca jagatpate | stuvaṃti māṃ stavairnityaṃ kiṃkarā iva sarvadā 86| caturbāhurahaṃ śyāmaḥ śaṅkhacakragadābjabhṛt | praphullapuṇḍarīkākṣaḥ pītavāsāḥ sukuṇḍalaḥ 87| svarṇayajñopavītī ca kirīṭī kuṇḍalī tathā | dṛśye tvamiva devādyairdvitīyo garuḍadhvajaḥ 88| sukhānyetāni dattāni durllabhāni tvayā prabho | dadāsi kathamāhāraṃ na mahyaṃ parameśvara 89| kṣudhāgninā ca sumahaccharīraṃ mama dahyate | yathaiva jvalito vṛkṣaḥ koṭarasthena vahninā 90| sukhametattvayā dattaṃ hare mahyaṃ na rocate | prajvalajjaṭharāgnau tu vihvalāṅgāya keśava 91| karmaṇā manasā vācā tvāṃ vinā jagadīśvaram | na pūjito mayā kaściddevadeva gaṇārcitaḥ 92| svapnenāpi jagannātha tasya bhaktiḥ kṛtā nahi | āhāraṃ kena doṣeṇa dadāsi nahi me prabho 93| vyāsa uvāca- athāsau bhagavānviṣṇuḥ kautukī samuvāca tam | gaccha brāhmaṇa bhadraṃ te brahmāṇaṃ prati satvaram 94| iti śrutvā vaco vipraḥ śīghraṃ brahmāṇamāyayau | brahmā taṃ prati provāca kārpaṇyaṃ tasya darśayan 95| brahmovāca- duḥkhādupārjitaṃ karma dīyate yanna bhūsure | svayaṃ na bhuṃjate tacca naṣṭameva na saṃśayaḥ 96| kāraṇaṃ tava duḥkhasya sarvameva mayoditam | gaccha brāhmaṇa bhadraṃ te niḥsaṃdehoyamāgataḥ 97| brāhmaṇa uvāca- nijakarmavipāko'yaṃ tvatprasādācchruto'khilaḥ | idānīṃ brūhi dānāni kāni deyāni mānavaiḥ 98| brahmovāca- bahūni saṃti dānāni tāni vaktuṃ na śakyate | saṃkṣepātkathyate vipra niśāmaya samāhitaḥ 99| bhūmidānaṃ dvijaśreṣṭha sarvadānottamottamam | kṛtaṃ puṇyātmanā yena sa jñeyaḥ sarvadānakṛt 100 7.20.100| gocarmamātraṃ bhūmiṃ yo dadāti dvijasattama | sa gacchetparamaṃ sthānaṃ vimuktaḥ sarvapātakaiḥ 101| bhūmiṃ sasyasametāṃ yo daridrāya dvijātaye | dadāti brāhmaṇaśreṣṭha tasya puṇyaṃ niśāmaya 102| sarvapāpavinirmukto nārāyaṇapuraṃ vrajet | tatra bhuṃkte sukhaṃ sarvaṃ yāvadiṃdrāścaturdaśa 103| bhūyo bhūmiṃ samāsādya sārvabhaumo nṛpo bhavet | ciraṃ bhuktvā mahīṃ kṛtsnāṃ naro nārāyaṇo bhavet 104 | yasmādbhūmirdvijairgrāhyā tyaktvā dānaśatānyapi | bhūmido bhūminetā ca dvāvapi svargagāminau 105| maṃdaburddhirdvijo yastu bhūmidānaṃ parityajet | pratijanmani viprendra sa bhavedatiduḥkhitaḥ 106| anyebhyo'pi samādāya bhūmidānaṃ ya ācaret | tasya viṣṇurati prīto dadāti paramaṃ padam 107| grāmaṃ yacchati yo vipra daridrāya dvijātaye | dāpayatyapi vā tasya puṇyaṃ vāpi niśāmaya 108| yāvaṃto reṇavo bhūmau yāvaṃto vṛṣṭibiṃdavaḥ | manvaṃtarāṇi tāvaṃti viṣṇuloke vasetsudhīḥ 109| dhenuṃ payasvinīṃ yastu savatsāṃ yacchati dvija | tasya bravīmyahaṃ puṇyamākarṇaya mahātmanaḥ 