Skip to main content

Uttara-khaṇḍa · Chapter 15

Chapter 15

Unit 427 of 693Uttara-khaṇḍa · Chapter 15Uttara-khaṇḍa · Chapter 151 source entries

Uttara-khaṇḍa · Chapter 15

Source

नारदउवाच- नारायणस्तदा देवो जटावल्कलधार्यथ । द्वितीयोऽनुचरस्तस्य ह्याययौ फलहस्तवान् १। तौ दृष्ट्वा स्मरदूती सा विललाप मृगेक्षणा । तच्छ्रुत्वा वचनं तस्याः प्रोचतुस्तां च तावुभौ २। भयं मा गच्छ कल्याणि त्वामावां त्रातुमागतौ । वने घोरे प्रविष्टासि कथं दुष्टनिषेविते ३। एवमाश्वास्य तां तन्वीं राक्षसं प्राह माधवः । मुंचेमामधमाचार मृद्वंगीं चारुहासिनीम् ४। रेरे मूर्ख दुराचार किं कर्तुं त्वं व्यवस्थितः । सर्वस्वं लोकनेत्राणामाहारं कर्तुमुद्यतः ५। भव पुण्यप्रभावेयं हंस्येतां मंडनं भुवः । अद्यलोकं निरालोकं कंदर्पं दर्पवर्जितम् ६। करिष्यस्यधुना त्वं च हत्वा वृंदारिकां वने । तस्मादिमां विमुंचाशु सुखप्रासाददेवताम् ७। इति श्रुत्वा हरेर्वाक्यं राक्षसः कुपितोऽब्रवीत् । समर्थस्त्वं यदि तदा मोचयाद्यैव मत्करात् ८। इत्युक्तमात्रे वचने माधवेन क्रुधेक्षितः । पपात भस्मसाद्भूतस्त्यक्त्वा वृंदां सुदूरतः ९। अथोवाच प्रमुग्धा सा मायया जगदीशितुः । कस्त्वं कारुण्यजलधिर्येनाहमिह रक्षिता १०। शारीरं मानसं दुःखं सतापं तपसां निधे । त्वया मधुरया वाचा हृतं राक्षसनाशनात् ११। तवाश्रमे तपः सौम्य करिष्यामि तपोधन १२। तापस उवाच- भरद्वाजात्मजश्चाहं देवशर्मेति विश्रुतः । विहाय भोगानखिलान्वनं घोरमुपागतः १३। अनेन बटुनासार्धं मम शिष्येण कामगाः । बहुशः संति चान्येऽपि मच्छिष्याः कामरूपिणः १४। त्वं चेन्ममाश्रमे स्थित्वा चिकीर्षसि तपः शुभे । एहि राज्ञ्यपरं यामो वनं दूरस्थितं यतः १५। इत्युक्त्वा राजपत्नीं तां ययौ प्राचीं दिशं हरिः । वनं प्रेतपिशाचाढ्यं मंदगत्या नराधिप १६। वृंदारिकाश्रुपूर्णाक्षी तस्य पृष्ठानुगा ययौ । स्मरदूती च तत्पृष्ठे मां प्रतीक्षेति वादिनी १७। अत्रांतरे दुराचारः कोपि पापाकृतिर्वने । जालं प्रसारयामास तद्यदा जीवपूरितम् १८। ततः संकोचयामास तज्जालं पापनायकः । जालस्थांस्तु तदा जीवानुपाहृत्य मुमोच ह १९। स च व्याधः स्त्रियौ दृष्ट्वा स्मरदूती जगाद ताम् । देवि मामत्तुमायाति करे गृह्णातु मां सखी २०। वृंदा तयोक्तं श्रुत्वैनं विकृतास्यं व्यलोकयत् । वीक्ष्यतं भयवातेन निर्धूता सिंधुजप्रिया २१। दुद्राव विकलं शुभ्रं स्मरदूत्या समं वने । विद्रवंती समं सख्या तापसाश्रममागता २२। सा तापसवने तस्मिन्ददर्शात्यंतमद्भुतम् । पक्षिणः कांचनीयांगान्नानाशब्दसमाकुलान् २३। सापश्यद्धेमपद्माढ्यां वापीं तु स्वर्णभूमिकाम् । क्षीरं वहंति सरितः स्रवंति मधु भूरुहः २४। शर्कराराशयस्तत्र मोदकानां च संचयाः । भक्ष्याणि स्वादुसर्वाणि बहून्याभरणानि च २५। बहुशस्त्राणि