Skip to main content

Uttara-khaṇḍa · Chapter 11

Chapter 11

Unit 423 of 693Uttara-khaṇḍa · Chapter 11Uttara-khaṇḍa · Chapter 111 source entries

Uttara-khaṇḍa · Chapter 11

Source

नारद उवाच- अथ जालंधरो दूतवचः श्रुत्वा प्रतापवान् । सर्वसैन्यं समाहूय प्रयाणमकरोत्तदा । ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः १। सस्त्रीन्मन्दरकंदरेषु शयितानुत्थापयन्किन्नरान् । मेरोर्मंदरकंदरे प्रतिरवानुत्थापयन्वारणान् । सिहानां च ततीर्व्यमुंचत पुरःपंथानमेवंविधस्त्रै। लोक्यं बधिरीचकार महतः सैन्यस्य कोलाहलः २। ततो दुंदुभिनादोऽभूत्पीठे जालंधरे नृप । तन्निनादेन शूराणां प्रियेण महता तदा ३। कंपंति गिरयस्तुंगाः प्रासादा विचलंति च । सप्तसागरगर्भेभ्यो निःसृता दैत्यदानवाः ४। सन्नद्धाश्चातिगर्जंति नानावाहनसंयुताः । हेषा ययौ महानादा वाजिनां बाह्यतः पुरः ५। रथांगेनाथ संहृष्टा धरां संचलतेऽथवा । चालितैर्गजयूथैश्च पृथ्वी रुद्धा सकानना ६। जालंधरेरितैर्भीमैरयुतैः स्यंदनस्थितैः । अश्वार्बुदसहस्रे द्वे अर्बुदं दंतिनामपि ७। रराज सैन्यलक्षैकं रथिनां सपताकिनाम् । परार्द्धनवतिः कोट्यः दृश्यंते मुख्यनायकाः । निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् ८। आसीत्पिंजरपांडुपंकजवनं श्वेतातपत्रैः क्वचित् । मायूरातपवारणैः क्वचिदभूतदुन्नीलनीलोत्पलम् । उन्मेघं क्वचिदूर्ध्वधूलिपटलैर्यस्य प्रयाणेऽभवत् । सद्वीचि क्वचिदंबरं सर इवोत्सर्पत्पताकापटैः ९। गजवाजीमयी भूमिर्ध्वजच्छत्रमयं नभः । दिक्चक्रं चामरमयं दैत्यसैन्ये प्रसर्पति १०। ततो जालंधरो दैत्यः प्रयाणाय समुत्सुकः । स्कंधे चारोपयन्शक्तिं नानारत्नविभूषिताम् ११। आजगाम महाविष्णुं प्रष्टुं सागरवासिनम् । अभिवाद्य जगादाथ हरिं जालंधरस्त्विदम् १२। भोगार्थां किं प्रयच्छामि तुभ्यं भावुक कथ्यताम् । श्रुत्वा नारायणो वाक्यमब्धिजस्य मुदान्वितः १३। उवाच किं करोमीति प्रियं सिंधुसुतेप्सितम् । इत्युक्तः स प्रहृष्टोऽथ हरिं प्रोवाच सत्वरः १४। यामि योद्धुं रणेऽहं त्वं सुखी तिष्ठेह सागरे । लक्ष्म्या दत्ताक्षतस्तत्र केशवेनाथ पूजितः १५। स निर्गत्य हरेः स्थानात्समुद्रं प्रष्टुमागतः । सोऽर्णवं प्रणिपत्याह तात यास्यामि दूरतः १६। नीलकंठं रणे जेतुमनुज्ञां दातुमर्हसि । पुत्रस्य वचनं श्रुत्वा यियासोः शंकरं प्रति १७। सिंधुराजेन सोऽप्युक्तः पुत्र तं तापसं त्यज । भुंक्ष्व राज्यं मया दत्तं तापसं त्यज दूरतः १८। अत्यद्भुतः प्रतापस्ते त्वत्तुल्यो नास्ति भूमिपः । स्वर्गादाधिक्यतां नीतं त्वया वत्स धरातलम् १९। तव राज्येव सुमती वैकुंठ इव राजते । यो देवो दुर्जयो दैत्यैरानीतः सह सश्रिया २०। ममांतिकं वत्स वस शंकरं भिक्षुकं