Skip to main content

Sṛṣṭi-khaṇḍa · Chapter 8

Chapter 8

Unit 8 of 693Sṛṣṭi-khaṇḍa · Chapter 8Sṛṣṭi-khaṇḍa · Chapter 81 source entries

Sṛṣṭi-khaṇḍa · Chapter 8

Source

भीष्म उवाच। बहुभिर्द्धरणी भुक्ता भूपालैः श्रूयते पुरा। पार्थिवाः पृथिवीयोगात्पृथिवी कस्य योगतः१। किमर्थं च कृता संज्ञा भूमेस्सा पारिभाषिकी। गौरितीयं च संज्ञा वा भुवः कस्माद्ब्रवीहि मे२। पुलस्त्य उवाच। पुरा कृतयुगस्यासीदंगो नाम प्रजापतिः। मृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी३। सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा। अधर्मनिरतः कामी बलवान्वसुधाधिपः४। लोकस्याधर्मकृच्चापि परभार्यापहारकः। अथ तस्य प्रसिद्यर्थं जगदर्थं महर्षिभिः५। अनुनीतोपि न ददावशुद्धात्माऽभयं ततः। शापेन मारयित्वैनमराजकभयार्दिताः६। ममंथुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः। तत्कायान्मथ्यमानात्तु जनिता म्लेच्छजातयः७। शरीरे मातुरंशेन कृष्णांजनसमप्रभाः। पितुरंशस्य संगेन धार्मिको धर्मकारकः८। उत्पन्नो दक्षिणाद्धस्तात्सधनुः सशरो गदी। दिव्यतेजोमयः पुत्रस्सरत्नकवचांगदः९। पृथुरेवाभवन्नाम्ना स च विष्णुरजायत। स विप्रैरभिषिक्तः संस्तपः कृत्वा सुदुष्करं१०। विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्प्रभुः। निःस्वाध्यायवषट्कारं निर्द्धर्मं वीक्ष्य भूतलं११। वेद्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः। ततो गोरूपमास्थाय भूः पलायितुमुद्यता१२। पृष्ठे त्वन्वगमत्तस्याः पृथुः सेषुशरासनः। ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत्१३। पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते। सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च१४। तथेति चाब्रवीद्भूमिर्दुदोह स नराधिपः। स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायंभुवं मनुं१५। तदन्नमभवद्दुग्धं प्रजा जीवंति येन तु। ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत्१६। दोग्धा वाचस्पतिरभूत्पात्रं वेदस्तपो रसः। देवैश्च वसुधा दुग्धा मरुद्दोग्धा तदाभवत्१७। इन्द्रो वत्सः समभवत्क्षीरमूर्ज्जस्वलं बलं। देवानां कांचनं पात्रं पितृणां राजतं तथा१८। अंतकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः। बिलं च पात्रं नागानां तक्षको वत्सकोभवत्१९। विषं क्षीरं ततो दोग्धा धृतराष्ट्रोभवत्पुनः। असुरैरपि दुग्धेयं आयसे शत्रुपीडनम्२०। पात्रे मायामभूद्वत्सःप्राल्हादिस्तुविरोचनः। दोग्धा त्रिमूर्द्धा तत्रासीन्माया येन प्रवर्तिता२१। यक्षैश्च वसुधा दुग्धा पुरांतर्द्धानमीप्सुभिः। कृत्वा विश्वावसुं वत्सं मणिमंतं महीपते२२। प्रेतरक्षोगणैर्दुग्धा वसा रुधिरमुल्बणं। रौप्यनाभोभवद्दोग्धा सुमाली वत्स एव च२३। गंधर्वैश्च पुनर्दुग्धा वसुधा साप्सरोगणैः। वत्सं चित्ररथं कृत्वा गंधान्पद्मदले तथा२४। दोग्धावसुरुचिर्नामाथर्ववेदस्य पारगः। गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च२५। औषधानि च दिव्यानि दोग्धा मेरुर्महीधरः। वत्सोभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः२६। वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणं। पालाशपात्रे दोग्धा तु सालः पुष्पवनाकुलः२७। प्लक्षोभवत्ततो वत्सः सर्ववृक्षवनाधिपः। एवमन्यैश्च वसुधा तथा दुग्धा यथेच्छतः२८। आयुर्द्धनानि सौख्यं च पृथौ राज्यं प्रशासति। न दारिद्र्यं तथा रोगी नाधनोनचपापकृत्२९। नोपसर्गा न चाघातः पृथौ राज्यं प्रशासति। नित्यंप्रमुदितालोका दुःखशोकविवर्जिताः३०। धनुः कोट्या च शैलेंद्रानुत्सार्य स महाबलः। भूमंडलं समं चक्रे लोकानां हितकाम्यया३१। न पुरग्रामदुर्गाणि न चायुधधरा नराः। म्रियंते यत्र दुःखं च नार्थशास्त्रस्य चादरः३२। धर्मैकतानाः पुरुषाः पृथौ राज्यं प्रशासति। कथितानि च पात्राणि यत्क्षीरं च यथा तव३३। येषां येन रुचिस्तत्र तेभ्यो दत्तं विजानता। यज्ञश्रीदेषु सर्वेषु मया तुभ्यं निवेदितं३४। दुहितृत्वं गता यस्मात्पृथोः पृथ्वी महामते। तस्यानुसारयोगाच्च पृथिवी विश्रुता बुधैः३५। भीष्म उवाच। आदित्यवंशमखिलं वद ब्रह्मन्यथाक्रमं। सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि३६। पुलस्त्य उवाच। विवस्वान्कश्यपात्पूर्वमदित्यामभवत्पुरा। तस्य पत्नीत्रयं तद्वत्संज्ञा राज्ञी प्रभा तथा३७। रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतं। प्रभा प्रभातं सुषुवे त्वाष्ट्रं संज्ञा तथा मनुं३८। यमश्च यमुना चैव यमलौ च बभूवतुः। ततस्तेजोमयं रूपमसहंती विवस्वतः३९। नारीमुत्पादयामास स्वशरीरादनिंदितां। त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी४०। किंकरोमीति पुरतः संस्थितां तामभाषत। छाये त्वं भज भर्तारं मदीयं तं वरानने४१। अपत्यानि मदीयानि मातृस्नेहेन पालय। तथेत्युक्त्वा च सा देवमगात्कामाय सुव्रता४२। कामयामास देवोपि संज्ञेयमिति चादरात्। जनयामास सावर्णिं मनुं मनुस्वरूपिणम्४३। सवर्णत्वाच्च सावर्णेर्मनोर्वैवस्वतस्य तु। ततः सुतां च तपतीं त्वाष्ट्रीं चैव क्रमेण तु४४। छायायां जनयामास संज्ञेयमिति भास्करः। छाया स्वपुत्रे त्वधिकं स्नेहं चक्रे मनौ तदा४५। न चक्षमे मनुः पूर्वस्तद्यमः क्रोधमूर्छितः। संतर्जयामास तदा पादमुत्क्षिप्य दक्षिणं४६। शशाप च यमं छाया भवतु क्रिमिसंयुतः। पादोयमेको भविता पूयशोणितविस्रवः४७। निवेदयामास पितुर्यमः शापेन धर्षितः। निःकारणमहं शप्तो मात्रा देव सकोपया४८। बालभावान्मया किंचिदुद्यतश्चरणः सकृत्। मनुना वार्यमाणापि मम शापमदाद्विभो४९। प्रायो न माता सास्माकमसमा स्नेहतो यतः। देवोप्याह यमं भूयः किं करोमि महामते५० 1.8.50। सौख्यात्कस्य न दुःखं स्यादथवा कर्मसंततिः। अनिवार्या भवस्यापि का कथान्येषु जंतुषु५१। कृकवाकुस्तव पदे स क्रिमिं भक्षयिष्यति। खंजं च रुचिरं चैव पादमेतद्भविष्यति५२। एवमुक्तः समाश्वस्तस्तपस्तीव्रं चकार ह। वैराग्यात्पुष्करे तीर्थे