Pātāla-khaṇḍa · Chapter 28
Sourceशेष उवाच। अथ पुत्रं समालोक्य पतितं व्यसुमुद्धतम् । विललाप भृशं राजा सुतदुःखेन दुःखितः १। मूर्ध्नि संताडयामास पाणिभ्यामतिदुःखितः । कम्पमानो भृशं चाश्रूण्यमुञ्चन्नयनाब्जयोः २। गृहीत्वा पतितं वक्त्रं चंद्रबिंबमनोरमम् । पुष्कलेषु क्षतासृग्भिः क्लिन्नं कुंडलशोभितम् ३। कुटिलभ्रूयुगं श्रेष्ठं संदष्टाधरपल्लवम् । स चुंबन्मुखपद्मेन विलपन्निदमब्रवीत् ४। हा पुत्र वीर कथमुत्सुकचेतसं मां । किं नेक्षसे विशदनेत्रयुगेन शूर । किं मद्विनोदकथयारहितस्त्वमेव । रोषोदधिप्लुतमनाः किल लक्ष्यसे च ५। वद पुत्र कथं मां त्वं प्रब्रूषे न हसन्पुनः । अमृतैर्मधुरास्वादैर्विनोदयसि पुत्रक ६। शत्रुघ्नाश्वं गृहाण त्वं सितचामरशोभितम् । स्वर्णपत्रेण शोभाढ्यं त्यज निद्रां महामते ७। एष प्रतापविशदः प्रतापाग्र्यः परंतपः । धनुर्बिभ्रत्पुरो भाति पुष्कलः परवीरहा ८। एनं वारय सत्तीक्ष्णैर्बाणैः कोदंडनिर्गतैः । कथं त्वं रणमध्ये वै शेते वीरविमोहितः ९। हस्तिनः पत्तयश्चैव रथारूढा भयार्दिताः । शरणं त्वां समायांति तानीक्षस्व महामते १०। पुत्र त्वया विना सोढुं कथं शक्तो रणांगणे । शत्रुघ्नसायकांस्तीक्ष्णांश्चंडकोदंडनिर्गतान् ११। अतो मां तु त्वया हीनं को वा पालयितुं क्षमः । यदि त्यक्ष्यसि निद्रा त्वं जयायाहं क्षमस्तदा १२। इत्थं विलप्य सुभृशं तताड हृदयं स्वकम् । बहुशः पाणिना राजा पुत्रदुःखेन दुःखितः १३। तदा विचित्र दमनौ स्व स्व स्यंदनसंस्थितौ । पितुश्चरणयोर्नत्वा ऊचतुः समयोचितम् १४। राजन्नस्मासु जीवत्सु किं दुःखं हृदि तद्वद । वीराणां प्रधने मृत्युर्वांच्छितो जायते महान् १५। धन्योऽयं बत चित्रांगो यो वीर भुवि शोभते । सकिरीटस्तु संदष्टदंतच्छदयुगः प्रभुः १६। कथयाशु किमद्यैव कुर्वस्ते कार्यमीप्सितम् । शत्रुघ्नवाहिनीं सर्वां हन्व आवामनाथिनीम् १७। अद्यैव पुष्कलं भ्रातुर्वधकारिणमाहवे । पातयावो रथाच्छित्त्वा शिरोमुकुटमंडितम् १८। त्यज शोकं सुदुःखार्तः कथं भासि महामते । आज्ञापयावां मानार्ह कुरु युद्धे मतिं तथा १९। इति वाक्यं समाकर्ण्य पुत्रयोर्वीरमानिनोः । शोकं त्यक्त्वा महाराजो युद्धाय मतिमादधात् २०। तावपि प्रतियोद्धारं वांच्छंतौ रणदुर्मदौ । जग्मतुः कटके शत्रोरनंतभटपूरिते २१। रिपुतापेन दमनो नीलरत्नेन चेतरः । युयुधाते रणे वीरौ प्रावृषीव बलाहकौ २२। राजा कनकसन्नद्धे रथे मणिविचित्रिते । रत्नकूबरशोभाढ्ये तिष्ठंश्चापधरो बली २३। ययौ योद्धुं तु शत्रुघ्नं वीरकोटभिरावृतम् । तृणीकुर्वन्महावीरान्धनुर्विद्याविशारदान् २४। तं योद्धुमागतं दृष्ट्वा सुबाहुं रोषपूरितम् । पुत्रनाशेन कुर्वंतं सर्वसैन्यवधादिकम् २५। शत्रुघ्नपार्श्वसंचारी हनूमांस्तमुपाद्रवत् । नखायुधो महानादं कुर्वन्मेघ इवाहवे २६। सुबाहुस्तं हनूमंतमागच्छंतं महारवम् । उवाच प्रहसन्वाक्यं रोषपूरितलोचनः २७। क्व गतः पुष्कलो हत्वा मत्पुत्रं रणमंडले । पातयाम्यद्य तस्याशु शिरो ज्वलितकुंडलम् २८। क्व शत्रुघ्नो वाहपालः क्व च रामः कुतो भटाः । प्राणहंतारमायांतं पश्यंतु