त्यज । एवमुक्तो ह्यर्णवेन गिरिजां प्रति रागवान् २१। पितृवाक्यमविज्ञाय आगत्य स्वभटान्स्वकान् । सज्जीभूतं तु युद्धाय वृंदा जालंधरं जगौ २२। वृंदोवाच। नाथ युद्धं न कर्तव्यं राजेंद्र कुत्सयोगिना । मनो निवर्त्यतां पश्य प्रवृत्तं पार्वतीं प्रति २३। गौरीं त्वं वांछसि कस्मात्पार्वती किं ममाधिका । तपस्विनी निरालंबा संसक्ता स्थाणवे सदा २४। सुतानुरागिणी वंध्या ततः कृत्रिमपुत्रिका । वृथास्तुता नारदेन तां त्यजस्व भजस्व माम् २५। इति वृंदावचः श्रुत्वा प्रत्युवाचार्णवात्मजः । अदृष्ट्वा पार्वतीरूपं मच्चेतो न निवर्तते २६। वृंदे त्वया जनपदो राजधानी प्रपाल्यताम् । स्मर्तव्योऽहं सदा चंडि यदि मां हंति शंकरः २७। इति भर्तृवचः श्रुत्वा वृंदा हाससमन्विता । जगाम शिबिकारूढा पीठं जालंधरं तदा २८। नारद उवाच-। अथ प्रतस्थे कैलासं सिंधुसूनुर्महाबलः । महापद्मसहस्राणां षष्ट्या सैन्येन संवृतः २९। अत्रांतरे परित्यज्य कैलांसं शंकरो गतः । गणपुत्रप्रियायुक्तः कैलासं मानसोत्तरम् ३०। जालंधरस्ततः प्राप्तः कैलासं प्रथमेऽहनि । सेनाः संस्थाप्य कैलास आलोकनकुतूहली ३१। दिव्यकेसरमंदाररजःपुंज परिश्रिताः । शीतांबुशीकरासारैः प्रभुग्ना वांति वायवः ३२। यत्र सिद्धांगना पीनस्तनोत्तुंगतरंगिणः । मंदारमकरंदाढ्याः सुंदरा वांति वायवः ३३। यत्राशोकरुचिस्निग्धपादन्यासं च योषिताम् । विलोक्य दानवेंद्रोभून्मनोरथसमाकुलः ३४। प्राप्नुवंति सुराः प्रीतिं स्वबिंबालोकहर्षिताः । यत्र किन्नरकांतानां सुरतव्यंजितप्रभाः ३५। विभांति सर्वतस्तत्र मंदाराः शीर्णपल्लवाः । यत्र शंभुगणाक्रांता नानावेलाकुलद्रुमाः ३६। भांति मन्मथभूपाल यशसा सुधृता इव । यत्र चंदनकस्तूरी गंधोन्मत्तालिसंचयाः । विभांति दग्धकंदर्प्प निर्वाणांगारसन्निभाः ३७। यत्रांगनानां सकलं विलोक्य सौरभ्यमत्युत्तमकांतिमित्रम् । मन्ये परिष्वक्तमनोविनोदा कस्तूरिका गाहति कालिमानम् ३८। क्वचित्प्रवरगैरिकासमसमुल्लसत् पंकजं लवंगदलसन्निभासनचलच्चकोरं क्वचित् । क्वचिद्गिरिसरित्तटीतरणिवत्स्फुरत्कुंडलं चलन्निचुलमंजरीविनयनम्रभृंगं क्वचित् ३९। क्वचिद्दलितकोकिलाकुलितनूत्नचूतांकुरं कुरंगकुलसेवितं प्रबलशालिमूलं क्वचित् । क्वचित्प्रवरसुंदरैः सुरवधूपदैः पावनं वनं नयति विक्रियामिह मनो मुनीनामपि ४०। एवंगुणसमायुक्तं विलोक्य हरमंदिरम् । विचित्रं चापि कैलासं सर्वरत्नसमाश्रयम् ४१। अत्यंतविस्मितो दैत्यः प्रोवाच भृगुनंदनम् । कस्मात्तं तापसं तात प्रवदंति भवादृशाः ४२। तादृशी यस्य सा भार्या गृहमीदृङ्मनोहरम् । तत्रादृष्ट्वावदच्छंभुं हरः कुत्र गतः कवे ४३। कथं मम भयाच्चेति पृष्टः प्रोवाच भार्गवः । देवशंभुर्महाशैलमगम्यं मानसोत्तरम् ४४। ययौ तत्र महादेवो गंतुं चान्यैर्न