Sṛṣṭi-khaṇḍa · Chapter 7
Sourceभीष्म उवाच। दितेः पुत्राः कथं जाता मरुतो देववल्लभाः। देवैर्जग्मुश्च सापत्नैः कस्मात्सख्यमनुत्तमम्१। पुलस्त्य उवाच। पुरा दैवासुरे युद्धे हतेषु हरिणा सुरैः। पुत्रपौत्रेषु शोकार्ता गता भूलोकमुत्तमम्२। पुष्करेषु महातीर्थे सरस्वत्यास्तटे शुभे। भर्त्तुराराधनपरा तप उग्रं चचार ह३। दितिर्वै दैत्यमाता तु ऋषिकार्येण सुव्रता। फलाहारा तपस्तेपे कृच्छ्रचांद्रायणादिभिः४। यावद्वर्षशतं साग्रं जराशोकसमाकुला। ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत५। कथयंतु भवंतो मे पुत्रशोकविनाशनम्। व्रतं सौभाग्यफलदमिहलोके परत्र च६। ऊचुर्वसिष्ठप्रमुखा ज्येष्ठस्य पूर्णिमाव्रतम्। यस्य प्रसादादभवत्सुतशोकविवर्जिता७। भीष्म उवाच। श्रोतुमिच्छाम्यहं ब्रह्मन्ज्येष्ठस्य पूर्णिमाव्रतम्। सुतानेकोनपंचाशद्येन लेभे पुनर्दितिः८। पुलस्त्य उवाच। यद्वसिष्ठादिभिः पूर्वं दित्यै संकथितं व्रतम्। विस्तरेण तदेवेदं मत्सकाशान्निशामय९। ज्येष्ठे मासि सिते पक्षे पौर्णमास्यां यतव्रता। स्थापयेदव्रणं कुंभं सिततण्डुलपूरितम्१०। नानाफलयुतं तद्वदिक्षुदंडसमन्वितम्। सितवस्त्रयुगच्छन्नंसितचंदनचर्चितम्११। नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितः। ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत्१२। तस्मादुपरि ब्रह्माणं सौवर्णं पद्मकोटरे। कुर्यात्शर्करयोपेतां सावित्रीं तस्य वामतः१३। गंधंधूपं तयोर्दद्याद्गीतं वाद्यं च कारयेत्। तदभावे कथं कुर्याद्यथा पद्मे पितामहः१४। ब्रह्माह्वयां च प्रतिमां कृत्वा गुडमयीं शुभाम्। शुक्लपुष्पाक्षततिलैरर्चयेत्पद्मसंभवम्१५। ब्राह्माय पादौ संपूज्य जंघे सौभाग्यदाय च। विरिंचायोरुयुग्मं च मन्मथायेति वै कटिम्१६। स्वच्छोदरायेत्युदरमतंद्रायेत्युरो विधेः। मुखं पद्ममुखायेति बाहू वै वेदपाणये१७। नमः सर्वात्मने मौलिमर्च्चयेच्चापि पंकजम्। ततः प्रभाते तत्कुंभं ब्राह्मणाय निवेदयेत्१८। ब्राह्मणं भोजयेद्भक्त्या स्वयं तु लवणं विना। भक्त्या प्रदक्षिणं दद्यादिमं मंत्रमुदीरयेत्१९। प्रीयतामत्र भगवान्सर्वलोकपितामहः। हृदये सर्वलोकानां यस्त्वानंदोभिधीयते२०। अनेन विधिना सर्वं मासिमासि समाचरेत्। उपवासी पौर्णमास्यामर्चयेद्ब्राह्ममव्ययम्२१। फलमेकं च संप्राश्य शर्वर्यां भूतले स्वपेत्। ततस्त्रयोदशे मासि घृतधेनुसमन्विताम्२२। शय्यां दद्याद्विरिंचाय सर्वोपस्करसंयुताम्। ब्रह्माणं कांचनं कृत्वा सावित्रीं रजतैस्तथा२३। पद्मात्मकः सृष्टिकर्त्ता सावित्रीमुपलभ्यतु। वस्त्रैर्द्विजं सपत्नीकं पूज्य भक्त्या विभूषणैः२४। शक्त्या गवादिकं दद्यात्प्रीयतामित्युदीरयेत्। होमं शुक्लैस्तिलैः कुर्याद्ब्रह्मनामानि कीर्तयेत्२५। गव्येन सर्पिषा तद्वत्पायसेन च धर्मवित्। विप्रेभ्योथ धनं दद्यात्पुष्पमालां च शक्तितः२६। यः कुर्याद्विधिनानेन पौर्णमास्यां स्त्रियोपि वा। सर्वपापविनिर्मुक्तः प्राप्नोति ब्रह्मसात्म्यताम्२७। इहलोके वरान्पुत्रान्सौभाग्यं ध्रुवमश्नुते। यो ब्रह्मा स स्मृतो विष्णुरानंदात्मा महेश्वरः२८। सुखार्थी कामरूपेण स्मरेद्देवं पितामहम्। एवं श्रुत्वा चकारासौ दितिः सर्वमशेषतः२९। कश्यपो व्रतमाहात्म्यादागत्य परया मुदा। चकार कर्कशां भूयो रूपलावण्यसंयुताम्३०। वरैराछंदयामास सा तु वव्रे वरंवरम्। पुत्रं शक्रवधार्थाय समर्थं च महौजसम्३१। वरयामि महात्मानं सर्वामरनिषूदनम्। उवाच कश्यपो वाक्यमिंद्रहंतारमूर्जितम्३२। प्रदास्याम्यहमेतेन किन्त्वेतत्क्रियतां शुभे। आपस्तंबीं तु कृत्वेष्टिं पुत्रीयामद्य सुस्तनि३३। विधास्यामि ततो गर्भं स्पृष्ट्वाहं ते स्तनौ शुभे। भविष्यति शुभो गर्भो देवि शक्रनिषूदनः३४। आपस्तंबीं ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम्। इंद्रशत्रोभवस्वेति जुहाव च हविस्त्वरन्३५। देवाश्च मुमुर्हुर्दैत्या विमुखाश्चैव दानवाः। दित्यां गर्भमथाधत्त कश्यपः प्राह तां पुनः३६। मुखं ते चंद्रप्रतिमं स्तनौ बिल्वफलोपमौ। अधरौ विद्रुमाकारौ वर्णश्चातीव शोभनः३७। त्वां दृष्ट्वाहं विशालाक्षि विस्मरामि स्विकां तनुम्। तदेवं गर्भः सुश्रोणि हस्तेनोप्तस्तनौ तव३८। त्वया यत्ने विधातव्यो ह्यस्मिन्गर्भे वरानने। संवत्सरशतं त्वेकमस्मिन्नेव तपोवने३९। संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि। न स्थातव्यं न गंतव्यं वृक्षमूलेषु सर्वदा४०। नोपस्करेषु निविशेन्मुसलोलूखलादिषु। जलं च नावगाहेत शून्यागारं च वर्जयेत्४१। वल्मीकेषु न तिष्ठेत न चोद्विग्नमना भवेत्। न नखेन लिखेद्भूमौ नांगारे न च भस्मनि४२। न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत्। न तुषांगारभस्मास्थि कपालेषु समाविशेत्४३। वर्जयेत्कलहं लोके गात्राभ्यंगं तथैव च। न मुक्तकेशी तिष्ठेत नाशुचिः स्यात्कथंचन४४। न शयीतोत्तरशिराः न चैवाधः शिराः क्वचित्। न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती४५। नामंगल्यां वदेद्वाचं न च हास्याधिकाभवेत्। कुर्याच्च गुरुभिर्नित्यं