110| saptadvīpāṃ mahīṃ datvā sasasyāṃ yatphalaṃ labhet | tatphalaṃ labhate martyo dhenuṃ yacchandvijātaye 111| dadāti vṛṣabhaṃ yastu brāhmaṇāya kuṭuṃbine | vimuktaḥ pātakai rudrai rudralokaṃ sa gacchati 112| tasya yāvaṃti romāṇi śarīre vṛṣabhasya ca | tāvatkalpasahasrāṇi rudreṇa saha modate 113| yastu vedavide dhenuṃ dadyādubhayatomukhīm | na tasya punarāvṛttī rudralokātkadācana 114| vṛṣaṃ tilasamāyuktaṃ kṛṣṇaṃ yastu prayacchati | sa rudrabhavane tiṣṭheddvijendra tilasaṃkhyayā 115| tilapramāṇamapi ca svarṇaṃ dadyāddvijātaye | sa yāti viṣṇubhavanaṃ kulakoṭisamanvitaḥ 116| yo bhaktyā rajataṃ yaccheddaridrāya dvijātaye | caṃdralokaṃ samāsādya sudhāpānaṃ karoti saḥ 117| hīrakaṃ mauktikaṃ cāpi pravālaṃ ca maṇiṃ tathā | yo dadāti dvijaśreṣṭha śakralokaṃ sa gacchati 118| aśvadānaṃ dvijaśreṣṭha yaḥ karoti mahāśayaḥ | gandharvarājarājatvaṃ sa prāpnoti na saṃśayaḥ 119| dadāti vāraṇaṃ yastu yuvānaṃ doṣavarjitam | devarājye vibhāgī sa bhavedindra iva dvija 120| naradolāṃ ca yo dadyādbrāhmaṇāya sadakṣiṇām | so'pīndrapadamāsādya vasetkalpacatuṣṭayam 121| śāligrāmaśilādānaṃ yo dadāti dvijātaye | tasya puṇyaṃ pravakṣyāmi samāsena śṛṇu dvija 122| saptadvīpāṃ mahīṃ datvā saśailavanakānanām | yatphalaṃ tacca labhate śālagrāmaśilāpradaḥ 123| tulāpuruṣadānena yatphalaṃ prāpyate naraiḥ | śālagrāmaśilāṃ yacchaṃstasmātkoṭiguṇaṃ labhet 124| śālagrāmaśilā yena pradattā dvijasattama | nūnaṃ tena pradattāni bhuvanāni caturdaśa 125| tulāpuruṣadānaṃ yaḥ prakaroti narottama | divi divyāṃbaradharaściraṃ sa ca mahīpatiḥ 126| jananījaṭhare bhūyastasya janma na vidyate | dadāti yastu vai kanyāṃ sālaṃkārāṃ narottamaḥ 127| sa gacchedviṣṇubhavanaṃ punarāvṛttivarjitaḥ | yaḥ kanyāvikrayaṃ mūḍho mohātprakurute naraḥ 128| sa gacchennarakaṃ ghoraṃ purīṣahradasaṃjñakam | vikrītāyāśca kanyāyā yaḥ putro jāyate dvija 129| sa cāṃḍāla iva jñeyaḥ sarvadharmabahiṣkṛtaḥ | kanyāvikrayiṇaḥ puṃso mukhaṃ paśyenna śāstravit 130| paśyedajñānato vāpi kuryādbhāskaradarśanam | yatkiṃcitkriyate karma kanyāvikrayiṇaḥ puraḥ 131| śubhaṃ tatsakalaṃ karma gacchedviphalatāṃ dvija | kanyāvikrayiṇo nāsti narakānniṣkṛtiḥ punaḥ 132| kanyādānakṛto nāsti svargādāgamanaṃ punaḥ | bahunātra kimuktena saṃkṣepeṇa bravīmi te 133| hīrakakṣitikanyānāṃ phalaṃ syācca śatādhikam | upānahaṃ cātapatraṃ yastu yacchati bhūtale 134| śṛṇu tasya tu vai puṇyaṃ saṃkṣepeṇa bravīmi te | iha varṣaśataṃ jīvetsarvasaṃpatsamanvitaḥ 135| mṛtaḥ śakrapuraṃ prāpya śatakalpacatuṣṭayam | dadāti nūtanaṃ vastraṃ sa yāti paramāṃ gatim 136| vastraṃ purātanaṃ yaccheddhenuṃ ca rajatīṃ tathā | kanyāṃ rajasvalāṃ yastu sa sadā narakaṃ vrajet 137| phalado mānavo vipra gacchati tridaśālayam | bhuṃkte kalpasahasrāṇi phalaṃ tatrāmṛtopamam 138| śākaprado yāti vipra śaṃbhorbhagavataḥ padam | tatra kalpadvayaṃ bhuṃkte pāyasaṃ durllabhaṃ suraiḥ 139| dugdhado dadhidaścaiva ghṛtadastakradastathā | prāpnoti vai sudhāpānaṃ puro bhagavato hareḥ 140| puṣpado manujo vipra gandhadaśca surālayam | tiṣṭhedyugasahasrāṇi puṣpagandhavibhūṣitaḥ 141| śayyādānaṃ dvijaśreṣṭha yaḥ karoti dvijottama | sa brahmalokamāgatya paryaṃkaśayanaściram 142| dīpadaḥ pīṭhadaścaiva sarvapāpavivarjitaḥ | divyasiṃhāsanasthaśca jaladīpāvalīvṛtaḥ 143| tāṃbūlado naro rājanbhuvi bhuṃkte'khilaṃ śubham | divi devāṅganākroḍe suptastāṃbūlamatti vai 144| vidyādānaṃ dvijaśreṣṭha yaḥ karoti narottama | saṃprāpya saṃnidhiṃ viṣṇostiṣṭhedyugaśatadvayam 145| tato jñānaṃ samāsādya tatraiva dvijasattama | prāpnoti durllabhaṃ mokṣaṃ prasādātkamalāpateḥ 146| anāthaṃ brāhmaṇaṃ yastu pāṭhayatyatiduḥkhitam | sa yāti viṣṇubhavanaṃ punarāvṛttidurllabham 147| kulīno'pi dvijaśreṣṭho na bhāti vidyayā vinā | tasmāddivajaṃ pāṭhayaṃtaḥ prayāṃti paramaṃ padam 148| bhuvi pratyakṣadevo'pi brāhmaṇo devatāśrayaḥ | sarvavarṇagururnaiva vidyāhīno virājate 149| saṃsāre yāni dānāni saṃti hemādikāni ca | tāni tena pradattāni brāhmaṇo yena pāṭhitaḥ 150 7.20.150| kuryātpustakadānaṃ yo naro bhaktisamanvitaḥ | tasya puṇyaṃ dvijaśreṣṭha saṃkṣepātte vadāmyaham 151| tatrākṣarāṇi yāvaṃti patre patre ca pustake | pratyakṣare labhetpuṇyaṃ kapilākoṭidānajam 152| yāvaddinaṃ pustakaṃ tatprapaṭhaṃti dvijātayaḥ | tāvanmanvaṃtaraṃ tiṣṭhedvaikuṃṭhe pustakapradaḥ 153| evamādīnyanekāni saṃti dānāni bhūsura | samyagvaktuṃ jagatyasminkaḥ śakto dviśatairapi 154| brahmahatyādi pāpāni kriyaṃte yāni mānavaiḥ | hanyaṃte tāni pāpāni tasmāddānaṃ samācaret 155| ātmapuṇyena yaddānaṃ dīyate ca tribhirjanaiḥ | yāvaddravyaṃ phalaṃ tasmāttasya dānasya labhyate 156| prītaye kamalābharturyaddānaṃ dīyate janaiḥ | tasyakoṭiguṇaṃ puṇyaṃ labhate nātra saṃśayaḥ 157| tasmānnārāyaṇaprītihetave matimānnaraḥ | dānaṃ samācaredvipra bhaktikarmasamanvitaḥ 158| tapaso'pi paraṃ dānaṃ niruktaṃ tatvadarśibhiḥ | ato yatnādapi prājño dānakarmasamācaret 159| dānaṃ tapo dve api yaḥ prakaroti narottamaḥ | tasya tulyo jagatyasminvidyate na hi bhūsura 160| iti śrīpadmapurāṇe kriyāyogasāre sarvadānamāhātmyaṃnāma viṃśo'dhyāyaḥ 20 |

English translation

Vyāsa said :

1. O brāhmaṇa , I have told you in brief the fruit of Viṣṇu ’s worship. Now I shall tell (you about) the presents. Listen attentively.

2-3. Of giving presents and penance, giving presents is said to be superior. Due to penance, it is said, there is sin. In the act of giving presents there is no sin. Penance is (said to be) the best in Kṛtayuga . And meditation is (said to be) the best in Tretā ( yuga ). Worship is (said to be) the best in Dvāpara (yuga). Giving presents is (said to be) the best in Kali (yuga).

4-6. Therefore, the wise desiring the highest position, should always make presents for pleasing Lakṣmī ’s lord in Kaliyuga . As the moon waxes digit by digit, similar is said to be the condition of giving gifts and of penance by the wise. O best brāhmaṇa, wealth should be stored (beginning) with even a straw. A wise man should use his stored wealth in giving gifts.

7-8. A man who, though having wealth, does not enjoy or give it, should be known to be a poor man, deprived of giving gifts or of enjoyment. O brāhmaṇa, with whom does wealth come? Who goes with it? When death comes, that which is given before in this world comes (to a man’s help).

9-11. Those men who become poor due to repeatedly giving gifts should not be known to be poor. They are the great lords in the next world. Those who save wealth due to miserliness should be known to be very unhappy. O Jaimini , at the end, giving it up all, they, being disappointed, go (i.e. die). O best brāhmaṇa, a man bereft of a good, strong power (lives) in the other world devoid of wealth and relatives. Whatever is not given by a man, does not stand by him there.

12. O best brāhmaṇa, the devotees of Viṣṇu, having devotion and faith, should everyday devoutly give small gifts.

13-19a. O best brāhmaṇa, the wise have declared the gift of food as the best of all gifts. So also the gift of water. Vital airs cannot stay in the body without food. (Therefore) one who gives food should be known to be the giver of life. (And) the giver of life is the giver of everything. Therefore, the giver of food obtains the fruit of all (kinds of) gifts. O Jaimini, giving water is similar to giving food. Food would not exist without water. Therefore, water is given. O best brāhmaṇa, hunger and thirst are said to be equal. Therefore, the wise have said the gift of water to be the best. Water is the life of men. Life is not their life. Therefore, for the protection of life, a wise man should give water. O best brāhmaṇa, he who has given food and water on the earth, has given all gifts. There is no doubt about it.

19b. Listen to the greatness of the gift of food and the gift of water:

20-26a. In the city of Hastināpura itself there lived a prostitute beautiful like a divine damsel, rich like Kubera . She was known as Ratividagdhā , and had all the marks (of a beautiful lady). There (also) lived a brāhmaṇa lady, named Kṣemaṅkarī, born in a great family. That daughter of a brāhmaṇa, who possessed all virtues, was a widow. O best brāhmaṇa, that brāhmaṇa lady had her mind attached to paramours. She, doing prohibited act(s) became thoughtless. O brāhmaṇa, the brāhmaṇa lady, being near the prostitute, formed friendship with her, and took to the life of a prostitute, O Jaimini, the prostitute and the brāhmaṇa lady together, joyfully, everyday committed inumerable sins. Then that Ratividagdhā attained old age. The brāhmaṇa lady of a bad character also (became old). Sometime that chief prostitute who was aging, who was very much amazed, and who was full of modesty, said these words to her friend, O brāhmaṇa:

Ratividagdhā said :

26b-32a. O friend, along with you, I committed many fearful sins. Even now I have a great thought (i.e. a strong desire) for (committing) sins. All my beauty and strength has been taken away by old age. (The condition) like this causing ill-health, does not make (me) give up hope. I, who have committed sins, have secured very great real estate. Seeing this my death, as it were, has approached. Who will protect my wealth obtained through sins which I committed, when I die issuless? Therefore, O friend, if you consent, I desire to give to brāhmaṇas all my wealth obtained unjustly.