शक्यते । इति काव्यवचः श्रुत्वा प्राह दैत्यो महाबलः ४५। जालंधर उवाच-। अहं यास्यामि देवेशं त्वं पुरा गच्छ भार्गव । इत्युक्त्वा प्रययौ तत्र यत्रास्ते शंकरः स्वयम् ४६। अपश्यत्तं गिरिवरं सिंधुजो मानसोत्तरम् । तस्य षष्टिसहस्राणि योजनानां समुच्छ्रयः ४७। स शैलो मानसो राजन्दैत्यसैन्यैः समावृतः । बहवो दैत्यराजानः शैलमारुरुहुर्द्रुतम् ४८। छत्रांधकारं पर्यासीत्वाद्यनादेन वेपथुः । सैन्यकोलाहलस्तेषां पूरयामास रोदसी ४९। नारद उवाच-। अथैवमागतं दृष्ट्वा दैत्यसैन्यं महत्तदा । अत्युच्चे स गिरेः शृंगे स्थाप्य गौरीं सखीवृताम् 6.11.५०। भगवांश्च गणैः सर्वैः सन्नद्धैर्युद्धदुर्मदैः । त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः ५१। उवाच नंदिनं शंभुर्गणानामधिपं त्वया । प्रहर्तव्यो महादैत्यो वीरो जालंधरो रणे ५२। महाकालादिभिः शूरैर्याहि त्वं परिवारितः । तावदाजौ त्वया तस्माद्योद्धव्यमतिपौरुषात् ५३। यावद्युद्धे नारिजयो मम वीर भविष्यति । इति शंभोर्वचः श्रुत्वा स च सारथिमब्रवीत् ५४। काकतुंडरथं मेऽद्य समानय महामते । नंदिनो वचनं श्रुत्वा सोपि स्यंदनमाहरत् ५५। द्वात्रिंशदश्वसंयुक्तं चक्रषोडशसंयुतम् । षष्टिध्वजसमोपेतं द्वात्रिंशद्योजनायुतम् ५६। सर्वशस्त्रैश्च संपूर्णं प्राप्तं सांग्रामिकं रथम् । नंदिनश्चक्ररक्षार्थं पुत्रौ स्कंदविनायकौ ५७। समादिष्टौ शंकरेण सन्नद्धौ तौ स्ववाहनौ । गणैः परिवृतो नंदी वाग्भिः संपूज्य चेश्वरम् ५८। नंदी रथं समारुह्य निर्ययौ दानवान्प्रति । विराजते तस्य मूर्ध्नि छत्रं द्वादशयोजनम् ५९। यावत्स निर्ययौ नंदी तावत्ते दानवाः पुरः । शैलोपरि समारूढा दानवा घोरदर्शनाः ६०। गणानामायुधैस्तीक्ष्णैः निहताः पतिता भुवि । हन्यमाना गणैर्दैत्यास्तत्यजुर्दूरतो गिरिम् ६१। ततो धूमसमं तस्मादवरुह्य शिलोच्चयात् । जघ्नुर्दैत्यान्शितैः शस्त्रैर्गणा राजन्महाबलान् ६२। अमरैराचितं दृष्ट्वा रुरुधुर्दैत्यसैनिकाः । ततः समभवद्युद्धं गणानां दानवैः सह ६३। शरवर्षमथात्युग्रं दानवानां दिवौकसाम् । ततः समस्तान्मातंगाञ्जघ्नुः शिखिमुखा रणे ६४। रथान्हयान्पदातींश्च काकतुंडा महाबलाः । हतानां दैत्यसंघांनां संगरे भृशमायिनाम् ६५। शिरोभिर्गगनं व्याप्तं प्रहसद्भिर्भयावहैः । मुक्तकेशारुणमुखैर्भीमदंष्ट्राविलोचनैः ६६। सिंहैः कबंधजंघोरुकटिपृष्ठनिकृंतनैः । चिता सर्वत्र वसुधा कबंधैरुधिरारुणैः ६७। ततो विरावः सुमहान्बभूव दैत्येश्वराणां ध्वजिनीषु धावताम् । शंभोर्गणैः पातितसैनिकानां यथार्णवानां नदतां युगक्षये ६८। इति श्रीपाद्मे महापुराणे पंचाशत्सहस्रसंहितायामुत्तरखंडे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने दैत्यसैन्यपराजयोनाम एकादशोऽध्यायः ११।