पूजां मांगल्यतत्परा४६। सर्वौषधीभिः सृष्टेन वारिणा स्नानमाचरेत्। तिष्ठेत्प्रसन्नवदना भर्तृप्रियहिते रता। न गर्हयेच्च भर्तारं सर्वावस्थमपि क्वचित्४८। कृशाहं दुर्बला चैव वार्द्धक्यं मम चागतम्। स्तनौ मे चलितौ स्थानान्मुखं च वलिभंगुरम्४९। एवंविधा त्वया चाहं कृतेति न वदेत्क्वचित्। स्वस्त्यस्तुते गमिष्यामि तथेत्युक्तस्तया पुनः५० 1.7.50। पश्यतां सर्वभूतानां तत्रैवांतरधीयत। ततः सा भर्तृवाचोक्तविधिना समतिष्ठत५१। अथ ज्ञात्वा तथेंद्रोपि दितेः पार्श्वमुपागतः। विहाय देवसदनं तां शुश्रूषुरवस्थितः५२। दितेश्छिद्रांतरप्रेप्सुरभवत्पाकशासनः। विपरीतोंतरव्यग्रः प्रसन्नवदतो बहिः५३। अजानन्निव तत्त्कार्यमात्मनश्शुभमाचरन्। ततो वर्षशतांते सा न्यूने तु दिवसैस्त्रिभिः५४। मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा। अकृत्वा पादयोः शौचं शयाना मुक्तमूर्धजा५५। निद्राभरसमाक्रांता दिवा परशिराः क्वचित्। ततस्तदंतरं लब्ध्वा प्रविश्यांतः शचीपतिः५६। वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः। ततः सप्त च ते जाताः कुमाराः सूर्यवर्चसः५७। रुदंतः सप्त ते बाला निषिद्धा दानवारिणा। भूयोपि रुदमानांस्तानेकैकान्सप्तधा हरिः५८। चिच्छेद वज्रहस्तो वै पुनः स्तूदरसंस्थितान्। एवमेकोनपंचाशद्भूत्वा ते रुरुदुर्भृशम्५९। इंद्रो निवारयामास मा रुदध्वं पुनःपुनः। ततः स चिंतयामास वितर्कमिति वृत्रहा६०। कर्मणः कस्य माहात्म्यात्पुनः संजीवितास्त्वमी। विदित्वा पुण्ययोगेन पौर्णमासीफलं त्विदम्६१। नूनमेतत्परिणतमथवा ब्रह्मपूजनात्। वज्रेणाभिहताः संतो न विनाशमुपाययुः६२। एकोप्यनेकतामाप यस्मादुदरगोपनम्। अवध्या नूनमेते वै तस्माद्देवा भवंत्विति६३। यस्मान्मा रुद इत्युक्ता रुदंतो गर्भसंभवाः। मरुतो नाम ते नाम्ना भवंतु सुखभागिनः६४। ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः। अर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम्६५। कृत्वा मरुद्गणं देवैः समानममराधिपः। दितिं विमानमारोप्य ससुतामगमद्दिवम्६६। यज्ञभागभुजः सर्वे मरुतस्ते ततोभवन्। न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः६७। भीष्म उवाच। आदिसर्गस्त्वया ब्रह्मन्कथितो विस्तरेण मे। प्रतिसर्गश्च यो येषामधिपांस्तान्वदस्व मे६८। पुलस्त्य उवाच। यदाभिषिक्तः सकलेपि राज्ये पृथुर्द्धरित्र्यामधिपो बभूव। तथौषधीनामधिपं चकार यज्ञव्रतानां तपसां च सोमम्६९। नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भम्। अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत्७०। विष्णुं रवीणामधिपं वसूनामग्निं च लोकाधिपतिं चकार। प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम्७१। दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम्। पिशाचरक्षःपशुभूतयक्षवेतालराजं ह्यथ शूलपाणिम्७२। प्रालेयशैलं च पतिं गिरीणामीशं समुद्रं सरितामधीशम्। गंधर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार७३। नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश। दिग्वारणानामधिपं चकार गजेंद्रमैरावणनामधेयम्७४। सुपर्णमीशं पततामथार्वतां राजानमुच्चैःश्रवसं चकार। सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम्७५। पितामहः पूर्वमथाभ्यषिंचदेतान्पुनः सर्वदिशाधिनाथान्। पूर्वेश दिक्पालमथाभ्यषिंचन्नाम्ना सुवर्माणमरातिकेतुं७६। ततोधिपं दक्षिणतश्चकार सर्वेश्वरं शंखपदाभिधानम्। सकेतुमंतं दिगधीशमीशं चकार पश्चाद्भुवनांडगर्भः७७। हिरण्यरोमाणमुदग्दिगीशं प्रजापतिं मेघसुतं चकार। अद्यापि कुर्वंति दिशामधीशाः सदा वहंतस्तु भुवोभिरक्षाम्७८। चतुर्भिरेतैः पृथुनामधेयो नृपोभिषिक्तः प्रथमः पृथिव्याम्। गतेंतरे चाक्षुषनामधेये वैवस्वतं चक्रुरिमं पृथिव्यां७९। गतेंतरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते। प्रजापतिः सोस्य चराचरस्य बभूव सूर्यान्वयजः सचिह्नः८०। पुलस्त्य उवाच। मन्वंतराणि सर्वाणि मनूनां चरितानि यत्। प्रमाणं चैव कल्पस्य तत्सृष्टिं च समासतः८१। एकचित्तः प्रसन्नात्मा शृणु कौरवनंदन। यामा नाम पुरा देवा आसन्स्वायंभुवांतरे८२। सप्तैव ऋषयः पूर्वं ये मरीच्यादयः स्मृताः। आग्नीध्रश्चाग्निबाहुश्च विभुः सवन एव च८३। ज्योतिष्मान्द्युतिमान्भव्यो मेधा मेधातिथिर्वसुः। स्वायंभुवस्यास्य मनोर्दशैते वंशवर्द्धनाः८४। प्रतिसर्गममी कृत्वा जग्मुस्ते परमं पदम्। एवं स्वायंभुवं प्रोक्तं स्वारोचिषमतः परम्८५। स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः। नभोनभस्य प्रभृतिर्भावनः कीर्तिवर्द्धनः८६। दत्तोग्निश्च्यवनस्तंभः प्राणः कश्यप एव च। अर्वा बृहस्पतिश्चैव सप्त सप्तर्षयोभवन्८७। तदा देवाश्च तुषिताः स्मृता स्वारोचिषेंतरे। हवींद्रसुःकृतो मूर्तिरापो ज्योतिरथः स्मृतः८८। वसिष्ठस्य सुताः सप्त ये प्रजापतयस्तदा। द्वितीयमेतत्कथितं मन्वंतरमतः परं८९। अन्यच्चैव प्रवक्ष्यामि तथा मन्वंतरं शुभं। मनुर्नामौत्तमिस्तत्र दश