Pātāla-khaṇḍa · Chapter 34
Sourceशेष उवाच। रथैः सदश्वैः शोभाढ्यैः सर्वशस्त्रास्त्रपूरितैः । नानारत्नसमायुक्तैर्ययुस्ते राक्षसाधमम् १। तान्दृष्ट्वा कामगे याने स्थितः प्रोवाच राक्षसः । मेघगंभीरया वाचा तर्जयन्निव भूरिशः २। मायां तु सुभटा योद्धुं गच्छंतु निजमंदिरम् । मा त्यजंतु स्वकान्प्राणान्न मोक्ष्ये वाजिनं वरम् ३। विद्युन्मालीति विख्यातो रावणस्य सुहृत्सखा । मत्सख्युः प्रेतभूतस्य निष्कृतिं कर्तुमेयिवान् ४। क्वासौ रामो य आहत्य सखायं रावणं गतः । तस्य भ्रातापि कुत्रास्ते सर्वशूरशिरोमणिः ५। तं हत्वा निष्कृतिं तस्य प्राप्स्ये रामस्य चानुजम् । पिबन्रुधिरमुद्भूतं कंठनालस्य बुद्बुदैः ६। इति वाक्यं समाकर्ण्य योधानां प्रवरोत्तमः । पुष्कलो निजगादैनं वीर्यशौर्यसमन्वितम् ७। पुष्कल उवाच। विकत्थनं न कुर्वंति संग्रामे सुभटा नराः । पराक्रमं दर्शयंति निजशस्त्रास्त्रवर्षणैः ८। रावणो निहतो येन ससुहृत्स्वजनैर्वृतः । तस्य वाजिनमाहृत्य कुत्र गंतासि दुर्मद ९। पतिष्यसि त्वं शत्रुघ्नबाणैः कोदंडनिर्गतैः । त्वामत्स्यंति शिवा भूमौ पतितं प्राणवर्जितम् १०। मा गर्ज दुष्ट रामस्य सेवके मयि संस्थिते । गर्जंति सुभटा युद्धे शत्रुं जित्वा महोदयात् ११। शेष उवाच। एवं ब्रुवंतं तं वीरं पुष्कलं रणदुर्मदम् । जघान शक्त्या सुभृशं हृदि राक्षससत्तमः १२। आयांतीं तां महाशक्तिमायसीं कांचनाश्रिताम् । चिच्छेद त्रिभिरत्युग्रैः शितैर्बाणैः स पुष्कलः १३। सा त्रिधा ह्यपतद्भूमौ विशिखैर्निष्प्रभीकृता । पतंती विरराजासौ विष्णोः शक्तित्रयीव किम् १४। तां छिन्नां शक्तिकां दृष्ट्वा राक्षसः परतापनः । जग्राह शूलं तरसा त्रिशिखं लोहनिर्मितम् १५। तीक्ष्णाग्रं ज्वलनप्रख्यं राक्षसेंद्रो व्यमोचयत् । आयांतं तिलशश्चक्रे बाणैः पुष्कलसंज्ञितः १६। छित्त्वा त्रिशूलं तरसा राघवस्य हि सेवकः । पुष्कलश्चाप आधत्त बाणांस्तीक्ष्णान्मनोजवान् १७। ते बाणा हृदि तस्याशु लग्ना रागं बतासृजन् । वैष्णवस्य यथा स्वांते गुणा विष्णोर्मनोहराः १८। तद्बाणवेधदुःखार्तो विद्युन्माली सुदुर्मदः । जग्राह मुद्गरं घोरं पुष्कलं हंतुमुद्यतः १९। मुद्गरः प्रहितस्तेन विद्युन्माल्यभिधेन हि । हृदि लग्नोसृजच्छीघ्रं कश्मलं तदकारयत् २०। मुद्गरप्रहतो वीरः कंपमानः सवेपथुः । पपात स्यंदनोपस्थे पुष्कलः शत्रुतापनः २१। उग्रदंष्ट्रोऽथ तद्भ्राता लक्ष्मीनिधिमयोधयत् । शस्त्रास्त्रैर्बहुधा मुक्तैर्वीरप्राणहृतिंकरैः २२। पुष्कलस्तत्क्षणात्प्राप्य संज्ञां राक्षसमब्रवीत् । धन्योसि राक्षसश्रेष्ठ महीयांस्ते पराक्रमः २३। पश्येदानीं ममाप्युच्चैः प्रतिज्ञां शूरमानिताम् । विमानात्पातयाम्यद्य भूमौ त्वां शितसायकैः २४। इत्युक्त्वा निशितं बाणं समगृह्णाद्दुरासदम् । ज्वलंतमग्नितेजस्कं महौदार्यसमन्वितम् २५। स यावत्तत्प्रतीकर्तुं विधत्ते स्वपराक्रमम् । तावद्धृदिगतोऽत्युग्रस्तीक्ष्णधारः ससायकः २६। तेन बाणेन विभ्रांतो भ्रमच्चित्तः स राक्षसः । पपात कामगोपस्थाद्भूमौ विगतचेतनः २७। उग्रदंष्ट्रेण वै दृष्टः पतमानो निजाग्रजः । गृहीत्वा तं विमानांतर्निनाय रिपुशंकितः २८। प्राह चारिं महारोषात्पुष्कलं बलिनां वरम् । मद्भ्रातरं पातयित्वा कुत्र यास्यसि दुर्मते २९। मां वै युधि विनिर्जित्य गंतासि जयमुत्तमम् । स्थिते मयि तव स्वांते जयाशा विनिवर्त्य ताम् ३०। एवं ब्रुवंतं तरसा जघान दशभिः शरैः । हृदये तस्य दुष्टस्य रोषपूरितलोचनः ३१। स ताडितो दशशरैः पुष्कलेन महात्मना । चुक्रोध हृदि दुर्बुद्धिस्तं हंतुमुपचक्रमे ३२। दंतान्निष्पिष्य सक्रोधो मुष्टिमुद्यम्य चाहनत् । व्यनदद्वज्रनिर्घातपातशंकां सृजन्हृदि ३३। मुष्टिनाभिहतो वीरः पुष्कलः परमास्त्रवित् । नाकंपत विनिष्पेषं वांछंस्तस्य दुरात्मनः ३४। वत्सदंतान्महातीक्ष्णान्मुमोच हृदि सायकान् । तैर्बाणैर्व्यथितो दैत्यस्त्रिशूलं तु समाददे ३५। जाज्वल्यमानं त्रिशिखं ज्वालामालातिभीषणम् । लग्नं हृदि महावीर पुष्कलस्य तु दारुणम् ३६। मूर्च्छितस्तेन शूलेन निहतो धन्विसत्तमः । कश्मलं परमं प्राप्तः पपात स्यंदनोपरि ३७। मूर्च्छां प्राप्तं तमाज्ञाय हनूमान्पवनात्मजः । कोपव्याकुलितस्वांतो बभाषे तं तु राक्षसम् ३८। कुत्र गच्छसि दुर्बुद्धे मयि योद्धरि संस्थिते । त्वां हन्मि चरणाघातैर्वाजिहर्तारमागतम् ३९। एवमुक्त्वा महादैत्याञ्जघान परसैनिकान् । विमानस्थान्नखाग्रेण दारयन्नभसि स्थितः ४०। लांगूलेनाहताः केचित्केचित्पादतला हताः । बाहुभ्यां दारिताः केचित्पवनस्य तनूभुवा ४१। नश्यंति केचिन्निहताः केचिन्मूर्च्छंति संहताः । पलायंते पदाघातभयपीडाहतास्ततः ४२। अनेके निहतास्तत्र राक्षसाश्चातिदारुणाः । छिन्ना भिन्ना द्विधा जाताः पवनस्य सुतेन वै ४३। कामगंतुविमानं तद्भिन्नप्राकारतोरणम् । हाहा कुर्वद्भिरसुरैः समंतात्परिवारितम् ४४। हनूमति महाशूरे क्षणं भूमौ क्षणं दिवि । इतस्ततः प्रदृश्येत कामयानं दुरासदम् ४५। यत्रयत्र विमानं तत्तत्रतत्र समीरजः । प्रहरन्नेव दृश्येत कामरूपधरः कपिः ४६। एवं तदाकुलीभूते विमानस्थे महाजने । उग्रदंष्ट्रस्तु दैत्येंद्रो हनूमंतमुपेयिवान् ४७। कपे त्वया महत्कर्म कृतं यद्भटपातनम् । क्षणं तिष्ठसि चेत्कुर्वे तव प्राणवियोजनम् ४८। एवमुक्त्वा हनूमंतं प्रजघान स दुर्मतिः । त्रिशूलेन सुतीक्ष्णेन ज्वलत्पावककांतिना ४९। तदागतं त्रिशूलं च मुखे जग्राह वीर्यवान् । चूर्णयामास सकलं सर्वलोहविनिर्मितम् ५०। चूर्णयित्वा त्रिशूलं तदायसं दैत्यमोचितम् । जघान तं चपेटाभिर्बह्वीभिर्हनुमान्बली ५१। स आहतः कपीन्द्रेण चपेटाभिरितस्ततः । व्यथितो व्यसृजन्मायां सर्वलोकभयंकरीम् ५२। तदा तमोभवत्तीव्रं यत्र को वा न लक्ष्यते । यत्र स्वीयो न पारक्यो विदामास जनान्बहून् ५३। शिलाः पर्वतशृंगाभाः पतंति सुभटोपरि । ताभिर्हतास्तु ते सर्वे व्याकुला अथ जज्ञिरे ५४। विद्युतो विलसंत्यत्र गर्जंति जलदा घनम् । वर्षंति पूयरुधिरं मुंचंति समलं जलम् ५५। आकाशात्पतमानानि कबंधानि बहूनि च । दृश्यंते छिन्नशीर्षाणि सकुंडलयुतानि च ५६। नग्ना विरूपाः सुभृशं कीर्णकेशाः सुदुर्मुखाः । दृश्यंते सर्वतो दैत्या दारुणा भयकारिणः ५७। तदा व्याकुलिता लोकाः परस्परभयाकुलाः । पलायनपरा जाता महोत्पातममंसत ५८। तदा शत्रुघ्न आयातो रथे स्थित्वा महायशाः । श्रीरामस्मरणं कृत्वा चापे संधाय सायकान् ५९। तां मायां स विधूयाथ मोहनास्त्रेण वीर्यवान् । शरधाराः किरन्व्योम्नि ववर्ष समरेसुरम् ६०। तदादिशः प्रसेदुस्ता रविस्त्वपरिवेषवान् । मेघा यथागतं याता विद्युतः शांतिमागताः ६१। तदा विमानं पुरतो दृश्यते राक्षसैर्युतम् । छिंधि भिंधीति भाषाभिर्व्याकुलं सुतरां महत् ६२। बाणाश्च शतसाहस्राः स्वर्णपुंखैश्च शोभिताः । पेतुर्विमाने नभसि स्थिते कामगमे मुहुः ६३। तदा भग्नं विमानं हि दृश्यते न तदुच्चकैः । स्वपुरी