फलफेनानिलाशनः५३। पितामहं समाराध्य यावद्वर्षायुतं पुनः। तपःप्रभावाद्देवेशः संतुष्टः पद्मसंभवः५४। वव्रे स लोकपालत्वं पितृलोकं तथाक्षयं। धर्माधर्मात्मकस्यास्य जगतस्तु परीक्षणम्५५। एवं स लोकपालत्वमगमत्पद्मसंभवात्। पितॄणामाधिपत्यं च धर्माधर्मस्य चानघ५६। विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितं। त्वष्टुः समीपमगमदाचचक्षे सरोषवान्५७। तमुवाच ततस्त्वष्टा सांत्वपूर्वमिदं वचः। तवासहंती भगवंस्तेजस्तीव्रं तमोनुद५८। बडवारूपमास्थाय मत्सकाशमिहागता। निवारिता मया सा च त्वद्भयेन दिवस्पते५९। यस्मादविज्ञातमना मत्सकाशमिहागता। तस्मान्मदीयं भवनं प्रवेष्टुं न तवार्हति६०। एवमुक्ता जगामाशु मरुदेशमनिंदिता। बडवारूपमास्थाय भूतले संप्रतिष्ठिता६१। तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्। अपनेष्यामि ते तेजः कृत्वा यंत्रे दिवाकरम्६२। रूपं तव करिष्यामि लोकानंदकरं प्रभो। तथेत्युक्तः स रविणा भ्रमे कृत्वा दिवाकरं६३। पृथक्चकार तेजश्च चक्रं विष्णोः प्रकल्पयत्। त्रिशूलं चापि रुद्रस्य वज्रमिंद्रस्य चापरं६४। दैत्यदानवसंहर्तृ सहस्रकिरणात्मकं। रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत्६५। न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनः। अद्यापि च ततः पादौ न कश्चित्कारयेत्क्वचित्६६। यः करोति स पापिष्ठो गतिमाप्नोति निंदितां। कुष्ठरोगमवाप्नोति लोकेस्मिन्दुःखसंज्ञितं६७। तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु च। न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः६८। ततः स भगवान्गत्वा भूर्लोकममराधिपः। कामयामास कामार्तो मुख एव दिवाकरः६९। अश्वरूपेण महता तेजसा च समन्वितः। संज्ञा च मनसा क्षोभमगमद्भयविह्वला७०। नासापुटाभ्यामुत्सृष्टं परोयमिति शंकया। तस्याथ रेतसो जातावश्विनाविति नः श्रुतम्७१। दस्रौ श्रुतित्वात्संजातौ नासत्यौ नासिकाग्रतः। ज्ञात्वा चिराच्च तं देवं संतोषमगमत्परं७२। विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितः। सावर्ण्योपि मनुर्मेरावद्यापि तपते तपः७३। शनिस्तपोबलाच्चापि ग्रहाणां समतां गतः। यमुना तपती चैव पुनर्नद्यौ बभूवतुः७४। विष्ठिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता। मनोर्वैवस्वतस्यापि दश पुत्रा महाबलाः७५। इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पि यः। इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च७६। नरिष्यंतः करूषश्च शर्यातिश्च महाबलः। पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः७७। अभिषिच्य मनुः पूर्वमिलं पुत्रं स धार्मिकम्। जगाम तपसे भूयः पुष्करं स तपोवनं७८। अथाजगाम सिध्यर्थं तस्य ब्रह्मा वरप्रदः। वरं वरय भद्रं ते मानवेय यथेप्सितं७९। उवाच स तदा देवं पद्माक्षं पद्मजं विभुं। वंशे मे धर्मसंयुक्ताः पृथिव्यां सर्वपार्थिवाः८०। भवेयुरीश्वराः स्वामिन्प्रसादात्तव कंजज। तथेत्युक्त्वा तु देवेशस्तत्रैवांतरधीयत८१। ततोयोध्यां समागत्य समतिष्ठद्यथा पुरा। अथैकदा रथारूढ इलो निज सुतो मनोः८२। निर्जगामार्थसिध्यर्थमिनप्रायां महीमिमां। भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः संप्रसाधयन्८३। जगामोपवनं शंभोरथाकृष्टः प्रतापवान्। कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत्८४। रमते यत्र देवेशः सोमः सोमार्द्धशेखरः। उमया समयस्तत्र पुरा शरवणे कृतः८५। पुंनामसंज्ञं यत्किंचिदागमिष्यति नो वनं। स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमंडले८६। अज्ञातसमयो राजा इलः शरवणं गतः। स्त्रीत्वं जगाम सहसा बडवाश्वोऽभवत्क्षणात्८७। पुरुषत्वे कृतं सर्वं स्त्रीकाये विस्मृतं ततः। इलेति साभवन्नारी पीनोन्नतघनस्तनी८८। उन्नतश्रोणिजघना पद्मपत्रायतेक्षणा। पूर्णेन्दुवदना तन्वी विलासिन्यसितेक्षणा८९। पीनोन्नतायतभुजा नीलकुंचितमूर्द्धजा। तनुलोमा सुवदना मृदुगद्गदभाषिणी९०। श्यामागौरेण वर्णेन तनुताम्रनखांकुरा। कार्मुकभ्रूयुगोपेता हंसावरणगामिनी९१। भ्रममाणा वने तस्मिन्चिंतयामास भामिनी। को मे पिता वा भ्राता वा को मे त्राता भवेदिह९२। कस्य भर्त्तुरहं दत्ता कियद्वर्षास्मि भूतले। चिंतयंती च ददृशे सोमपुत्रेण साङ्गना९३। इलारूप समाक्षिप्त मनसा वरवर्णिनी। बुधस्तदाप्तये यत्नमकरोत्कामपीडितः९४। विशिष्टाकारवान्मुंडी स कमंडलुपुस्तकः। वेणुदंडकृतावेशः पवित्रक खनित्रकः९५। द्विजरूपः शिखी ब्रह्म निगदन्कर्णकुंडली। वटुभिश्चार्थिभिर्युक्तः समित्पुष्पकुशोदकैः९६। कालेन्विष्यां ततस्तस्मिन्नाजुहाव स तामिलाम्। बहिर्वनस्यांतरितः किल पादपमंडपे९७। ससंभ्रममकस्माच्च सोपालंभमिवाभवत्। त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मंदिरान्मम९८। इयं विहारवेला ते अतिक्रामति सांप्रतम्। एह्येहि पृथुसुश्रोणि संभ्रांता केन हेतुना९९। इयं सायंतनी वेला विहारस्येह वर्त्तते। कृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम१०० 1.8.100। साब्रवीद्विस्मृताहं च सर्वमेव तपोधन। आत्मानं त्वां च भर्त्तारं कुलं च वद मेनघ१०१। बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनी। अहं च कामुको नाम बहुविद्यो बुधः स्मृतः१०२। तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः। इति सा तस्यवचनात्प्रविष्टा बुधमंदिरम्१०३। रत्नस्तंभसमाकीर्णं दिव्यमायाविनिर्मितम्। इला कृतार्थमात्मानं मेने तद्भवने स्थिता१०४। अहो वृत्तमहोरूपमहो धनमहोकुलम्। मम चास्य च भर्त्तुर्वा अहो लावण्यमुत्तमम्१०५। रेमे च सा तेन सममतिकालमिला वने। सर्वभोगमये गेहे यथेंद्रभवने तथा१०६। अथान्विष्यंतो राजानं भ्रातरस्तस्य मानवाः। इक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणांतिकम्१०७। ततस्ते ददृशुः सर्वे वडवामग्रतः स्थिताम्। रत्नपर्यंतकिरणदीप्यमानामनुत्तमाम्१०८। संप्राप्य प्रत्यभिज्ञानात्सर्वे विस्मयमागताः। अयं चंद्रप्रभो नाम वाजी तस्य महात्मनः१०९। अगमद्वडवारूपमुत्तमं केन हेतुना। ततस्तु मैत्रावरुणिं पप्रच्छुः स्वपुरोहितम्११०। किमेतदित्यभूच्चित्रं वद योगविदां वर। वसिष्ठोप्यब्रवीत्सर्वं दृष्ट्वा तं ध्यानचक्षुषा१११। समयः शंभुदयिता कृतः शरवणे पुरा। यः पुमान्प्रविशेच्चात्र स नारीत्वमवाप्स्यति११२। अयमश्वोपि नारीत्वमगाद्राज्ञा सहैव तु। इलः पुरुषतामेति यथासौ धनदोपमः११३। तथैव यत्नः कर्त्तव्य आराध्य च पिनाकिनम्। ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः११४। तुष्टवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ। तावूचतुरलं चैष समयः किं नु सांप्रतं११५। इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः। दत्वा किंपुरुषो वीरः स भविष्यत्यसंशयम्११६। तथेत्युक्त्वा तु ते सर्वे जग्मुर्वैवस्वतात्मजाः। इष्ट्वाश्वमेधेन तत इला किंपुरुषोभवत्११७। मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः। बुधस्य भवने तिष्ठन्निलो गर्भधरोभवत्११८। अजीजनत्पुत्रमेकमनेकगुणसंयुतम्। बुध उत्पाद्य तं पूरुं स स्वर्गमगमत्पुनः११९। इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा। सोमार्कवंशजो राजा इलोभूद्वंशवर्द्धनः१२०। एवं पुरूरवाः पूरोरभवद्वंशवर्द्धनः। इक्ष्वाकुरर्कवंशस्य तथैवोक्तो नरेश्वरः१२१। इलः किंपुरुषत्वे च सुद्युम्न इति चोच्यते। पुनः पुत्रत्रयमभूत्सुद्युम्नस्यापराजितम्१२२। उत्कलोथ गयस्तद्वद्धरिताश्वश्च वीर्यवान्। उत्कलस्योत्कला नाम गयस्य तु गयापुरी१२३। हरिताश्वस्य दिग्याम्या संज्ञाता कुरुभिः सह। प्रतिष्ठानेभिषिच्याथ स पुरूरवसं सुतम्१२४। जगामेलावृतं भोक्तुं दिव्यं वर्षं फलाशनः। इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान्१२५। नरिष्यंतस्य पुत्रोभूच्छुको नाम महाबलः। नाभागादंबरीषस्तु धृष्टस्य तु सुतत्रयम्१२६। धृष्टकेतुः स्वधर्माथो रणधृष्टश्च वीर्यवान्। आनर्तो नाम शर्यातेः सुकन्या चैव दारिका१२७। आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान्। आनर्तो नाम देशोभून्नगरी च कुशस्थली१२८। रोचमानस्य रेवोभूद्रेवाद्रैवत एव च। ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च१२९। रेवती तस्य सा कन्या भार्या रामस्य विश्रुता। करूषाच्चैव कारूषा बहवः प्रथिता भुवि१३०। पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत। इक्ष्वाकुपुत्रा नाम्नाथ विकुक्षि निमिदंडकाः१३१। श्रेष्ठाः पुत्रशतस्यासन्पंचाशच्चाथ तत्सुताः। मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः१३२। चत्वारिंशत्तथाष्टान्ये शतमध्ये च येभवन्। मेरोर्दक्षिणतश्चैव राजानस्ते प्रकीर्तिताः१३३। ज्येष्ठात्ककुत्स्थनामाभूत्सुतस्तस्य सुयोधनः। तस्य पुत्रः पृथृर्नाम विश्वस्तस्य पृथोः सुतः१३४। आर्द्रस्तस्य च पुत्रोभूद्युवनाश्वस्ततोभवत्। युवनाश्वस्य पुत्रोभूच्छावस्तो नाम वीर्यवान्१३५। निर्मिता येन शावस्ती ह्यंगदेशे नराधिप। शावस्ताद्बृहदश्वो भूत्कुवलाश्वस्ततोभवत्१३६। धुंधुमारत्वमगमद्धुंधुं हत्वाऽसुरं पुरा। तस्य पुत्रास्त्रयो जाता दृढाश्वो घृणिरेव च१३७। कपिलाश्वश्च विख्यातो धौंधुमारिः प्रतापवान्। दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः१३८। हर्यश्वस्य निकुंभोभूत्संहताश्वस्ततोभवत्। अकृताश्वो रणाश्वश्च संहताश्व सुतावुभौ१३९। युवनाश्वो रणाश्वस्य मांधाता च ततोभवत्। मांधातुः पुरुकुत्सोभूद्धर्मसेतुश्च पार्थिवः१४०। मुचुकुन्दश्च विख्यातश्शक्रमित्रः प्रतापवान्। पुरुकुत्सस्य पुत्रोभूद्दुस्सहो नर्मदापतिः१४१। संभूतिस्तस्य पुत्रोभूत्त्रिधन्वा च ततोभवत्। त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः१४२। तस्य सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः। तस्य पुत्रो हरिश्चन्द्रो हरिश्चंद्राच्च रोहितः१४३। रोहताच्च वृको जातो वृकाद्बाहुरजायत। सगरस्तस्य पुत्रोभूद्राजा परमधार्मिकः१४४। द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा। ताभ्यामाराधितः पूर्वमौर्वाग्निः पुत्रकाम्यया१४५। और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम्। एका षष्टिसहस्राणि सुतमेकं तथापरा१४६। अगृह्णाद्वंशकर्तारं प्रभाऽगृह्णाद्बहून्सुतान्। एकं भानुमती पुत्रमगृह्णादसमंजसं१४७। ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा। खनंतः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे१४८। असमंजस्तु तनयो ह्यंशुमान्नाम विश्रुतः। तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः१४९। येन भागीरथी गङ्गा तपः कृत्वावतारिता। भगीरथस्य तनयो नाभाग इति विश्रुतः१५० 1.8.150। नाभागस्यांबरीषोभूत्सिंधुद्वीपस्ततोभवत्। तस्यायुतायुः पुत्रोभूदृतुपर्णस्ततोभवत्१५१। तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः। तस्यानरण्यः पुत्रोभून्निघ्नस्तस्य सुतोभवत्१५२। निघ्नपुत्रावुभौ जातावनमित्र रघूत्तमौ। अनमित्रो वनमगादरिनाशकृते नृप१५३। रघोरभूद्दिलीपस्तु दिलीपाच्चाप्यजस्तथा। दीर्घबाहुरजाज्जातः प्रजापालस्ततोभवत्१५४। ततो दशरथो जातस्तस्य पुत्रचतुष्टयं। नारायणात्मकाः सर्वे रामस्तस्याग्रजोभवत्१५५। रावणांतकरस्तद्वद्रघूणां वंशवर्द्धनः। वाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः१५६। तस्य पुत्रः कुशो नाम इक्ष्वाकुकुलवर्द्धनः। अतिथिस्तु कुशाज्जातो निषधस्तस्य चात्मजः१५७। नलस्तु निषधाज्जातो नभास्तस्मादजायत। नभसः पुंडरीकोभूत्क्षेमधन्वा ततः परम्१५८। तस्यपुत्रोभवद्वीरो देवानीकः प्रतापवान्। अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः१५९। ततश्चंद्रावलोकस्तु तारापीडस्ततोभवत्। तस्यात्मजश्चन्द्रगिरिश्चंद्रस्तस्य सुतोभवत्१६०। श्रुतायुरभवत्तस्माद्भारते यो निपातितः। नलौ द्वावेव विख्यातौ वंशे यस्य विशेषतः१६१। वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः। एते विवस्वतो वंशे राजानो भूरिदक्षिणाः१६२। इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः१६३।

