Skip to main content

Pātāla-khaṇḍa · Chapter 12

Chapter 12

Unit 307 of 693Pātāla-khaṇḍa · Chapter 12Pātāla-khaṇḍa · Chapter 121 source entries

Pātāla-khaṇḍa · Chapter 12

Source

शेष उवाच। इत्युक्तवंतं स्वपतिं वीक्ष्य प्रेम्णा सुनिर्भरम् । प्रत्युवाच हसंतीव किंचिद्गद्गदभाषिणी १। नाथ ते विजयोभूयात्सर्वत्र रणमंडले । शत्रुघ्नाज्ञा प्रकर्तव्या हयरक्षा यथा भवेत् २। स्मरणीया हि सर्वत्र सेविका त्वत्पदानुगा । कदापि मानसं नाथ त्वत्तो नान्यत्र गच्छति ३। परमायोधने कांत स्मर्तव्याहं न जातुचित् । सत्यां मयि तव स्वांते युद्धे 3विजयसंशयः ४। पद्मनेत्र तथा कार्यमूर्मिलाद्या यथा मम । हास्यं नैव प्रकुर्वंति मां वीक्ष्य करताडनैः ५। इयं पत्नी महाभीरोः संग्रामे प्रपलायितुः । कातरा यर्हि युद्ध्यंति शूराणां समयः कुतः ६। इत्येवं न हसंत्युच्चैर्यथा मे देवरांगनाः । तथा कार्यं महाबाहो रामस्य हयरक्षणे ७। योद्धा त्वमादौ सर्वत्र परे ये तव पृष्ठतः । धनुष्टंकारबधिराः क्रियंतां बलिनः परे ८। तवप्रोद्यत्करांभोज करवालभिया बलम् । परेषां भवतात्क्षिप्रमन्योन्य भयव्याकुलम् ९। कुलं महदलं कार्यं परान्विजयता त्वया । गच्छ स्वामिन्महाबाहो तव श्रेयो भवत्विह १०। इदं धनुर्गृहाणाशु महद्गुणविभूषितम् । यस्य गर्जितमाकर्ण्य वैरिवृंदं भयातुरम् ११। इमौ ते त्विषुधी वीर बध्येतां शं यथा भवेत् । वैरिकोटिविनिष्पेष बाणकोटि सुपूरितौ १२। कवचं त्विदमाधेहि शरीरे कामसुंदरे । वज्रप्रभा महादीप्ति हतसंतमसंदृढम् १३। शिरस्त्राणं निजोत्तंसे कुरु कांत मनोरमम् । इमेव तंसे विशदे मणिरत्नविभूषिते १४। इति सुविमलवाचं वीरपुत्रीं प्रपश्यन् । नयनकमलदृष्ट्या वीक्षमाणस्तंदंगम् । अधिगतपरिमोदो भारतिः शत्रुजेता । रणकरणसमर्थस्तां जगादातिधीरः १५। पुष्कल उवाच। कांते यत्त्वं वदसि मां तथा सर्वं चराम्यहम् । वीरपत्नी भवेत्कीर्तिस्तव कांतिमतीप्सिता १६। इति कांतिमतीदत्तं कवचं मुकुटं वरम् । धनुर्महेषुधीखड्गं सर्वं जग्राह वीर्यवान् १७। परिधाय च तत्सर्वं बहुशो भासमन्वितः । शुशुभेऽतीव सुभटः सर्वशस्त्रास्त्रकोविदः १८। तमस्त्रशस्त्रशोभाढ्यं वीरमालाविभूषितम् । कुंकुमागुरुकस्तूरी चंदनादिकचर्चितम् १९। नानाकुसुममालाभिराजानुपरिशोभितम् । नीराजयामास मुहुस्तत्र कांतिमती सती २०। नीराजयित्वा बहुशः किरंती मौक्तिकैर्मुहुः । गलदश्रुचलन्नेत्रा परिरेभे पतिं निजम् २१। दृढं सपरिरभ्यैतां चिरमाश्वासयत्तदा । वीरपत्नि कांतिमति विरहं मा कृथा मम २२। एष गच्छामि सविधे तव भामे पतिव्रते । इत्युक्त्वा तां निजां पत्नीं रथमारुरुहे वरम् २३। तं प्रयांतं पतिं श्रेष्ठं नयनैर्निमिषोज्झितैः । विलोकयामास तदा पतिव्रतपरायणा २४। स ययौ जनकं द्रष्टुं जननीं प्रेमविह्वलाम् । गत्वा पितरमंबां च ववंदे शिरसा मुदा २५। माता पुत्रं परिष्वज्य स्वांकमारोपयत्तदा । मुंचंती बाष्पनिचयं स्वस्त्यस्त्विति जगाद सा २६। पितरं प्राह भरतं रामो यज्ञकरः परः । पालनीयो लक्ष्मणेन भवद्भिश्च महात्मभिः २७। आज्ञप्तोऽसौ जनन्या च पित्रा हृषितया गिरा । ययौ शत्रुघ्नकटकं