प्रधने तु माम् २९। इति तद्वाक्यमाकर्ण्य हनूमान्निजगाद तम् । शत्रुघ्नो लवणच्छेत्ता वर्तते सैन्यपालकः ३०। स कथं प्रधने युध्येत्सेवकेऽग्रे स्थिते नृप । मां विजित्य रणे तं च त्वं गंतासि नरर्षभ ३१। इत्युक्तवंतं तरसा विव्याध दशसायकैः । हृदि वानरमत्युग्रं पर्वताग्र्यमिवस्थितम् ३२। सबाणानागतांस्तांश्च गृहीत्वा करसंपुटे । चूर्णयामास तिलशः शितान्वैरिविदारणान् ३३। चूर्णयित्वा शरांस्तांस्तु निनदन्घनगर्जितैः । पुच्छेनावेष्ट्य तस्योच्चै रथं निन्ये महाबलः ३४। तदा तं नृपवर्योऽसावाकाशे स्थित एव सः । लांगूलं ताडयामास शिताग्रैः सायकैर्मुहुः ३५। स ताडितस्तु पुच्छाग्रे शरैः सन्नतपर्वभिः । मुमोच तद्रथं दिव्यं कनकेन विचित्रितम् ३६। स मुक्तस्तेन तरसा शरैस्तीक्ष्णैर्जघान तम् । हनूमंतं कपिवरं रोषसंपूरितेक्षणः ३७। हनूमान्बाणविच्छिन्नः सर्वत्ररुधिराप्लुतः । महारोषं समाधत्त नृपोपरि कपीश्वरः ३८। गृहीत्वा तस्य दंष्ट्राभी रथं हयसमन्वितम् । चूर्णयामस वेगेन तदद्भुतमिवाभवत् ३९। स्वरथं भज्यमानं तु दृष्ट्वा राजा त्वरन्बली । अन्यं रथं समास्थाय युयुधे तं महाबलम् ४०। पुच्छे मुखेऽथोरसि च भुजे चरणयोर्नृपः । जघान शरसंधानकोविदः परमास्त्रवित् ४१। तदा क्रुद्धः कपिवरस्ताडयामास वक्षसि । पादेनोत्प्लुत्य वेगेन राज्ञः सुभटशोभिनः ४२। स पदा प्रहतो भूमौ पपात किल मूर्च्छितः । मुखाद्वमन्नसृक्चोष्णं श्वासपूरप्रवेपितः ४३। तदा प्रकुपितोऽत्यंतं हनूमान्प्रधनांगणे । अश्वान्वीरान्गजांश्चापि चूर्णयामास वेगतः ४४। तदा सुकेतुस्तद्भ्राता तथा लक्ष्मीनिधिर्नृपः । उभावपि सुसन्नद्धौ युद्धाय समुपस्थितौ ४५। राजानं मूर्च्छितं दृष्ट्वा प्रपलाय्य गता नराः । इतस्ततो बाणसंघैः क्षताः पुष्कलवर्षितैः ४६। तद्भज्यमानं स्वबलं वीक्ष्य राजात्मजो बली । दमनः स्तंभयामास सेतुर्वार्धिमिवोच्चलम् ४७। तदा तु मूर्च्छितो राजा स्वप्नमेकं ददर्श ह । रणमध्ये कपिवरप्रपदाघातताडितः ४८। रामचंद्रस्त्वयोध्यायां सरयूतीरमंडपे । ब्राह्मणैर्याज्ञिकश्रेष्ठैर्बहुभिः परिवारितः ४९। तत्र ब्रह्मादयो देवास्तत्र ब्रह्मांडकोटयः । कृतप्राञ्जलयस्तं वै स्तुवंति स्तुतिभिर्मुहुः ५०। रामं श्यामं सुनयनं मृगशृंगपरिग्रहम् । गायंति नारदाद्याश्च वीणोल्लसितपाणयः ५१। नृत्यंत्यप्सरसस्तत्र घृताची मेनकादयः । वेदा मूर्तिधरा भूत्वा उपतिष्ठंति राघवम् ५२। यच्च किंचिद्वस्तुजातं सर्वशोभासमन्वितम् । तस्य दातारमखिलं भक्तानां भोगदायकम् ५३। इत्येवमादिसंपश्यञ्जाग्रत्संज्ञामवाप सः । ब्रह्मशापहतज्ञानः किं दृष्टमिति वै वदन् ५४। उत्थाय प्रययौ पद्भ्यां शत्रुघ्नचरणं प्रति । भृत्यकोटिपरीवारो रथकोटिपरीवृतः ५५। सुकेतुं तु समाहूय विचित्रं दमनं तथा । युद्धं कर्तुं समुद्युक्तान्वारयामास धर्मवित् ५६। उवाच तान्महाराजो धर्मात्मा धर्मसंयुतः । भ्रातःपुत्रौ शृणुत मे वाक्यं धर्मसमन्वितम् ५७। मा युद्धं कुरुत क्षिप्रमनयस्तु महानभूत् । यद्रामचंद्रवाहं त्वमगृह्णाद्दमनोर्ज्जितम् ५८। एष रामः परंब्रह्म कार्यकारणतः