bhīṣma uvāca| bahubhirddharaṇī bhuktā bhūpālaiḥ śrūyate purā| pārthivāḥ pṛthivīyogātpṛthivī kasya yogataḥ1| kimarthaṃ ca kṛtā saṃjñā bhūmessā pāribhāṣikī| gauritīyaṃ ca saṃjñā vā bhuvaḥ kasmādbravīhi me2| pulastya uvāca| purā kṛtayugasyāsīdaṃgo nāma prajāpatiḥ| mṛtyostu duhitā tena pariṇītātidurmukhī3| sunīthā nāma tasyāstu veno nāma sutaḥ purā| adharmanirataḥ kāmī balavānvasudhādhipaḥ4| lokasyādharmakṛccāpi parabhāryāpahārakaḥ| atha tasya prasidyarthaṃ jagadarthaṃ maharṣibhiḥ5| anunītopi na dadāvaśuddhātmā'bhayaṃ tataḥ| śāpena mārayitvainamarājakabhayārditāḥ6| mamaṃthurbrāhmaṇāstasya balāddehamakalmaṣāḥ| tatkāyānmathyamānāttu janitā mlecchajātayaḥ7| śarīre māturaṃśena kṛṣṇāṃjanasamaprabhāḥ| pituraṃśasya saṃgena dhārmiko dharmakārakaḥ8| utpanno dakṣiṇāddhastātsadhanuḥ saśaro gadī| divyatejomayaḥ putrassaratnakavacāṃgadaḥ9| pṛthurevābhavannāmnā sa ca viṣṇurajāyata| sa viprairabhiṣiktaḥ saṃstapaḥ kṛtvā suduṣkaraṃ10| viṣṇorvareṇa sarvasya prabhutvamagamatprabhuḥ| niḥsvādhyāyavaṣaṭkāraṃ nirddharmaṃ vīkṣya bhūtalaṃ11| veddhumevodyataḥ kopācchareṇāmitavikramaḥ| tato gorūpamāsthāya bhūḥ palāyitumudyatā12| pṛṣṭhe tvanvagamattasyāḥ pṛthuḥ seṣuśarāsanaḥ| tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt13| pṛthurapyavadadvākyamīpsitaṃ dehi suvrate| sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca14| tatheti cābravīdbhūmirdudoha sa narādhipaḥ| svake pāṇau pṛthurvatsaṃ kṛtvā svāyaṃbhuvaṃ manuṃ15| tadannamabhavaddugdhaṃ prajā jīvaṃti yena tu| tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat16| dogdhā vācaspatirabhūtpātraṃ vedastapo rasaḥ| devaiśca vasudhā dugdhā maruddogdhā tadābhavat17| indro vatsaḥ samabhavatkṣīramūrjjasvalaṃ balaṃ| devānāṃ kāṃcanaṃ pātraṃ pitṛṇāṃ rājataṃ tathā18| aṃtakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ| bilaṃ ca pātraṃ nāgānāṃ takṣako vatsakobhavat19| viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭrobhavatpunaḥ| asurairapi dugdheyaṃ āyase śatrupīḍanam20| pātre māyāmabhūdvatsaḥprālhādistuvirocanaḥ| dogdhā trimūrddhā tatrāsīnmāyā yena pravartitā21| yakṣaiśca vasudhā dugdhā purāṃtarddhānamīpsubhiḥ| kṛtvā viśvāvasuṃ vatsaṃ maṇimaṃtaṃ mahīpate22| pretarakṣogaṇairdugdhā vasā rudhiramulbaṇaṃ| raupyanābhobhavaddogdhā sumālī vatsa eva ca23| gaṃdharvaiśca punardugdhā vasudhā sāpsarogaṇaiḥ| vatsaṃ citrarathaṃ kṛtvā gaṃdhānpadmadale tathā24| dogdhāvasurucirnāmātharvavedasya pāragaḥ| giribhirvasudhā dugdhā ratnāni vividhāni ca25| auṣadhāni ca divyāni dogdhā merurmahīdharaḥ| vatsobhūddhimavāṃstatra pātraṃ śailamayaṃ punaḥ26| vṛkṣaiśca vasudhā dugdhā kṣīraṃ chinnaprarohaṇaṃ| pālāśapātre dogdhā tu sālaḥ puṣpavanākulaḥ27| plakṣobhavattato vatsaḥ sarvavṛkṣavanādhipaḥ| evamanyaiśca vasudhā tathā dugdhā yathecchataḥ28| āyurddhanāni saukhyaṃ ca pṛthau rājyaṃ praśāsati| na dāridryaṃ tathā rogī nādhanonacapāpakṛt29| nopasargā na cāghātaḥ pṛthau rājyaṃ praśāsati| nityaṃpramuditālokā duḥkhaśokavivarjitāḥ30| dhanuḥ koṭyā ca śaileṃdrānutsārya sa mahābalaḥ| bhūmaṃḍalaṃ samaṃ cakre lokānāṃ hitakāmyayā31| na puragrāmadurgāṇi na cāyudhadharā narāḥ| mriyaṃte yatra duḥkhaṃ ca nārthaśāstrasya cādaraḥ32| dharmaikatānāḥ puruṣāḥ pṛthau rājyaṃ praśāsati| kathitāni ca pātrāṇi yatkṣīraṃ ca yathā tava33| yeṣāṃ yena rucistatra tebhyo dattaṃ vijānatā| yajñaśrīdeṣu sarveṣu mayā tubhyaṃ niveditaṃ34| duhitṛtvaṃ gatā yasmātpṛthoḥ pṛthvī mahāmate| tasyānusārayogācca pṛthivī viśrutā budhaiḥ35| bhīṣma uvāca| ādityavaṃśamakhilaṃ vada brahmanyathākramaṃ| somavaṃśaṃ ca tattvajña yathāvadvaktumarhasi36| pulastya uvāca| vivasvānkaśyapātpūrvamadityāmabhavatpurā| tasya patnītrayaṃ tadvatsaṃjñā rājñī prabhā tathā37| raivatasya sutā rājñī revataṃ suṣuve sutaṃ| prabhā prabhātaṃ suṣuve tvāṣṭraṃ saṃjñā tathā manuṃ38| yamaśca yamunā caiva yamalau ca babhūvatuḥ| tatastejomayaṃ rūpamasahaṃtī vivasvataḥ39| nārīmutpādayāmāsa svaśarīrādaniṃditāṃ| tvāṣṭrī svarūparūpeṇa nāmnā chāyeti bhāminī40| kiṃkaromīti purataḥ saṃsthitāṃ tāmabhāṣata| chāye tvaṃ bhaja bhartāraṃ madīyaṃ taṃ varānane41| apatyāni madīyāni mātṛsnehena pālaya| tathetyuktvā ca sā devamagātkāmāya suvratā42| kāmayāmāsa devopi saṃjñeyamiti cādarāt| janayāmāsa sāvarṇiṃ manuṃ manusvarūpiṇam43| savarṇatvācca sāvarṇermanorvaivasvatasya tu| tataḥ sutāṃ ca tapatīṃ tvāṣṭrīṃ caiva krameṇa tu44| chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ| chāyā svaputre tvadhikaṃ snehaṃ cakre manau tadā45| na cakṣame manuḥ pūrvastadyamaḥ krodhamūrchitaḥ| saṃtarjayāmāsa tadā pādamutkṣipya dakṣiṇaṃ46| śaśāpa ca yamaṃ chāyā bhavatu krimisaṃyutaḥ| pādoyameko bhavitā pūyaśoṇitavisravaḥ47| nivedayāmāsa pituryamaḥ śāpena dharṣitaḥ| niḥkāraṇamahaṃ śapto mātrā deva sakopayā48| bālabhāvānmayā kiṃcidudyataścaraṇaḥ sakṛt| manunā vāryamāṇāpi mama śāpamadādvibho49| prāyo na mātā sāsmākamasamā snehato yataḥ| devopyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate50 1.8.50| saukhyātkasya na duḥkhaṃ syādathavā karmasaṃtatiḥ| anivāryā bhavasyāpi kā kathānyeṣu jaṃtuṣu51| kṛkavākustava pade sa krimiṃ bhakṣayiṣyati| khaṃjaṃ ca ruciraṃ caiva pādametadbhaviṣyati52| evamuktaḥ samāśvastastapastīvraṃ cakāra ha| vairāgyātpuṣkare tīrthe phalaphenānilāśanaḥ53| pitāmahaṃ samārādhya yāvadvarṣāyutaṃ punaḥ| tapaḥprabhāvāddeveśaḥ saṃtuṣṭaḥ padmasaṃbhavaḥ54| vavre sa lokapālatvaṃ pitṛlokaṃ tathākṣayaṃ| dharmādharmātmakasyāsya jagatastu parīkṣaṇam55| evaṃ sa lokapālatvamagamatpadmasaṃbhavāt| pitṝṇāmādhipatyaṃ ca dharmādharmasya cānagha56| vivasvānatha tajjñātvā saṃjñāyāḥ karmaceṣṭitaṃ| tvaṣṭuḥ samīpamagamadācacakṣe saroṣavān57| tamuvāca tatastvaṣṭā sāṃtvapūrvamidaṃ vacaḥ| tavāsahaṃtī bhagavaṃstejastīvraṃ tamonuda58| baḍavārūpamāsthāya matsakāśamihāgatā| nivāritā mayā sā ca tvadbhayena divaspate59| yasmādavijñātamanā matsakāśamihāgatā| tasmānmadīyaṃ bhavanaṃ praveṣṭuṃ na tavārhati60| evamuktā jagāmāśu marudeśamaniṃditā| baḍavārūpamāsthāya bhūtale saṃpratiṣṭhitā61| tasmātprasādaṃ kuru me yadyanugrahabhāgaham| apaneṣyāmi te tejaḥ kṛtvā yaṃtre divākaram62| rūpaṃ tava kariṣyāmi lokānaṃdakaraṃ prabho| tathetyuktaḥ sa raviṇā bhrame kṛtvā divākaraṃ63| pṛthakcakāra tejaśca cakraṃ viṣṇoḥ prakalpayat| triśūlaṃ cāpi rudrasya vajramiṃdrasya cāparaṃ64| daityadānavasaṃhartṛ sahasrakiraṇātmakaṃ| rūpaṃ cāpratimaṃ cakre tvaṣṭā padbhyāmṛte mahat65| na śaśāka ca taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ| adyāpi ca tataḥ pādau na kaścitkārayetkvacit66| yaḥ karoti sa pāpiṣṭho gatimāpnoti niṃditāṃ| kuṣṭharogamavāpnoti lokesminduḥkhasaṃjñitaṃ67| tasmānna dharmakāmārthī citreṣvāyataneṣu ca| na kvacitkārayetpādau devadevasya dhīmataḥ68| tataḥ sa bhagavāngatvā bhūrlokamamarādhipaḥ| kāmayāmāsa kāmārto mukha eva divākaraḥ69| aśvarūpeṇa mahatā tejasā ca samanvitaḥ| saṃjñā ca manasā kṣobhamagamadbhayavihvalā70| nāsāpuṭābhyāmutsṛṣṭaṃ paroyamiti śaṃkayā| tasyātha retaso jātāvaśvināviti naḥ śrutam71| dasrau śrutitvātsaṃjātau nāsatyau nāsikāgrataḥ| jñātvā cirācca taṃ devaṃ saṃtoṣamagamatparaṃ72| vimānenāgamatsvarge patnyā saha mudānvitaḥ| sāvarṇyopi manurmerāvadyāpi tapate tapaḥ73| śanistapobalāccāpi grahāṇāṃ samatāṃ gataḥ| yamunā tapatī caiva punarnadyau babhūvatuḥ74| viṣṭhirghorātmikā tadvatkālatvena vyavasthitā| manorvaivasvatasyāpi daśa putrā mahābalāḥ75| ilastu prathamasteṣāṃ putreṣṭyā samakalpi yaḥ| ikṣvākuḥ kuśanābhaśca ariṣṭo dhṛṣṭa eva ca76| nariṣyaṃtaḥ karūṣaśca śaryātiśca mahābalaḥ| pṛṣadhraścātha nābhāgaḥ sarve te divyamānuṣāḥ77| abhiṣicya manuḥ pūrvamilaṃ putraṃ sa dhārmikam| jagāma tapase bhūyaḥ puṣkaraṃ sa tapovanaṃ78| athājagāma sidhyarthaṃ tasya brahmā varapradaḥ| varaṃ varaya bhadraṃ te mānaveya yathepsitaṃ79| uvāca sa tadā devaṃ padmākṣaṃ padmajaṃ vibhuṃ| vaṃśe me dharmasaṃyuktāḥ pṛthivyāṃ sarvapārthivāḥ80| bhaveyurīśvarāḥ svāminprasādāttava