दिव्यानि नभसः संपतंति च । क्रीडंति हरयस्तृप्ता उत्पतंति पतंति च २६। मठेति सुंदरं वृंदा तं ददर्श तपस्विनम् । व्याघ्रचर्मासनगतं भासयंतं जगत्त्रयम् २७। तमुवाच विभो पाहि पाहि पापर्द्धिकादथ । तपसा किं च धर्मेण मौनेन च जपेन च २८। भीतत्राणात्परं नान्यत्पुण्यमस्ति तपोधन । एवमुक्तवती भीता सालसांगी तपस्विनम् २९। तावत्प्राप्तः सदुष्टात्मा सर्वजीवप्रबंधकः । वृंदादेवी भयत्रस्ता हरिकंठे समाश्लिषत् ३०। सुखस्पर्शं भुजाभ्यां सा शोकवल्लीव लिंगिता । तवालिंगनभावेन पुनरेव भविष्यति ३१। शिरः सर्वांगसंपन्नं त्वद्भर्तुरधिकं गुणैः । अथ त्वं प्रमदे गच्छ पत्यर्थे चित्रशालिकाम् ३२। सा चित्रशालामित्युक्ता विवेश मुनिना तदा । दिव्यपर्यंकमारूढा गृह्य कांतस्य तच्छिरः ३३। चकाराधरपानं सा मीलिताक्ष्यतिलोलुपा । यावत्तावदभूद्राजन्रूपं जालंधराकृति ३४। तत्कांतसदृशाकारस्तद्वक्षस्तद्वदुन्नतिः । तद्वाक्यस्तन्मनोभावस्तदासीज्जगदीश्वरः ३५। अथ संपूर्णकायं तं प्रियं वीक्ष्य जगाद सा । तव कुर्वे प्रियं स्वामिन्ब्रूहि त्वं स्वरणं च मे ३६। वृंदावचनमाकर्ण्य प्राह मायासमुद्रजः । शृणु देवि यथा युद्धं वृत्तं शंभोर्मया सह ३७। प्रिये रुद्रेण रौद्रेण छिन्नं चक्रेण मे शिरः । तावत्वत्सिद्धियोगाच्च त्वद्गतेन ममात्मना ३८। छिन्नं तदत्र चानीतं जीवितं तेंगसंगतः । प्रिये त्वं मद्वियोगेन बाले जातासि दुःखिता ३९। क्षंतव्यं विप्रियं मह्यं यत्त्वां त्यक्त्वा रणं गतः । इत्यादि वचनैस्तेन वृंदा संस्मारिता तदा ४०। तांबूलैश्च विनोदैश्च वस्त्रालंकरणैः शुभैः । अथ वृंदारिका देवी सर्वभोगसमन्विता ४१। प्रियं गाढं समालिंग्य चुचुंब रतिलोलुपा । मोक्षादप्यधिकं सौख्यं वृंदा मोहनसंभवम् ४२। मेने नारायणो देवो लक्ष्मीप्रेमरसाधिकम् । वृंदां वियोगजं दुःखं विनोदयति माधवे ४३। तत्क्रीडाचारुविलसद्वापिका राजहंसके । तद्रूपभावात्कृष्णोऽसौ पद्मायां विगतस्पृहः ४४। अभूद्वृंदावने तस्मिंस्तुलसीरूप धारिणी । वृंदांगस्वेदतो भूम्यां प्रादुर्भूताति पावनी ४५। वृंदांग संगजं चेदमनुभूय सुंखं हरिः । दिनानि कतिचिन्मेने शिवकार्यं जगत्पतिः ४६। एकदा सुरतस्यांते सा स्वकंठे तपस्विनम् । वृंदा ददर्श संलग्नं द्विभुजं पुरुषोत्तमम् ४७। तं दृष्ट्वा प्राह सा कंठाद्विमुच्य भुजबंधनम् । कथं तापसरूपेण त्वं मां मोहितुमागतः ४८। निशम्य वचनं तस्याः सांत्वयन्प्राह तां हरिः । शृणु वृंदारिके त्वं मां विद्धि लक्ष्मीमनोहरम् ४९। तव भर्ता हरं जेतुं गौरीमानयितुं गतः । अहं शिवः शिवश्चाहं पृथक्त्वे न व्यवस्थितौ 6.15.५०। जालंधरो हतः संख्ये भज मामधुनानघे । नारद उवाच- इति विष्णोर्वचः श्रुत्वा विषण्णवदनाभवत् । ततो वृंदारिका राजन्कुपिता प्रत्युवाच ह ५१। रणे बद्धोऽसि येन त्वं जीवन्मुक्तः पितुर्गिरा । विविधैः सत्कृतो रत्नैर्युक्तं तस्य हृता वधूः ५२। पतिर्धर्मस्य यो नित्यं परदाररतः कथम् । ईश्वरोऽपि कृतं भुंक्ते कर्मेत्याहुर्मनीषिणः ५३। अहं मोहं यथानीता त्वया माया तपस्विना । तथा तव वधूं माया तपस्वीकोऽपि नेष्यति ५४। इति शप्तस्तथा विष्णुर्जगामादृश्यतां क्षणात् । सा चित्रशालापर्यंकः स च तेऽथप्लवंगमाः ५५। नष्टं सर्वं हरौ याते वनं शून्यं विलोक्य सा । वृंदा प्राह सखीं प्राप्य जिह्मं तद्विष्णुना कृतम् ५६। त्यक्तं पुरं गतं राज्यं कांतः संदेहतां गतः । अहं वने विदित्वैतत्क्व यामि विधिनिर्मिता ५७। मनोरथानां विषयमभून्मे प्रियदर्शनम् । प्राह निःश्वस्य चैवोष्णं राज्ञी वृंदातिदुःखिता ५८। मम प्राप्तं हि मरणं त्वया हि स्मरदूतिके । इत्युक्ता सा तया प्राह मम त्वं प्राणरूपिणी ५९। तस्यास्तथोक्तमाकर्ण्य इतिकर्त्तव्यतां ततः । वने निश्चित्य सा वृंदा गत्वा तत्र महत्सरः ६०। विहाय दुःखमकरोद्गात्रक्षालनमंबुना । तीरे पद्मासनं बद्ध्वा कृत्वा निर्विषयं मनः ६१। शोषयामास देहं स्वं विष्णुसंगेन दूषितम् । तपश्चचारसात्युग्रं निराहारा सखीसमम् ६२। गंधर्वलोकतो वृंदामथागत्याप्सरोगणः । प्राह याहीति कल्याणि स्वर्गं मा त्यज विग्रहम् ६३। गांधर्वं शस्त्रमेतत्त्रिभुवनविजयं श्रीपतिस्तोषमग्र्यं। नीतो येनेह वृंदे त्यजसि कथमिदं तद्वपुः प्राप्तकामम् । कांतं ते विद्धि शूलिप्रवरशरहतं पुण्यलाभस्य भूषास्वर्गस्य त्वं। भवाद्य द्रुतममरवनं चंडिभद्रे भज त्वम् ६४। श्रुत्वा शास्त्रं वधूनां जलधिजदयिता वाक्यमाह प्रहस्य । स्वर्गादाहृत्य मुक्तात्रिदशपति वधूश्चातिवीरेण पत्या । आदौ पात्रं सुखानामहममरजिता प्रेयसा तद्वियुक्तानिर्दुष्टा तद्य। तिष्ये प्रियममृतगतं प्राप्नुयां येन चैव ६५। इत्युक्त्वा ससखी वृंदा विससर्जाप्सरोगणान् । तत्प्रीतिपाशबद्धास्ता नित्यमायांति यांति च ६६। योगाभ्यासेन वृंदाथ दग्ध्वा ज्ञानाग्निना गुणान् । विषयेभ्यः समाहृत्य मनः प्राप ततः परम् ६७। दृष्ट्वा वृंदारिकां तत्र महांतश्चाप्सरोगणाः । तुष्टुवुर्नभसस्तुष्टा ववृषुः पुष्पवृष्टिभिः ६८। शुष्ककाष्ठचयं कृत्वा तत्र वृंदाकलेवरम् । निधायाग्निं च प्रज्वाल्य स्मरदूती विवेश तम् ६९। दग्धं वृंदांगरजसां बिंबं तद्गोलकात्मकम् । कृत्वा तद्भस्मनः शेषं मंदाकिन्यां विचिक्षिपुः ७०। यत्र वृंदा परित्यज्य देहं ब्रह्मपथं गता । आसीद्वृंदावनं तत्र गोवर्द्धनसमीपतः ७१। देव्योऽथ स्वर्गमेत्य त्रिदशपतिवधूसत्त्वसंपत्तिमाहुर्देवीभ्यस्तन्निशम्य प्रमुदितमनसो निर्जराद्याश्च सर्वे । शत्रोर्दैत्यस्य हित्वा प्रबलतरभयं भीमभेर्यो निजघ्नुः श्रुत्वा तत्रासनस्थः । परिजननिवहोवापशोभां शुभस्य ७२। इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशतसहस्रसंहितायां जालंधरोपाख्याने वृंदाया ब्रह्मपदप्राप्तिर्नाम पंचदशोऽध्यायः १५।