परम् । चराचरजगत्स्वामी न मानुषवपुर्धरः ५९। एतद्धि ब्रह्मविज्ञानमधुना ज्ञातवानहम् । पुरासितांगशापेन हृतज्ञानधनोऽनघाः ६०। अहं पुरा तीर्थयात्रां गतस्तत्त्वविवित्सया । तत्रानेके मया दृष्टा मुनयो धर्मवित्तमाः ६१। असितांगं मुनिमहं गतवाञ्ज्ञातुमिच्छया । तदा प्रोवाच मां विप्रः कृपां कृत्वा ममोपरि ६२। योऽसावयोध्याधिपतिः स परब्रह्मशब्दितः । तस्य या जानकी देवी साक्षात्सा चिन्मयी स्मृता ६३। एनं तु योगिनः साक्षादुपासते यमादिभिः । दुस्तरा पारसंसारवारिधिं संतितीर्षवः ६४। स्मृतमात्रो महापापहारी स गरुडध्वजः । य एनं सेवते विद्वान्स संसारं तरिष्यति ६५। तदाहमहसं विप्रं कोऽयं रामस्तु मानुषः । केयं सा जानकी देवी हर्षशोकसमाकुला ६६। अजन्मनः कथं जन्म अकर्तुः कृत्यमत्र किम् । जन्मदुःखजरातीतं कथयस्व मुने मम ६७। इत्युक्तवंतं मां क्रुद्धः शशाप स मुनीश्वरः । अज्ञात्वा तत्स्वरूपं त्वं प्रतिब्रूषे ममाधम ६८। एनं निंदसि रामं त्वं मानुषोऽयमिदं हसन् । तस्मात्त्वं तत्त्वसंमूढो भविष्यस्युदरंभरिः ६९। तदाहं तस्य चरणावगृह्णं सदया युतः । दृष्ट्वा मे विनयं मां तु प्रावोचत्करुणानिधिः ७०। त्वं रामस्य मखे विघ्नं करिष्यसि यदा नृप । तदा हनूमानंघ्रिं त्वां ताडयिष्यति वेगतः ७१। तदा त्वं ज्ञास्यसे राजन्नान्यथा स्वमनीषया । पुराहमुक्तस्तेनैवं तद्दृष्टमधुना मया ७२। यदा मां हनुमान्क्रुद्धस्ताडयामास वक्षसि । तदाऽदर्शं रमानाथं पूर्णब्रह्मस्वरूपिणम् ७३। तस्मादश्वं तु शोभाढ्यमानयंतु महाबलाः । धनानि चैव वासांसि राज्यं चेदं समर्पये ७४। रामं दृष्ट्वा कृतार्थः स्यामहं यज्ञेति पुण्यदे । आनयंतु हयं मह्यं रोचते तु तदर्पणम् ७५। इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सुबाहुपराजयोनाम अष्टाविंशतितमोऽध्यायः२८ ।
śeṣa uvāca| atha putraṃ samālokya patitaṃ vyasumuddhatam | vilalāpa bhṛśaṃ rājā sutaduḥkhena duḥkhitaḥ 1| mūrdhni saṃtāḍayāmāsa pāṇibhyāmatiduḥkhitaḥ | kampamāno bhṛśaṃ cāśrūṇyamuñcannayanābjayoḥ 2| gṛhītvā patitaṃ vaktraṃ caṃdrabiṃbamanoramam | puṣkaleṣu kṣatāsṛgbhiḥ klinnaṃ kuṃḍalaśobhitam 3| kuṭilabhrūyugaṃ śreṣṭhaṃ saṃdaṣṭādharapallavam | sa cuṃbanmukhapadmena vilapannidamabravīt 4| hā putra vīra kathamutsukacetasaṃ māṃ | kiṃ nekṣase viśadanetrayugena śūra | kiṃ madvinodakathayārahitastvameva | roṣodadhiplutamanāḥ kila lakṣyase ca 5| vada putra kathaṃ māṃ tvaṃ prabrūṣe na hasanpunaḥ | amṛtairmadhurāsvādairvinodayasi putraka 6| śatrughnāśvaṃ gṛhāṇa tvaṃ sitacāmaraśobhitam | svarṇapatreṇa śobhāḍhyaṃ tyaja nidrāṃ mahāmate 7| eṣa pratāpaviśadaḥ pratāpāgryaḥ paraṃtapaḥ | dhanurbibhratpuro bhāti puṣkalaḥ paravīrahā 8| enaṃ vāraya sattīkṣṇairbāṇaiḥ kodaṃḍanirgataiḥ | kathaṃ tvaṃ raṇamadhye vai śete vīravimohitaḥ 9| hastinaḥ pattayaścaiva rathārūḍhā bhayārditāḥ | śaraṇaṃ tvāṃ samāyāṃti tānīkṣasva mahāmate 10| putra tvayā