Skip to main content

Svarga-khaṇḍa · Chapter 15

Chapter 15

Unit 222 of 693Svarga-khaṇḍa · Chapter 15Svarga-khaṇḍa · Chapter 151 source entries

Svarga-khaṇḍa · Chapter 15

Source

नारद उवाच- यन्मां पृच्छसि कौंतेय तन्निबोध च तच्छृणु । एतस्मिन्नंतरे रुद्रो नर्मदातटमास्थितः १। नाम्ना हरेश्वरं स्थानं त्रिषु लोकेषु विश्रुतम् । तस्मिन्स्थाने महादेवश्चिंतयंस्त्रैपुरं वधम् २। गां(गा?)डीवं मंदरं कृत्वा गुणं कृत्वा तु वासुकिम् । स्थानं कृत्वा तु वैशाखं विष्णुं कृत्वा शरोत्तमम् ३। अग्रे चाग्निं प्रतिष्ठाप्य मुखे वायुः समर्पितः । हयाश्च चतुरो वेदाः सर्वदेवमयं रथम् ४। चक्रगौ चाश्विनौ देवावक्षं चक्रधरः स्वयम् । स्वयमिंद्रश्च चापांते बाणे वैश्रवणः स्थितः ५। यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः । चक्राणामारके न्यस्ता गंधर्वा लोकविश्रुताः ६। प्रजापती रथश्रेष्ठे ब्रह्मा चैव तु सारथिः । एवं कृत्वा तु देवेशः सर्वदेवमयं रथम् ७। सोतिष्ठत्स्थाणुभूतो हि सहस्रं परिवत्सरान् । यदा त्रीणि समेतानि अंतरिक्षचराणि च ८। त्रिपुराणि त्रिशल्येन तदा तानि बिभेद सः । शरः प्रचोदितस्तत्र रुद्रेण त्रिपुरं प्रति ९। भ्रष्टतेजा स्त्रियो जाता बलं तेषां व्यशीर्यत । उत्पाताश्च पुरे तस्मिन्प्रादुर्भूता सहस्रशः १०। त्रिपुरस्य विनाशाय कालरूपोभवत्तदा । अट्टहासं प्रमुंचंति रूपाः काष्ठमयास्तथा ११। निमेषोन्मेषणं चैव कुर्वंति चित्रकर्मणा । स्वप्ने पश्यंति चात्मानं रक्तांबरविभूषितम् १२। स्वप्ने पश्यंति ते चैवं विपरीतानि यानि तु । एतान्पश्यति उत्पातांस्तत्र स्थाने तु ये जनाः १३। तेषां बलं च बुद्धिश्च हरक्रोधेन नाशितम् । संवर्तको नाम वायुर्युगांतप्रतिमो महान् १४। समीरितोनलश्रेष्ठ उत्तमांगेषु बाधते । ज्वलंति पादपास्तत्र पतंति शिखराणि च १५। सर्वं तद्व्याकुलीभूतं हाहाकारमचेतनम् । भग्नोद्यानानि सर्वाणि क्षिप्रं तु प्रज्वलंति च १६। तेनैव दीपितं सर्वं ज्वलते विशिखैः शिखैः । द्रुमा आरामगंडानि गृहाणि विविधानि च १७। दशदिक्षु प्रवृत्तोयं समिद्धो हव्यवाहनः । ततः शिलाः प्रमुंचंति दिशो दश विभागशः १८। शिखासहस्रैरत्युग्रैः प्रज्वलंति हुताशनैः । सर्वं किंशुकसंप्रख्यं ज्वलितंदृश्यते पुरम् १९। गृहाद्गृहांतरे नैव गंतुं धूमैश्च शक्यते । हरकोपानलादग्धं क्रंदमानं सुदुःखितम् २०। प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं पुरम् । प्रासादशिखराग्राणि विशीर्यंति सहस्रशः २१। नानारत्नविचित्राणि विमानान्यप्यनेकधा । गृहाणि चैव रम्याणि दह्यंते दीप्तिवह्निना २२। बाधंते द्रुमखंडेषु जनस्थाने तथैव च । देवागारेषु सर्वेषु प्रज्वलंते ज्वलंत्यपि २३। सीदंति चानलस्पृष्टाः क्रंदंति विविधै स्वरैः । गिरिकूटनिभास्तत्र दृश्यंतेंऽगारराशयः २४। स्तुवंति देवदेवेशं परित्रायस्व मां प्रभो । अन्योन्यं च परिष्वज्य हुताशनप्रपीडिताः २५। दह्यंते दानवास्तत्र शतशोथ सहस्रशः । हंसकारंडवाकीर्णा नलिनी सह पंकजा २६। दह्यंतेनलदग्धानि पुरोद्यानानि दीर्घिकाः । अम्लानैः पंकजैश्छन्ना विस्तीर्णा योजनैः शतैः २७। गिरिकूटनिभास्तत्र प्रासादारत्नभूषिताः । पतंत्यनलनिर्दग्धा निस्तोया जलदा इव २८। सह स्त्रीबालवृद्धेषु गोषु पक्षिषु वाजिषु । निर्दयो दहते वह्निर्हरकोपेन प्रेरितः २९। सपत्नीकाश्चैव सुप्ताः संसुप्ता बहवो जनाः । पुत्रमालिंग्यते गाढं दह्यंते त्रिपुरारिणा ३०। अथ तस्मिन्पुरे दीप्ते स्त्रियश्चाप्सरसोपमाः । अग्निज्वालाहतास्तत्र पतंति धरणीतले ३१। काचिद्बाला विशालाक्षी मुक्तावलि विभूषिता । धूमेनाकुलिता सा तु प्रतिबुद्धा शिखार्द्दिता ३२। सुतं संचिंत्यमाना सा पतिता धरणीतले । काचित्सुवर्णवर्णाभा नीलरत्नैर्विभूषिता ३३। धूमेनाकुलिता सा तु पतिता धरणीतले । अन्या गृहीतहस्ता तु सखी दहति बालकैः ३४। अनेन दिव्यरूपान्यादृष्टा मदविमोहिता । शिरसा प्रांजलिं कृत्वा विज्ञापयति पावकम् ३५। यदि त्वमिच्छसे वैरं पुरुषेष्वपकारिषु । स्त्रियः किमपराध्यंते गृहपंजरकोकिलाः ३६। पापनिर्दय निर्ल्लज्ज कस्ते कोपः स्त्रियोपरि । न दाक्षिण्यं न ते लज्जा न सत्यं शौचवर्जितः ३७। अनेकरूपवर्णाढ्या उपलभ्या वदस्व ह । किं त्वया न श्रुतं लोके अवध्याः सर्वयोषितः ३८। किं तु तुभ्यं गुणा ह्येते दहनस्त्र्यर्दनं प्रति । न कारुण्यं दया वापि दाक्षिण्यं वा स्त्रियोपरि ३९। दयां कुर्वंति म्लेच्छापि दहनं प्रेक्ष्य योषितः । म्लेच्छानामपि कष्टोसि दुर्निवार्यो ह्यचेतनः ४०। एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति । आसामपि दुराचार स्त्रीणां किं विनिपातसे ४१। दुष्ट निर्घृण निर्लज्ज हुताश मंदभाग्यक । निराशस्त्वं दुराचार बालान्दहसि निर्दय ४२। एवं प्रलपमानास्ता जल्पमाना बहुस्वरम् । अन्याः क्रोशंति संक्रुद्धा बालशोकेन मोहिताः ४३। दहते निर्दयो वह्निः संक्रुद्धः सर्वशत्रुवत् । पुष्करिण्यां जले ज्वाला कूपेष्वपि तथैव च ४४। अस्मान्संदह्य म्लेच्छ त्वं कां गतिं प्रापयिष्यसि । एवं प्रलपतां तासां वह्निर्वचनमब्रवीत् ४५। वैश्वानर उवाच-। स्ववशो नैव युष्माकं विनाशं तु करोम्यहम् । अहमादेशकर्ता वै नाहं कर्त्तास्म्यनुग्रहम् ४६। अत्र क्रोधसमाविष्टो विचरामि यदृच्छया । ततो बाणो महातेजास्त्रिपुरं वीक्ष्य दीपितम् ४७। आसनस्थोऽब्रवीदेवमहं देवैर्विनाशितः । अल्पसारैर्दुराचारैरीश्वरस्य निवेदितः ४८। अपरीक्ष्य ह्यहं दग्धः शंकरेण महात्मना । नान्यः शत्रुस्तु मां हंतुं वर्ज्जयित्वा महेश्वरम् ४९। उत्थितः शिरसा कृत्वा लिगं त्रिभुवनेश्वरम् । निर्गतः स पुरद्वारात्परित्यज्य सुहृत्स्वयम् ५०। रत्नानि सुविचित्राणि स्त्रियो नानाविधास्तथा । गृहीत्वा शिरसा लिंगं न्यस्तं नगरमंडले ५१। स्तुवते देवदेवेशं त्रैलोक्याधिपतिं शिवम् । हर त्वयाहं निर्दग्धो यदि वध्योसि शंकर ५२। त्वत्प्रसादान्महादेव मा मे लिंगं विनश्यतु । अर्चितं हि महादेव भक्त्या परमया सदा ५३। त्वया यद्यपि वध्योहं मा मे लिंगं विनश्यतु । प्राप्यमेतन्महादेव त्वत्पादग्रहणं मम ५४। जन्मजन्म महादेव