The brāhmaṇa lady said :

32b-34. See, I have always given to unworthy recipients all the wealth which I had collected. Therefore, I am without wealth. What shall I give to a brāhmaṇa? If you have wealth, then make a present of it quickly.

Hearing these words of her, the prostitute was very much glad.

35-43. With all her wealth she made a present of food. There was an excellent brāhmaṇa named Hariśarman , who very devoutly always worshipped lord Viṣṇu. He who had curbed his senses and his anger, who was free from harming (others) and hypocrisy, practised a great (i.e. severe) penance to please Lakṣmī’s lord. With sandal, flowers, offerings, incense, ghee and lamps he everyday worshipped Viṣṇu, the lord of gods. Even though the brāhmaṇa was rich he was always afraid of spending money. O best brāhmaṇa, in the house of the miser, ants, rats and other living beings, were always hungry. O best brāhmaṇa, he, without (i.e. not doing) the act of giving gifts, himself enjoyed everyday all the wealth that he had earned. For fear of being requested (to give) money, he never conversed with his friends and his brāhmaṇa relatives. O best brāhmaṇa, counting his very large wealth in his own house, he, regarding himself as the greatest, delighted himself. O brāhmaṇa, at the time destined for death, that very rich brāhmaṇa, that prostitute and that brāhmaṇa lady died at the same time.

44-45. Then, very fierce messengers, with nooses and mallets in their hands, of god Dharmarāja (i.e. Yama ) came to take them (to him). Then, O Jaimini, those messengers like Caṇḍa , took them and instantly went to Yama’s city along a difficult path.

Caṇḍa said (to Yama ):

46. O lord of life, by your order Hariśarman is brought here. So also the prostitute, the brāhmaṇa lady (are brought here). Look at them standing before you.

47. Seeing them, the lord of life laughed, O best brāhmaṇa, and spoke thus to Citragupta skilled in all jobs:

Yama said :

48. O wise, very intelligent Citragupta, think over, from the beginning all the good and evil acts of these.

49. Then by Yama’s order, the wise Citragupta considered all their good as well as evil acts.

Citragupta said :

50-56. O god, listen I shall tell (you) their religious merit and sins, which this prostitute, this brāhmaṇa lady and Hariśarman did. It is not possible to narrate the sins which this prostitute called Ratividagdhā, of a very wicked heart, committed. O Sun’s son, this one, when she became old, gave food with all her wealth that was unjustly earned. Due to the efficacy of the gift of food, she was abandoned by all her sins committed during crores of existences, which would have resulted in her residence in houses of torments (i.e. where torments are inflicted). O great king, those who, even though they are sinners, give gift of food on the earth, go to the highest position of Viṣṇu. As many sins of (i.e. due to) brahminicide perish as the number of foods given by men on the earth. There is no doubt about it. Sin, leaving the bodies of the givers of food, goes to the vessels of those receiving it, O Sun’s son.

57-58. Therefore, the wise ones do not accept the food of sinners. Those fools who accept it through delusion are sinners only. O lord, I have told the good and evil acts of the prostitute. Listen to the good and evil acts of the brāhmaṇa lady.

59-67a. O lord, this brāhmaṇa lady named Kṣemaṅkarī, born in a pure family, and the wife of Bhadrakīrti, committed evil acts. Abandoning the acts of (i.e. suited to) the stage of life, she, proud of her youth, ardently longing for union with paramours, became most sinful. O king, once in her childhood, while playing with (other) children, she dug a ditch having four corners on the road. On the same day clouds showered water. O lord, that ditch made by her was filled with water. O king, at noon, a thirsty bull scorched by the sun’s heat drank water there. Due to the efficacy of the act of giving water only, all her great sins perished, O wise son of the Sun. Freed from all sins, she went to Viṣṇu’s abode. O lord of gods, this wicked brāhmaṇa lady who had committed sins, became freed from all sins due to the effcacy of the gift of water. This brāhmaṇa is a great devotee of the Disc-holder, the god of gods. Therefore, O lord of life, Viṣṇu alone is said to be superior to him.