vinā soḍhuṃ kathaṃ śakto raṇāṃgaṇe | śatrughnasāyakāṃstīkṣṇāṃścaṃḍakodaṃḍanirgatān 11| ato māṃ tu tvayā hīnaṃ ko vā pālayituṃ kṣamaḥ | yadi tyakṣyasi nidrā tvaṃ jayāyāhaṃ kṣamastadā 12| itthaṃ vilapya subhṛśaṃ tatāḍa hṛdayaṃ svakam | bahuśaḥ pāṇinā rājā putraduḥkhena duḥkhitaḥ 13| tadā vicitra damanau sva sva syaṃdanasaṃsthitau | pituścaraṇayornatvā ūcatuḥ samayocitam 14| rājannasmāsu jīvatsu kiṃ duḥkhaṃ hṛdi tadvada | vīrāṇāṃ pradhane mṛtyurvāṃcchito jāyate mahān 15| dhanyo'yaṃ bata citrāṃgo yo vīra bhuvi śobhate | sakirīṭastu saṃdaṣṭadaṃtacchadayugaḥ prabhuḥ 16| kathayāśu kimadyaiva kurvaste kāryamīpsitam | śatrughnavāhinīṃ sarvāṃ hanva āvāmanāthinīm 17| adyaiva puṣkalaṃ bhrāturvadhakāriṇamāhave | pātayāvo rathācchittvā śiromukuṭamaṃḍitam 18| tyaja śokaṃ suduḥkhārtaḥ kathaṃ bhāsi mahāmate | ājñāpayāvāṃ mānārha kuru yuddhe matiṃ tathā 19| iti vākyaṃ samākarṇya putrayorvīramāninoḥ | śokaṃ tyaktvā mahārājo yuddhāya matimādadhāt 20| tāvapi pratiyoddhāraṃ vāṃcchaṃtau raṇadurmadau | jagmatuḥ kaṭake śatroranaṃtabhaṭapūrite 21| riputāpena damano nīlaratnena cetaraḥ | yuyudhāte raṇe vīrau prāvṛṣīva balāhakau 22| rājā kanakasannaddhe rathe maṇivicitrite | ratnakūbaraśobhāḍhye tiṣṭhaṃścāpadharo balī 23| yayau yoddhuṃ tu śatrughnaṃ vīrakoṭabhirāvṛtam | tṛṇīkurvanmahāvīrāndhanurvidyāviśāradān 24| taṃ yoddhumāgataṃ dṛṣṭvā subāhuṃ roṣapūritam | putranāśena kurvaṃtaṃ sarvasainyavadhādikam 25| śatrughnapārśvasaṃcārī hanūmāṃstamupādravat | nakhāyudho mahānādaṃ kurvanmegha ivāhave 26| subāhustaṃ hanūmaṃtamāgacchaṃtaṃ mahāravam | uvāca prahasanvākyaṃ roṣapūritalocanaḥ 27| kva gataḥ puṣkalo hatvā matputraṃ raṇamaṃḍale | pātayāmyadya tasyāśu śiro jvalitakuṃḍalam 28| kva śatrughno vāhapālaḥ kva ca rāmaḥ kuto bhaṭāḥ | prāṇahaṃtāramāyāṃtaṃ paśyaṃtu pradhane tu mām 29| iti tadvākyamākarṇya hanūmānnijagāda tam | śatrughno lavaṇacchettā vartate sainyapālakaḥ 30| sa kathaṃ pradhane yudhyetsevake'gre sthite nṛpa | māṃ vijitya raṇe taṃ ca tvaṃ gaṃtāsi nararṣabha 31| ityuktavaṃtaṃ tarasā vivyādha daśasāyakaiḥ | hṛdi vānaramatyugraṃ parvatāgryamivasthitam 32| sabāṇānāgatāṃstāṃśca gṛhītvā karasaṃpuṭe | cūrṇayāmāsa tilaśaḥ śitānvairividāraṇān 33| cūrṇayitvā śarāṃstāṃstu ninadanghanagarjitaiḥ | pucchenāveṣṭya tasyoccai rathaṃ ninye mahābalaḥ 34| tadā taṃ nṛpavaryo'sāvākāśe sthita eva saḥ | lāṃgūlaṃ tāḍayāmāsa śitāgraiḥ sāyakairmuhuḥ 35| sa tāḍitastu pucchāgre śaraiḥ sannataparvabhiḥ | mumoca tadrathaṃ divyaṃ kanakena vicitritam 36| sa muktastena tarasā śaraistīkṣṇairjaghāna tam | hanūmaṃtaṃ kapivaraṃ roṣasaṃpūritekṣaṇaḥ 37| hanūmānbāṇavicchinnaḥ sarvatrarudhirāplutaḥ | mahāroṣaṃ samādhatta nṛpopari kapīśvaraḥ 38| gṛhītvā tasya daṃṣṭrābhī rathaṃ hayasamanvitam | cūrṇayāmasa vegena tadadbhutamivābhavat 39| svarathaṃ bhajyamānaṃ tu dṛṣṭvā rājā tvaranbalī | anyaṃ rathaṃ samāsthāya yuyudhe taṃ mahābalam 40| pucche mukhe'thorasi ca bhuje caraṇayornṛpaḥ | jaghāna śarasaṃdhānakovidaḥ paramāstravit 41| tadā kruddhaḥ kapivarastāḍayāmāsa vakṣasi | pādenotplutya vegena rājñaḥ subhaṭaśobhinaḥ 42| sa padā prahato bhūmau papāta kila mūrcchitaḥ | mukhādvamannasṛkcoṣṇaṃ śvāsapūrapravepitaḥ 43| tadā prakupito'tyaṃtaṃ hanūmānpradhanāṃgaṇe | aśvānvīrāngajāṃścāpi cūrṇayāmāsa vegataḥ 44| tadā suketustadbhrātā tathā lakṣmīnidhirnṛpaḥ | ubhāvapi susannaddhau yuddhāya samupasthitau 45| rājānaṃ mūrcchitaṃ dṛṣṭvā prapalāyya gatā narāḥ | itastato bāṇasaṃghaiḥ kṣatāḥ puṣkalavarṣitaiḥ 46| tadbhajyamānaṃ svabalaṃ vīkṣya rājātmajo balī | damanaḥ staṃbhayāmāsa seturvārdhimivoccalam 47| tadā tu mūrcchito rājā svapnamekaṃ dadarśa ha | raṇamadhye kapivaraprapadāghātatāḍitaḥ 48| rāmacaṃdrastvayodhyāyāṃ sarayūtīramaṃḍape | brāhmaṇairyājñikaśreṣṭhairbahubhiḥ parivāritaḥ 49| tatra brahmādayo devāstatra brahmāṃḍakoṭayaḥ | kṛtaprāñjalayastaṃ vai stuvaṃti stutibhirmuhuḥ 50| rāmaṃ śyāmaṃ sunayanaṃ mṛgaśṛṃgaparigraham | gāyaṃti nāradādyāśca vīṇollasitapāṇayaḥ 51| nṛtyaṃtyapsarasastatra ghṛtācī menakādayaḥ | vedā mūrtidharā bhūtvā upatiṣṭhaṃti rāghavam 52| yacca kiṃcidvastujātaṃ sarvaśobhāsamanvitam | tasya dātāramakhilaṃ bhaktānāṃ bhogadāyakam 53| ityevamādisaṃpaśyañjāgratsaṃjñāmavāpa saḥ | brahmaśāpahatajñānaḥ kiṃ dṛṣṭamiti vai vadan 54| utthāya prayayau padbhyāṃ śatrughnacaraṇaṃ prati | bhṛtyakoṭiparīvāro rathakoṭiparīvṛtaḥ 55| suketuṃ tu samāhūya vicitraṃ damanaṃ tathā | yuddhaṃ kartuṃ samudyuktānvārayāmāsa dharmavit 56| uvāca tānmahārājo dharmātmā dharmasaṃyutaḥ | bhrātaḥputrau śṛṇuta me vākyaṃ dharmasamanvitam 57| mā yuddhaṃ kuruta kṣipramanayastu mahānabhūt | yadrāmacaṃdravāhaṃ tvamagṛhṇāddamanorjjitam 58| eṣa rāmaḥ paraṃbrahma kāryakāraṇataḥ param | carācarajagatsvāmī na mānuṣavapurdharaḥ 59| etaddhi brahmavijñānamadhunā jñātavānaham | purāsitāṃgaśāpena hṛtajñānadhano'naghāḥ 60| ahaṃ purā tīrthayātrāṃ gatastattvavivitsayā | tatrāneke mayā dṛṣṭā munayo dharmavittamāḥ 61| asitāṃgaṃ munimahaṃ gatavāñjñātumicchayā | tadā provāca māṃ vipraḥ kṛpāṃ kṛtvā mamopari 62| yo'sāvayodhyādhipatiḥ sa parabrahmaśabditaḥ | tasya yā jānakī devī sākṣātsā cinmayī smṛtā 63| enaṃ tu yoginaḥ sākṣādupāsate