nāradauvāca- nārāyaṇastadā devo jaṭāvalkaladhāryatha | dvitīyo'nucarastasya hyāyayau phalahastavān 1| tau dṛṣṭvā smaradūtī sā vilalāpa mṛgekṣaṇā | tacchrutvā vacanaṃ tasyāḥ procatustāṃ ca tāvubhau 2| bhayaṃ mā gaccha kalyāṇi tvāmāvāṃ trātumāgatau | vane ghore praviṣṭāsi kathaṃ duṣṭaniṣevite 3| evamāśvāsya tāṃ tanvīṃ rākṣasaṃ prāha mādhavaḥ | muṃcemāmadhamācāra mṛdvaṃgīṃ cāruhāsinīm 4| rere mūrkha durācāra kiṃ kartuṃ tvaṃ vyavasthitaḥ | sarvasvaṃ lokanetrāṇāmāhāraṃ kartumudyataḥ 5| bhava puṇyaprabhāveyaṃ haṃsyetāṃ maṃḍanaṃ bhuvaḥ | adyalokaṃ nirālokaṃ kaṃdarpaṃ darpavarjitam 6| kariṣyasyadhunā tvaṃ ca hatvā vṛṃdārikāṃ vane | tasmādimāṃ vimuṃcāśu sukhaprāsādadevatām 7| iti śrutvā harervākyaṃ rākṣasaḥ kupito'bravīt | samarthastvaṃ yadi tadā mocayādyaiva matkarāt 8| ityuktamātre vacane mādhavena krudhekṣitaḥ | papāta bhasmasādbhūtastyaktvā vṛṃdāṃ sudūrataḥ 9| athovāca pramugdhā sā māyayā jagadīśituḥ | kastvaṃ kāruṇyajaladhiryenāhamiha rakṣitā 10| śārīraṃ mānasaṃ duḥkhaṃ satāpaṃ tapasāṃ nidhe | tvayā madhurayā vācā hṛtaṃ rākṣasanāśanāt 11| tavāśrame tapaḥ saumya kariṣyāmi tapodhana 12| tāpasa uvāca- bharadvājātmajaścāhaṃ devaśarmeti viśrutaḥ | vihāya bhogānakhilānvanaṃ ghoramupāgataḥ 13| anena baṭunāsārdhaṃ mama śiṣyeṇa kāmagāḥ | bahuśaḥ saṃti cānye'pi macchiṣyāḥ kāmarūpiṇaḥ 14| tvaṃ cenmamāśrame sthitvā cikīrṣasi tapaḥ śubhe | ehi rājñyaparaṃ yāmo vanaṃ dūrasthitaṃ yataḥ 15| ityuktvā rājapatnīṃ tāṃ yayau prācīṃ diśaṃ hariḥ | vanaṃ pretapiśācāḍhyaṃ maṃdagatyā narādhipa 16| vṛṃdārikāśrupūrṇākṣī tasya pṛṣṭhānugā yayau | smaradūtī ca tatpṛṣṭhe māṃ pratīkṣeti vādinī 17| atrāṃtare durācāraḥ kopi pāpākṛtirvane | jālaṃ prasārayāmāsa tadyadā jīvapūritam 18| tataḥ saṃkocayāmāsa tajjālaṃ pāpanāyakaḥ | jālasthāṃstu tadā jīvānupāhṛtya mumoca ha 19| sa ca vyādhaḥ striyau dṛṣṭvā smaradūtī jagāda tām | devi māmattumāyāti kare gṛhṇātu māṃ sakhī 20| vṛṃdā tayoktaṃ śrutvainaṃ vikṛtāsyaṃ vyalokayat | vīkṣyataṃ bhayavātena nirdhūtā siṃdhujapriyā 21| dudrāva vikalaṃ śubhraṃ smaradūtyā samaṃ vane | vidravaṃtī samaṃ sakhyā tāpasāśramamāgatā 22| sā tāpasavane tasmindadarśātyaṃtamadbhutam | pakṣiṇaḥ kāṃcanīyāṃgānnānāśabdasamākulān 23| sāpaśyaddhemapadmāḍhyāṃ vāpīṃ tu svarṇabhūmikām | kṣīraṃ vahaṃti saritaḥ sravaṃti madhu bhūruhaḥ 24| śarkarārāśayastatra modakānāṃ ca saṃcayāḥ | bhakṣyāṇi svādusarvāṇi bahūnyābharaṇāni ca 25| bahuśastrāṇi divyāni nabhasaḥ saṃpataṃti ca | krīḍaṃti harayastṛptā utpataṃti pataṃti ca 26| maṭheti suṃdaraṃ vṛṃdā taṃ dadarśa tapasvinam | vyāghracarmāsanagataṃ bhāsayaṃtaṃ jagattrayam 27| tamuvāca vibho pāhi pāhi pāparddhikādatha | tapasā kiṃ ca dharmeṇa maunena ca japena ca 28| bhītatrāṇātparaṃ nānyatpuṇyamasti tapodhana | evamuktavatī bhītā sālasāṃgī tapasvinam 29| tāvatprāptaḥ saduṣṭātmā sarvajīvaprabaṃdhakaḥ | vṛṃdādevī bhayatrastā harikaṃṭhe samāśliṣat 30| sukhasparśaṃ bhujābhyāṃ sā śokavallīva liṃgitā | tavāliṃganabhāvena punareva bhaviṣyati 31| śiraḥ sarvāṃgasaṃpannaṃ tvadbharturadhikaṃ guṇaiḥ | atha tvaṃ pramade gaccha patyarthe citraśālikām 32| sā citraśālāmityuktā viveśa muninā tadā | divyaparyaṃkamārūḍhā gṛhya kāṃtasya tacchiraḥ 33| cakārādharapānaṃ sā mīlitākṣyatilolupā | yāvattāvadabhūdrājanrūpaṃ jālaṃdharākṛti 34| tatkāṃtasadṛśākārastadvakṣastadvadunnatiḥ | tadvākyastanmanobhāvastadāsījjagadīśvaraḥ 35| atha saṃpūrṇakāyaṃ taṃ priyaṃ vīkṣya jagāda sā | tava kurve priyaṃ svāminbrūhi tvaṃ svaraṇaṃ ca me 36| vṛṃdāvacanamākarṇya prāha māyāsamudrajaḥ | śṛṇu devi yathā yuddhaṃ vṛttaṃ śaṃbhormayā saha 37| priye rudreṇa raudreṇa chinnaṃ cakreṇa me śiraḥ | tāvatvatsiddhiyogācca tvadgatena mamātmanā 38| chinnaṃ tadatra cānītaṃ jīvitaṃ teṃgasaṃgataḥ | priye tvaṃ madviyogena bāle jātāsi duḥkhitā 39| kṣaṃtavyaṃ vipriyaṃ mahyaṃ yattvāṃ tyaktvā raṇaṃ gataḥ | ityādi vacanaistena vṛṃdā saṃsmāritā tadā 40| tāṃbūlaiśca vinodaiśca vastrālaṃkaraṇaiḥ śubhaiḥ | atha vṛṃdārikā devī sarvabhogasamanvitā 41| priyaṃ gāḍhaṃ samāliṃgya cucuṃba ratilolupā | mokṣādapyadhikaṃ saukhyaṃ vṛṃdā mohanasaṃbhavam 42| mene nārāyaṇo devo lakṣmīpremarasādhikam | vṛṃdāṃ viyogajaṃ duḥkhaṃ vinodayati mādhave 43| tatkrīḍācāruvilasadvāpikā rājahaṃsake | tadrūpabhāvātkṛṣṇo'sau padmāyāṃ vigataspṛhaḥ 44| abhūdvṛṃdāvane tasmiṃstulasīrūpa dhāriṇī | vṛṃdāṃgasvedato bhūmyāṃ prādurbhūtāti pāvanī 45| vṛṃdāṃga saṃgajaṃ cedamanubhūya suṃkhaṃ hariḥ | dināni katicinmene śivakāryaṃ jagatpatiḥ 46| ekadā suratasyāṃte sā svakaṃṭhe tapasvinam | vṛṃdā dadarśa saṃlagnaṃ dvibhujaṃ puruṣottamam 47| taṃ dṛṣṭvā prāha sā kaṃṭhādvimucya bhujabaṃdhanam | kathaṃ tāpasarūpeṇa tvaṃ māṃ mohitumāgataḥ 48| niśamya vacanaṃ tasyāḥ sāṃtvayanprāha tāṃ hariḥ | śṛṇu vṛṃdārike tvaṃ māṃ viddhi lakṣmīmanoharam 49| tava bhartā haraṃ jetuṃ gaurīmānayituṃ gataḥ | ahaṃ śivaḥ śivaścāhaṃ pṛthaktve na vyavasthitau 6.15.50| jālaṃdharo hataḥ saṃkhye bhaja māmadhunānaghe | nārada uvāca- iti viṣṇorvacaḥ śrutvā viṣaṇṇavadanābhavat | tato vṛṃdārikā rājankupitā pratyuvāca ha 51| raṇe baddho'si yena tvaṃ jīvanmuktaḥ piturgirā | vividhaiḥ satkṛto ratnairyuktaṃ tasya hṛtā vadhūḥ 52| patirdharmasya