पुत्रानजीजनत्९०। इषऊर्जस्तनूजश्च शुचिः शुक्रस्तथैव च। मधुश्च माधवश्चैव नभस्योथ नभस्तथा९१। सहः सहस्य एतेषामुत्तमः कीर्तिवर्द्धनः। भानवस्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः९२। कौकभिण्डिः कुतुण्डश्च दाल्भ्यः शंखः प्रवाहितः। मितिश्च संमितिश्चैव सप्तैते योगवर्द्धनाः९३। मन्वंतरं चतुर्थं तु तामसं नाम विश्रुतं। कपिः पृथुस्तथैवाग्निरकपिः कविरेव च९४। तथैव जन्यधामानौ मुनयः सप्त नामतः। साध्या देवगणा ये च कथितास्तामसेंतरे९५। अकल्मषस्तपोधन्वी तपोमूलस्तपोधनः। तपोराशिस्तपस्यश्च सुतपस्यः परंतपः९६। तामसस्य सुताः सर्वे दशवंशविवर्द्धनाः। पंचमस्य मनोस्तद्वद्रैवतस्यांतरं शृणु९७। देवबाहुः सुबाहुश्च पर्ज्यन्यः समयोमुनिः। हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः९८। देवाश्च भूतरजसस्तथा प्रकृतयः स्मृताः। अवशस्तत्वदर्शी च वीतिमान्हव्यपः कपिः९९। मुक्तो निरुत्सुकः सत्वो निर्मोहोथ प्रकाशकः। धर्मवीर्यबलोपेता दशैते रेवतात्मजाः१०० 1.7.100। भृगुः सुधामा विरजः सहिष्णुर्नारदस्तथा। विवस्वान्कृतिनामा च सप्त सप्तर्षयोपरे१०१। चाक्षुषस्यांतरे देवा लेखानामपरिश्रुताः। विभवोथ पृथक्चानु कीर्तितास्त्रिदिवौकसः१०२। चाक्षुषस्यांतरे प्राप्ते देवानां पंचमो जनः। रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश१०३। प्रोक्ताः स्वायंभुवे वंशे ये मया पूर्वमेव ते। अन्तरं चाक्षुषं चैव मया ते परिकीर्तितं१०४। सप्तमं च प्रवक्ष्यामि यद्वैवस्वतमुच्यते। अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा१०५। भारद्वाजस्तथा योगी विश्वामित्रः प्रतापवान्। जमदग्निश्च सप्तैते सांप्रतं ते महर्षयः१०६। कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदं। सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथांतरं१०७। अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा। शतानंदः काश्यपश्च रामश्च ऋषय स्मृताः१०८। धृतिर्वरीयान्यवसुः सुवर्णो धृतिरेव च। वरिष्णुवीर्यः सुमतिर्वसुश्शुक्रश्च वीर्यवान्१०९। भविष्यस्यार्कसावर्णेर्मनोः पुत्राः प्रकीर्तिताः। रौच्यादयस्तथान्येपि मनवः संप्रकीर्तिताः११०। रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति। मनुर्भूतिसुतस्तद्वद्भौत्यो नाम भविष्यति१११। ततस्तु मेरुसावर्णिर्ब्रह्मसुनुर्मनुः स्मृतः। ऋभुश्च ॠतुधामा च विष्वक्सेनो मनुस्तथा११२। अतीतानागताश्चैव मनवः परिकीर्तिताः। वर्षाणां युगसाहस्रमेभिर्व्याप्तं नराधिप११३। स्वेस्वेन्तरे सर्वमिदं समुत्पाद्य चराचरं। कल्पक्षये निवृत्ते तु मुच्यंते ब्रह्मणा सह११४। अमीयुगसहस्रान्ते विनश्यन्ति पुनःपुनः। ब्रह्माद्या विष्णुसायुज्यं ततो यास्यंति वै नृप११५।
bhīṣma uvāca| diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ| devairjagmuśca sāpatnaiḥ kasmātsakhyamanuttamam1| pulastya uvāca| purā daivāsure yuddhe hateṣu hariṇā suraiḥ| putrapautreṣu śokārtā gatā bhūlokamuttamam2| puṣkareṣu mahātīrthe sarasvatyāstaṭe śubhe| bhartturārādhanaparā tapa ugraṃ cacāra ha3| ditirvai daityamātā tu ṛṣikāryeṇa suvratā| phalāhārā tapastepe kṛcchracāṃdrāyaṇādibhiḥ4| yāvadvarṣaśataṃ sāgraṃ jarāśokasamākulā| tataḥ sā tapasā taptā vasiṣṭhādīnapṛcchata5| kathayaṃtu bhavaṃto me putraśokavināśanam| vrataṃ saubhāgyaphaladamihaloke paratra ca6| ūcurvasiṣṭhapramukhā jyeṣṭhasya pūrṇimāvratam| yasya prasādādabhavatsutaśokavivarjitā7| bhīṣma uvāca| śrotumicchāmyahaṃ brahmanjyeṣṭhasya pūrṇimāvratam| sutānekonapaṃcāśadyena lebhe punarditiḥ8| pulastya uvāca| yadvasiṣṭhādibhiḥ pūrvaṃ dityai saṃkathitaṃ vratam| vistareṇa tadevedaṃ matsakāśānniśāmaya9| jyeṣṭhe māsi site pakṣe paurṇamāsyāṃ yatavratā| sthāpayedavraṇaṃ kuṃbhaṃ sitataṇḍulapūritam10| nānāphalayutaṃ tadvadikṣudaṃḍasamanvitam| sitavastrayugacchannaṃsitacaṃdanacarcitam11| nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ| tāmrapātraṃ guḍopetaṃ tasyopari niveśayet12| tasmādupari brahmāṇaṃ sauvarṇaṃ padmakoṭare| kuryātśarkarayopetāṃ sāvitrīṃ tasya vāmataḥ13| gaṃdhaṃdhūpaṃ tayordadyādgītaṃ vādyaṃ ca kārayet| tadabhāve kathaṃ kuryādyathā padme pitāmahaḥ14| brahmāhvayāṃ ca pratimāṃ kṛtvā guḍamayīṃ śubhām| śuklapuṣpākṣatatilairarcayetpadmasaṃbhavam15| brāhmāya pādau saṃpūjya jaṃghe saubhāgyadāya ca| viriṃcāyoruyugmaṃ ca manmathāyeti vai kaṭim16| svacchodarāyetyudaramataṃdrāyetyuro vidheḥ| mukhaṃ padmamukhāyeti bāhū vai vedapāṇaye17| namaḥ sarvātmane maulimarccayeccāpi paṃkajam| tataḥ prabhāte tatkuṃbhaṃ brāhmaṇāya nivedayet18| brāhmaṇaṃ bhojayedbhaktyā svayaṃ tu lavaṇaṃ vinā| bhaktyā pradakṣiṇaṃ dadyādimaṃ maṃtramudīrayet19| prīyatāmatra bhagavānsarvalokapitāmahaḥ| hṛdaye sarvalokānāṃ yastvānaṃdobhidhīyate20| anena vidhinā sarvaṃ māsimāsi samācaret| upavāsī paurṇamāsyāmarcayedbrāhmamavyayam21| phalamekaṃ ca saṃprāśya śarvaryāṃ bhūtale svapet| tatastrayodaśe māsi ghṛtadhenusamanvitām22| śayyāṃ dadyādviriṃcāya sarvopaskarasaṃyutām| brahmāṇaṃ kāṃcanaṃ kṛtvā sāvitrīṃ rajataistathā23| padmātmakaḥ sṛṣṭikarttā sāvitrīmupalabhyatu| vastrairdvijaṃ sapatnīkaṃ pūjya bhaktyā vibhūṣaṇaiḥ24| śaktyā gavādikaṃ dadyātprīyatāmityudīrayet| homaṃ śuklaistilaiḥ kuryādbrahmanāmāni kīrtayet25| gavyena sarpiṣā tadvatpāyasena ca dharmavit| viprebhyotha dhanaṃ dadyātpuṣpamālāṃ ca śaktitaḥ26| yaḥ kuryādvidhinānena paurṇamāsyāṃ striyopi vā| sarvapāpavinirmuktaḥ prāpnoti brahmasātmyatām27| ihaloke varānputrānsaubhāgyaṃ dhruvamaśnute| yo brahmā sa smṛto viṣṇurānaṃdātmā maheśvaraḥ28| sukhārthī kāmarūpeṇa smareddevaṃ pitāmaham| evaṃ śrutvā cakārāsau ditiḥ sarvamaśeṣataḥ29| kaśyapo vratamāhātmyādāgatya parayā mudā| cakāra karkaśāṃ bhūyo rūpalāvaṇyasaṃyutām30| varairāchaṃdayāmāsa sā tu vavre varaṃvaram| putraṃ śakravadhārthāya samarthaṃ ca mahaujasam31| varayāmi mahātmānaṃ sarvāmaraniṣūdanam| uvāca kaśyapo vākyamiṃdrahaṃtāramūrjitam32| pradāsyāmyahametena kintvetatkriyatāṃ śubhe| āpastaṃbīṃ tu kṛtveṣṭiṃ putrīyāmadya sustani33| vidhāsyāmi tato garbhaṃ spṛṣṭvāhaṃ te stanau śubhe| bhaviṣyati śubho garbho devi śakraniṣūdanaḥ34| āpastaṃbīṃ tataścakre putreṣṭiṃ draviṇādhikām| iṃdraśatrobhavasveti juhāva ca havistvaran35| devāśca mumurhurdaityā vimukhāścaiva dānavāḥ| dityāṃ garbhamathādhatta kaśyapaḥ prāha tāṃ punaḥ36| mukhaṃ te caṃdrapratimaṃ stanau bilvaphalopamau| adharau vidrumākārau varṇaścātīva śobhanaḥ37| tvāṃ dṛṣṭvāhaṃ viśālākṣi vismarāmi svikāṃ tanum| tadevaṃ garbhaḥ suśroṇi hastenoptastanau tava38| tvayā yatne vidhātavyo hyasmingarbhe varānane| saṃvatsaraśataṃ tvekamasminneva tapovane39| saṃdhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini| na sthātavyaṃ na gaṃtavyaṃ vṛkṣamūleṣu sarvadā40| nopaskareṣu niviśenmusalolūkhalādiṣu| jalaṃ ca nāvagāheta śūnyāgāraṃ ca varjayet41| valmīkeṣu na tiṣṭheta na codvignamanā bhavet| na nakhena likhedbhūmau nāṃgāre na ca bhasmani42| na śayāluḥ sadā tiṣṭhedvyāyāmaṃ ca vivarjayet| na tuṣāṃgārabhasmāsthi kapāleṣu samāviśet43| varjayetkalahaṃ loke gātrābhyaṃgaṃ tathaiva ca| na muktakeśī tiṣṭheta nāśuciḥ syātkathaṃcana44| na śayītottaraśirāḥ na caivādhaḥ śirāḥ kvacit| na vastrahīnā nodvignā na cārdracaraṇā satī45| nāmaṃgalyāṃ vadedvācaṃ na ca hāsyādhikābhavet| kuryācca gurubhirnityaṃ pūjāṃ māṃgalyatatparā46| sarvauṣadhībhiḥ sṛṣṭena vāriṇā snānamācaret| tiṣṭhetprasannavadanā bhartṛpriyahite ratā| na garhayecca bhartāraṃ sarvāvasthamapi kvacit48| kṛśāhaṃ durbalā caiva vārddhakyaṃ mama cāgatam| stanau me calitau sthānānmukhaṃ ca valibhaṃguram49| evaṃvidhā tvayā cāhaṃ kṛteti na vadetkvacit| svastyastute gamiṣyāmi tathetyuktastayā punaḥ50 1.7.50| paśyatāṃ sarvabhūtānāṃ tatraivāṃtaradhīyata| tataḥ sā bhartṛvācoktavidhinā samatiṣṭhata51| atha jñātvā tatheṃdropi diteḥ pārśvamupāgataḥ| vihāya devasadanaṃ tāṃ śuśrūṣuravasthitaḥ52| diteśchidrāṃtaraprepsurabhavatpākaśāsanaḥ| viparītoṃtaravyagraḥ prasannavadato bahiḥ53| ajānanniva tattkāryamātmanaśśubhamācaran| tato varṣaśatāṃte sā nyūne tu divasaistribhiḥ54| mene kṛtārthamātmānaṃ prītyā vismitamānasā| akṛtvā pādayoḥ śaucaṃ śayānā muktamūrdhajā55| nidrābharasamākrāṃtā divā paraśirāḥ kvacit| tatastadaṃtaraṃ labdhvā praviśyāṃtaḥ śacīpatiḥ56| vajreṇa saptadhā cakre taṃ garbhaṃ tridaśādhipaḥ| tataḥ sapta ca te jātāḥ kumārāḥ sūryavarcasaḥ57| rudaṃtaḥ sapta te bālā niṣiddhā dānavāriṇā| bhūyopi rudamānāṃstānekaikānsaptadhā hariḥ58| ciccheda vajrahasto vai punaḥ stūdarasaṃsthitān| evamekonapaṃcāśadbhūtvā te rurudurbhṛśam59| iṃdro nivārayāmāsa mā rudadhvaṃ punaḥpunaḥ| tataḥ sa ciṃtayāmāsa vitarkamiti vṛtrahā60| karmaṇaḥ kasya māhātmyātpunaḥ saṃjīvitāstvamī| viditvā puṇyayogena paurṇamāsīphalaṃ tvidam61| nūnametatpariṇatamathavā brahmapūjanāt| vajreṇābhihatāḥ saṃto na vināśamupāyayuḥ62| ekopyanekatāmāpa yasmādudaragopanam| avadhyā nūnamete vai tasmāddevā