yamādibhiḥ | dustarā pārasaṃsāravāridhiṃ saṃtitīrṣavaḥ 64| smṛtamātro mahāpāpahārī sa garuḍadhvajaḥ | ya enaṃ sevate vidvānsa saṃsāraṃ tariṣyati 65| tadāhamahasaṃ vipraṃ ko'yaṃ rāmastu mānuṣaḥ | keyaṃ sā jānakī devī harṣaśokasamākulā 66| ajanmanaḥ kathaṃ janma akartuḥ kṛtyamatra kim | janmaduḥkhajarātītaṃ kathayasva mune mama 67| ityuktavaṃtaṃ māṃ kruddhaḥ śaśāpa sa munīśvaraḥ | ajñātvā tatsvarūpaṃ tvaṃ pratibrūṣe mamādhama 68| enaṃ niṃdasi rāmaṃ tvaṃ mānuṣo'yamidaṃ hasan | tasmāttvaṃ tattvasaṃmūḍho bhaviṣyasyudaraṃbhariḥ 69| tadāhaṃ tasya caraṇāvagṛhṇaṃ sadayā yutaḥ | dṛṣṭvā me vinayaṃ māṃ tu prāvocatkaruṇānidhiḥ 70| tvaṃ rāmasya makhe vighnaṃ kariṣyasi yadā nṛpa | tadā hanūmānaṃghriṃ tvāṃ tāḍayiṣyati vegataḥ 71| tadā tvaṃ jñāsyase rājannānyathā svamanīṣayā | purāhamuktastenaivaṃ taddṛṣṭamadhunā mayā 72| yadā māṃ hanumānkruddhastāḍayāmāsa vakṣasi | tadā'darśaṃ ramānāthaṃ pūrṇabrahmasvarūpiṇam 73| tasmādaśvaṃ tu śobhāḍhyamānayaṃtu mahābalāḥ | dhanāni caiva vāsāṃsi rājyaṃ cedaṃ samarpaye 74| rāmaṃ dṛṣṭvā kṛtārthaḥ syāmahaṃ yajñeti puṇyade | ānayaṃtu hayaṃ mahyaṃ rocate tu tadarpaṇam 75| iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe subāhuparājayonāma aṣṭāviṃśatitamo'dhyāyaḥ28 |
English translation
Śeṣa said :
1-4. Then the king, having seen his pre-eminent son fallen dead (on the ground), was pained by the grief due to (the death of) his son, and wept very much. Being extremely afflicted, he struck on his head with his hands. Trembling very much, he shed tears from his lotus-like eyes. Taking the son who was fallen (dead), who was charming like the curved orb of the moon (i.e. like the crescent moon), who was wet with the blood (oozing) from the wounds caused by the arrows of Puṣkala , who looked charming by means of the ear-rings, whose pair of eye-brows was curved, who was the best, who had bitten his budlike lower lip, he kissed him with his lotus-like mouth and lamenting said these words:
5-7. “O (my) brave son, O hero, why do you not look at me, of an eager heart, with the pair of your clear eyes? Why are you without (i.e. not telling me) a story for my diversion? You indeed appear to have your mind plunging into the sea of anger. O son, tell me how (i.e. why) you are not laughing and not talking to me. (Why) are you not amusing me with your nectar (-like words) having a sweet taste, O son? O you very intelligent one, take Śatrughna ’s horse adorned with a white chowrie and possessing beauty on account of a golden leaf; (but) give up your sleep.