nārada uvāca- atha jālaṃdharo dūtavacaḥ śrutvā pratāpavān | sarvasainyaṃ samāhūya prayāṇamakarottadā | tatastataḥ sametānāṃ sainyānāṃ śrūyate dhvaniḥ 1| sastrīnmandarakaṃdareṣu śayitānutthāpayankinnarān | merormaṃdarakaṃdare pratiravānutthāpayanvāraṇān | sihānāṃ ca tatīrvyamuṃcata puraḥpaṃthānamevaṃvidhastrai| lokyaṃ badhirīcakāra mahataḥ sainyasya kolāhalaḥ 2| tato duṃdubhinādo'bhūtpīṭhe jālaṃdhare nṛpa | tanninādena śūrāṇāṃ priyeṇa mahatā tadā 3| kaṃpaṃti girayastuṃgāḥ prāsādā vicalaṃti ca | saptasāgaragarbhebhyo niḥsṛtā daityadānavāḥ 4| sannaddhāścātigarjaṃti nānāvāhanasaṃyutāḥ | heṣā yayau mahānādā vājināṃ bāhyataḥ puraḥ 5| rathāṃgenātha saṃhṛṣṭā dharāṃ saṃcalate'thavā | cālitairgajayūthaiśca pṛthvī ruddhā sakānanā 6| jālaṃdhareritairbhīmairayutaiḥ syaṃdanasthitaiḥ | aśvārbudasahasre dve arbudaṃ daṃtināmapi 7| rarāja sainyalakṣaikaṃ rathināṃ sapatākinām | parārddhanavatiḥ koṭyaḥ dṛśyaṃte mukhyanāyakāḥ | nirjagāma mahāsainyaṃ chatraiḥ saṃchādya bhāskaram 8| āsītpiṃjarapāṃḍupaṃkajavanaṃ śvetātapatraiḥ kvacit | māyūrātapavāraṇaiḥ kvacidabhūtadunnīlanīlotpalam | unmeghaṃ kvacidūrdhvadhūlipaṭalairyasya prayāṇe'bhavat | sadvīci kvacidaṃbaraṃ sara ivotsarpatpatākāpaṭaiḥ 9| gajavājīmayī bhūmirdhvajacchatramayaṃ nabhaḥ | dikcakraṃ cāmaramayaṃ daityasainye prasarpati 10| tato jālaṃdharo daityaḥ prayāṇāya samutsukaḥ | skaṃdhe cāropayanśaktiṃ nānāratnavibhūṣitām 11| ājagāma mahāviṣṇuṃ praṣṭuṃ sāgaravāsinam | abhivādya jagādātha hariṃ jālaṃdharastvidam 12| bhogārthāṃ kiṃ prayacchāmi tubhyaṃ bhāvuka kathyatām | śrutvā nārāyaṇo vākyamabdhijasya mudānvitaḥ 13| uvāca kiṃ karomīti priyaṃ siṃdhusutepsitam | ityuktaḥ sa prahṛṣṭo'tha hariṃ provāca satvaraḥ 14| yāmi yoddhuṃ raṇe'haṃ tvaṃ sukhī tiṣṭheha sāgare | lakṣmyā dattākṣatastatra keśavenātha pūjitaḥ 15| sa nirgatya hareḥ sthānātsamudraṃ praṣṭumāgataḥ | so'rṇavaṃ praṇipatyāha tāta yāsyāmi dūrataḥ 16| nīlakaṃṭhaṃ raṇe jetumanujñāṃ dātumarhasi | putrasya vacanaṃ śrutvā yiyāsoḥ śaṃkaraṃ prati 17| siṃdhurājena so'pyuktaḥ putra taṃ tāpasaṃ tyaja | bhuṃkṣva rājyaṃ mayā dattaṃ tāpasaṃ tyaja dūrataḥ 18| atyadbhutaḥ pratāpaste tvattulyo nāsti bhūmipaḥ | svargādādhikyatāṃ nītaṃ tvayā vatsa dharātalam 19| tava rājyeva sumatī vaikuṃṭha iva rājate | yo devo durjayo daityairānītaḥ saha saśriyā 20| mamāṃtikaṃ vatsa vasa śaṃkaraṃ bhikṣukaṃ tyaja | evamukto hyarṇavena girijāṃ prati rāgavān 21| pitṛvākyamavijñāya āgatya svabhaṭānsvakān | sajjībhūtaṃ tu yuddhāya vṛṃdā jālaṃdharaṃ jagau 