त्वत्पादनिरतो ह्यहम् । तोटकच्छंदसा देवं स्तुत्वा तु परमेश्वरम् ५५। ॐशिवशंकरसर्वकराय नमो भवभीममहेशशिवाय नमः । कुसुमायुध देहविनाशकर त्रिपुरांतकरांधक चूर्णकर ५६। प्रमदाप्रियकामविभक्त नमो हि नमः सुरसिद्धगणैर्नमितः । हयवानरसिंहगजेंद्रमुखैरति ह्रस्वसुदीर्घमुखैश्च गणैः ५७। उपलब्धुमशक्यतरैरसुरैर्व्यथितो न शरीरशतैर्बहुभिः । प्रणतो भगवन्बहुभक्तिमता चलचंद्र कलाधर देव नमः ५८। सहपुत्रकलत्रकलापधनैः सततं जय देहि अनुस्मरणम् । व्यथितोस्मि शरीरशतैर्बहुभिर्गमिताद्य महानरकस्य गतिः ५९। न निवर्तति यन्ममपापगतिः शुचिकर्म्मविशुद्धमपि त्यजति । अनुकंपति दिग्भ्रमति भ्रमति भ्रम एष कुबुद्धि निवारयति ६०। यः पठेत्तोटकं दिव्यं प्रयतः शुचिमानसः । बाणस्यैव यथारुद्रस्तस्यैव वरदो भवेत् ६१। इमं स्तवं महादिव्यं श्रुत्वा देवो महेश्वरः । प्रसन्नस्तु तदा तस्य स्वयं देवो महेश्वरः ६२। ईश्वर उवाच-। न भेतव्यं त्वया वत्स सौवर्णे तिष्ठ दानव । पुत्रपौत्रसपत्नीनां भार्याभृत्यजनैः सह ६३। अद्यप्रभृति बाण त्वमवध्यस्त्रिदशैरपि । भूयस्तस्य वरो दत्तो देवदेवेन पांडव ६४। अक्षयश्चाव्ययो लोके विचचार ह निर्भयः । ततो निवारयामास रुद्र सप्तशिखं तथा ६५। तृतीयं रक्षितं तस्य शंकरेण महात्मना । भ्रमते गगने नित्यं रुद्रतेजः प्रभावतः ६६। एवं तु त्रिपुरं दग्धं शंकरेण महात्मना । ज्वालामालाप्रदीप्तं तु पतितं धरणीतले ६७। एकं निपातितं तस्य श्रीशैले त्रिपुरांतके । द्वितीयं पातितं तत्र पर्वतेऽमरकंटके ६८। दग्धे तु त्रिपुरे राजन्रुद्रकोटिः प्रतिष्ठिता । ज्वलंतं पातितं तत्र तेन ज्वालेश्वरः स्मृतः ६९। ऊर्ध्वेन प्रस्थिता तस्य दिव्या ज्वाला दिवं गता । हाहाकारस्तदा जातो सदेवासुरकिंनरान् ७०। तं शरं स्तंभयेद्रुद्रो माहेश्वरपुरोत्तमे । एवं व्रजेत यस्तस्मिन्पर्वतेऽमरकंटके ७१। चतुर्द्दशभुवनानि सुभुक्त्वा पांडुनंदन । वर्षकोटिसहस्रं तु त्रिंशत्कोट्यस्तथा पराः ७२। ततो महीतलं प्राप्य राजा भवति धार्मिकः । पृथिव्यामेकच्छत्रेण भुंक्ते नास्त्यत्र संशयः ७३। एष पुण्यो महाराज सर्वतोऽमरकंटकः । चंद्र सूर्योपरागेषु गच्छेद्योऽमरकंटकम् ७४। अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः । स्वर्गलोकमवाप्नोति दृष्ट्वा तत्र महेश्वरम् ७५। संनिहत्या गमिष्यंति राहुग्रस्ते दिवाकरे । तदेव निखिलं पुण्यं पर्वतेऽमरकंटके ७६। पुंडरीकस्य यज्ञस्य फलं प्राप्नोति मानवः । तत्र ज्वालेश्वरो नाम पर्वतेऽमरकंटके ७७। तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः । ज्वालेश्वरे महाराज यस्तु प्राणान्परित्यजेत् ७८। चंद्र सूर्योपरागे तु भक्त्यापि शृणु तत्फलम् । अमरा नाम देवास्ते पर्वतेऽमरकंटके ७९। रुद्रलोकमवाप्नोति यावदाभूतसंप्लवम् । अमरेश्वरस्य देवस्य पर्वतस्य तटे जले ८०। कोटिश ऋषिमुख्यास्ते तपस्तप्यंति सुव्रताः । समंताद्योजनं राजन्क्षेत्रं चामरकंटकम् ८१। अकामो वा सकामो वा नर्मदायां शुभे जले । स्नात्वा मुच्येत पापेभ्यो रुद्रलोकं स गच्छति ८२।