kaṃjaja| tathetyuktvā tu deveśastatraivāṃtaradhīyata81| tatoyodhyāṃ samāgatya samatiṣṭhadyathā purā| athaikadā rathārūḍha ilo nija suto manoḥ82| nirjagāmārthasidhyarthaminaprāyāṃ mahīmimāṃ| bhramandvīpāni sarvāṇi kṣmābhṛtaḥ saṃprasādhayan83| jagāmopavanaṃ śaṃbhorathākṛṣṭaḥ pratāpavān| kalpadrumalatākīrṇaṃ nāmnā śaravaṇaṃ mahat84| ramate yatra deveśaḥ somaḥ somārddhaśekharaḥ| umayā samayastatra purā śaravaṇe kṛtaḥ85| puṃnāmasaṃjñaṃ yatkiṃcidāgamiṣyati no vanaṃ| strītvameṣyati tatsarvaṃ daśayojanamaṃḍale86| ajñātasamayo rājā ilaḥ śaravaṇaṃ gataḥ| strītvaṃ jagāma sahasā baḍavāśvo'bhavatkṣaṇāt87| puruṣatve kṛtaṃ sarvaṃ strīkāye vismṛtaṃ tataḥ| ileti sābhavannārī pīnonnataghanastanī88| unnataśroṇijaghanā padmapatrāyatekṣaṇā| pūrṇenduvadanā tanvī vilāsinyasitekṣaṇā89| pīnonnatāyatabhujā nīlakuṃcitamūrddhajā| tanulomā suvadanā mṛdugadgadabhāṣiṇī90| śyāmāgaureṇa varṇena tanutāmranakhāṃkurā| kārmukabhrūyugopetā haṃsāvaraṇagāminī91| bhramamāṇā vane tasminciṃtayāmāsa bhāminī| ko me pitā vā bhrātā vā ko me trātā bhavediha92| kasya bhartturahaṃ dattā kiyadvarṣāsmi bhūtale| ciṃtayaṃtī ca dadṛśe somaputreṇa sāṅganā93| ilārūpa samākṣipta manasā varavarṇinī| budhastadāptaye yatnamakarotkāmapīḍitaḥ94| viśiṣṭākāravānmuṃḍī sa kamaṃḍalupustakaḥ| veṇudaṃḍakṛtāveśaḥ pavitraka khanitrakaḥ95| dvijarūpaḥ śikhī brahma nigadankarṇakuṃḍalī| vaṭubhiścārthibhiryuktaḥ samitpuṣpakuśodakaiḥ96| kālenviṣyāṃ tatastasminnājuhāva sa tāmilām| bahirvanasyāṃtaritaḥ kila pādapamaṃḍape97| sasaṃbhramamakasmācca sopālaṃbhamivābhavat| tyaktvāgnihotraśuśrūṣāṃ kva gatā maṃdirānmama98| iyaṃ vihāravelā te atikrāmati sāṃpratam| ehyehi pṛthusuśroṇi saṃbhrāṃtā kena hetunā99| iyaṃ sāyaṃtanī velā vihārasyeha varttate| kṛtvopalepanaṃ puṣpairalaṃkuru gṛhaṃ mama100 1.8.100| sābravīdvismṛtāhaṃ ca sarvameva tapodhana| ātmānaṃ tvāṃ ca bharttāraṃ kulaṃ ca vada menagha101| budhaḥ provāca tāṃ tanvīmilā tvaṃ varavarṇinī| ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ102| tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ| iti sā tasyavacanātpraviṣṭā budhamaṃdiram103| ratnastaṃbhasamākīrṇaṃ divyamāyāvinirmitam| ilā kṛtārthamātmānaṃ mene tadbhavane sthitā104| aho vṛttamahorūpamaho dhanamahokulam| mama cāsya ca bhartturvā aho lāvaṇyamuttamam105| reme ca sā tena samamatikālamilā vane| sarvabhogamaye gehe yatheṃdrabhavane tathā106| athānviṣyaṃto rājānaṃ bhrātarastasya mānavāḥ| ikṣvākupramukhā jagmustadā śaravaṇāṃtikam107| tataste dadṛśuḥ sarve vaḍavāmagrataḥ sthitām| ratnaparyaṃtakiraṇadīpyamānāmanuttamām108| saṃprāpya pratyabhijñānātsarve vismayamāgatāḥ| ayaṃ caṃdraprabho nāma vājī tasya mahātmanaḥ109| agamadvaḍavārūpamuttamaṃ kena hetunā| tatastu maitrāvaruṇiṃ papracchuḥ svapurohitam110| kimetadityabhūccitraṃ vada yogavidāṃ vara| vasiṣṭhopyabravītsarvaṃ dṛṣṭvā taṃ dhyānacakṣuṣā111| samayaḥ śaṃbhudayitā kṛtaḥ śaravaṇe purā| yaḥ pumānpraviśeccātra sa nārītvamavāpsyati112| ayamaśvopi nārītvamagādrājñā sahaiva tu| ilaḥ puruṣatāmeti yathāsau dhanadopamaḥ113| tathaiva yatnaḥ karttavya ārādhya ca pinākinam| tataste mānavā jagmuryatra devo maheśvaraḥ114| tuṣṭavurvividhaiḥ stotraiḥ pārvatīparameśvarau| tāvūcaturalaṃ caiṣa samayaḥ kiṃ nu sāṃprataṃ115| ikṣvākoraśvamedhena yatphalaṃ syāttadāvayoḥ| datvā kiṃpuruṣo vīraḥ sa bhaviṣyatyasaṃśayam116| tathetyuktvā tu te sarve jagmurvaivasvatātmajāḥ| iṣṭvāśvamedhena tata ilā kiṃpuruṣobhavat117| māsamekaṃ pumānvīraḥ strītvaṃ māsamabhūtpunaḥ| budhasya bhavane tiṣṭhannilo garbhadharobhavat118| ajījanatputramekamanekaguṇasaṃyutam| budha utpādya taṃ pūruṃ sa svargamagamatpunaḥ119| ilasya nāmnā tadvarṣamilāvṛtamabhūttadā| somārkavaṃśajo rājā ilobhūdvaṃśavarddhanaḥ120| evaṃ purūravāḥ pūrorabhavadvaṃśavarddhanaḥ| ikṣvākurarkavaṃśasya tathaivokto nareśvaraḥ121| ilaḥ kiṃpuruṣatve ca sudyumna iti cocyate| punaḥ putratrayamabhūtsudyumnasyāparājitam122| utkalotha