22| vṛṃdovāca| nātha yuddhaṃ na kartavyaṃ rājeṃdra kutsayoginā | mano nivartyatāṃ paśya pravṛttaṃ pārvatīṃ prati 23| gaurīṃ tvaṃ vāṃchasi kasmātpārvatī kiṃ mamādhikā | tapasvinī nirālaṃbā saṃsaktā sthāṇave sadā 24| sutānurāgiṇī vaṃdhyā tataḥ kṛtrimaputrikā | vṛthāstutā nāradena tāṃ tyajasva bhajasva mām 25| iti vṛṃdāvacaḥ śrutvā pratyuvācārṇavātmajaḥ | adṛṣṭvā pārvatīrūpaṃ macceto na nivartate 26| vṛṃde tvayā janapado rājadhānī prapālyatām | smartavyo'haṃ sadā caṃḍi yadi māṃ haṃti śaṃkaraḥ 27| iti bhartṛvacaḥ śrutvā vṛṃdā hāsasamanvitā | jagāma śibikārūḍhā pīṭhaṃ jālaṃdharaṃ tadā 28| nārada uvāca-| atha pratasthe kailāsaṃ siṃdhusūnurmahābalaḥ | mahāpadmasahasrāṇāṃ ṣaṣṭyā sainyena saṃvṛtaḥ 29| atrāṃtare parityajya kailāṃsaṃ śaṃkaro gataḥ | gaṇaputrapriyāyuktaḥ kailāsaṃ mānasottaram 30| jālaṃdharastataḥ prāptaḥ kailāsaṃ prathame'hani | senāḥ saṃsthāpya kailāsa ālokanakutūhalī 31| divyakesaramaṃdārarajaḥpuṃja pariśritāḥ | śītāṃbuśīkarāsāraiḥ prabhugnā vāṃti vāyavaḥ 32| yatra siddhāṃganā pīnastanottuṃgataraṃgiṇaḥ | maṃdāramakaraṃdāḍhyāḥ suṃdarā vāṃti vāyavaḥ 33| yatrāśokarucisnigdhapādanyāsaṃ ca yoṣitām | vilokya dānaveṃdrobhūnmanorathasamākulaḥ 34| prāpnuvaṃti surāḥ prītiṃ svabiṃbālokaharṣitāḥ | yatra kinnarakāṃtānāṃ suratavyaṃjitaprabhāḥ 35| vibhāṃti sarvatastatra maṃdārāḥ śīrṇapallavāḥ | yatra śaṃbhugaṇākrāṃtā nānāvelākuladrumāḥ 36| bhāṃti manmathabhūpāla yaśasā sudhṛtā iva | yatra caṃdanakastūrī gaṃdhonmattālisaṃcayāḥ | vibhāṃti dagdhakaṃdarppa nirvāṇāṃgārasannibhāḥ 37| yatrāṃganānāṃ sakalaṃ vilokya saurabhyamatyuttamakāṃtimitram | manye pariṣvaktamanovinodā kastūrikā gāhati kālimānam 38| kvacitpravaragairikāsamasamullasat paṃkajaṃ lavaṃgadalasannibhāsanacalaccakoraṃ kvacit | kvacidgirisarittaṭītaraṇivatsphuratkuṃḍalaṃ calanniculamaṃjarīvinayanamrabhṛṃgaṃ kvacit 39| kvaciddalitakokilākulitanūtnacūtāṃkuraṃ kuraṃgakulasevitaṃ prabalaśālimūlaṃ kvacit | kvacitpravarasuṃdaraiḥ suravadhūpadaiḥ pāvanaṃ vanaṃ nayati vikriyāmiha mano munīnāmapi 40| evaṃguṇasamāyuktaṃ vilokya haramaṃdiram | vicitraṃ cāpi kailāsaṃ sarvaratnasamāśrayam 41| atyaṃtavismito daityaḥ provāca bhṛgunaṃdanam | kasmāttaṃ tāpasaṃ tāta pravadaṃti bhavādṛśāḥ 42| tādṛśī yasya sā bhāryā gṛhamīdṛṅmanoharam | tatrādṛṣṭvāvadacchaṃbhuṃ haraḥ kutra gataḥ kave 43| kathaṃ mama bhayācceti pṛṣṭaḥ provāca bhārgavaḥ | devaśaṃbhurmahāśailamagamyaṃ mānasottaram 44| yayau tatra mahādevo gaṃtuṃ cānyairna śakyate | iti kāvyavacaḥ śrutvā prāha daityo mahābalaḥ 45| jālaṃdhara