8-12. This Puṣkala, spotless with his valour, the best due to his valour, the tormentor of his enemies, the killer of enemies’ heroes, appears having a bow (in his hand) before you. Ward him off by good, sharp arrows discharged from your bow. O hero, how do you, being unconscious, lie in the battlefield? The elephants, the foot-soldiers, so a Iso those seated in chariots, being afflicted through fear, will surrender themselves to you. Look at them, O very intelligent one. O son, how, without you, am I able to bear the sharp arrows of Śatrughna, discharged from his fierce bow on the battlefield? Henceforth who is capable of protecting me abandoned by you? If you will abandon your sleep, then I am capable of (having) victory.”
13-19. The king, lamenting very much like this, afflicted due to the grief (of the death) of his son, very much and repeatedly beat his chest with his hand. Then (his two sons) Vicitra and Damana seated in their own chariots saluted the feet of their father, and spoke what was proper for the occasion: “O king, when we are alive, tell us what grief you have in your heart. The death longed for by the heroes in a battle, becomes great. Indeed this lordly Citrāṅga who, with his diadem, with his lips bitten with his teeth, looks splendid on the heroes’ ground, is fortunate. Quickly tell what work, desired by you, we should do today. We two shall today destroy the entire helpless army of Śatrughna. Today only we shall cause to fall down from the chariot, Puṣkala, the killer of our brother in the battle, after having cut off his head adorned with a crown. Give up your grief. O you very highly intelligent one, how do you appear to be very much afflicted with grief?”
20-24. Having heard these words of his two brave and highly honoured sons, the great king gave up his grief and decided to fight. They too, who were furious in the battle, and who longed for an opponent, went into the enemy’s army, full of unlimited warriors. The two heroes, resembling clouds in the rainy season fought in the battle—Damana with Riputāpa, and the other (i.e. Vicitra) with Nīlaratna. The powerful king, holding a bow and remaining in his chariot, covered with gold, beautified with gems, rich in beauty on account of jewelled poles, and looking down upon great heroes skilled in archery, went to fight with Śatrughna surrounded by crores of heroes.
25-29. Seeing Subāhu , full of wrath, having come to fight with Śatrughna who had destroyed his son and had caused the killing of his entire army, Hanūmat having his nails as his weapon, making a loud sound, and moving by the side of Śatrughna ran to him. Subāhu, with his eyes full of anger, seeing that Hanūmat making a loud sound, coming to him, said laughing: “Where has Puṣkala gone after having killed my son in the battle? Today I shall quickly knock down his head with bright ear-rings. Where is Śatrughna, the protector of the horse? Where is Rāma ? And where are the warriors? Let them see me who will snatch away their life in the battle to have come.”
30-36. Hearing these words of (i.e. uttered by) him, Hanūmat spoke to him: “Śatrughna, the destroyer of Lavaṇa (the son of Madhu ), is the guardian of the army. How would he fight in the battle, O king, when his servant is in the fore. O best of men, having conquered me in the battle you will go to him.” He speedily struck with ten arrows on the chest of the monkey who spoke like this, who was very strong and who remained like the best mountain. He took in the cavity of his hands the arrows that came to him and pounded them, the sharp ones tearing (i.e. capable of tearing) the enemy, (to pieces as small as) sesamum seeds. The very mighty one having pounded those arrows and roaring like the thunder of clouds and having surrounded his chariot with his tail, took it high up (in the air). Then that best king, while remaining in the sky (i.e. in the air), repeatedly cut off his (i.e. Hanūmat’s) tail with arrows of sharp end. He (i.e. Hanūmat) struck on the end of his tail with arrows with curved joints, abandoned that divine chariot spotted with gold.