bhavaṃtviti63| yasmānmā ruda ityuktā rudaṃto garbhasaṃbhavāḥ| maruto nāma te nāmnā bhavaṃtu sukhabhāginaḥ64| tataḥ prasādya deveśaḥ kṣamasveti ditiṃ punaḥ| arthaśāstraṃ samāsthāya mayaitadduṣkṛtaṃ kṛtam65| kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ| ditiṃ vimānamāropya sasutāmagamaddivam66| yajñabhāgabhujaḥ sarve marutaste tatobhavan| na jagmuraikyamasurairataste suravallabhāḥ67| bhīṣma uvāca| ādisargastvayā brahmankathito vistareṇa me| pratisargaśca yo yeṣāmadhipāṃstānvadasva me68| pulastya uvāca| yadābhiṣiktaḥ sakalepi rājye pṛthurddharitryāmadhipo babhūva| tathauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca somam69| nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbham| apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat70| viṣṇuṃ ravīṇāmadhipaṃ vasūnāmagniṃ ca lokādhipatiṃ cakāra| prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam71| daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām| piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ hyatha śūlapāṇim72| prāleyaśailaṃ ca patiṃ girīṇāmīśaṃ samudraṃ saritāmadhīśam| gaṃdharvavidyādharakinnarāṇāmīśaṃ punaścitrarathaṃ cakāra73| nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa| digvāraṇānāmadhipaṃ cakāra gajeṃdramairāvaṇanāmadheyam74| suparṇamīśaṃ patatāmathārvatāṃ rājānamuccaiḥśravasaṃ cakāra| siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām75| pitāmahaḥ pūrvamathābhyaṣiṃcadetānpunaḥ sarvadiśādhināthān| pūrveśa dikpālamathābhyaṣiṃcannāmnā suvarmāṇamarātiketuṃ76| tatodhipaṃ dakṣiṇataścakāra sarveśvaraṃ śaṃkhapadābhidhānam| saketumaṃtaṃ digadhīśamīśaṃ cakāra paścādbhuvanāṃḍagarbhaḥ77| hiraṇyaromāṇamudagdigīśaṃ prajāpatiṃ meghasutaṃ cakāra| adyāpi kurvaṃti diśāmadhīśāḥ sadā vahaṃtastu bhuvobhirakṣām78| caturbhiretaiḥ pṛthunāmadheyo nṛpobhiṣiktaḥ prathamaḥ pṛthivyām| gateṃtare cākṣuṣanāmadheye vaivasvataṃ cakrurimaṃ pṛthivyāṃ79| gateṃtare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte| prajāpatiḥ sosya carācarasya babhūva sūryānvayajaḥ sacihnaḥ80| pulastya uvāca| manvaṃtarāṇi sarvāṇi manūnāṃ caritāni yat| pramāṇaṃ caiva kalpasya tatsṛṣṭiṃ ca samāsataḥ81| ekacittaḥ prasannātmā śṛṇu kauravanaṃdana| yāmā nāma purā devā āsansvāyaṃbhuvāṃtare82| saptaiva ṛṣayaḥ pūrvaṃ ye marīcyādayaḥ smṛtāḥ| āgnīdhraścāgnibāhuśca vibhuḥ savana eva ca83| jyotiṣmāndyutimānbhavyo medhā medhātithirvasuḥ| svāyaṃbhuvasyāsya manordaśaite vaṃśavarddhanāḥ84| pratisargamamī kṛtvā jagmuste paramaṃ padam| evaṃ svāyaṃbhuvaṃ proktaṃ svārociṣamataḥ param85| svārociṣasya tanayāścatvāro devavarcasaḥ| nabhonabhasya prabhṛtirbhāvanaḥ kīrtivarddhanaḥ86| dattogniścyavanastaṃbhaḥ prāṇaḥ kaśyapa eva ca| arvā bṛhaspatiścaiva sapta saptarṣayobhavan87| tadā devāśca tuṣitāḥ smṛtā svārociṣeṃtare| havīṃdrasuḥkṛto mūrtirāpo jyotirathaḥ smṛtaḥ88| vasiṣṭhasya sutāḥ sapta ye prajāpatayastadā| dvitīyametatkathitaṃ manvaṃtaramataḥ paraṃ89| anyaccaiva pravakṣyāmi tathā manvaṃtaraṃ śubhaṃ| manurnāmauttamistatra daśa putrānajījanat90| iṣaūrjastanūjaśca śuciḥ śukrastathaiva ca| madhuśca mādhavaścaiva nabhasyotha nabhastathā91| sahaḥ sahasya eteṣāmuttamaḥ kīrtivarddhanaḥ| bhānavastatra devāḥ syurūrjāḥ saptarṣayaḥ smṛtāḥ92| kaukabhiṇḍiḥ kutuṇḍaśca dālbhyaḥ śaṃkhaḥ pravāhitaḥ| mitiśca saṃmitiścaiva saptaite yogavarddhanāḥ93| manvaṃtaraṃ caturthaṃ tu tāmasaṃ nāma viśrutaṃ| kapiḥ pṛthustathaivāgnirakapiḥ kavireva ca94| tathaiva janyadhāmānau munayaḥ sapta nāmataḥ| sādhyā devagaṇā ye ca kathitāstāmaseṃtare95| akalmaṣastapodhanvī tapomūlastapodhanaḥ| taporāśistapasyaśca sutapasyaḥ paraṃtapaḥ96| tāmasasya sutāḥ sarve daśavaṃśavivarddhanāḥ| paṃcamasya manostadvadraivatasyāṃtaraṃ śṛṇu97| devabāhuḥ subāhuśca parjyanyaḥ samayomuniḥ| hiraṇyaromā saptāśvaḥ saptaite ṛṣayaḥ smṛtāḥ98| devāśca bhūtarajasastathā prakṛtayaḥ smṛtāḥ| avaśastatvadarśī ca vītimānhavyapaḥ kapiḥ99| mukto nirutsukaḥ satvo nirmohotha prakāśakaḥ| dharmavīryabalopetā daśaite revatātmajāḥ100 1.7.100| bhṛguḥ sudhāmā virajaḥ sahiṣṇurnāradastathā| vivasvānkṛtināmā ca sapta saptarṣayopare101| cākṣuṣasyāṃtare devā lekhānāmapariśrutāḥ| vibhavotha pṛthakcānu kīrtitāstridivaukasaḥ102| cākṣuṣasyāṃtare