uvāca-| ahaṃ yāsyāmi deveśaṃ tvaṃ purā gaccha bhārgava | ityuktvā prayayau tatra yatrāste śaṃkaraḥ svayam 46| apaśyattaṃ girivaraṃ siṃdhujo mānasottaram | tasya ṣaṣṭisahasrāṇi yojanānāṃ samucchrayaḥ 47| sa śailo mānaso rājandaityasainyaiḥ samāvṛtaḥ | bahavo daityarājānaḥ śailamāruruhurdrutam 48| chatrāṃdhakāraṃ paryāsītvādyanādena vepathuḥ | sainyakolāhalasteṣāṃ pūrayāmāsa rodasī 49| nārada uvāca-| athaivamāgataṃ dṛṣṭvā daityasainyaṃ mahattadā | atyucce sa gireḥ śṛṃge sthāpya gaurīṃ sakhīvṛtām 6.11.50| bhagavāṃśca gaṇaiḥ sarvaiḥ sannaddhairyuddhadurmadaiḥ | triṃśanmahābjasāhasraiḥ pramathānāṃ vṛtaḥ śivaḥ 51| uvāca naṃdinaṃ śaṃbhurgaṇānāmadhipaṃ tvayā | prahartavyo mahādaityo vīro jālaṃdharo raṇe 52| mahākālādibhiḥ śūrairyāhi tvaṃ parivāritaḥ | tāvadājau tvayā tasmādyoddhavyamatipauruṣāt 53| yāvadyuddhe nārijayo mama vīra bhaviṣyati | iti śaṃbhorvacaḥ śrutvā sa ca sārathimabravīt 54| kākatuṃḍarathaṃ me'dya samānaya mahāmate | naṃdino vacanaṃ śrutvā sopi syaṃdanamāharat 55| dvātriṃśadaśvasaṃyuktaṃ cakraṣoḍaśasaṃyutam | ṣaṣṭidhvajasamopetaṃ dvātriṃśadyojanāyutam 56| sarvaśastraiśca saṃpūrṇaṃ prāptaṃ sāṃgrāmikaṃ ratham | naṃdinaścakrarakṣārthaṃ putrau skaṃdavināyakau 57| samādiṣṭau śaṃkareṇa sannaddhau tau svavāhanau | gaṇaiḥ parivṛto naṃdī vāgbhiḥ saṃpūjya ceśvaram 58| naṃdī rathaṃ samāruhya niryayau dānavānprati | virājate tasya mūrdhni chatraṃ dvādaśayojanam 59| yāvatsa niryayau naṃdī tāvatte dānavāḥ puraḥ | śailopari samārūḍhā dānavā ghoradarśanāḥ 60| gaṇānāmāyudhaistīkṣṇaiḥ nihatāḥ patitā bhuvi | hanyamānā gaṇairdaityāstatyajurdūrato girim 61| tato dhūmasamaṃ tasmādavaruhya śiloccayāt | jaghnurdaityānśitaiḥ śastrairgaṇā rājanmahābalān 62| amarairācitaṃ dṛṣṭvā rurudhurdaityasainikāḥ | tataḥ samabhavadyuddhaṃ gaṇānāṃ dānavaiḥ saha 63| śaravarṣamathātyugraṃ dānavānāṃ divaukasām | tataḥ samastānmātaṃgāñjaghnuḥ śikhimukhā raṇe 64| rathānhayānpadātīṃśca kākatuṃḍā mahābalāḥ | hatānāṃ daityasaṃghāṃnāṃ saṃgare bhṛśamāyinām 65| śirobhirgaganaṃ vyāptaṃ prahasadbhirbhayāvahaiḥ | muktakeśāruṇamukhairbhīmadaṃṣṭrāvilocanaiḥ 66| siṃhaiḥ kabaṃdhajaṃghorukaṭipṛṣṭhanikṛṃtanaiḥ | citā sarvatra vasudhā kabaṃdhairudhirāruṇaiḥ 67| tato virāvaḥ sumahānbabhūva daityeśvarāṇāṃ dhvajinīṣu dhāvatām | śaṃbhorgaṇaiḥ pātitasainikānāṃ yathārṇavānāṃ nadatāṃ yugakṣaye 68| iti śrīpādme mahāpurāṇe paṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe nāradayudhiṣṭhirasaṃvāde jālaṃdharopākhyāne daityasainyaparājayonāma ekādaśo'dhyāyaḥ 11|