Vyāsa said :

67b-69. Having heard those words of Citragupta, Yama saluted the prostitute, the brāhmaṇa lady and the brāhmaṇa. Having heard about the worship of them and the members of their family, Yama, very much pleased, laughed and spoke words containing soft letters (i.e. spoke soft words), O Jaimini.

Yama said :

70-71. All you noble ones have all your sins perished. Go to the place of Viṣṇu, lord of Lakṣmī, which gives all pleasures.

Then Yama, having put them into a divine (chariot) which was made of gold and to which royal swans were yoked, sent them to the place of the Disc-holder (i.e. Viṣṇu).

72. Then all of them, freed from sins, mounted upon a divine chariot, and adorned by all ornaments, went to the lord’s city.

73-75. That prostitute, with all her sins perished, obtained the proximity of the god, and lived happily for a long time, O brāhmaṇa. So also the brāhmaṇa lady. Seeing that Hariśarman in the assembly Viṣṇu, through affection, gave him an excellent seat made of gold. Having gladly honoured the best brāhmaṇa by offering him water for washing his feet, a respectful offering, water for sipping, Viṣṇu asked him seated on an excellent seat (there):

The lord said :

76. O brāhmaṇa, tell me about your happiness (i.e. How do you do?). Since you are my excellent devotee, stay for a long time in my abode, free from all troubles.

The brāhmaṇa said :

77. O god, O lord, on remembering you, you are seen. (And the devotee) gets happiness. I have obtained your proximity. What greater happiness is there than this?

Vyāsa said :

78-80. Hearing his words spoken through affection, the lord gave the brāhmaṇa his similarity (i.e. assimilated the brāhmaṇa into himself). The lord of Lakṣmī, gave him all happiness difficult to be obtained; but remembering his miserliness, did not give him his measure of food. After a couple of days, the brāhmaṇa, being without food (and therefore) overcome by hunger, and being humble through modesty, said to Viṣṇu, the lord of gods:

The brāhmaṇa said :

81-90. O lord, as the fruits of many austerities I have secured your position. O lord, even here how am I everyday suffering from hunger? Even on beds I am fanned with breezes from white chowries by celestial hosts of divine maidens who have attained the prime of youth? O lord, like the best king, I am adorned with large garlands of fragrant flowers and my entire body is smeared with sandal. O Viṣṇu, by your order, everyday ladies with beautiful bodies dance to the accompaniment of songs before me. Everyday, gods like Indra always carry the dust-particles from my feet (on their heads), which beautify the crowns on their heads. And, O lord of the world, gods, divine sages, (other) sages, always praise me with eulogies like (my) servants. I have become Viṣṇu, having four arms, dark, holding a conch, a disc, a mace, and a lotus, having eyes like full-blown lotuses, wearing a yellow garment, and fine ear-rings. I am having a golden sacred thread, a crown and also ear-rings. By gods I am seen to be another Garuḍa -bannered (god) like you. O lord, you have given me all these pleasures difficult to be obtained. (Then) O highest lord, how (i.e. why) do you not give me food? As a tree is burnt by the fire in its hollow, my body is being very much scorched by the fire of hunger.

91-93. O Viṣṇu, with the digestive fire of the stomach blazing, I, whose body is afflicted, do not like this happiness given by you. None else worshipped by hosts of gods, except you, the lord of the world, has ever been worshipped by me through (physical) acts, mentally, or through speech. I have not been devoted to him (i.e. any other god than you) even in a dream. (Then) due to which fault (of mine), O lord, you are not giving me food?

Vyāsa said :

94-95. Then lord Viṣṇu, full of joy, said to him: “Well-being to you, O brāhmaṇa. Go quickly to Brahmā .”

Hearing these words, the brāhmaṇa quickly went to Brahma . Pointing out to him his miserliness, Brahmā said to him:

Brahmā said :

96-97. There is no doubt that (the fruit of) an action, obtained with difficulty, which is not given to a brāhmaṇa nor enjoyed by oneself, perishes. I have told you the entire cause of your affliction. O brāhmaṇa, well-being to you; you who have come from Yama, (now) go without any doubt.

The brāhmaṇa said

98. Through your grace I have heard fully (about) this maturity of my acts. Now tell (me) which gifts should be given by men.