nārada uvāca- yanmāṃ pṛcchasi kauṃteya tannibodha ca tacchṛṇu | etasminnaṃtare rudro narmadātaṭamāsthitaḥ 1| nāmnā hareśvaraṃ sthānaṃ triṣu lokeṣu viśrutam | tasminsthāne mahādevaściṃtayaṃstraipuraṃ vadham 2| gāṃ(gā?)ḍīvaṃ maṃdaraṃ kṛtvā guṇaṃ kṛtvā tu vāsukim | sthānaṃ kṛtvā tu vaiśākhaṃ viṣṇuṃ kṛtvā śarottamam 3| agre cāgniṃ pratiṣṭhāpya mukhe vāyuḥ samarpitaḥ | hayāśca caturo vedāḥ sarvadevamayaṃ ratham 4| cakragau cāśvinau devāvakṣaṃ cakradharaḥ svayam | svayamiṃdraśca cāpāṃte bāṇe vaiśravaṇaḥ sthitaḥ 5| yamastu dakṣiṇe haste vāme kālastu dāruṇaḥ | cakrāṇāmārake nyastā gaṃdharvā lokaviśrutāḥ 6| prajāpatī rathaśreṣṭhe brahmā caiva tu sārathiḥ | evaṃ kṛtvā tu deveśaḥ sarvadevamayaṃ ratham 7| sotiṣṭhatsthāṇubhūto hi sahasraṃ parivatsarān | yadā trīṇi sametāni aṃtarikṣacarāṇi ca 8| tripurāṇi triśalyena tadā tāni bibheda saḥ | śaraḥ pracoditastatra rudreṇa tripuraṃ prati 9| bhraṣṭatejā striyo jātā balaṃ teṣāṃ vyaśīryata | utpātāśca pure tasminprādurbhūtā sahasraśaḥ 10| tripurasya vināśāya kālarūpobhavattadā | aṭṭahāsaṃ pramuṃcaṃti rūpāḥ kāṣṭhamayāstathā 11| nimeṣonmeṣaṇaṃ caiva kurvaṃti citrakarmaṇā | svapne paśyaṃti cātmānaṃ raktāṃbaravibhūṣitam 12| svapne paśyaṃti te caivaṃ viparītāni yāni tu | etānpaśyati utpātāṃstatra sthāne tu ye janāḥ 13| teṣāṃ balaṃ ca buddhiśca harakrodhena nāśitam | saṃvartako nāma vāyuryugāṃtapratimo mahān 14| samīritonalaśreṣṭha uttamāṃgeṣu bādhate | jvalaṃti pādapāstatra pataṃti śikharāṇi ca 15| sarvaṃ tadvyākulībhūtaṃ hāhākāramacetanam | bhagnodyānāni sarvāṇi kṣipraṃ tu prajvalaṃti ca 16| tenaiva dīpitaṃ sarvaṃ jvalate viśikhaiḥ śikhaiḥ | drumā ārāmagaṃḍāni gṛhāṇi vividhāni ca 17| daśadikṣu pravṛttoyaṃ samiddho havyavāhanaḥ | tataḥ śilāḥ pramuṃcaṃti diśo daśa vibhāgaśaḥ 18| śikhāsahasrairatyugraiḥ prajvalaṃti hutāśanaiḥ | sarvaṃ kiṃśukasaṃprakhyaṃ jvalitaṃdṛśyate puram 19| gṛhādgṛhāṃtare naiva gaṃtuṃ dhūmaiśca śakyate | harakopānalādagdhaṃ kraṃdamānaṃ suduḥkhitam 20| pradīptaṃ sarvato dikṣu dahyate tripuraṃ puram | prāsādaśikharāgrāṇi viśīryaṃti sahasraśaḥ 21| nānāratnavicitrāṇi vimānānyapyanekadhā | gṛhāṇi caiva ramyāṇi dahyaṃte dīptivahninā 22| bādhaṃte drumakhaṃḍeṣu janasthāne tathaiva ca | devāgāreṣu sarveṣu prajvalaṃte jvalaṃtyapi 23| sīdaṃti cānalaspṛṣṭāḥ kraṃdaṃti vividhai svaraiḥ | girikūṭanibhāstatra dṛśyaṃteṃ'gārarāśayaḥ 24| stuvaṃti devadeveśaṃ paritrāyasva māṃ prabho | anyonyaṃ ca pariṣvajya hutāśanaprapīḍitāḥ 25| dahyaṃte dānavāstatra śataśotha sahasraśaḥ | haṃsakāraṃḍavākīrṇā nalinī saha paṃkajā 26| dahyaṃtenaladagdhāni purodyānāni dīrghikāḥ | amlānaiḥ paṃkajaiśchannā vistīrṇā yojanaiḥ śataiḥ 27| girikūṭanibhāstatra prāsādāratnabhūṣitāḥ | pataṃtyanalanirdagdhā