महावीरविभूषितम् २८। रथिभिः पत्तिभिर्वीरैः सदश्वैः सादिभिर्वृतः । ययौ मुदा रघूत्तंस महायज्ञहयाग्रणीः २९। गच्छन्पांचालदेशांश्च कुरूंश्चैवोत्तरान्कुरून् । दशार्णाञ्छ्रीविशालांश्च सर्वशोभासमन्वितः ३०। तत्र तत्रोपशृण्वानो रघुवीरयशोऽखिलम् । रावणासुरघातेन भक्तरक्षाविधायकम् ३१। पुनश्च हयमेधादि कार्यमारभ्य पावनम् । यशो वितन्वन्भुवने लोकान्रामोऽविता भयात् ३२। तेभ्यस्तुष्टो ददौ हारान्रत्नानि विविधानि च । महाधनानि वासांसि शत्रुघ्नः प्रवरो महान् ३३। सुमतिर्नाम तेजस्वी सर्वविद्याविशारदः । रघुनाथस्य सचिवः शत्रुघ्नानुचरो वरः ३४। ययौ तेन महावीरो ग्रामाञ्जनपदान्बहून् । रघुनाथप्रतापेन न कोपि हृतवान्हयम् ३५। देशाधिपाये बहवो महाबलपराक्रमाः । हस्त्यश्वरथपादात चतुरंगसमन्विताः ३६। संपदो बहुशो नीत्वा मुक्तामाणिक्यसंयुताः । शत्रुघ्नं हयरक्षार्थमागतं प्रणता मुहुः ३७। इदं राज्यं धनं सर्वं सपुत्रपशुबांधवम् । रामचंद्रस्य सर्वं हि न मदीयं रघूद्वह ३८। एवं तदुक्तमाकर्ण्य शत्रुघ्नः परवीरहा । आज्ञां स्वां तत्र संज्ञाप्य ययौ तैः सहितः पथि ३९। एवं क्रमेण संप्राप्तः शत्रुघ्नो हयसंयुतः । अहिच्छत्रां पुरीं ब्रह्मन्नानाजनसमाकुलाम् ४०। ब्रह्मद्विजसमाकीर्णां नानारत्नविभूषिताम् । सौवर्णैः स्फाटिकैर्हर्म्यैर्गोपुरैः समलंकृताम् ४१। यत्र रंभा तिरस्कारकारिण्यः कमलाननाः । दृश्यंते सर्वहर्म्येषु ललना लीलयान्विताः ४२। यत्र स्वाचारललिताः सर्वभोगैकभोगिनः । धनदानुचरायद्वत्तथा लीलासमन्विताः ४३। यत्र वीरा धनुर्हस्ताःशरसंधानकोविदाः । कुर्वंति तत्र राजानं सुहृष्टं सुमदाभिधम् ४४। एवंविधं ददर्शासौ नगरं दूरतः प्रभुः । पार्श्वे तस्य पुरश्रेष्ठमुद्यानं शोभयान्वितम् ४५। पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः । अशोकैः पाटलैश्चूतैर्मंदारैःकोविदारकैः ४६। आम्रजंबुकदंबैश्च प्रियालपनसैस्तथा । शालैस्तालैस्तमालैश्च मल्लिकाजातियूथिभिः ४७। नीपैः कदंबैर्बकुलैश्चंपकैर्मदनादिभिः । शोभितं सददर्शाथशत्रुघ्नःपरवीरहा ४८। हयोगतस्तद्वनमध्यदेशे । तमालतालादि सुशोभिते वै । ययौ ततः पृष्ठत एव वीरो । धनुर्धरैः सेवितपादपद्मः ४९। ददर्श त रचितं देवायतनमद्भुतम् । इंद्रनीलैश्च वैडूर्यैस्तथा मारकतैरपि ५०। शोभितं सुरसेवार्हं कैलासप्रस्थसन्निभम् । जातरूपमयैः स्तंभैःशोभितं सद्मनां वरम् ५१। दृष्ट्वातद्रघुनाथस्य भ्राता देवालयं वरम् । पप्रच्छ सुमतिं स्वीयं मंत्रिणं वदतांवरम् ५२। शत्रुघ्न उवाच। वदामात्य वरेदं किं कस्यदेवस्य केतनम् । का देवता पूज्यतेऽत्र कस्य हेतोः स्थितानघ ५३। एवमाकर्ण्य यथावदिहसर्वशः ५४। कामाक्षायाः परं स्थानं विद्धि विश्वैकशर्मदम् । यस्या दर्शनमात्रेण सर्वसिद्धिः प्रजापते ५५। देवासुरास्तु यां स्तुत्वा नत्वा प्राप्ताखिलां श्रियम् । धर्मार्थकाममोक्षाणां दात्री भक्तानुकंपिनी ५६। याचिता सुमदेनात्राहिच्छत्रा पतिना पुरा । स्थिता करोति सकलं भक्तानां दुःखहारिणी ५७। तां नमस्कुरु शत्रुघ्न सर्ववीर शिरोमणे । नत्वाशु सिद्धिं प्राप्नोषि ससुरासुरदुर्ल्लभाम् ५८। इति