prāpte devānāṃ paṃcamo janaḥ| ruruprabhṛtayastadvaccākṣuṣasya sutā daśa103| proktāḥ svāyaṃbhuve vaṃśe ye mayā pūrvameva te| antaraṃ cākṣuṣaṃ caiva mayā te parikīrtitaṃ104| saptamaṃ ca pravakṣyāmi yadvaivasvatamucyate| atriścaiva vasiṣṭhaśca kaśyapo gautamastathā105| bhāradvājastathā yogī viśvāmitraḥ pratāpavān| jamadagniśca saptaite sāṃprataṃ te maharṣayaḥ106| kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padaṃ| sāvarṇyasya pravakṣyāmi manorbhāvi tathāṃtaraṃ107| aśvatthāmā śaradvāṃśca kauśiko gālavastathā| śatānaṃdaḥ kāśyapaśca rāmaśca ṛṣaya smṛtāḥ108| dhṛtirvarīyānyavasuḥ suvarṇo dhṛtireva ca| variṣṇuvīryaḥ sumatirvasuśśukraśca vīryavān109| bhaviṣyasyārkasāvarṇermanoḥ putrāḥ prakīrtitāḥ| raucyādayastathānyepi manavaḥ saṃprakīrtitāḥ110| ruceḥ prajāpateḥ putro raucyo nāma bhaviṣyati| manurbhūtisutastadvadbhautyo nāma bhaviṣyati111| tatastu merusāvarṇirbrahmasunurmanuḥ smṛtaḥ| ṛbhuśca ṝtudhāmā ca viṣvakseno manustathā112| atītānāgatāścaiva manavaḥ parikīrtitāḥ| varṣāṇāṃ yugasāhasramebhirvyāptaṃ narādhipa113| svesventare sarvamidaṃ samutpādya carācaraṃ| kalpakṣaye nivṛtte tu mucyaṃte brahmaṇā saha114| amīyugasahasrānte vinaśyanti punaḥpunaḥ| brahmādyā viṣṇusāyujyaṃ tato yāsyaṃti vai nṛpa115|
English translation
Bhīṣma said :
1. How did Maruts , the sons of Diti ; become dear to gods, and how did they have excellent intimacy with gods?
Pulastya spoke :
2. Formerly, in the war between the gods and the demons, when, by Hari and gods, her sons and grandsons were killed, Diti, afflicted with grief, went to the excellent terrestrial globe.
3. At the great sacred place in Puṣkara , on the auspicious bank of the Sarasvatī , Diti the mother of the Daityas , intent upon propitiating her husband, practised a severe penance.
4-6. She, of a good vow, afflicted with old age and grief, subsisting on fruit, performed fully, for a hundred years, a penance, with vows like Kṛcchra - cāndrāyaṇa , for the sages. Then she, tormented by penance, asked Vasiṣṭha and others: “Tell me a vow that will remove my grief for my sons and will cause good luck in this and the next world”.
7. Vasiṣṭha and others told (her) about the vow of the full-moon night of Jyeṣṭha , due to the auspiciousness of which she became free from the grief for her sons.
Bhīṣma said :
8. O brāhmaṇa , I wish to hear about the vow of the full-moon of Jyeṣṭha, by which Diti got back her forty-nine sons.
Pulastya said :
9. Hear from me in details the vow which was formerly told by Vasiṣṭha and others to Diti.
10-13. In the bright fortnight of Jyeṣṭha, on the full-moon day, one, of a pure vow, should place an unbruised pitcher filled with white rice, and having many fruits and sugarcanes, covered with a couple of white clothes, and besmeared with sandal; then one should put on it a copper-vessel, containing gold according to one’s capacity, and various kinds of eatables and jaggery; in a hollow of a lotus, one should instal a golden image of Brahmā . To his (i.e. Brahmā’s) left, one should fashion (the image of) Sāvitri made of sugar.
14. To them he should offer perfume and incense and have vocal and instrumental music. How can one do it without it since Brahma lives in the lotus?
15-18. Having fashioned an auspicious image made of jaggery and called Brahmā, one should worship Brahmā with white flowers, sacred grains and sesamum; one should worship him, saying ‘Salutation to Brahmā’ while worshipping his feet; saying ‘Salutation to Saubhāgyada’ while worshipping his shanks; saying ‘Salutation to Viriñca ’ while worshipping his hair of thinghs[?thighs?]; saying’ ‘Salutation to Manmatha ’ while worshipping his waist; saying ‘Salutation to Svacchodara’ while worshipping his belly; saying ‘Salutation to Atandra’ while worshipping his chest; saying ‘Salutation to Padmamukha’ while worshipping his face; saying ‘Salutation to Vedapāṇi' while worshipping his arms: saying ‘Salutation to Sarvātman’ while worshipping his head; and one should also worship the lotus. Then in the morning one should present the pitcher to a brāhmaṇa.