gayastadvaddharitāśvaśca vīryavān| utkalasyotkalā nāma gayasya tu gayāpurī123| haritāśvasya digyāmyā saṃjñātā kurubhiḥ saha| pratiṣṭhānebhiṣicyātha sa purūravasaṃ sutam124| jagāmelāvṛtaṃ bhoktuṃ divyaṃ varṣaṃ phalāśanaḥ| ikṣvākurjyeṣṭhadāyādo madhyadeśamavāptavān125| nariṣyaṃtasya putrobhūcchuko nāma mahābalaḥ| nābhāgādaṃbarīṣastu dhṛṣṭasya tu sutatrayam126| dhṛṣṭaketuḥ svadharmātho raṇadhṛṣṭaśca vīryavān| ānarto nāma śaryāteḥ sukanyā caiva dārikā127| ānartasyābhavatputro rocamānaḥ pratāpavān| ānarto nāma deśobhūnnagarī ca kuśasthalī128| rocamānasya revobhūdrevādraivata eva ca| kakudmī cāparaṃ nāma jyeṣṭhaḥ putraśatasya ca129| revatī tasya sā kanyā bhāryā rāmasya viśrutā| karūṣāccaiva kārūṣā bahavaḥ prathitā bhuvi130| pṛṣadhro govadhācchūdro guruśāpādajāyata| ikṣvākuputrā nāmnātha vikukṣi nimidaṃḍakāḥ131| śreṣṭhāḥ putraśatasyāsanpaṃcāśaccātha tatsutāḥ| meroruttarataste tu jātāḥ pārthivasattamāḥ132| catvāriṃśattathāṣṭānye śatamadhye ca yebhavan| merordakṣiṇataścaiva rājānaste prakīrtitāḥ133| jyeṣṭhātkakutsthanāmābhūtsutastasya suyodhanaḥ| tasya putraḥ pṛthṛrnāma viśvastasya pṛthoḥ sutaḥ134| ārdrastasya ca putrobhūdyuvanāśvastatobhavat| yuvanāśvasya putrobhūcchāvasto nāma vīryavān135| nirmitā yena śāvastī hyaṃgadeśe narādhipa| śāvastādbṛhadaśvo bhūtkuvalāśvastatobhavat136| dhuṃdhumāratvamagamaddhuṃdhuṃ hatvā'suraṃ purā| tasya putrāstrayo jātā dṛḍhāśvo ghṛṇireva ca137| kapilāśvaśca vikhyāto dhauṃdhumāriḥ pratāpavān| dṛḍhāśvasya pramodastu haryaśvastasya cātmajaḥ138| haryaśvasya nikuṃbhobhūtsaṃhatāśvastatobhavat| akṛtāśvo raṇāśvaśca saṃhatāśva sutāvubhau139| yuvanāśvo raṇāśvasya māṃdhātā ca tatobhavat| māṃdhātuḥ purukutsobhūddharmasetuśca pārthivaḥ140| mucukundaśca vikhyātaśśakramitraḥ pratāpavān| purukutsasya putrobhūddussaho narmadāpatiḥ141| saṃbhūtistasya putrobhūttridhanvā ca tatobhavat| tridhanvanaḥ suto jātastrayyāruṇa iti smṛtaḥ142| tasya satyavrato nāma tasmātsatyarathaḥ smṛtaḥ| tasya putro hariścandro hariścaṃdrācca rohitaḥ143| rohatācca vṛko jāto vṛkādbāhurajāyata| sagarastasya putrobhūdrājā paramadhārmikaḥ144| dve bhārye sagarasyāpi prabhā bhānumatī tathā| tābhyāmārādhitaḥ pūrvamaurvāgniḥ putrakāmyayā145| aurvastuṣṭastayoḥ prādādyatheṣṭaṃ varamuttamam| ekā ṣaṣṭisahasrāṇi sutamekaṃ tathāparā146| agṛhṇādvaṃśakartāraṃ prabhā'gṛhṇādbahūnsutān| ekaṃ bhānumatī putramagṛhṇādasamaṃjasaṃ147| tataḥ ṣaṣṭisahasrāṇi suṣuve yādavī prabhā| khanaṃtaḥ pṛthivīṃ dagdhā viṣṇunā ye 'śvamārgaṇe148| asamaṃjastu tanayo hyaṃśumānnāma viśrutaḥ| tasya putro dilīpastu dilīpāttu bhagīrathaḥ149| yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā| bhagīrathasya tanayo nābhāga iti viśrutaḥ150 1.8.150| nābhāgasyāṃbarīṣobhūtsiṃdhudvīpastatobhavat| tasyāyutāyuḥ putrobhūdṛtuparṇastatobhavat151| tasya kalmāṣapādastu sarvakarmā tataḥ smṛtaḥ| tasyānaraṇyaḥ putrobhūnnighnastasya sutobhavat152| nighnaputrāvubhau jātāvanamitra raghūttamau| anamitro vanamagādarināśakṛte nṛpa153| raghorabhūddilīpastu dilīpāccāpyajastathā| dīrghabāhurajājjātaḥ prajāpālastatobhavat154| tato daśaratho jātastasya putracatuṣṭayaṃ| nārāyaṇātmakāḥ sarve rāmastasyāgrajobhavat155| rāvaṇāṃtakarastadvadraghūṇāṃ vaṃśavarddhanaḥ| vālmīkiryasya caritaṃ cakre bhārgavasattamaḥ156| tasya putraḥ kuśo nāma ikṣvākukulavarddhanaḥ| atithistu kuśājjāto niṣadhastasya cātmajaḥ157| nalastu niṣadhājjāto nabhāstasmādajāyata| nabhasaḥ puṃḍarīkobhūtkṣemadhanvā tataḥ param158| tasyaputrobhavadvīro devānīkaḥ pratāpavān| ahīnagustasya sutaḥ sahasrāśvastataḥ paraḥ159| tataścaṃdrāvalokastu tārāpīḍastatobhavat| tasyātmajaścandragiriścaṃdrastasya sutobhavat160| śrutāyurabhavattasmādbhārate yo nipātitaḥ| nalau dvāveva vikhyātau vaṃśe yasya viśeṣataḥ161| vīrasenasutastadvannaiṣadhaśca narādhipaḥ| ete vivasvato vaṃśe rājāno bhūridakṣiṇāḥ162| ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ163|