श्रुत्वाथ तद्वाक्यं शत्रुघ्नः शत्रुतापनः । पप्रच्छ सकलां वार्तां भवान्याः पुरुषर्षभः ५९। शत्रुघ्न उवाच। कोऽहिच्छत्रापती राजा सुमदः किं तपः कृतम् । येनेयं सर्वलोकानां माता तुष्टात्र संस्थिता ६०। वद सर्वं महामात्य नानार्थपरिबृंहितम् । यथावत्त्वं हि जानासि तस्माद्वद महामते ६१। सुमतिरुवाच। हेमकूटो गिरिः पूतः सर्वदेवोपशोभितः । तत्रास्ति तीर्थं विमलमृषिवृंदसुसेवितम् ६२। सुमदो हि तपस्तेपे हतमातृपितृप्रजः । अरिभिः सर्वसामंतैर्जगाम तपसे हि तम् ६३। वर्षाणि त्रीणि सपदा त्वेकेन मनसा स्मरन् । जगतां मातरं दध्यौ नासाग्रस्तिमितेक्षणः ६४। वर्षाणि त्रीणि शुष्काणां पर्णानां भक्षणं चरन् । चकार परमुग्रं स तपः परमदुश्चरम् ६५। अब्दानि त्रीणि सलिले शीतकाले ममज्ज सः । ग्रीष्मे चचार पंचाग्नीन्प्रावृट्सु जलदोन्मुखः ६६। त्रीणि वर्षाणि पवनं संरुध्य स्वांतगोचरम् । भवानीं संस्मरन्धीरो न च किंचन पश्यति ६७। वर्षे तु द्वादशेऽतीते दृष्ट्वैतत्परमं तपः । विभाव्य मनसातीव शक्रः पस्पर्ध तं भयात् ६८। आदिदेश सकामं तु परिवारपरीवृतम् । अप्सरोभिः सुसंयुक्तं ब्रह्मेंद्रादिजयोद्यतम् ६९। गच्छ कामसखे मह्यं प्रियमाचर मोहन । सुमदस्य तपोविघ्नं समाचर यथा भवेत् ७०। इति श्रुत्वा महद्वाक्यं तुरासाहः स्वयंप्रभुः । उवाच विश्वविजये प्रौढगर्वो रघूद्वह ७१। काम उवाच। स्वामिन्कोऽसौ हि सुमदः किं तपः स्वल्पकं पुनः । ब्रह्मादीनां तपोभंगं करोम्यस्य तु का कथा ७२। मद्बाणबलनिर्भिन्नश्चंद्रस्तारां गतः पुरा । त्वमप्यहल्यां गतवान्विश्वामित्रस्तु मेनिकाम् ७३। चिंतां मा कुरु देवेंद्र सेवके मयि संस्थिते । एष गच्छामि सुमदं देवान्पालय मारिष ७४। एवमुक्त्वा कामदेवो हेमकूटं गिरिं ययौ । वसंतेन युतः सख्या तथैवाप्सरसांगणैः ७५। वसंतस्तत्र सकलान्वृक्षान्पुष्पफलैर्युतान् । कोकिलान्षट्पदश्रेण्या घुष्टानाशु चकार ह ७६। वायुः सुशीतलो वाति दक्षिणां दिशमाश्रितः । कृतमालासरित्तीर लवंगकुसुमान्वितः ७७। एवंविधे वने वृत्ते रंभानामाप्सरोवरा । सखीभिः संवृता तत्र जगाम सुमदांतिकम् ७८। तत्रारभत गानं सा किन्नरस्वरशोभना । मृदंगपणवानेकवाद्यभेदविशारदा ७९। तद्गानमाकर्ण्य नराधिपोऽसौ । वसंतमालोक्य मनोहरं च । तथान्यपुष्टारटितं मनोरमं । चकार चक्षुः परिवर्तनं बुधः ८०। तं प्रबुद्धं नृपं वीक्ष्य कामः पुष्पायुधस्त्वरन् । चकार सत्वरं सज्यं धनुस्तत्पृष्ठतोऽनघ ८१। एकाप्सरास्तत्र नृपस्य पादयोः । संवाहनं नर्तितनेत्रपल्लवा । चकार चान्या तु कटाक्षमोक्षणं । चकार काचिद्भृशमंगचेष्टितम् ८२। अप्सरोभिस्तथाकीर्णः कामविह्वलमानसः । चिंतयामास मतिमाञ्जितेंद्रियशिरोमणिः ८३। एता मे तपसो विघ्नकारिण्योऽप्सरसां वराः । शक्रेण प्रेषिताः सर्वाः करिष्यंति यथातथम् ८४। इति संचिंत्य सुतपास्ता उवाच वरांगनाः । का यूयं कुत्र संस्थाः किं भवतीनां चिकीर्षितम् ८५। अत्यद्भुतं जातमहो यद्भवत्योऽक्षिगोचराः । यास्तपोभिः सुदुष्प्राप्यास्ता मे तपस आगताः ८६। इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे कामाक्षोपाख्यानं नाम द्वादशोऽध्यायः १२ ।