19-20. With devotion one should feed the brāhmaṇa and oneself eat saltless (food), and devoutly cicumambulate and recite this hymn: ‘The revered one, the grandsire of all the worlds, who lives in the hearts of all people, and who is called Ānanda (joy), may be pleased now’.
21. With this rite one should practise the vow every month; and observing a fast, one should worship the immutable Brahma on every full-moon day.
22-23. Eating one fruit (only) one should at night sleep on the ground. Then in the thirteenth month one should give a bed to Viriñca with ghee and a cow and with all ingredients, and fashioning a golden image of Brahmā and (an image of Savitri ) of silver.
24-25. (One should say:) ‘May the creator born from a lotus obtain Sāvitrī .’ Honouring a brāhmaṇa with his wife, by (giving them) garments and ornaments, one should give a cow etc. according to one’s ability and should say: ‘Be pleased’. One should perform a sacrifice with white sesamum and utter the names of Brahma.
26. One, knowing the religious practices, should, along with ghee made from cow’s milk, give money and a garland of flowers to brahmaṇas according to one’s capacity.
27. One, who—even ladies (can observe this vow)—observes (the vow) according to the rite on a full-moon day, being free from all sins, gets identity with Brahman .
28. In this world (such a) one certainly obtains excellent sons and good fortune. He, who is Brahma, is known to be Viṣṇu , to be the essence of joy, and Maheśvara .
29. One who desires happiness should remember the lord in any form one likes. Having heard this, Diti did everything fully.
30. Kaśyapa , due to the great virtue of her vow, having come there with great joy, made that rough (lady) full of form and beauty.
31. He persuaded her (to ask for) boons, and she chose an excellent boon: “I desire a powerful, very lustrous, magnanimous son, capable of killing all gods, to murder Indra .”
32-34. Kaśyapa uttered these words: “With this (boon) I shall give you a powerful son who will kill Indra; but, O you auspicious one, do this: O you of beautiful breasts, I shall today perform the Āpastamba sacrifice for (obtaining) a son. Then I shall deposit my semen (into you) after touching your breasts, O auspicious one. O lady, you will have a son capable of killing Indra.”
35. Then he performed the Āpastamba sacrifice with (i.e. spending) great wealth for (obtaining) a son, and hurriedly offered the oblation saying: “O enemy of Indra, be (conceived).”
36. The gods fainted and the demons and the fiends turned away their faces. Kaśyapa then put the semen into Diti, and again said to her:
37. “Your face is like the moon; your breasts resemble the bilva -fruit (are stout). Your lips have the form of corals and your complexion is very lovely.
38. Seeing you, O you lady of large eyes, I forget my own body. Therefore, O lady, of charming hips, I have, with my own hand (i.e. myself), deposited my seed into your body.
39-41. You should, O lady, having an excellent face, take care of this foetus in a penance-grove for one hundred years. During pregnancy you should not eat in the evening; you should not remain under, or go to the roots of, trees. You should not resort to (i.e. handle) instruments like mortar, pestle etc.; you should not plunge into water, and should avoid a vacant dwelling.
42. You should not remain on ant-hills; you should not be dejected in mind; you should not write (i.e. scratch) with nails on the ground, on charcoal, or ashes.
43. You should not always be sleepy, and should avoid (acts causing) fatigue. You should not come to rest upon charcoal or ashes of husk or bowls of bones.
44. You should avoid quarrel with people, and should avoid smearing your body with oily substances; you should not remain with loose hair and should never remain impure.
45. You should never sleep either by raising or lowering your head; should not be without garments (on your person); should not be dejected or with wet feet.
46. You should not utter inauspicious words; you should not laugh excessively Intent upon auspiciousness, you should everyday perform worship along with the elders.
47-48. You should take bath with water connected (i.e. mixed) with all herbs; having protected yourself and with a desire to serve, and intent upon worshipping with vows, you should keep a pleasing face, and be engrossed in the things dear to your husband; should never condemn (your) husband in any condition.
49. Should never say: ‘I am emaciated, weak; old age has come upon me; my breasts have moved (away) from their place, and face is curled with folds. You have made me like this’.” (Before departing, he said:) “may it be well with you. I shall go (now)”.
50-51. When she said “All right”, he, in the presence of all beings, vanished there only. Then she took to the vow as told by her husband.
52-57. Knowing that and leaving gods’ residence, Indra came near her and remained there desiring to hear what she said. Indra wanted to know the weak points of Diti. He was acting in a false manner, distracted interanally and having a smiling face outwardly, as it were not knowing her mission and doing (only) what was good for him. She regarded herself as blessed, and with a proud mind, through joy, not cleansing her feet, lay anywhere by day, with hair let loose and with her head raised. when only three days were left for hundred years to be completed. Then, taking that opportunity, the lord of Śacī , and the ruler of gods, entering inside (her body), cut the foetus into seven parts with his bolt; then those (pieces) were born as sons, as bright as the sun.
58-59. Those seven boys who were crying were suppressed (i.e. appeased) with the water of libation. Again Indra, with the bolt in his hand, cut each of the crying ones, who were in the womb, into seven pieces. Thus cut into forty-nine (in number) they cried very much.
60-62. Again and again Indra suppressed (i.e. appeased) them by saying, ‘Do not cry’. Then the killer of Vṛtra conjectured: ‘Due to the virtue of which act have they survived? He knew by means of (his) religious merit that this was the fruit of the Paurṇamāsī (vow), or indeed this happened as a result of the worship of Brahmā; (so) though struck by the bolt, they did not perish.
63. Even one became many. Since the foetus was protected, and they indeed could not be killed, let them be gods.
64-65. Since, when born from the womb, they were told not to cry, there fore, let them be named Maruts, and let them be happy’. Then the lord of gods, having propitiated Diti, (said to her): “Forgive me; resorting to the rule of need, I did this bad act.”
66. The lord of gods, making the group of Maruts equal to gods, and putting Diti along with her sons in an aeroplane, went to heaven.
67. Since then all the Maruts enjoyed a share in the sacrificial offerings. They did not have unity with the Asuras ; therefore, they were dear to gods.
Bhīṣma said :
68. O brāhmaṇa, you have explained to me in detail the initial creation. Tell me what is the second ary creation and (who are) the lords (and) of which (species).
Pulastya spoke :
69-70. When Pṛthu was crowned (as the king) of all the kingdom, he became the lord on the earth; Brahmā made Soma (the moon) having radiance within, the lord of the herbs, sacrificial vows, and austerities and of constellations, stars, brāhmaṇas , clumps of trees and spreading creepers. Similarly he made Varuṇa the lord of waters, and Vaiśravaṇa (i.e. Kubera ) the lord of wealth.