खण्डमेकत्र भग्नांगमिव भूतले ६४। तदा प्रकुपितो दैत्यो बाणान्धनुषि संदधे । तैर्बाणैर्विकिरन्रामभ्रातरं चाभिगर्जितः ६५। ते बाणाः शतशस्तस्य लग्ना वपुषि भूरिशः । शोभामापुः शोणितौघान्वहंतस्तीक्ष्णवक्त्रिणः ६६। शत्रुघ्नः परया शक्त्या संयुक्तो वायुदैवतम् । अस्त्रं धनुषि चाधत्त राक्षसानां प्रकम्पनम् ६७। तेनास्त्रेण विमानात्खात्पतन्तो मुक्तमूर्धजाः । दृश्यंते भूतवेतालसंघा इव नभश्चराः ६८। तदस्त्रं रघुनाथस्य भ्रात्रा मुक्तं विलोक्य सः । अस्त्रं च पाशुपत्यं स चापे धाद्दनुजात्मजः ६९। ततः प्रवृत्ता वेताला भूताः प्रेतनिशाचराः । कपालकर्तरीयुक्ताः पिबन्तः शोणितं बहु ७०। ते वै शत्रुघ्नवीराणां रुधिराणि पपुर्मुदा । जीवतामपि दुर्वाराः कर्तरीपाणिशोभिताः ७१। तदस्त्रं व्याप्नुवद्दृष्ट्वा सर्ववीरप्रभंजनम् । मुमोच तन्निरासाय चास्त्रं नारायणाभिधम् ७२। नारायणास्त्रं तान्सर्वान्वारयामास तत्क्षणात् । ते सर्वे विलयं प्रापुर्निशाचरप्रणोदिताः ७३। तदा क्रुद्धो निशाचारी विद्युन्माली समाददे । त्रिशूलं निशितं घोरं शत्रुघ्नं हंतुमुल्बणम् ७४। शूलहस्तं समायांतं विद्युन्मालिनमाहवे । सायकैः प्राहरत्तस्य भुजे त्वर्धशशिप्रभैः ७५। तैर्बाणैश्छिन्नहस्तः स शिरसा हंतुमुद्यतः । हतोसि याहि शत्रुघ्न कस्त्वां त्राता भविष्यति ७६। इति ब्रुवाणं तरसा चिच्छेद शितसायकैः । मस्तकं तस्य बलिनः शूरस्य सह कुंडलम् ७७। तं छिन्नशिरसं दृष्ट्वा उग्रदंष्ट्रः प्रतापवान् । मुष्टिना हंतुमारेभे शत्रुघ्नं शूरसेवितम् ७८। शत्रुघ्नस्तु क्षुरप्रेण सायकेनाच्छिनच्छिरः । प्रधावतो रणे वीरान्सर्वशस्त्रास्त्रकोविदान् ७९। हतशेषा ययुः सर्वे राक्षसा नाथवर्जिताः । शत्रुघ्नं प्रणिपत्याथ ददुर्वाजिनमाहृतम् ८०। ततो वीणानिनादाश्च शंखनादाः समंततः । श्रूयंते शूरवीराणां जयनादा मनोहराः ८१। इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे विद्युन्मालिनामराक्षसपराजयोनाम चतुस्त्रिंशत्तमोऽध्यायः ३४ ।
śeṣa uvāca| rathaiḥ sadaśvaiḥ śobhāḍhyaiḥ sarvaśastrāstrapūritaiḥ | nānāratnasamāyuktairyayuste rākṣasādhamam 1| tāndṛṣṭvā kāmage yāne sthitaḥ provāca rākṣasaḥ | meghagaṃbhīrayā vācā tarjayanniva bhūriśaḥ 2| māyāṃ tu subhaṭā yoddhuṃ gacchaṃtu nijamaṃdiram | mā tyajaṃtu svakānprāṇānna mokṣye vājinaṃ varam 3| vidyunmālīti vikhyāto rāvaṇasya suhṛtsakhā | matsakhyuḥ pretabhūtasya niṣkṛtiṃ kartumeyivān 4| kvāsau rāmo ya āhatya sakhāyaṃ rāvaṇaṃ gataḥ | tasya bhrātāpi kutrāste sarvaśūraśiromaṇiḥ 5| taṃ hatvā niṣkṛtiṃ tasya prāpsye rāmasya cānujam | pibanrudhiramudbhūtaṃ kaṃṭhanālasya budbudaiḥ 6| iti vākyaṃ samākarṇya yodhānāṃ pravarottamaḥ | puṣkalo nijagādainaṃ vīryaśauryasamanvitam 7| puṣkala uvāca| vikatthanaṃ na kurvaṃti saṃgrāme subhaṭā narāḥ | parākramaṃ darśayaṃti nijaśastrāstravarṣaṇaiḥ 8| rāvaṇo nihato yena sasuhṛtsvajanairvṛtaḥ | tasya vājinamāhṛtya kutra gaṃtāsi durmada 9| patiṣyasi tvaṃ śatrughnabāṇaiḥ kodaṃḍanirgataiḥ | tvāmatsyaṃti śivā bhūmau patitaṃ prāṇavarjitam 10| mā garja duṣṭa rāmasya sevake mayi saṃsthite | garjaṃti subhaṭā yuddhe śatruṃ jitvā mahodayāt 11| śeṣa uvāca| evaṃ bruvaṃtaṃ taṃ vīraṃ puṣkalaṃ raṇadurmadam | jaghāna śaktyā subhṛśaṃ hṛdi rākṣasasattamaḥ 12| āyāṃtīṃ tāṃ mahāśaktimāyasīṃ kāṃcanāśritām | ciccheda tribhiratyugraiḥ śitairbāṇaiḥ sa puṣkalaḥ 13| sā tridhā hyapatadbhūmau viśikhairniṣprabhīkṛtā | pataṃtī virarājāsau viṣṇoḥ śaktitrayīva kim 14| tāṃ chinnāṃ śaktikāṃ dṛṣṭvā rākṣasaḥ paratāpanaḥ | jagrāha śūlaṃ tarasā triśikhaṃ lohanirmitam 15| tīkṣṇāgraṃ jvalanaprakhyaṃ rākṣaseṃdro vyamocayat | āyāṃtaṃ tilaśaścakre bāṇaiḥ puṣkalasaṃjñitaḥ 16| chittvā triśūlaṃ tarasā rāghavasya hi sevakaḥ | puṣkalaścāpa ādhatta bāṇāṃstīkṣṇānmanojavān 17| te bāṇā hṛdi tasyāśu lagnā rāgaṃ batāsṛjan | vaiṣṇavasya yathā svāṃte guṇā viṣṇormanoharāḥ 18| tadbāṇavedhaduḥkhārto vidyunmālī sudurmadaḥ | jagrāha mudgaraṃ ghoraṃ puṣkalaṃ haṃtumudyataḥ 19| mudgaraḥ prahitastena vidyunmālyabhidhena hi | hṛdi lagnosṛjacchīghraṃ kaśmalaṃ tadakārayat 20| mudgaraprahato vīraḥ kaṃpamānaḥ savepathuḥ | papāta syaṃdanopasthe puṣkalaḥ śatrutāpanaḥ 21| ugradaṃṣṭro'tha tadbhrātā lakṣmīnidhimayodhayat | śastrāstrairbahudhā muktairvīraprāṇahṛtiṃkaraiḥ 22| puṣkalastatkṣaṇātprāpya saṃjñāṃ rākṣasamabravīt | dhanyosi rākṣasaśreṣṭha mahīyāṃste parākramaḥ 23| paśyedānīṃ mamāpyuccaiḥ pratijñāṃ śūramānitām | vimānātpātayāmyadya bhūmau tvāṃ śitasāyakaiḥ 24| ityuktvā niśitaṃ bāṇaṃ samagṛhṇāddurāsadam | jvalaṃtamagnitejaskaṃ mahaudāryasamanvitam 25| sa yāvattatpratīkartuṃ vidhatte svaparākramam | tāvaddhṛdigato'tyugrastīkṣṇadhāraḥ sasāyakaḥ 26| tena bāṇena vibhrāṃto bhramaccittaḥ sa rākṣasaḥ | papāta kāmagopasthādbhūmau vigatacetanaḥ 27| ugradaṃṣṭreṇa vai dṛṣṭaḥ patamāno nijāgrajaḥ | gṛhītvā taṃ vimānāṃtarnināya ripuśaṃkitaḥ 28| prāha cāriṃ mahāroṣātpuṣkalaṃ balināṃ varam | madbhrātaraṃ pātayitvā kutra yāsyasi durmate 29| māṃ vai yudhi vinirjitya gaṃtāsi jayamuttamam | sthite mayi tava svāṃte jayāśā vinivartya tām 30| evaṃ bruvaṃtaṃ tarasā jaghāna daśabhiḥ śaraiḥ | hṛdaye tasya duṣṭasya roṣapūritalocanaḥ 31| sa tāḍito daśaśaraiḥ puṣkalena mahātmanā | cukrodha hṛdi durbuddhistaṃ haṃtumupacakrame 32| daṃtānniṣpiṣya sakrodho muṣṭimudyamya cāhanat | vyanadadvajranirghātapātaśaṃkāṃ sṛjanhṛdi 33| muṣṭinābhihato vīraḥ puṣkalaḥ paramāstravit | nākaṃpata viniṣpeṣaṃ vāṃchaṃstasya durātmanaḥ 34| vatsadaṃtānmahātīkṣṇānmumoca hṛdi sāyakān | tairbāṇairvyathito daityastriśūlaṃ tu samādade 35| jājvalyamānaṃ triśikhaṃ jvālāmālātibhīṣaṇam | lagnaṃ hṛdi mahāvīra puṣkalasya tu dāruṇam 36| mūrcchitastena śūlena nihato dhanvisattamaḥ | kaśmalaṃ paramaṃ prāptaḥ papāta syaṃdanopari 37| mūrcchāṃ prāptaṃ tamājñāya hanūmānpavanātmajaḥ | kopavyākulitasvāṃto babhāṣe taṃ tu rākṣasam 38| kutra gacchasi durbuddhe mayi yoddhari saṃsthite | tvāṃ hanmi caraṇāghātairvājihartāramāgatam 39| evamuktvā mahādaityāñjaghāna parasainikān | vimānasthānnakhāgreṇa dārayannabhasi sthitaḥ 40| lāṃgūlenāhatāḥ kecitkecitpādatalā hatāḥ | bāhubhyāṃ dāritāḥ kecitpavanasya tanūbhuvā 41| naśyaṃti kecinnihatāḥ kecinmūrcchaṃti saṃhatāḥ | palāyaṃte padāghātabhayapīḍāhatāstataḥ 42| aneke nihatāstatra rākṣasāścātidāruṇāḥ | chinnā bhinnā dvidhā jātāḥ pavanasya sutena vai 43| kāmagaṃtuvimānaṃ tadbhinnaprākāratoraṇam | hāhā kurvadbhirasuraiḥ samaṃtātparivāritam 44| hanūmati mahāśūre kṣaṇaṃ bhūmau kṣaṇaṃ divi | itastataḥ pradṛśyeta kāmayānaṃ durāsadam 45| yatrayatra vimānaṃ tattatratatra samīrajaḥ | praharanneva dṛśyeta kāmarūpadharaḥ kapiḥ 46| evaṃ tadākulībhūte vimānasthe mahājane | ugradaṃṣṭrastu daityeṃdro hanūmaṃtamupeyivān 47| kape tvayā mahatkarma kṛtaṃ yadbhaṭapātanam | kṣaṇaṃ tiṣṭhasi cetkurve tava prāṇaviyojanam 48| evamuktvā hanūmaṃtaṃ prajaghāna sa durmatiḥ | triśūlena sutīkṣṇena jvalatpāvakakāṃtinā 49| tadāgataṃ triśūlaṃ ca mukhe jagrāha vīryavān | cūrṇayāmāsa sakalaṃ sarvalohavinirmitam 50| cūrṇayitvā triśūlaṃ tadāyasaṃ daityamocitam | jaghāna taṃ capeṭābhirbahvībhirhanumānbalī 51| sa āhataḥ kapīndreṇa capeṭābhiritastataḥ | vyathito vyasṛjanmāyāṃ sarvalokabhayaṃkarīm 52| tadā tamobhavattīvraṃ yatra ko vā na lakṣyate | yatra svīyo na pārakyo vidāmāsa janānbahūn 53| śilāḥ parvataśṛṃgābhāḥ pataṃti subhaṭopari | tābhirhatāstu te sarve vyākulā atha jajñire 54| vidyuto vilasaṃtyatra garjaṃti jaladā ghanam | varṣaṃti pūyarudhiraṃ muṃcaṃti samalaṃ jalam 55| ākāśātpatamānāni kabaṃdhāni bahūni ca | dṛśyaṃte chinnaśīrṣāṇi sakuṃḍalayutāni ca 56| nagnā virūpāḥ subhṛśaṃ kīrṇakeśāḥ sudurmukhāḥ | dṛśyaṃte sarvato daityā dāruṇā bhayakāriṇaḥ 57| tadā vyākulitā lokāḥ parasparabhayākulāḥ | palāyanaparā jātā mahotpātamamaṃsata 58| tadā śatrughna āyāto rathe sthitvā mahāyaśāḥ | śrīrāmasmaraṇaṃ kṛtvā cāpe saṃdhāya sāyakān 59| tāṃ māyāṃ sa vidhūyātha mohanāstreṇa vīryavān | śaradhārāḥ kiranvyomni vavarṣa samaresuram 60| tadādiśaḥ prasedustā ravistvapariveṣavān | meghā yathāgataṃ yātā vidyutaḥ śāṃtimāgatāḥ 61| tadā vimānaṃ purato dṛśyate rākṣasairyutam | chiṃdhi bhiṃdhīti bhāṣābhirvyākulaṃ sutarāṃ mahat 62| bāṇāśca śatasāhasrāḥ svarṇapuṃkhaiśca śobhitāḥ | peturvimāne nabhasi sthite kāmagame muhuḥ 63| tadā bhagnaṃ vimānaṃ hi dṛśyate na taduccakaiḥ | svapurī khaṇḍamekatra bhagnāṃgamiva bhūtale 64| tadā prakupito daityo bāṇāndhanuṣi saṃdadhe | tairbāṇairvikiranrāmabhrātaraṃ cābhigarjitaḥ 65| te bāṇāḥ śataśastasya lagnā vapuṣi bhūriśaḥ | śobhāmāpuḥ śoṇitaughānvahaṃtastīkṣṇavaktriṇaḥ 66| śatrughnaḥ parayā śaktyā saṃyukto vāyudaivatam | astraṃ dhanuṣi cādhatta rākṣasānāṃ prakampanam 67| tenāstreṇa vimānātkhātpatanto muktamūrdhajāḥ | dṛśyaṃte bhūtavetālasaṃghā iva nabhaścarāḥ 68| tadastraṃ raghunāthasya bhrātrā muktaṃ vilokya saḥ | astraṃ ca pāśupatyaṃ sa cāpe dhāddanujātmajaḥ 69| tataḥ pravṛttā vetālā bhūtāḥ pretaniśācarāḥ | kapālakartarīyuktāḥ pibantaḥ śoṇitaṃ bahu 70| te vai śatrughnavīrāṇāṃ rudhirāṇi papurmudā | jīvatāmapi durvārāḥ kartarīpāṇiśobhitāḥ 71| tadastraṃ vyāpnuvaddṛṣṭvā sarvavīraprabhaṃjanam | mumoca tannirāsāya cāstraṃ nārāyaṇābhidham 72| nārāyaṇāstraṃ tānsarvānvārayāmāsa tatkṣaṇāt | te sarve vilayaṃ prāpurniśācarapraṇoditāḥ 73| tadā kruddho niśācārī vidyunmālī samādade | triśūlaṃ niśitaṃ ghoraṃ śatrughnaṃ haṃtumulbaṇam 74| śūlahastaṃ samāyāṃtaṃ vidyunmālinamāhave | sāyakaiḥ prāharattasya bhuje tvardhaśaśiprabhaiḥ 75| tairbāṇaiśchinnahastaḥ sa śirasā haṃtumudyataḥ | hatosi yāhi śatrughna kastvāṃ trātā bhaviṣyati 76| iti bruvāṇaṃ tarasā ciccheda śitasāyakaiḥ | mastakaṃ tasya balinaḥ śūrasya saha kuṃḍalam 77| taṃ chinnaśirasaṃ dṛṣṭvā ugradaṃṣṭraḥ pratāpavān | muṣṭinā haṃtumārebhe śatrughnaṃ śūrasevitam 78| śatrughnastu kṣurapreṇa sāyakenācchinacchiraḥ | pradhāvato raṇe vīrānsarvaśastrāstrakovidān 79| hataśeṣā yayuḥ sarve rākṣasā nāthavarjitāḥ | śatrughnaṃ praṇipatyātha dadurvājinamāhṛtam 80| tato vīṇāninādāśca śaṃkhanādāḥ samaṃtataḥ | śrūyaṃte śūravīrāṇāṃ jayanādā manoharāḥ 81| iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe vidyunmālināmarākṣasaparājayonāma catustriṃśattamo'dhyāyaḥ 34 |
English translation
Śeṣa said :
1-7. With chariots having good horses (yoked to them), rich in charm and full of all weapons and missiles and endowed with various jewels, they went to (i.e. marched against) the mean demons. Seeing them the demon seated in a vehicle going according to (occupants’) desire, as it were, repeatedly threatening them, said with a deep-sounding voice: “Let the brave warriors not go to fight. Let them go home. Let them not cast their life. I shall not release the excellent horse. I am well-known as Vidyunmālin, and am the friend of Rāvaṇa . I have come to atone for my friend who is dead. Where has that Rāma who has killed (my) friend Rāvaṇa, gone? Where also is his brother ( Śatrughna ) who is the crest-jewel of all the brave men? Having killed him-the younger brother of Rāma, and drinking his blood along with bubbles coming up from his neck, I shall atone for (the death of) him (i.e. Rāvaṇa).” Hearing these words Puṣkala , the best among the excellent warriors, said to him endowed with valour and bravery:
Puskala said :
8-11. E xcellent warriors do not brag in the battle. By means of showering their weapons and missiles they show (their) valour. O you maddened one, he who killed Rāvaṇa is surrounded by his kinsmen. Where will you go by snatching his horse? You will fall (when struck) with Śatrughna’s arrows discharged from his bow. Jackals will eat you fallen dead on the ground. O wicked one, do not roar when I, Rama ’s servant, am (here). In a battle excellent warriors roar in the battle due to great accomplishment after conquering their enemy.