śeṣa uvāca| ityuktavaṃtaṃ svapatiṃ vīkṣya premṇā sunirbharam | pratyuvāca hasaṃtīva kiṃcidgadgadabhāṣiṇī 1| nātha te vijayobhūyātsarvatra raṇamaṃḍale | śatrughnājñā prakartavyā hayarakṣā yathā bhavet 2| smaraṇīyā hi sarvatra sevikā tvatpadānugā | kadāpi mānasaṃ nātha tvatto nānyatra gacchati 3| paramāyodhane kāṃta smartavyāhaṃ na jātucit | satyāṃ mayi tava svāṃte yuddhe 3vijayasaṃśayaḥ 4| padmanetra tathā kāryamūrmilādyā yathā mama | hāsyaṃ naiva prakurvaṃti māṃ vīkṣya karatāḍanaiḥ 5| iyaṃ patnī mahābhīroḥ saṃgrāme prapalāyituḥ | kātarā yarhi yuddhyaṃti śūrāṇāṃ samayaḥ kutaḥ 6| ityevaṃ na hasaṃtyuccairyathā me devarāṃganāḥ | tathā kāryaṃ mahābāho rāmasya hayarakṣaṇe 7| yoddhā tvamādau sarvatra pare ye tava pṛṣṭhataḥ | dhanuṣṭaṃkārabadhirāḥ kriyaṃtāṃ balinaḥ pare 8| tavaprodyatkarāṃbhoja karavālabhiyā balam | pareṣāṃ bhavatātkṣipramanyonya bhayavyākulam 9| kulaṃ mahadalaṃ kāryaṃ parānvijayatā tvayā | gaccha svāminmahābāho tava śreyo bhavatviha 10| idaṃ dhanurgṛhāṇāśu mahadguṇavibhūṣitam | yasya garjitamākarṇya vairivṛṃdaṃ bhayāturam 11| imau te tviṣudhī vīra badhyetāṃ śaṃ yathā bhavet | vairikoṭiviniṣpeṣa bāṇakoṭi supūritau 12| kavacaṃ tvidamādhehi śarīre kāmasuṃdare | vajraprabhā mahādīpti hatasaṃtamasaṃdṛḍham 13| śirastrāṇaṃ nijottaṃse kuru kāṃta manoramam | imeva taṃse viśade maṇiratnavibhūṣite 14| iti suvimalavācaṃ vīraputrīṃ prapaśyan | nayanakamaladṛṣṭyā vīkṣamāṇastaṃdaṃgam | adhigataparimodo bhāratiḥ śatrujetā | raṇakaraṇasamarthastāṃ jagādātidhīraḥ 15| puṣkala uvāca| kāṃte yattvaṃ vadasi māṃ tathā sarvaṃ carāmyaham | vīrapatnī bhavetkīrtistava kāṃtimatīpsitā 16| iti kāṃtimatīdattaṃ kavacaṃ mukuṭaṃ varam | dhanurmaheṣudhīkhaḍgaṃ sarvaṃ jagrāha vīryavān 17| paridhāya ca tatsarvaṃ bahuśo bhāsamanvitaḥ | śuśubhe'tīva subhaṭaḥ sarvaśastrāstrakovidaḥ 18| tamastraśastraśobhāḍhyaṃ vīramālāvibhūṣitam | kuṃkumāgurukastūrī caṃdanādikacarcitam 19| nānākusumamālābhirājānupariśobhitam | nīrājayāmāsa muhustatra kāṃtimatī satī 20| nīrājayitvā bahuśaḥ kiraṃtī mauktikairmuhuḥ | galadaśrucalannetrā parirebhe patiṃ nijam 21| dṛḍhaṃ saparirabhyaitāṃ ciramāśvāsayattadā | vīrapatni kāṃtimati virahaṃ mā kṛthā mama 22| eṣa gacchāmi savidhe tava bhāme pativrate | ityuktvā tāṃ nijāṃ patnīṃ rathamāruruhe varam 23| taṃ prayāṃtaṃ patiṃ śreṣṭhaṃ nayanairnimiṣojjhitaiḥ | vilokayāmāsa tadā pativrataparāyaṇā 24| sa yayau janakaṃ draṣṭuṃ jananīṃ premavihvalām | gatvā pitaramaṃbāṃ ca vavaṃde śirasā mudā 25| mātā putraṃ pariṣvajya svāṃkamāropayattadā | muṃcaṃtī bāṣpanicayaṃ svastyastviti jagāda sā 26| pitaraṃ prāha bharataṃ rāmo yajñakaraḥ paraḥ | pālanīyo lakṣmaṇena bhavadbhiśca mahātmabhiḥ 27| ājñapto'sau jananyā ca pitrā hṛṣitayā girā | yayau śatrughnakaṭakaṃ mahāvīravibhūṣitam 28| rathibhiḥ pattibhirvīraiḥ sadaśvaiḥ sādibhirvṛtaḥ | yayau mudā raghūttaṃsa mahāyajñahayāgraṇīḥ 29| gacchanpāṃcāladeśāṃśca kurūṃścaivottarānkurūn | daśārṇāñchrīviśālāṃśca sarvaśobhāsamanvitaḥ 30| tatra tatropaśṛṇvāno raghuvīrayaśo'khilam | rāvaṇāsuraghātena bhaktarakṣāvidhāyakam 31| punaśca hayamedhādi kāryamārabhya pāvanam | yaśo vitanvanbhuvane lokānrāmo'vitā bhayāt 32| tebhyastuṣṭo dadau hārānratnāni vividhāni ca | mahādhanāni vāsāṃsi śatrughnaḥ pravaro mahān 33| sumatirnāma tejasvī sarvavidyāviśāradaḥ | raghunāthasya sacivaḥ śatrughnānucaro varaḥ 34| yayau tena mahāvīro grāmāñjanapadānbahūn | raghunāthapratāpena na kopi hṛtavānhayam 35| deśādhipāye bahavo mahābalaparākramāḥ | hastyaśvarathapādāta caturaṃgasamanvitāḥ 36| saṃpado bahuśo nītvā muktāmāṇikyasaṃyutāḥ | śatrughnaṃ hayarakṣārthamāgataṃ praṇatā muhuḥ 37| idaṃ rājyaṃ dhanaṃ sarvaṃ saputrapaśubāṃdhavam | rāmacaṃdrasya sarvaṃ hi na madīyaṃ raghūdvaha 38| evaṃ taduktamākarṇya śatrughnaḥ paravīrahā | ājñāṃ svāṃ tatra saṃjñāpya yayau taiḥ sahitaḥ pathi 39| evaṃ krameṇa saṃprāptaḥ śatrughno hayasaṃyutaḥ | ahicchatrāṃ purīṃ brahmannānājanasamākulām 40| brahmadvijasamākīrṇāṃ nānāratnavibhūṣitām | sauvarṇaiḥ sphāṭikairharmyairgopuraiḥ samalaṃkṛtām 41| yatra raṃbhā tiraskārakāriṇyaḥ kamalānanāḥ | dṛśyaṃte sarvaharmyeṣu lalanā līlayānvitāḥ 42| yatra svācāralalitāḥ sarvabhogaikabhoginaḥ | dhanadānucarāyadvattathā līlāsamanvitāḥ 43| yatra vīrā dhanurhastāḥśarasaṃdhānakovidāḥ | kurvaṃti tatra rājānaṃ suhṛṣṭaṃ sumadābhidham 44| evaṃvidhaṃ dadarśāsau nagaraṃ dūrataḥ prabhuḥ | pārśve tasya puraśreṣṭhamudyānaṃ śobhayānvitam 45| punnāgairnāgacaṃpaiśca tilakairdevadārubhiḥ | aśokaiḥ pāṭalaiścūtairmaṃdāraiḥkovidārakaiḥ 46| āmrajaṃbukadaṃbaiśca priyālapanasaistathā | śālaistālaistamālaiśca mallikājātiyūthibhiḥ 47| nīpaiḥ kadaṃbairbakulaiścaṃpakairmadanādibhiḥ | śobhitaṃ sadadarśāthaśatrughnaḥparavīrahā 48| hayogatastadvanamadhyadeśe | tamālatālādi suśobhite vai | yayau tataḥ pṛṣṭhata eva vīro | dhanurdharaiḥ sevitapādapadmaḥ 49| dadarśa ta racitaṃ devāyatanamadbhutam | iṃdranīlaiśca vaiḍūryaistathā mārakatairapi 50| śobhitaṃ surasevārhaṃ kailāsaprasthasannibham | jātarūpamayaiḥ staṃbhaiḥśobhitaṃ sadmanāṃ varam 51| dṛṣṭvātadraghunāthasya bhrātā devālayaṃ varam | papraccha sumatiṃ svīyaṃ maṃtriṇaṃ vadatāṃvaram 52| śatrughna uvāca| vadāmātya varedaṃ kiṃ kasyadevasya ketanam | kā devatā pūjyate'tra kasya hetoḥ sthitānagha 53| evamākarṇya yathāvadihasarvaśaḥ 54| kāmākṣāyāḥ paraṃ sthānaṃ viddhi viśvaikaśarmadam | yasyā darśanamātreṇa sarvasiddhiḥ prajāpate 55| devāsurāstu yāṃ stutvā natvā prāptākhilāṃ śriyam | dharmārthakāmamokṣāṇāṃ dātrī bhaktānukaṃpinī 56| yācitā sumadenātrāhicchatrā patinā purā | sthitā karoti sakalaṃ bhaktānāṃ duḥkhahāriṇī 57| tāṃ namaskuru śatrughna sarvavīra śiromaṇe | natvāśu siddhiṃ prāpnoṣi sasurāsuradurllabhām 58| iti śrutvātha tadvākyaṃ śatrughnaḥ śatrutāpanaḥ | papraccha sakalāṃ vārtāṃ bhavānyāḥ puruṣarṣabhaḥ 59| śatrughna uvāca| ko'hicchatrāpatī rājā sumadaḥ kiṃ tapaḥ kṛtam | yeneyaṃ sarvalokānāṃ mātā tuṣṭātra saṃsthitā 60| vada sarvaṃ mahāmātya nānārthaparibṛṃhitam | yathāvattvaṃ hi jānāsi tasmādvada mahāmate 61| sumatiruvāca| hemakūṭo giriḥ pūtaḥ sarvadevopaśobhitaḥ | tatrāsti tīrthaṃ vimalamṛṣivṛṃdasusevitam 62| sumado hi tapastepe hatamātṛpitṛprajaḥ | aribhiḥ sarvasāmaṃtairjagāma tapase hi tam 63| varṣāṇi trīṇi sapadā tvekena manasā smaran | jagatāṃ mātaraṃ dadhyau nāsāgrastimitekṣaṇaḥ 64| varṣāṇi trīṇi śuṣkāṇāṃ parṇānāṃ bhakṣaṇaṃ caran | cakāra paramugraṃ sa tapaḥ paramaduścaram 65| abdāni trīṇi salile śītakāle mamajja saḥ | grīṣme cacāra paṃcāgnīnprāvṛṭsu jaladonmukhaḥ 66| trīṇi varṣāṇi pavanaṃ saṃrudhya svāṃtagocaram | bhavānīṃ saṃsmarandhīro na ca kiṃcana paśyati 67| varṣe tu dvādaśe'tīte dṛṣṭvaitatparamaṃ tapaḥ | vibhāvya manasātīva śakraḥ paspardha taṃ bhayāt 68| ādideśa sakāmaṃ tu parivāraparīvṛtam | apsarobhiḥ susaṃyuktaṃ brahmeṃdrādijayodyatam 69| gaccha kāmasakhe mahyaṃ priyamācara mohana | sumadasya tapovighnaṃ samācara yathā bhavet 70| iti śrutvā mahadvākyaṃ turāsāhaḥ svayaṃprabhuḥ | uvāca viśvavijaye prauḍhagarvo raghūdvaha 71| kāma uvāca| svāminko'sau hi sumadaḥ kiṃ tapaḥ svalpakaṃ punaḥ | brahmādīnāṃ tapobhaṃgaṃ karomyasya tu kā kathā 72| madbāṇabalanirbhinnaścaṃdrastārāṃ gataḥ purā | tvamapyahalyāṃ gatavānviśvāmitrastu menikām 73| ciṃtāṃ mā kuru deveṃdra sevake mayi saṃsthite | eṣa gacchāmi sumadaṃ devānpālaya māriṣa 74| evamuktvā kāmadevo hemakūṭaṃ giriṃ yayau | vasaṃtena yutaḥ sakhyā tathaivāpsarasāṃgaṇaiḥ 75| vasaṃtastatra sakalānvṛkṣānpuṣpaphalairyutān | kokilānṣaṭpadaśreṇyā ghuṣṭānāśu cakāra ha 76| vāyuḥ suśītalo vāti dakṣiṇāṃ diśamāśritaḥ | kṛtamālāsarittīra lavaṃgakusumānvitaḥ 77| evaṃvidhe vane vṛtte raṃbhānāmāpsarovarā | sakhībhiḥ saṃvṛtā tatra jagāma sumadāṃtikam 78| tatrārabhata gānaṃ sā kinnarasvaraśobhanā | mṛdaṃgapaṇavānekavādyabhedaviśāradā 79| tadgānamākarṇya narādhipo'sau | vasaṃtamālokya manoharaṃ ca | tathānyapuṣṭāraṭitaṃ manoramaṃ | cakāra cakṣuḥ parivartanaṃ budhaḥ 80| taṃ prabuddhaṃ nṛpaṃ vīkṣya kāmaḥ puṣpāyudhastvaran | cakāra satvaraṃ sajyaṃ dhanustatpṛṣṭhato'nagha 81| ekāpsarāstatra nṛpasya pādayoḥ | saṃvāhanaṃ nartitanetrapallavā | cakāra cānyā tu kaṭākṣamokṣaṇaṃ | cakāra kācidbhṛśamaṃgaceṣṭitam 82| apsarobhistathākīrṇaḥ kāmavihvalamānasaḥ | ciṃtayāmāsa matimāñjiteṃdriyaśiromaṇiḥ 83| etā me tapaso vighnakāriṇyo'psarasāṃ varāḥ | śakreṇa preṣitāḥ sarvāḥ kariṣyaṃti yathātatham 84| iti saṃciṃtya sutapāstā uvāca varāṃganāḥ | kā yūyaṃ kutra saṃsthāḥ kiṃ bhavatīnāṃ cikīrṣitam 85| atyadbhutaṃ jātamaho yadbhavatyo'kṣigocarāḥ | yāstapobhiḥ suduṣprāpyāstā me tapasa āgatāḥ 86| iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe kāmākṣopākhyānaṃ nāma dvādaśo'dhyāyaḥ 12 |

English translation

Śeṣa said :

1-14. She, smiling a little and looking at him with great love, spoke in a faltering voice to her husband who had spoken thus: “O lord, may you be victorious everywhere in battles (i.e. in every battle). You should obey Śatrughna ’s order in such a way that the horse would be protected. Always remember (this) your servant, always following your foot (steps). O lord, my mind never goes away from you to any other (person). O dear one, you should never think of me in a great battle. When I am (lurking) in your heart, victory in the battle is doubtful. O you lotus-eyed one, you should act in such a way that Urmilā and others will not laugh at me and clap their hands on seeing me (and say:) ‘This is the wife of the great coward, running away in (i.e. from) the battle. When the cowards fight, where can there be an opportunity for the brave? O you of mighty arms, act, while protecting Rāma ’s horse, in such a way that the wives of my brothers-in-law will not loudly laugh (at me). You are everywhere a warrior first. The ones who are behind you, and the mighty enemies should be made deaf with the twang of your bow (-string). The enemy’s army should be speedily confused with fear due to the dread of the sword in your raised hand. By conquering your enemies you should adorn this great family. O lord, O you of mighty arms, go; may you have good fortune here (i.e. in your undertaking). Quickly take this bow which is adorned with a great string (and with a great virtue), and hearing the roar of which the host of the enemies becomes greatly frightened. O hero, tie up these two quivers which are full with tips of arrows (i.e. pointed arrows) capable of killing crores of enemies, so that happiness will take place. Put this armour on your body which is handsome like thunder-bolt and so is strong enough to remove darkness. O dear one, put on your crest (i.e. head) this beautiful helmet. Put on these two bright ear-rings decorated with jewels and gems.”