nistoyā jaladā iva 28| saha strībālavṛddheṣu goṣu pakṣiṣu vājiṣu | nirdayo dahate vahnirharakopena preritaḥ 29| sapatnīkāścaiva suptāḥ saṃsuptā bahavo janāḥ | putramāliṃgyate gāḍhaṃ dahyaṃte tripurāriṇā 30| atha tasminpure dīpte striyaścāpsarasopamāḥ | agnijvālāhatāstatra pataṃti dharaṇītale 31| kācidbālā viśālākṣī muktāvali vibhūṣitā | dhūmenākulitā sā tu pratibuddhā śikhārdditā 32| sutaṃ saṃciṃtyamānā sā patitā dharaṇītale | kācitsuvarṇavarṇābhā nīlaratnairvibhūṣitā 33| dhūmenākulitā sā tu patitā dharaṇītale | anyā gṛhītahastā tu sakhī dahati bālakaiḥ 34| anena divyarūpānyādṛṣṭā madavimohitā | śirasā prāṃjaliṃ kṛtvā vijñāpayati pāvakam 35| yadi tvamicchase vairaṃ puruṣeṣvapakāriṣu | striyaḥ kimaparādhyaṃte gṛhapaṃjarakokilāḥ 36| pāpanirdaya nirllajja kaste kopaḥ striyopari | na dākṣiṇyaṃ na te lajjā na satyaṃ śaucavarjitaḥ 37| anekarūpavarṇāḍhyā upalabhyā vadasva ha | kiṃ tvayā na śrutaṃ loke avadhyāḥ sarvayoṣitaḥ 38| kiṃ tu tubhyaṃ guṇā hyete dahanastryardanaṃ prati | na kāruṇyaṃ dayā vāpi dākṣiṇyaṃ vā striyopari 39| dayāṃ kurvaṃti mlecchāpi dahanaṃ prekṣya yoṣitaḥ | mlecchānāmapi kaṣṭosi durnivāryo hyacetanaḥ 40| ete caiva guṇāstubhyaṃ dahanotsādanaṃ prati | āsāmapi durācāra strīṇāṃ kiṃ vinipātase 41| duṣṭa nirghṛṇa nirlajja hutāśa maṃdabhāgyaka | nirāśastvaṃ durācāra bālāndahasi nirdaya 42| evaṃ pralapamānāstā jalpamānā bahusvaram | anyāḥ krośaṃti saṃkruddhā bālaśokena mohitāḥ 43| dahate nirdayo vahniḥ saṃkruddhaḥ sarvaśatruvat | puṣkariṇyāṃ jale jvālā kūpeṣvapi tathaiva ca 44| asmānsaṃdahya mleccha tvaṃ kāṃ gatiṃ prāpayiṣyasi | evaṃ pralapatāṃ tāsāṃ vahnirvacanamabravīt 45| vaiśvānara uvāca-| svavaśo naiva yuṣmākaṃ vināśaṃ tu karomyaham | ahamādeśakartā vai nāhaṃ karttāsmyanugraham 46| atra krodhasamāviṣṭo vicarāmi yadṛcchayā | tato bāṇo mahātejāstripuraṃ vīkṣya dīpitam 47| āsanastho'bravīdevamahaṃ devairvināśitaḥ | alpasārairdurācārairīśvarasya niveditaḥ 48| aparīkṣya hyahaṃ dagdhaḥ śaṃkareṇa mahātmanā | nānyaḥ śatrustu māṃ haṃtuṃ varjjayitvā maheśvaram 49| utthitaḥ śirasā kṛtvā ligaṃ tribhuvaneśvaram | nirgataḥ sa puradvārātparityajya suhṛtsvayam 50| ratnāni suvicitrāṇi striyo nānāvidhāstathā | gṛhītvā śirasā liṃgaṃ nyastaṃ nagaramaṃḍale 51| stuvate devadeveśaṃ trailokyādhipatiṃ śivam | hara tvayāhaṃ nirdagdho yadi vadhyosi śaṃkara 52| tvatprasādānmahādeva mā me liṃgaṃ vinaśyatu | arcitaṃ hi mahādeva bhaktyā paramayā sadā 53| tvayā yadyapi vadhyohaṃ mā me liṃgaṃ vinaśyatu | prāpyametanmahādeva tvatpādagrahaṇaṃ mama 54| janmajanma mahādeva tvatpādanirato hyaham | toṭakacchaṃdasā devaṃ stutvā tu parameśvaram 55| oṃśivaśaṃkarasarvakarāya namo bhavabhīmamaheśaśivāya namaḥ | kusumāyudha dehavināśakara