English translation

Nārada said :

1-4a. Then valorous Jālandhara , having heard the words of his messenger, called his entire army, and made a march (against Śiva ). Then the sound of the armies that had gathered (there) was heard. It awakened the kinnaras resting, along with their wives, in the caves of Mandara . It made rise the elephants having echoes in the caves of Meru and Mandara. The flocks of lions lost their way ahead. Thus the din of the great army deafened the three worlds. Then, O king, in the seat of Jālandhara there was the sound of drums. Due to that great sound, dear to the brave, the high mountains trembled and the palaces shook.

4b-8a. From the interior of the seven oceans the daityas and dānavas (i.e. the demons) moved out. They being ready and endowed with various vehicles roared. The neighings of the horses and great sounds were (heard) outside and in front. The earth (as it were) pleased with the wheels (of the chariot) moved. With the herds of elephants that were driven the earth along with the forest was blocked up by the myriads of fierce (warriors) urged on by Jālandhara and remaining in the chariots. There were two thousand hundred millions of horses and one hundred millions of elephants. An army consisting of one lakh chariot-warriors shone (there) and ninety crore parārdhas of chief leaders were seen.

8b-13a. The huge army, covering the sun with umbrellas moved out. At places the lotus-ponds were yellowish like gold. At places blue lotuses appeared due to the peacocks’ keeping off the sun. At places the clouds appeared to rise due to the masses of dust when he marched. At places due to the cloths of the banners the sky was full of banners and umbrellas; the quarters were full of chowries when the army of the demons moved on. Then the demon Jālandhara was eager to march. Putting the (missile called) Śakti , decorated with many gems, he came to great Viṣṇu , living in the Ocean, to inquire (i.e. to take his leave). Having saluted Viṣṇu, Jālandhara said these words: “O my sister’s husband, what should I give you for enjoyment? Tell me (that)”

13b-16a. Hearing these words of Oceans’s son, Viṣṇu, being delighted, said: “What should I do as desired by and dear to the Ocean’s son?” Thus addressed, he, being delighted, quickly replied to Viṣṇu: “I am going to the battlefield. You live here happily in the Ocean.” There he was given sacred grains by Lakṣmī , and was honoured by Viṣṇu. Moving out from Viṣṇu’s place, he came to the Ocean to inquire (i.e. to take his leave).

16b-22. Having saluted the Ocean, he said: “O father, I am going away to conquer Śiva in the battle. Please allow me.” Hearing the words of his son who was going to (march against) Śiva, the lord of oceans also said to him: “O son, leave that ascetic (alone). Enjoy the kingdom given by me, and leave the ascetic away. Your valour is very wonderful; there is no king like you. You have made the earth superior to heaven. The earth shines in your kingdom as in Vaikuṇṭha . The god, unconquerable by demons, whom you have brought (lives here) with Lakṣmī. O child, live by me. Leave alone that mendicant, Śiva.” (Though) told like this by the Ocean, he (i.e. Jālandhara), having attachment for Pārvatī , disregarded his father’s words, and came to his own -soldiers. Vṛndā spoke to Jālandhara who was ready to fight.

Vṛndā said :

23-28. O lord of kings, you should not fight with the condemned meditating saint. Turning away your mind going to Pārvatī, look at (i.e. think of) her. Why do you long for Pārvatī? Is Pārvatī superior to me? The poor one is without any support. She is always attached to Śiva. She longs for a son. She is barren. So she is a doll. In vain was she praised by Nārada . Give up (thoughts about) her, and enjoy me.”

Hearing these words ofVṛndā, the Ocean’s son (i.e. Jālandhara) replied: “Without seeing Pārvatī’s beauty my mind will not turn back. O Vṛndā, you look after the country and the capital. O angry woman, you should always remember me, if Śiva kills me.” Hearing these words of her husband, Vṛndā, laughing, went, after getting into a palanquin, to the seat of Jālandhara.

Nārada said :

29-40. Then the very mighty son of the Ocean proceeded to Kailāsa . He was surrounded by sixty thousand mahāpadma soldiers. In the meanwhile, Śiva, leaving Kailāsa, went, along with his attendants, his sons and his dear wife, to (that part of) Kailāsa to the north of the Mānasa (lake). Then on the first day Jālandhara reached Kailāsa. Setting his army there, he was eager to see Kailāsa. There the breezes to which the masses of the divine filaments and the pollen of mandāra (flowers) had resorted, and which were broken by the showers of the sprays of cold drops, blew. Charming breezes, high like the stout breasts of the siddha women, and rich with the honey of mandāra, blew there. Seeing there the planting of their feet by ladies bright and glossy like the aśoka (-flowers), the lord of the demons became full of the sexual desire. The gods there delighted at seeing their own reflections were pleased. There, the mandāra (trees) with their sprouts withered, shone everywhere, after having manifested the coitus of the kinnara lovers. There the groves of many trees were occupied by the attendants of Śambhu . They appeared to be as it were well sustained by king Cupid. There the swarms of bees intoxicated by the fragrance of sandal and musk appeared like the charcoals of the burnt Cupid, that were put out. There, I think, having seen the entire beauty of the charming ladies, the friend of (i.e. resembling) excellent beauty, musk gave up the amusement of its mind, and plunged into blackness. At places there were lotuses shining like excellent red chalk. At places there were buds moving from their stems resembling the cloveshoot. At places there were bracelets shining like rafts on the mountain-streams. At places there were bees bowing through the humility of the nicula (a kind of reed) blossoms. At places there were fresh mango blossoms, burst and affected by cuckoos. At places there were the strong roots of the śāli rice, resorted to by herds of deer. At places there were groves sanctified by the extremely beautiful young married divine ladies, which caused a change even in the minds of sages.