yo nityaṃ paradārarataḥ katham | īśvaro'pi kṛtaṃ bhuṃkte karmetyāhurmanīṣiṇaḥ 53| ahaṃ mohaṃ yathānītā tvayā māyā tapasvinā | tathā tava vadhūṃ māyā tapasvīko'pi neṣyati 54| iti śaptastathā viṣṇurjagāmādṛśyatāṃ kṣaṇāt | sā citraśālāparyaṃkaḥ sa ca te'thaplavaṃgamāḥ 55| naṣṭaṃ sarvaṃ harau yāte vanaṃ śūnyaṃ vilokya sā | vṛṃdā prāha sakhīṃ prāpya jihmaṃ tadviṣṇunā kṛtam 56| tyaktaṃ puraṃ gataṃ rājyaṃ kāṃtaḥ saṃdehatāṃ gataḥ | ahaṃ vane viditvaitatkva yāmi vidhinirmitā 57| manorathānāṃ viṣayamabhūnme priyadarśanam | prāha niḥśvasya caivoṣṇaṃ rājñī vṛṃdātiduḥkhitā 58| mama prāptaṃ hi maraṇaṃ tvayā hi smaradūtike | ityuktā sā tayā prāha mama tvaṃ prāṇarūpiṇī 59| tasyāstathoktamākarṇya itikarttavyatāṃ tataḥ | vane niścitya sā vṛṃdā gatvā tatra mahatsaraḥ 60| vihāya duḥkhamakarodgātrakṣālanamaṃbunā | tīre padmāsanaṃ baddhvā kṛtvā nirviṣayaṃ manaḥ 61| śoṣayāmāsa dehaṃ svaṃ viṣṇusaṃgena dūṣitam | tapaścacārasātyugraṃ nirāhārā sakhīsamam 62| gaṃdharvalokato vṛṃdāmathāgatyāpsarogaṇaḥ | prāha yāhīti kalyāṇi svargaṃ mā tyaja vigraham 63| gāṃdharvaṃ śastrametattribhuvanavijayaṃ śrīpatistoṣamagryaṃ| nīto yeneha vṛṃde tyajasi kathamidaṃ tadvapuḥ prāptakāmam | kāṃtaṃ te viddhi śūlipravaraśarahataṃ puṇyalābhasya bhūṣāsvargasya tvaṃ| bhavādya drutamamaravanaṃ caṃḍibhadre bhaja tvam 64| śrutvā śāstraṃ vadhūnāṃ jaladhijadayitā vākyamāha prahasya | svargādāhṛtya muktātridaśapati vadhūścātivīreṇa patyā | ādau pātraṃ sukhānāmahamamarajitā preyasā tadviyuktānirduṣṭā tadya| tiṣye priyamamṛtagataṃ prāpnuyāṃ yena caiva 65| ityuktvā sasakhī vṛṃdā visasarjāpsarogaṇān | tatprītipāśabaddhāstā nityamāyāṃti yāṃti ca 66| yogābhyāsena vṛṃdātha dagdhvā jñānāgninā guṇān | viṣayebhyaḥ samāhṛtya manaḥ prāpa tataḥ param 67| dṛṣṭvā vṛṃdārikāṃ tatra mahāṃtaścāpsarogaṇāḥ | tuṣṭuvurnabhasastuṣṭā vavṛṣuḥ puṣpavṛṣṭibhiḥ 68| śuṣkakāṣṭhacayaṃ kṛtvā tatra vṛṃdākalevaram | nidhāyāgniṃ ca prajvālya smaradūtī viveśa tam 69| dagdhaṃ vṛṃdāṃgarajasāṃ biṃbaṃ tadgolakātmakam | kṛtvā tadbhasmanaḥ śeṣaṃ maṃdākinyāṃ vicikṣipuḥ 70| yatra vṛṃdā parityajya dehaṃ brahmapathaṃ gatā | āsīdvṛṃdāvanaṃ tatra govarddhanasamīpataḥ 71| devyo'tha svargametya tridaśapativadhūsattvasaṃpattimāhurdevībhyastanniśamya pramuditamanaso nirjarādyāśca sarve | śatrordaityasya hitvā prabalatarabhayaṃ bhīmabheryo nijaghnuḥ śrutvā tatrāsanasthaḥ | parijananivahovāpaśobhāṃ śubhasya 72| iti śrīpādme mahāpurāṇe uttarakhaṃḍe paṃcapaṃcāśatasahasrasaṃhitāyāṃ jālaṃdharopākhyāne vṛṃdāyā brahmapadaprāptirnāma paṃcadaśo'dhyāyaḥ 15|