tripurāṃtakarāṃdhaka cūrṇakara 56| pramadāpriyakāmavibhakta namo hi namaḥ surasiddhagaṇairnamitaḥ | hayavānarasiṃhagajeṃdramukhairati hrasvasudīrghamukhaiśca gaṇaiḥ 57| upalabdhumaśakyatarairasurairvyathito na śarīraśatairbahubhiḥ | praṇato bhagavanbahubhaktimatā calacaṃdra kalādhara deva namaḥ 58| sahaputrakalatrakalāpadhanaiḥ satataṃ jaya dehi anusmaraṇam | vyathitosmi śarīraśatairbahubhirgamitādya mahānarakasya gatiḥ 59| na nivartati yanmamapāpagatiḥ śucikarmmaviśuddhamapi tyajati | anukaṃpati digbhramati bhramati bhrama eṣa kubuddhi nivārayati 60| yaḥ paṭhettoṭakaṃ divyaṃ prayataḥ śucimānasaḥ | bāṇasyaiva yathārudrastasyaiva varado bhavet 61| imaṃ stavaṃ mahādivyaṃ śrutvā devo maheśvaraḥ | prasannastu tadā tasya svayaṃ devo maheśvaraḥ 62| īśvara uvāca-| na bhetavyaṃ tvayā vatsa sauvarṇe tiṣṭha dānava | putrapautrasapatnīnāṃ bhāryābhṛtyajanaiḥ saha 63| adyaprabhṛti bāṇa tvamavadhyastridaśairapi | bhūyastasya varo datto devadevena pāṃḍava 64| akṣayaścāvyayo loke vicacāra ha nirbhayaḥ | tato nivārayāmāsa rudra saptaśikhaṃ tathā 65| tṛtīyaṃ rakṣitaṃ tasya śaṃkareṇa mahātmanā | bhramate gagane nityaṃ rudratejaḥ prabhāvataḥ 66| evaṃ tu tripuraṃ dagdhaṃ śaṃkareṇa mahātmanā | jvālāmālāpradīptaṃ tu patitaṃ dharaṇītale 67| ekaṃ nipātitaṃ tasya śrīśaile tripurāṃtake | dvitīyaṃ pātitaṃ tatra parvate'marakaṃṭake 68| dagdhe tu tripure rājanrudrakoṭiḥ pratiṣṭhitā | jvalaṃtaṃ pātitaṃ tatra tena jvāleśvaraḥ smṛtaḥ 69| ūrdhvena prasthitā tasya divyā jvālā divaṃ gatā | hāhākārastadā jāto sadevāsurakiṃnarān 70| taṃ śaraṃ staṃbhayedrudro māheśvarapurottame | evaṃ vrajeta yastasminparvate'marakaṃṭake 71| caturddaśabhuvanāni subhuktvā pāṃḍunaṃdana | varṣakoṭisahasraṃ tu triṃśatkoṭyastathā parāḥ 72| tato mahītalaṃ prāpya rājā bhavati dhārmikaḥ | pṛthivyāmekacchatreṇa bhuṃkte nāstyatra saṃśayaḥ 73| eṣa puṇyo mahārāja sarvato'marakaṃṭakaḥ | caṃdra sūryoparāgeṣu gacchedyo'marakaṃṭakam 74| aśvamedhāddaśaguṇaṃ pravadaṃti manīṣiṇaḥ | svargalokamavāpnoti dṛṣṭvā tatra maheśvaram 75| saṃnihatyā gamiṣyaṃti rāhugraste divākare | tadeva nikhilaṃ puṇyaṃ parvate'marakaṃṭake 76| puṃḍarīkasya yajñasya phalaṃ prāpnoti mānavaḥ | tatra jvāleśvaro nāma parvate'marakaṃṭake 77| tatra snātvā divaṃ yāṃti ye mṛtāste'punarbhavāḥ | jvāleśvare mahārāja yastu prāṇānparityajet 78| caṃdra sūryoparāge tu bhaktyāpi śṛṇu tatphalam | amarā nāma devāste parvate'marakaṃṭake 79| rudralokamavāpnoti yāvadābhūtasaṃplavam | amareśvarasya devasya parvatasya taṭe jale 80| koṭiśa ṛṣimukhyāste tapastapyaṃti suvratāḥ | samaṃtādyojanaṃ rājankṣetraṃ cāmarakaṃṭakam 81| akāmo vā sakāmo vā narmadāyāṃ śubhe jale | snātvā mucyeta pāpebhyo rudralokaṃ sa gacchati 82|