15. Looking at the hero’s daughter (i.e. brave lady) who spoke spotless words in this way, and looking at her body with his lotus-like eyes, he, the conqueror of enemies, capable of fighting, and extremely wise one, who had become extremely joyful, said:

Puṣkala said :

16-18. O dear one, I shall do all that you tell me. O Kāntimatī , you will have the longed-for fame as the wife of a hero.”

Saying so the mighty one took all (the things like) the excellent armour and helmet, the bow, the two quivers and the sword given by (his wife) Kāntimatī. Having put on all those (things), the great hero endowed with great charm, and skilled in (the use of) all weapons and missiles, looked extremely handsome.

19-23a. That chaste wife Kāntimatī repeatedly waved lights in front of him who was endowed with the beauty of the missiles and weapons, adorned with a garland of (i.e. fit for) a hero and smeared with saffron, aguru (sandal), musk, sandal etc. and adorned up to his knees with garlands of various flowers. Having repeatedly waved lights before him and with tears trickling from her unsteady eyes, she embraced her husband. Having closely embraced her for a long time, he comforted her: “O Kāntimatī, wife of a hero, do not experience (grief due to) separation from me. O you beautiful and chaste lady, here I am near you.”

23b-24. Speaking thus to his wife, he got into the excellent chariot. That lady (Kāntimatī), greatly devoted to her husband, looked with eyes, void of winking, at her best husband, who was going (away from her).

25-28. He (then) went to see his father and his mother beside herself with love. Going to the father and mother, he joyfully saluted them with his head (bent down). The mother, having embraced her son, put him on her lap; (and) shedding tears profusely, said to him: “May it be well with you!” He said to his father Bharata : “The great Rāma is performing the (horse-) sacrifice. The magnanimous Lakṣmaṇa and you have to take care of him.” Commanded with joyful words by his mother and father, he went to Śatrughna’s army adorned with great heroes.

29-31. The best horse (let loose) for the great sacrifice of (Rāma), the ornament of (the) Raghu (-family), surrounded by the brave warriors occupying chariots, foot-soldiers, good horses and horsemen gladly moved (ahead). Endowed with all charm, he went to the Pāñcāla country, the Kuru country, Uttara-kuru , Daśārṇa and Śrī Viśāla countries. Everywhere hearing about the entire glory of Rāma, which brought about the protection of his devotees by killing the demon Rāvaṇa (he went ahead).

32-35a. Rāma who also commenced the rite like the horse-sacrifice, spread his fame in the world and protected the people from fear. The great excellent Śatrughna gave them necklaces, various gems, great wealth and dwellings. Rāma’s excellent minister, bright and proficient in all branches of knowledge, Sumati by name, followed Śatrughna. The great hero went with him to many villages and countries.

35b-38. Due to Rāma’s valour, nobody snatched the horse. Many lords of countries who were very mighty and brave, who were accompanied by elephants, horses, chariots, foot-soldiers—(i.e. the army with) four divisions—took with them much wealth along with pearls and rubies, and again and again saluted Śatrughna who had come for the protection of the earth. (They said to Śatrughna:) “O descendant of Raghu, all this—this kingdom, this wealth, along with my sons, beasts and relatives—belongs to Rāmacandra , and not to me.”

39. Having heard these (words) uttered by them, Śatrughna, the killer of the enemy's warriors, having made them recognize his command there, went with them along the path.

40-52. O brāhmaṇa , in this way gradually Śatrughna along with the horse reached Ahicchatrā city which was crowded with various people, which was full of brāhmaṇas and the twice-born (i.e. kṣatriyas and vaiśyas ), which was decorated with different gems, which was adorned with golden and crystal mansions and town-gates, where, in all mansions, were seen ladies who had lotus-like faces, who excelled Rambhā (in beauty), and who were endowed with grace; where the heroes, graceful with good conduct, enjoying all pleasures like the followers of Kubera , with bows in their hands, proficient in taking aim with an arrow, delighted (their) king named Sumada . The lord (i.e. Śatrughna), saw, from a distance, the city like this. In its vicinity was a park, endowed with loveliness. Śatrughna, the killer of his enemy’s soldiers, saw (that park) which appeared beautiful with punnāga , nāgacampa, tilaka , devadāru , aśoka , pāṭala , cūta (i.e. mango), mandāra , kovidāraka, āmra , jambu , kadamba , priyāla, and panasa (trees); so also with śāla , tāla , tamāla , mallikā , jāti , yūthi, nīpa , kadamba, bakula , campaka , madana and other trees. The horse entered that (park) adorned with tamala , tāla and other (trees). The hero (i.e. Śatrughna), whose lotus-like feet were served by archers, just went after him. There he saw a wonderfully constructed temple, which was adorned with sapphires, lapis lazuli and emeralds, which was fit to be enjoyed by gods, which resembled the peak of the Kailāsa (mountain), which was adorned with golden pillars, and which was the best among temples. Having seen that excellent temple, Rāma’s brother asked Sumati, his minister, the best among speakers:

Śatrughna said :

53. O best minister, tell (me), what this is; of what deity it is the abode; which deity is worshipped here; and for what purpose the deity has stayed here, O sinless one.