English translation

Nārada said :

1-7. Then Viṣṇu wearing matted hair and bark-garments and the other one—his follower-having a fruit in his hand came (to Vṛndā ). Seeing them, that fawn-eyed Smaradūtī wailed. Hearing her words (of wailing), the two said to her: “O auspicious lady, do not be afraid. We have come to protect you. How have you come to this fearful forest resorted to by the wicked?” Having comforted the slim lady like this, Viṣṇu said to the demon: “O you of a mean conduct, leave this soft-bodied and sweet-smiling lady. O fool, O you of a wicked conduct, what have you decided to do? You are out to eat the wealth of the three worlds. She is born as a result of the religious merit of the world. You are killing this ornament of the world. By killing Vṛndārikā now in the forest you will today render the world void of light and void of the pride of Cupid. Therefore, quickly leave her who is the deity of a comfortable palace.”

8-12. Hearing these words of Viṣṇu, the demon who got angry, said: “If you are capable, then free her today from my hand.” As soon as these words were uttered, Viṣṇu looked at him angrily. Leaving Vṛndā far away, he fell down after being reduced to ash. Then, she who was stupefied by the illusion of the lord of the world, said: “Who are you, the ocean of pity, who protected me here? O you treasure of austerity, with your sweet words you have removed by destroying the demon my physical and mental agony and torment. O dear ascetic, I shall practise penance in your hermitage.”

The ascetic said :

13-20. I am Bhāradvāja ’s son, known as Devaśarman . Giving up all the pleasures, I have with this lad come to the fearful forest. I have many disciples going (anywhere) as they will, and also other disciples who can take any form they like. O auspicious one, if you desire to practise penance in my hermitage then come along. O queen, we shall go to another (forest) which is far away.

Speaking like this to the queen, Viṣṇu with a slow gait went into eastern direction to a forest full of ghosts and goblins, O king. Vṛndārikā, with her eyes full of tears went after him. Smaradūtī also, saying ‘Wait for me’, went after him. In the meanwhile a man of a sinful figure and of a wicked conduct spread out a nest. He, the chief of sinners, withdrew the net when it was full of creatures. Seeing the two ladies the hunter let loose the creatures after having fetched them. Smaradūtī said to her (i.e. to Vṛndā): “O Queen, he comes to eat me. May my friend hold me by the hand.”

21-26. Having heard what she had said, Vṛndā saw the (man) with a loathsome face. Seeing him, she, dear to the Ocean’s son, was shaken by gout due to fear. Being clearly alarmed, she, with Smaradūtī, ranin to the forest. While running with her friend, she came to the ascetic’s hermitage. In the ascetic’s hermitage she saw wonderful things. (There) she saw birds with golden bodies and having many notes. She (there) saw a well rich in golden lotuses and a golden ground. The rivers were carrying milk. The trees were exuding honey. There was a store of sugar. There were also heaps of sweetmeats. All sweet eatables were there. There were many ornaments; and many divine weapons fell from the sky. The horses, being contented, played, jumped and fell there.

27-3la. In a small ascetic’s hut Vṛndā saw a very handsome ascetic seated on a seat made of tiger-hide and illumining the three worlds. To him she said: “O lord, protect me from (this) sinner. What is the use of austerities, or religious merit, or silence or muttering prayers? O you whose wealth is your penance, there is no greater penance than the protection of those who are frightened.” Thus she who was frightened and whose body was fatigued, spoke to him. Just then the wicked-souled catcher of all creatures arrived there. Queen Vṛndā who was afficted with fear, embraced Viṣṇu at the neck. Like a creeper she clasped him with her arms in a manner in which the touch was pleasant. (He said to her:)

31b-35. “By means of your embrace the head of your husband will again be endowed with the entrie body with excellences. O you beautiful lady, now go to the picture-room.” She who was told by the sage (to go to) the picture-room, entered it. Having got on a divine bed, she took the head of her husband, and being extremely lustful, and with her eyes closed when she drank its lower Up (i.e. kissed it), the form of Jālandhara appeared there, O king. The lord of the world was similar in figure to her husband, had a chest like that of him; his height was like that of him; his words were like those of him; his temperament was like that of him.

36-42a. Seeing her dear husband having the full form, she said: “O lord, I shall do what is dear to you. Tell me about your battle.” Hearing the words of Vṛndā, the deceptive son of the Ocean said: “O queen, listen as to how Śambhu fought with me. O dear one, the terrible Śiva cut off my head with a disc. Then due to your divine power and due to my mind having gone to you the head that was cut off was brought here, and due to the contact with your body it came back to life. O dear young lady, due to separation from me you have become distressed. Forgive me (this) unpleasant (act) that I left you and went to the battlefield.” With these other words he then reminded Vṛndā (ofhis acts). Then, queen Vṛndā who had all auspicious pleasures like tāmbūlas , diversions, garments and ornaments, who was very lustful, firmly embraced her dear husband and kissed him.