English translation

Nārada said :

1-7a. O son of Kuntī , listen to (me telling you) and understand what you ask me about. In the meanwhile Rudra remained on the bank of Narmadā . The place is called Hareśvara, and is well-known in the three worlds. At that place Mahādeva , thinking about Tripura ’s murder, (stayed,) making Mandara the bow, making Vāsuki the bow-string, standing with his feet a span apart, making Viṣṇu the best arrow, putting fire in the fore; Vāyu was put at the mouth; (making) the four Vedas the horses, (he made) the chariot full of all gods. The two gods, Aśvins , were on the wheels; the disc-holder himself was the axle; Indra himself was at the end of the bow; Vaiśravaṇa remained on the arrow. Yama was on the right hand and the terrible Kāla on the left. Gandharvas , well-known in the worlds, were placed on the radius of the wheels. Of this best chariot Prajāpati Brahmā was the charioteer.

7b-9. The lord of gods, making a chariot like this full of all gods, remaining stable, waited there for a thousand years. When the three cities , moving in the sky, came together, he pierced them with an arrow. Rudra, at that time, discharged an arrow towards Tripura.

10-11a Women lost their lusture, and their strength decayed. Thousands of portents appeared in the city. To destroy Tripura he took up the form of Kāla (i. e. god of death).

11b-14a. Similarly wooden figures laughed loudly. The paintings closed and opened their eyes. (The citizens) saw themselves decorated with (i. e. clad in) red garments in a dream. They also saw unusual things foreboding calamity. People that were at that place (i.e. in the city) saw these portents. Their strength and their intellect were destroyed by Śiva ’s anger.

14b-24. A great (i.e. strong) wind, greatest among winds, and resembling the one at the end of a yuga and called Saṃvartaka was discharged and it troubled their heads. The trees there burnt, and summits fell down. Everything was disturbed and there were lamentations, and loss of consciousness. All the gardens were shattered and were quickly burning. With blazing flames he (i.e. Fire) burnt it all. Trees, parks, houses of various kinds (were burnt). The blazing fire spread into the ten directions. Then stones were hurled into each of the ten directions. The very fierce flames of the fires were burning in thousands. The entire city that was burning looked like kiṃśuka (a tree with red blossoms). The (columns of) smoke could not go from one house to another. The Tripura city, burnt by Śiva’s anger, crying, very unhappy and blazing was burning in all directions. The tops of the palaces were shattered in thousands. Many palaces varigated with many gems and beautiful houses were burnt in various ways by the blazing fire. (The flames) destroyed the groves of trees and places of worship as well. In all temples they blazed and burnt. (People) touched (i.e. burnt) by fire sank into despondency and lamented in various tones. There the heaps of charcoal appeared like mountain-peaks.

25-26a. They praised the god of gods: ‘O lord, protect me.’ The demons, who, harassed by fire, had embraced one another were burnt there in hundreds and thousands.

26b-27. The gardens in the city were parched by fire, and the large lakes crowded with swans and ducks, and with lotus plants and lotuses were being burnt. They, extending up to hundreds of yojanas , were covered with fresh lotuses.

28. Palaces, decorated with gems and resembling mountain-peaks (in height), fell down, being completely burnt by fire, like waterless clouds.

29-31. The fire impelled by Śiva’s anger cruelly burnt young and old along with women, birds and horses. Many men that had slept (alone, or) had slept with their wives, or in a close embrace with their sons, were burnt by the enemy of Tripura. In that city blazing with fire women resembling celestial nymphs, being struck by the flames of fire, fell on the ground.

32-34. A young woman of broad eyes and adorned with a necklace, who was blinded by smoke, and afflicted by flames, awoke; and thinking about her son, she fell on the ground. Some (other woman), having golden complexion, adorned with sapphires, blinded by smoke, fell down on the ground. Another friend (of her) who had held her hand, was burnt with children.

35-38. Due to this another female of a celestial form was seen to be perplexed by insanity. Joining the palms of her hands and putting them on her head, she requested Fire: “If you desire (i.e. harbour) enmity towards men who have harmed you, why do you offend women—the cuckoos in the cage in the form of the house? O sinner, O cruel one, O shameless one, what makes you angry with females? You do not possess chivalry, you do not have a feeling of shame, you are without purity; rich in beauty and complexion of various kinds, they are available. Tell us: Have you not heard in the world that women are not to be killed?

39-45. But these have become virtues for you—oppressing women, O Fire, and not having compassion, sympathy or courtesy towards them. O Fire, even Mlecchas are kind to women, when they see them. You are worse than Mlecchas, you are irresistible and senseless. O Fire, these are your virtues (leading you) to destroy. O you wicked one, why do you drop (yourself) on these women? O wicked Fire, O cruel and shameless one, O you unfortunate one, O you hopeless one, O you cruel one, you (that are) wicked are burning children.” In this way they lamented and talked in many voices. Others, bewildered due to the grief for their (dead) children, were angry, and cried. The cruel and angry Fire burnt (everything) like an enemy. There were flames in the lakes, water, and in wells also. (The women cried:) “O Mleccha , by burning us, what condition will you reduce us to?” When they were crying like this, Fire said (these) words:

Vaiśvānara said :

46-62. I am not destroying on my own. I only do what is ordered, and am not the one who can favour. Overcome with anger, I am here moving by chance.