54-59. Having heard this, the omniscient minister said: “O hero, listen attentively to the full and proper (account). Know this to be the great seat, giving happiness to all, of Kāmākṣā, by seeing whom, O lord of beings, everything is secured, (and) by praising and saluting whom gods and demons have obtained all (their) glory. She is the giver of (the four goods of human life, viz.) Dharma , Artha , Kāma and Mokṣa ; she is kind to her devotees. She, who was formerly implored by Sumada, the king of Ahicchatrā, and who removes the misery of her devotees, lives here and does everything (for her devotees). O Śatrughna, O you crest-jewel of all heroes, salute her. Having saluted her, you will qui-ckly obtain the pur ity which is difficult to be got by gods and demons.” Having heard those words of (i.e. uttered by) him, Śatrughna, the tormentor of his enemies, the best among men, asked (him) the entire account of men, asked (him) the entire account of Bhavānī .

Śatrughna said :

60-61. Who is (this) king Sumada? Which penance did he practise due to which the mother of all the worlds, that dwells here, is pleased? O great minister, tell me all that which is full of diverse things. O you very intelligent one, since you know it co r-rectly, therefore tell it to me.

Sumati said :

62-70. (There is) the pure mountain Hemakūṭa which is adorned by all gods. There is a pure, holy place, very much frequented by hosts of sages. Sumada whose mother, father and subjects were killed by all his feudatory kings, his enemies, went to that (mountain) for (practising) penance. With his sight fixed on the tip of his nose, and remembering mentally the mother of the worlds, he, (standing) on one foot, meditated for three years. Eating dry leaves for three years, he practised very severe penance, very difficult to practise. For three years he plunged himself (i.e. remained) in water in the cold season. In summer he practised (the vow of) the five fires; and in rainy season he remained looking up to the clouds. The wise one, restraining the breath in his heart and remembering Bhavānī, did not look at anything (else) for three years. When the twelfth year passed, Indra , seeing his great penance, very much contemplated in his mind, and through fear, vied with him. He (then) ordered Cupid surrounded by his followers, properly accompanied by celestial nymphs, and eager for the victory of Brahmā , Indra etc.: “O Cupid, O friend, O you infatuating one, go and do what is agreeable to me. Act in such a way that there would be an obstacle in the penance of (i.e. being practised by) Sumada.”

71. Hearing these important words of Indra, the lord (i.e. Kāma) himself, who was very proud of conquering everything, spoke, O descendant of Raghu:

Kāma said :

72-74. O lord, who is this Sumada? And how little is his penance? I disturb the penance of (even) Brahmā and others; then what need I say of him? Formerly the Moon, completely disturbed by the power of my arrows, went to Tārā . [1] You too went to Ahalyā , and Viśvāmitra to Menakā . O lord of gods, when I, (your) servant, am (here), do not be worried. This I go to Sumada. O respectable one, look after the gods.

75-86. Having said so, god Cupid, accompanied by his friend Spring and groups of celestial nymphs went to Hemakūṭa mountain. There Spring quickly made all trees full of flowers and fruits and noisy with cuckoos and rows of bees. Very cool breezes, resorting to (i.e. coming from) the southern quarter, and full of (the fragrance of) the flowers of cloves (growing on) the bank of the Kṛtāmala river, were blowing. When the forest was like this, the celestial nymph named Rambhā, surrounded by her friends, came near Sumada. She who was proficient in playing upon many musical instruments like tabor, drum, and adorned with a (sweet) voice like that of a kinnara , started singing. Then on hearing her music, on seeing (that) charming Spring, and (on hearing) the charming notes of cuckoos, the wise king turned his eyes. Then seeing the king awakened (i.e. who had opened his eyes), Cupid, having flowers as his weapons, hastened, and, O innocent one, quickly made ready his bow from behind him. One celestial nymph with bud-like eyes shampooed the king’s feet. Another nymph cast glances at him. Another one made (coquettish) gestures. Thus crowded by the celestial nymphs and with his mind afflicted by the passion of love, the intelligent one, the crest-jewel (i.e. the best) of those who have restrained their senses, thought: ‘These are the excellent celestial nymphs, all sent by Indra, and creating an obstacle in my penance; they will do exactly (as they are ordered by Indra).’ Thinking like this, he who was practising excellent penance, said to those excellent females: “Who are you? Where do you stay? What do you desire? A great miracle has taken place that you are seen. You who are difficult to be obtained by penance, have come (here) due to my penance.”

[1]: [1] : Tārā—Name of the wife of Bṛhaspati, the preceptor of gods. She was on one occasion carried off by Soma (the Moon) who refused to deliver her up to her husband when demanded. A fierce contest then ensued and Brahmā had at last to compel Soma to restore her to her husband. Tārā gave birth to a son named Budha who became the ancestor of the Lunar race of kings.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 43623, revision 335878 (2022-04-16T01:04:36Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365323.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.