42b-46. God Viṣṇu looked upon the pleasure due to the fascination of Vṛndā as superior to (that derived from) salvation, and as giving greater delight than derived from Lakṣmī . Then Mādhava , Kṛṣṇa who was the royal swan in the well charming and shining due to her sports, lost (all) his longing for Lakṣmī due to the beauty of Vṛndā. In that forest, Vṛndā turned into the form ofTulasī. That ( Tulasī ) that was highly purifying arose from the sweat ofVṛndā. Having, for some days, enjoyed the pleasure due to the contact with Vṛndā’s body, (Viṣṇu) the lord of the world, thought about the mission of Śiva.

47-50. Once, after the sexual act was over, Vṛndā saw the ascetic (that is) Viṣṇu with his two hands thrown round her neck. Seeing him and freeing from the clasp of his hands her neck, she said: “How is it that in the guise of an ascetic you came to fascinate me?” Hearing her words, and consoling her, Viṣṇu said to her: “O Vṛndārikā, listen. Know me to be (Viṣṇu) pleasing to Lakṣmī. Your husband has gone to vanquish Śiva and bring Pārvatī . I am Śiva, and Śiva is me. We have (just) remained separately. O sinless one, Jālandhara has been killed in the battle. Now resort to me.”

Nārada said :

51-54. Hearing these words of Viṣṇu, her face was dejected. Then, O king, Vṛndārikā who was angry, replied: “Is it proper for you to have snatched the young wife of him who bound you in the battle, and released you at his father’s words, and were honoured with various gems? How can he who is the master of righteousness, dally with the wife of another (man)? The wise say that even the lord enjoys (the fruits of) his acts. Since you, an ascetic in disguise, deluded me, someone disguised as an ascetic will take (away) your young wife.”

55-59. Thus cursed Viṣṇu in a moment vanished. When Viṣṇu had left, that bed in the picture-room, those monkeys—all that disappeared. Seeing the forest desolate, Vṛndā went to her friend and told her about the trickery played by Viṣṇu. “I have abandoned the city. My kingdom has gone. (The existence) of my husband is doubtful. I am in the forest. Realising this, where should I, fashioned (thus) by fate, go? My seeing my dear (husband) was (just) a matter of my desires.” Vṛndā who was extremely afflicted, heaved a hot sigh and said: “I have, and you too, O Smaradūtī, met with death.” Thus addressed by her, she said: “You are my very life.”

60-62. Hearing words spoken like that by her, Vṛndā, deciding that this should be done, abandoned her grief and went to a great lake, and with (its) water, she washed her body. Sitting in padmāsana on the bank and making her mind free from the objects of senses, she withered her body which was polluted due to the contact with (the body of) Viṣṇu. She, with her friend, fasted and practised very severe penance.

63-66. The host of the celestial nymphs came to Vṛndā from the world of gandharvas and said to her: “O auspicious one, go to heaven do not cast your body. This (your body) is the weapon of gandharvas; it conquers the three worlds; it is the best joy of Viṣṇu by which he was brought here; how (then) do you cast this (your) body which has obtained (i.e. fulfilled) the desires? Know that your husband is killed with an excellent arrow of Śiva. Be the ornament of heaven obtained through religious merit. O angry lady, today quickly resort to the grove of the gods.” Hearing the sacred precept for young married ladies, the wife of the Ocean’s son said (these) words: “Lord (Viṣṇu), the great hero, left (Lakṣmī) the young wife of the lord of gods, and (coming) from heaven, honoured me, and I who was conquered by the god, was made a receptacle of pleasures. Being guileless I shall try to do that by which I shall obtain an immortal state.” Speaking like this, Vṛndā, along with her friend, dismissed the bevies of the celestial nymphs. Bound by the noose of love for her, they came and went every day.

67-72. Then Vṛndā, through practice of abstract meditation, burnt, with the fire of knowledge, the qualities, and having withdrawn her mind from the objects of senses, obtained the highest (position). Seeing Vṛndārikā there the great hosts of the celestial nymphs were pleased. With showers of flowers from the sky they showered her. Having made a heap of dry (pieces of) wood, Smaradūtī put on it the (dead) body of Vṛndā, kindled the fire and entered it. That round image of the particles of Vṛndā’s body was burnt. Collecting the remaining ashes, they threw them into Mandākinī . At the place where Vṛndā cast her body and went to heaven, was the Vṛndāvana , near the Govardhana mountain. The divine ladies (i.e. the celestial nymphs) went to heaven and told the divine ladies there. Having heard that, all the gods and others, with their minds delighted, gave up the fear of their enemy, the demon, and beat the furious drums. The group of attendants seated there obtained the charm of auspiciousness.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 14069, revision 336260 (2022-04-20T15:23:09Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365446.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.