Then that very lustrous Bāṇa seeing Tripura ablaze, and remaining on his seat, said to the god: “I am destroyed by gods. The weak and wicked ones (mis) informed the god. Without investigating properly, I am burnt by magnanimous Śiva. Except Maheśvara no other enemy is (able) to strike me.” Taking the Phallus (called) Tribhuvaneśvara on his head, he got up. Leaving his friends, very beautiful gems, women of various kinds, and taking the Phallus on his head kept in the city, he praised Śiva, the god of gods, the lord of three worlds. “O Hara , if I have been tormented by you, you deserve to be killed. O Mahādeva, let my Phallus (i.e. which I am worshipping) not perish due to your grace. O Mahādeva, I have always worshipped it with great devotion. Even if I am to be killed by you, may my Phallus not perish. O Mahādeva, let me seize your feet. O Mahādeva, existence after existence, I am devoted to your feet.” He (then) worshipped the highest god with the Toṭaka metre: “Om, Śiva, Śaṅkara , my salutation to Sarvakāra (i.e. who brings about everything). My salutation to Śiva, O Bhava , O Bhīma , O Maheśa . O you destroyer of the body of Madana (i.e. Cupid), O you destroyer of Tripura, O you who crushed Andhaka , O you dear to women, O you who destroyed Kāma (i.e. Cupid), my salutations to you who are saluted by the hosts of gods and siddhas , and by (your) attendants having the faces of horse, monkey, lion, lord of elephants and having very short and very long faces. You were not vexed by the demons difficult to be found out; (on the contrary) you were saluted by many of them. O revered lord, you who like great devotion, O you stable one, O you who hold the digit of the moon (i.e. the crescent moon on your head), O god, I salute you. O Jaya , always give me hosts of sons and wives and wealth. With many, hundreds of bodies, I am tormented. You have today put me on the path of a great (i.e. fearful) hell. My sinful course is not turning away; he abandons me, pure due to pure deeds; (but) he takes pity on me; the direction is revolving; this delusion is rambling; he keeps off bad intentions.” To him who, being controlled and of a pure mind, would recite this divine Toṭaka, Rudra would grant boons as he gave to Bāṇa. Hearing this very divine hymn lord Maheśvara was himself pleased with him at that time.

The lord said :

63-64a. O child, you should not be afraid. O demon, with your sons, grandsons, wives, and servants, remain in a golden (mansion). O Bāṇa, from today you will not be killed (i.e. will be immune from death) even by gods.

64b-66. O Pāṇḍava , the god of gods, again granted him a boon. Being fearless, indestructible and immutable he moved in the world. Then Rudra withdrew the seven-crested one, i.e., Fire. Magnanimous Śiva protected his third (city). By virtue of Rudra’s lustre it always moves in the sky.

67-71a. Thus, Tripura burnt by the magnanimous Śiva fell on the ground blazing with rows of flames. He knocked down one on Śrīśaila near Tripura. He knocked the other one on Amarakaṇṭaka mountain. When Tripura was burnt, O king, Rudrakoṭi stood firm. The burning one was caused to fall there. Therefore, he is known as Jvāleśvara . His divine flame, going upwards, went to heaven. There was then great lamentation among gods, demons and kinnaras . Rudra arrested that arrow in the best Maheśvara city.

71b-79a. O son of Pāṇḍu , he who, like this, would go to the mountain Amarakaṇṭaka, having well enjoyed the fourteen worlds for a thousand and thirty crore years and then having reached the earth, becomes a righteous king. There is no doubt that he enjoys as a sovereign emperor on the earth. O great king, this Amarakaṇṭaka is holy on all sides. The wise say that he who would go to Amarakaṇṭaka at the time of a lunar or solar eclipse, has tenfold (the merit) of a horse sacrifice. Seeing Maheśvara there, he obtains heaven. When the sun is eclipsed by Rāhu they will come together. That is the great merit of (performing) the Puṇḍarīka sacrifice. On Amarakaṇṭaka lives Jvāleśvara. Bathing there, men go to heaven. Those that die there, are not reborn. O great king, listen to the fruit which one gets by casting one’s life at the lunar or solar eclipse at Jvāleśvara.

79b-82. Gods called Amara stay on Amarakaṇṭaka. (One who bathes) in the water on the slope of (Amarakaṇṭaka-) god Amareśvara , obtains (i.e. lives in) Rudra’s heaven till deluge. Crores of gods, of good vows practise penance there. O king, the holy place Amarakaṇṭaka extends upto a yojana on all sides. A man, entertaining or not entertaining desire, having bathed in the holy water of Amarakaṇṭaka, would be freed from sins, and he goes to Rudra’s worlds.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 27983, revision 401294 (2024-03-27T04:23:36Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365234.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.