Śeṣa said :
12-21. The best demon hit strongly with a (missile called) Śakti , Puṣkala—the hero—who was speaking thus, and who was ferocious in battle, on his chest. That Puṣkala, seeing that great iron missile, attached (i.e. decked) with gold, cut it off with three very fierce and sharp arrows. Made lustreless by the arrows, it fell on the ground in three parts. While falling it shone like Viṣṇu ’s three missiles. Seeing the missile cut off the demon, the tormentor of his enemy, quickly took up a lance having three points and made of iron. The best demon discharged it having sharp points and resembling fire. He, called Puṣkala, made it into (pieces like) sesamum seeds with his arrows. Puṣkala, Rama’s servant, having quickly cut off the trident, fixed on his bow sharp arrows having the speed of mind. The arrows quickly sticking (i.e. striking) his chest produced anger, as the charming qualities of Viṣṇu produce love in the heart of a devotee of Viṣṇu. The very ferocious Vidyunmālin afflicted with pain due to being pierced by his arrow and ready to strike took up a fierce mallet. He whose name was Vidyunmālin, sent (i.e. discharged) that mallet. It struck the chest (of Puṣkala). It produced (blood) and made him foul. Puṣkala, the tormentor of his enemies and the hero s truck by the mallet, shaking with tremour, fell in the middle part of the chariot.
22-28. In the same way his brother Ugradaṃṣṭra fought with Lakṣmīnidhi, with fatal weapons and missiles discharged in various ways. Regaining consciousness just at that moment, he said to the demon: “O greatest among the demons, you are fortunate. Great is your valour. Now listen also to my great vow honoured by the brave. Today with sharp arrows I shall knock you down from the aeroplane.” Speaking thus, he took up an arrow, which was sharp, difficult to be overtaken, burning, having the lustre of fire, and having great excelience. Just when he exerted to retaliate, a very fierce and sharp arrow got into his chest. Confused by the arrow and with his heart perplexed, the demon, losing his consciousness, fell on the ground from the middle part of the vehicle going according to the occupants’ desire. Ugradaṃṣṭra saw his elder brother falling. Being afraid of the enemy, he took him into the interior of the vehicle.
29-37. With great anger he said to his enemy Puṣkala, the best among the mighty: “O wicked one, having overthrown my brother, where will you go? Having vanquished me in the battle (i.e. if you vanquish me in the battle then only), you will get excellent victory. When I am (alive), put an end to the hope of victory in your heart.” He (i.e. Puṣkala), with his eyes full of anger, quickly struck with ten arrows on (i.e. discharged ten arrows into) the chest of the wicked one who was speaking like this. The wicked one, struck with ten arrows by the magnanimous Puṣkala, got angry in his mind, and started to strike him. Grinding his teeth in anger, he raised his fist and struck (Puṣkala). Causing in (others’) hearts fear (like) the noise of the whirlwind (caused) by the fall of the thunderbolt, he roared. The hero Puṣkala, knowing (how to wield) great missiles, struck with a fist, desiring the destruction of the wicked-minded one, did not tremble. He discharged into his chest arrows very sharp like the teeth of a calf. The demon, pained (due to being struck) with those arrows, took up a trident which had three points, which was burning and which was extremely fierce due to lines of flames. The fierce one struck (i.e. hit) the chest of Puṣkala, the great hero. The best archer, struck by the trident, fainted. He suffered from a great mental depression and fell on the chariot.