71. He made Viṣṇu the lord of the suns and Vasus , and Agni the lord of the worlds; made Dakṣa the lord of Prajāpatis , and Śakra the lord of Maruts.
72. He made Prahlāda the lord of the kings of Daityas, and of Dānavas . He made the trident-holder the lord of demons, fiends, beasts, spirits, Yakṣas and vampires.
73. He made Himālaya mountain the lord of mountains, and ocean the lord of rivers. He made Citraratha the chief of the Gandharvas , Vidyādharas and Kinnaras .
74. He appointed Vāsuki of strong power as the lord of serpent-demons, and Takṣaka as the lord of snakes. He made the lordly elephant, Airavata by name, the lord of the quarter-elephants.
75. He made Suparṇa the lord of birds and Uccaiḥśravas the lord of horses. He made lion the lord of beasts, bull the lord of cows, and the fig tree with waving leaves the lord of plants.
76. Then Brahmā consecrated these as the lords of quarters: He consecrated Suvarman , eminent as a foe, as the lord of the eastern quarter.
77. Then he made him— Śaṅkha by name—the lord of the south. Brahmā made Ketumanta the lord of the (western) direction.
78. Then Prajāpati made Hiraṇyaroman , the son of Megha , the lord of the northern direction.
Even now, the lords of quarters always carrying upon them (the responsibility of the protection of the earth) protect the earth.
79. Along with these four, he first installed as the king of the earth (a man) Pṛthu by name. When the period of Manu named Cākṣuṣa was over, he made this (period) of Vaivasvata (Manu) on the earth.
80. When the period of Manu by name Cākṣuṣa was over, and when the period called Vaivasvata set in, he, born in the solar family, became the king, with his insignia, of this movable and immovable (creation).
Pulastya said :
81-82. O son of Kuru , listen, in short, with concentrated and gracious mind, to all the periods of Manus and their lives, the measure of a Kalpa , and the creation in it. Formerly in the period of Svāyambhuva Manu , there were gods called Yāmā .
83-84. And also seven sages only like Marīci and others were said to be there. These ten increased the race of Manu: Āgnīdhra , Agnibāhu , Vibhu , Savana , Jyotiṣmat , Dyutimat , Bhavya , Medhā , Medhātithi , Vasu .
85. These, having brought about secondary creation, reached the highest place. Thus is described the Svāyambhuva period; after this comes the Svārociṣa .
86. Svārociṣa’s four sons, having god-like lustre were: Nabha , Nabhasya , Bhāvana , and Kiītivardhana.
87. The seven sages were: Datta , Agni, Cyavana , Stambha , Prāṇa , Kaśyapa and Arvābṛhaspati.
88-93. Then, in the Svārociṣa period, gods were called Tuṣita . The seven sons of Vasiṣṭha were then the Prajāpatis: Havi , Indra, Sukṛta , Mūrti , Āpa, Jyotiratha , and Smṛta. This is said to be the second period of Manu.
After this I shall narrate the next auspicious period of Manu. In it the Manu named Auttami produced ten sons; Iṣa. Ūrja , Tanūja, Śuci , Śukra , Madhu , Mādhava , Nabhasya, Nabha, Saha , Sahasya and excellent Kīrtivardhana were the twelve Ādityas . Gods were (then) called Ūrja. The seven sages were:
Kaukabhiṇḍa, Kutuṇḍa, Dālbhya , Śaṅkha, Pravāhita, Miti and Sammiti; and these seven increased the contemplation of the supreme spirit.
94-95. The fourth period of Manu is known as Tāmasa . The names of the seven sages in it (are): Kapi , Pṛthu, Agni, Akapi , Kavi , Janya and Dhāman . The hosts of gods in the Tāmasa period were called Sādhyas .
96-98. All the ten sons of Tāmasa, viz. Akalmaṣa , Tapa , Dhanvi , Tapomūla , Tapodhana , Taporāśi, Tapasya , Sutapasya and Parantapa increased the race. Similarly, listen to the fifth, i.e. the Raivata :
Devabāhu , Subāhu , Parjanya , Samaya , Muni , Hiraṇyaroman, Saptāśva are said to be the seven sages.
99-102. The gods Bhūtarajas are similarly said to be the elements. These ten are the sons of Raivata, (they are) endowed with piety, vigour and power:
Avaśa , Tattvadarśin, Vītimān, Havyapa , Kapi, Mukta , Nirutsuka , Sattva , Nirmoha , and Prakāśaka .
Bhṛgu , Sudhāma, Viraja , Sahiṣṇu , Nārada , Vivasvān and Kṛti were the seven sages in the Cākṣuṣa period; and the gods were known as Lekhā ; and the Vibhus also were separately termed as gods.
103-104. When the Cākṣuṣa period set in, the gods had the fifth world: and similarly Cākṣuṣa had ten sons— Ruru and others. They have already been mentioned by me in the Svāyambhuva family. Thus I have described the Cākṣuṣa period to you.
105-106. I shall (now) tell you about the seventh which is called Vaivasvata. Now the seven great sages are: Atri and Vasiṣṭha, Kaśyapa and Gautama , the contemplative Bharadvāja , the valorous Viśvāmitra and Jamadagni .
107. After setting the religious order, they will reach the highest place. I shall describe to you the future period of Sāvarṇya Manu.
108. The sages (of this Manvantara ) are said to be: Aśvatthāman , Śaradvān , Kauśika , Gālava , Śatānanda , Kāśyapa and Rāma .
109-110. Dhṛti , Varīyān , Yavasu, Suvarṇa and Dhṛti (again), Variṣṇu, Vīrya , Sumati , Vasu and powerful Śukra are said to be the sons of the future Sāvarṇi Manu . Raucya and others also are said to be Manus.
111. Raucya, the son ef Prajāpati Ruci will be a Manu; and also Bhautya , the son of Bhūti , will be a Manu.
112. Then Merusāvarṇi , son of Brahma, is said to be a Manu. And also Ṛbhu , Ṛtudhāman , Viśvaksena will (each) be a Manu.
113. Past and future Manus are (thus) described (by me). O prince, a thousand yugas will be occupied by (each one of) these.
114. Having created all these mobile and immobile beings in their own periods, they will, at the end of the kalpa , obtain release along with Brahmā.
115. At the end of a thousand yugas they will again and again perish, and led by Brahma will then be absorbed in Viṣṇu.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 15370, revision 334426 (2022-04-03T10:16:10Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364127.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.