Brhamā said :

99-101. There are many (kinds) of gifts. (All) cannot be described. O brāhmaṇa, I (shall) tell (about them) in brief. Listen attentively. O best brāhmaṇa, the pious one who has made the gift of land, the best of all gifts, should be known to be the giver of all (kinds of) gifts. O best brāhmaṇa, he who _gives (a piece of) land measuring a gocarman , [1] would, being freed from all sins, go to the highest place.

102-107. Listen to the religious merit of (i.e. earned by) him who gives land along with the crop to a poor braāhmaṇa, O best brāhmaṇa. Freed from all sins, he would go to Viṣṇu’s city. There he enjoys all happiness as long as fourteen Indras (rule). Again obtaining land, he would be a sovereign emperor. That man, enjoying the entire earth for a long time, would become Viṣṇu. Since, brāhmaṇas should accept the land, even after abandoning (i.e. not accepting) hundreds of (other) gifts, the giver of the land and its receiver both go to heaven. O best brāhmaṇa, that dull brāhmaṇa who would reject the gift of land, would be very much afflicted in every existence. Even with him Viṣṇu is pleased and gives the highest position to him who would give a gift of land, even after obtaining it from others.

108-110. O brāhmaṇa, listen to the religious merit of (i.e. obtained by) him who gives or causes (someone else) to give a village to a poor brāhrnaṇa. The wise one would live in Viṣṇu’s world for as many periods of Manu as there are dust-particles on the earth or as there are drops in showers. O brāhmaṇa, I am telling you about the religious merit of the noble one who gives a milch-cow along with her calf (to a brāhmaṇa). Listen.

111-121. A man who gives a cow to a brāhmaṇa would obtain that fruit which one would get by giving the earth with the seven islands along with the crop (on it). He who gives a bull to a brāhmaṇa with a family, is freed from sins and goes to Rudra ’s world. For as many thousands of kalpas as the number of small hair on the body of the bull, he rejoices with Rudra. He who gives a cow to one proficient in the Vedas , never returns (to this world) from Rudra’s world. O best brāhmaṇa, he who gives a bull with sesamum seeds (to a brāhmaṇa) would live in Rudra’s abode in accordance with the number of the sesamum seeds. He who gives gold even of the measure of a sesamum seed to a brāhmaṇa, goes, along with crores (of the members) of his family to Viṣṇu’s abode. He who would devoutly give silver to a poor brāhmaṇa, reaches the world of the Moon and drinks nectar (there). O best brāhmaṇa, he who gives a diamond or a pearl or a coral or any (other) gem, goes to Indra’s world. O best brāhmaṇa, he, the generous-minded one, who gives the gift of a horse (to a brāhmaṇa) obtains the kingship of kings of gandharvas . There is no doubt about it. He who gives a young elephant without blemishes, would become a partner in the kingdom of gods like Indra, O brāhmaṇa. He too, who would give a palanquin carried by men, along with presents, to a brāhmaṇa, would also, having secured Indra’s position, live there for four kalpas.

122-126. O brāhmaṇa, I shall tell, in brief, (about) the religious merit of (i.e. got by) him who gives the gift of śālagrāma stone to a brāhmaṇa; (please) listen. The giver of a śālagrāma stone obtains the same fruit as one obtains by giving the earth with the seven islands and with mountains and forests. The giver of a śālagrāma stone would get a crores times greater fruit than the one which men obtain by giving gold, jewelsor other valuable things equal to their own weight. [2] O best brāhmaṇa, he who has given a śālagrāma stone has indeed given the fourteen worlds. O best man, that man who gives gold etc. equal to his weight, (lives) in heaven wearing divine garments, and (becomes) a king.

127-130. He is not born again in (i.e. from) the mother’s womb. That best man who gives his daughter adorned (with ornaments, in marriage, to a worthy groom), would go to Viṣṇu’s abode without (being required) to be born again. That foolish man who through delusion, sells his daughter, would go to the fearful hell called Purīṣahrada. O brāhmaṇa, that son that is born from the daughter (thus) sold, should be known like a cāṇḍāla , expelled from all religious rites. A man knowing the holy texts, should never see the face of him who sells his daughter.