38-51. Knowing him to have fainted, Hanūmat, the son of Wind, with his heart overcome with anger, spoke to the demon: “O you wicked-minded one, where are you going? With kicks I shall kill you who have come here to snatch away the horse.” Saying so, and remaining in the air, he tore with the tips of his nails the great demons, the soldiers of the enemy seated in the vehicle. The son of Wind (i.e. Hanūmat) struck some with his tail, some with the soles of his feet, some with his fore-arms. Some, when struck, perished; some, being struck, fainted. Then (they) afflicted and frightened due to strokes with the feet, fled. The Wind’s son (i.e. Hanūmat) killed there many very fierce demons; they were cut off, broken and divided into two pieces. The vehicle, going accord ing to the will (of the occupants) and with its defences and gateways broken, was surrounded on all sides by the wailing demons. When the very brave Hanūmat was in the sky in a moment, on the earth the (next) moment, the unassailable vehicle moving according to the (occupants’) will, would be seen here and there. The monkey, Wind’s son, taking any form at will, would be seen striking(the enemies), wherever that vehicle (moved). When the great men (i.e. the demons) remaining in the vehicle, were thus distressed at that time, Ugradaṃṣṭra, the lord of demons, approached Hanūmat. (He said): “O monkey, you have done a great deed, viz. knocking down the warriors. If you stay for a moment, I shall deprive you of your life.” Speaking thus, that wicked-minded one struck Hanūmat with a very sharp trident having the lustre of a blazing fire. The mighty one (i.e. Hanūmat) seized the trident coming to him in his mouth and reduced the entire one made of gold to powder. Having powdered that iron trident discharged by the demon, the powerful Hanūmat struck him with many blows of his open hands.
52-57. He (i.e. Ugradaṃṣṭra) struck here and there by the lord of the monkeys with the blows of his open hands, was afflicted and created an illusion, causing fear to the entire world. Then there was darkness in which none was noticed, in which (a soldier) belonging to one’s own side or of the enemy did not recognise many men. Rocks resembling mountain-peaks fell upon the (bodies of) excellent warriors. Being struck by them all of them were perplexed. (Streaks of) lightning flashed; clouds thundered violently, showered puss and blood, discharged dirty water. Many trunks with the heads having ear-rings cut off, were seen falling from the sky. Everywhere naked, ugly, fierce, terrible, very hideous demons, with their hair very much scattered, were seen.
58-63. Then the people, distressed and full of fear of one another, took to their heels; a great portent was thought (to appear). Then the very glorious Śatrughna came (there) in his chariot, and having remembered Śrī Rāma , he fixed arrows on his bow. Having shaken off the illusion with the bewitching missile the powerful one, scattering streams of arrows in the sky, showered the demon (with them) in the battle. Then the quarters brightened up; the sun had its halo (of lustre), clouds went (away) as they had come; lightning subsided. Then the great vehicle, occupied by the demons, and full of words like ‘Cut off, break’ was seen in front; and thousands of arrows with their feathered ends adorned with gold, repeatedly fell on the vehicle remaining in the sky and going according to (occupants’) desire.
64-68. Then the aeroplane, a portion of which was broken, did not appear (moving) high, (but) appeared like a portion of the city that is broken, on the earth. Then the demon, being very angry, fixed arrows on the bow, and roaring, he scattered (i.e. discharged) them on (Śatrughna) Rāma’s brother. Those arrows in hundreds stuck to his body in many ways. They, the sharp and bent ones, causing streams of blood to flow, gave him great charm. Śatrughna, endowed with a great power, fixed on his bow a missile presided over by the Wind-deity and causing the demons to tremble. The demons, with their hair loose, and falling from the vehicle and the sky, appeared like groups of ghosts and vampires moving in the sky.
69-76. The demon’s son, seeing the missile discharged by Raghunātha ’s brother, fixed on his bow a missile presided over by Śiva . From it proceeded vampires, ghosts, evil spirits and fiends, having skulls and swords and drinking profuse blood. They difficult to ward off, and adorned with swords in their hands, gladly drank the blood of the heroes of Śatrughna even while they were alive. Seeing that missile pervading (everything) and destroying all the warriors, he discharged, to send it back, the missile called Nārāyaṇa . That missile, presided over by Nārāyaṇa, in a moment, checked all of them. All of them, impelled by the demon, met with destruction. Then that angry demon Vidyunmālin took a sharp, fierce and strong trident to kill Śatrughna. Seeing Vidyunmālin coming with a trident in his hand, (Śatrughna) struck (him) on his arm with arrows resembling the crescent moon. With his arm cut off with those arrows he prepared himself to strike (Śatrughna) with his hand. (He said:) “O Śatrughna, you are (now) killed. Go. Who will be your protector?”
77-81. When he was talking like this, (Śatrughna) quickly cut off with arrows the head along with the ear-rings of that mighty hero. Seeing him (i.e. Vidyunmālin) with his head cut off, the valourous Ugradaṃṣṭra started striking Śatrughna served by the brave with his fist; but Śatrughna cut off his head with an arrow with a sharp horse-shoe-shaped head. All the heroes skilled in the use of weapons and missiles ran on the battlefield. Except the lord of the demons all with their life remaining (i.e. saved) went (away). Having saluted Śatrughna they gave (back) the horse snatched (away by them). Then were heard all around the sounds of lutes, the sounds of conches and the charming cries of victory of the brave soldiers.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 43928, revision 335931 (2022-04-17T02:13:20Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365345.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.