37-45. When he (i.e. Subāhu) was released by him, he, with his eyes full of wrath, struck with sharp arrows, that best monkey, Hanūmat. Hanūmat, the lord of monkeys, pierced with arrows and covered with blood everywhere (on all the parts of his body), entertained great wrath against the king. Having seized with his large teeth his chariot along with the horses, he speedily pounded it. That was indeed a wonder. Seeing his own chariot being broken, the mighty king quickly resorted to another chariot and fought with the mighty (Hanūmat). The king, proficient in taking aim with an arrow and conversant with (the use of) great missiles, struck him on his tail, face, and chest and on arm and feet. Then the angry and best monkey (i.e. Hanūmat), jumped and struck with his foot on the chest of the king shining among good (i.e. brave) warriors. He, being struck with (Hanūmat’s) foot fell unconscious on the ground; and vomitting blood from his mouth, he trembled with a flood of (i.e. heavy) breathing. Then Hanūmat who was very angry, speedily pounded the horses the heroes and (even) the elephants on the battlefield. Then his brother Suketu and king Lakṣmīnidhi—both, quite ready, came near (each other) to fight.
46-50. Men, wounded with volleys of arrows showered by Puṣkala, fled and went (away) on seeing the king who was unconscious. The king’s powerful son, Damana, seeing his army being defeated, stopped it as a dam stops the high-going sea. Then the king who being struck with the stroke of his foot by the best monkey in the battle was unconscious, saw a dream: in a pavilion on the bank of Sarayū in Ayodhyā Rāmacandra was surrounded by many pre-eminent brāhmaṇa sacrificing priests. There gods like Brahmā and others, crores of universes, with the palms of their hands joined, repeatedly praised him with eulogies.
51-54. Nārada and others with their hands glittering with lutes sang (the praise of) the dark Rāma, of beautiful eyes and holding a deer’s horn. Celestial nymphs like Ghṛtācī and Menakā danced there. Vedas , being embodied, stood by Rāghava , full of all charm, and giver of whatever things (i.e. everything), and giver of pleasures to his devotees. Seeing this and other (things), he whose knowledge was destroyed by the curse of a brāhmaṇa, while getting up, regained consciousness, and said: “What have I seen?”
55-58a. Having got up, he, having a retinue of a crore of servants, and surrounded by a crore of chariots went on foot to the feet of Śatrughna. Having called Suketu, so also Vicitra and Damana who were ready to fight, he, who was familiar with law, warded them off. The great, righteous king, endowed with piety said to them: “O brother, O sons, listen to my words possessed of virtue. Now immediately stop fighting.
58b-67. Great unfairness has taken place, since you, O Damana, seized the excellent horse of Rāmacandra. This Rāma is the highest Brahman and is beyond effect and cause. He is the lord of the mobile and the immobile world. He has taken up a human form. I have now perceived this knowledge of Brahman. I, the innocent one, was formerly deprived of the wealth of my knowledge due to the curse of Asitāṅga . Formerly I had gone on a pilgrimage with a desire to know the true nature (of Brahman). There I saw many sages most familiar with religion. With a desire to know (Brahman) I went to see the sage Asitāṅga. Then the brāhmaṇa, showing favour to me said to me: “He, who is the lord of Ayodhyā, is known by the term Para Brahman (the highest Brahman). She who is his queen Jānakī , is said to be actually full of pure intelligence. The meditating sages, desiring to cross the boundless ocean of the worldly existence, difficult to be crossed, directly wait upon him by means of restraints etc. He whose banner is Garuḍa , removes great sins, merely when he is remembered. That wise (man) who waits upon him, will cross the mundane existence.” Then I laughed at the brāhmaṇa (and said): “Who is he? Rāma is just a man. Who is that queen Jānakī who is full of joy and sorrow? How can a birthless one be born? What here is the act of a nondoer, which is beyond birth, death and old age? O sage, tell it to me.”
68-75. The best sage, getting angry with me who spoke like this, cursed me: “O meanest among the mean, not knowing the (true) nature of him, you are replying (i.e. speaking) to me. Laughing, you are censuring Rāma, (by saying that) he is a human being. Therefore, you who do not know the truth, are (just) feeding your belly (i.e. you are selfish).” Then I clasped his feet. Then he, the ocean of pity, seeing my modesty, spoke to me with kindness: “O king, when you will create an obstacle in Rama ’s sacrifice, then Hanūmat will forcibly strike you (with) his foot. Then you will realise the truth, not otherwise (simply) due to your desire.” Formerly he told me like this. Now I have seen (i.e. realised) it. When the angry Hanūmat struck me on my chest, I saw Ramā ’s (i.e. Lakṣmī ’s) lord, of the nature of the perfect Brahman. Therefore, the very mighty one should bring the horse, rich in beauty, so also wealth and garments. I shall give my kingdom (to Rāma). Seeing Rāma in the sacrifice giving great merit, I shall be blessed. Let them bring the horse. I l ike to hand him over (to Rāma).”
Complete chapter-aligned witnesses. Sanskrit Wikisource page 43688, revision 335925 (2022-04-16T15:12:01Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365339.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.