131-136. If through ignorance he sees it, he should look at the Sun. O brāhmaṇa, all that auspicious act that is done in the presence of him who sells his daughter, would become fruitless, O brāhmaṇa. For the seller of his daughter there is no escape from hell. The one who gives his daughter (in marriage) does not again return from heaven. What is the use of talking much in this regard? I shall tell (it to you) in brief. The fruit of (the gift of) a diamond, (a piece) of land, and a daughter is hundred times more. Listen to the religious merit of (i.e. obtained by) him who gives a pair of shoes, an umbrella on the earth. I shall tell it to you in brief. Endowed with all affluence he would live here (i.e. in this world) for a hundred years. Reaching Indra’s city after death (he would live there) for four hundred kalpas. He who gives a new garment goes to the best position.

137-147. He who would give an old garment, or an aging [3] cow or a girl in her menses, would always go to hell. O brāḥmaṇa, a man who gives (the gift of) a fruit, goes to the abode of gods (i.e. heaven). There he enjoys the fruit like nectar for thousands of kalpas. O brāhmaṇa, the giver of vegetables goes to the position of lord Śiva . There he enjoys, along with gods, rice boiled in milk for two kalpas. A giver of milk, of curd, of ghee and of butter-milk obtains the drink of nectar in front of lord Viṣṇu. O brāhmaṇa, a man who gives flowers, sandal, (would go) to the abode of gods (i.e. heaven and), decorated with flowers and sandal would stay there for thousands of yugas . O best brāhmaṇa, he who offers a bed, comes to Brahmā’s world, and lies for a long time on a bed there. O best brāhmaṇa, he who offers a lamp or a seat, being free from all sins, is seated, surrounded by rows of burning lamps, on divine throne. O king(?), the giver of a tāmbūla enjoys all auspicious things. Lying on the bosom of divine ladies in heaven, he eats tāmbūla. O best brāhmaṇa, O best man, he who gives knowledge, would, after securing Viṣṇu’s proximity, stay (near him) for a couple of hundred yugas. Then, O best brāhmaṇa, having secured knowledge there, he obtains, through the grace of Lakṣmī’s lord, liberation, difficult to obtain. He who teaches a helpless, much afflicted brāhmaṇa, goes to Viṣṇu’s abode, from which return (to this earth) is difficult to be had.

148-153. Even the best brāhmaṇa belonging to a noble family, does not shine without knowledge. Therefore, those who teach a brāhmaṇa, go to the highest position. A brāhmaṇa, to whom deities resort, is actually a god. The preceptor of all castes does not at all shine without knowledge. He who has taught a brāhmaṇa, has given (all) the gifts like gold, that are there in the world. O best brāhmaṇa, I (shall) tell you in brief the religious merit of that man who devoutly gives the gift of a book. For every letter that is there on every leaf of the book, he would get the fruit of giving a crore of tawny cows. The giver of the book would live in Vaikuṇṭha for as many periods of Manu as the days twice-borns read that book.

154-160. O brāhmaṇa, there are many such gifts. Even in two hundred (months) who is in this world able to describe them correctly? All those sins like brāhmaṇicide which are committed by men are destroyed (by gifts). Therefore, one should give gifts. The fruit of that gift is obtained as long as the material of the gift given by the three castes through their religious merit, exists. There is no doubt that a man obtains the religious merit, crore times more than the gift given to please Lakṣmī’s lord. O brāhmaṇa, therefore, an intelligent man should devoutly give a gift to please Viṣṇu. The wise have declared giving gifts to be superior even to penance. Therefore, a wise man should, even with an effort, give gifts. O brāhmaṇa, there is none like him in this world who does both—giving gifts and practising penance.

[1]: [1] : Gocarman—A particular measure of surface thus defined by Vasiṣṭha:

[2]: [2] : Tulāpuruṣa—Gold, jewels or other valuable things equal to a man’s weight (given to a brāhmaṇa as a gift).

[3]: [3] : Rajatī— Jaratī seems to be the correct reading and not rajatī which means ‘whitish’.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 45208, revision 336768 (2022-04-27T03:52:15Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365861.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.