41-45. On seeing the abode of Śiva, having these qualities, and the beautiful Kailāsa, the abode of all gems, the demon who was extremely amazed, said to Śukra (the son of Bhṛgu ): “O dear one, why do (people) like you call him a sage whose wife is (so beautiful) like that and whose house is so charming?” Not seeing Śiva there, he asked (Śukra): “O Śukra, where has Śiva gone? How is it that he has gone due to my fear? (i.e. has he gone through my fear)?” Thus asked, Śukra said: “The great god, lord Śiva, has gone to that (part of the) great mountain to the north of Mānasa. Others cannot go there.” Hearing these words of Śukra, the very mighty demon said:

Jālandhara said :

46-49. I shall go to the lord of gods. You go first, O Śukra.

Saying so he went where Śiva himself remained. The son of the Ocean saw that excellent (part of) the mountain to the north of the Mānasa (lake). Its height was sixty thousand yojanas . That (part of) the mountain called Mānasa was, O king, surrounded by the army of the demon (Jālandhara). Many lordly demons quickly went up the mountain. There was, all round, darkness due to the umbrellas. There was a tremor due to the sound of the musical instruments. The din of their army filled the heaven and the earth.

Nārada said :

50-60. Seeing the huge army that came there, the lord kept Pārvatī, surrounded by her friends, on a very high peak of the mountain. Lord Śiva was surrounded by all his attendants who were ready (to fight) and were maddened by the fighting (spirit), so also by pramathas (i.e. the goblins attending upon Śiva) numbering thirty thousand mahābjas. Śiva said to Nandin , the chief of the attendants: “You should kill the brave, great demon Jālandhara, in the battle. Being surrounded by brave (warriors) like Mahākāla and others you go (to the battlefield). In the battle, you should fight very bravely as long as my enemy is not conquered, O hero.” Hearing these words of Śiva, he said to his charioteer: “O very intelligent Kākatuṇḍa , bring my chariot today (i.e. now).” Hearing the words of Nandin, he too brought the chariot. That chariot used in battles, to which thirty-two horses were yoked, which had sixteen wheels, which had sixty flags, which was thirty yojanas long, which was full of all weapons, came (there). Śiva ordered his two sons, Kārtikeya and Gajānana to protect Nandin’s troops. They were ready with their vehicles. Nandin was surrounded by the attendants. Nandin, having honoured the lord with words, got into his chariot, and went out to (fight with) the demons. On his head shone an umbrella (of the measure) of twelve yojanas. When that Nandin went out, the demons first climbed up the mountain. The fierce-looking demons, fell on the ground.

61-68. The demons, being struck by the attendants left the mountain (and went) far away. Then coming down like smoke from the mountain the attendants struck the very powerful demons with sharp weapons. Seeing the (mountain) filled with the divinities, the demon-soldiers blocked it up. Then a great war of the attendants took place with the demons. A fierce shower of arrows was (sent by) the demons and gods. Then, the very mighty Kākatuṇḍa and others, with fire-like faces, killed all the elephants in the battle, so also (they destroyed) chariots and (killed) horses and footsoldiers. With the loudly laughing and fearful heads of the hosts of very deceitful demons killed (in the battle), the sky was filled. So also with lions, with hair let loose, having tawny faces, fierce fangs and eyes, and cutting off trunks, shanks, thighs, waists and backs. Everywhere the earth was filled with trunks tawny due to blood. Then, a very great noise was made by the lordly demons who were running in chariots, and whose soldiers were knocked down, like that of the oceans roaring at the time of the end of a yuga (i.e. the end of the world).

Complete chapter-aligned witnesses. Sanskrit Wikisource page 44600, revision 336256 (2022-04-20T15:13:26Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365442.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.