English translation

Bhīṣma said :

1. It is heard that the earth was formerly enjoyed by many kings. They are (called) Pārthiva on account of their connection with the earth; but on account of (its) connection with whom is the Pṛthvī (earth) so called?

2. Why is the earth given that technical name? Tell me why it has the name Gau, or why it is (called) Bhū?

Pulastya said :

3. Formerly Aṅga by name was the Prajāpati of the Kṛtayuga . He married Mṛtyu ’s extremely ugly daughter named Sunīthā . Her son was Vena .

4-12. This king was attached to wickedness, and was lustful and powerful. He did unrighteous things to people, and took away others’ wives. Though entreated by the great sages for his success and for the (good of the) world, he, of an impure mind, did not grant them safety. The sinless brāhmaṇas distressed with the fear of anarchy, having killed him, with a curse, forcibly churned his body. From that body, being churned, the Mlecha [ Mleccha ?] tribes, dark like collyrium, due to the (presence of) the mother’s portion in the body were created. Due to the contact of the father’s portion, from the right hand of the body a pious son, full of divine lustre, doing righteous things, and with a bow, an arrow, a mace and gems, an armour and armlets, named Pṛthu , who was Viṣṇu himself, was born. Being consecrated by the brāhmaṇas, and having practised a very difficult penance, he, due to Viṣṇu’s boon, became the lord of all. Seeing the earth without sacred study, without oblation to deities, and void of righteous behaviour, he, of unlimited valour, was, through anger, quite ready to pierce it with his arrow. Then the earth, taking up the form of a cow, was about to flee.

13. Pṛthu, having a bow and arrows, pursued her. Then remaining in one place, she said: “What should I do?”

14. Pṛthu also uttered (these) words: “O you of righteous vow, give quickly what is desired by the world—immobile and mobile”.

15. The earth said: “All right”. Then king Pṛthu, making Svāyambhuva Manu the calf, milked her (milk in the pot) in his hand.

16. That milk turned into food on which the creatures subsist. Then the earth was milked by the sages, when Soma was the calf.

17-18. Vācaspati (then) milked her (lit. became the milkman); Veda was the pot, and penance the milk. Then the gods milked her when Marut was the milkman. Indra became the calf and mighty power was the milk. The pot of the gods was golden and that of the Pitṛs was silvery.

19-21. The god of death milked her when Yama was the calf and Svadhā the milk. The pot of the serpents was a hole and Takṣaka was the calf, and poison was the milk. And Dhṛtarāṣṭra and the demons too, milked her (taking the milk) in an iron pot, the milk being the trickery harassing the enemies. The calf was Virocana , the son of Prahlāda . The milkman then was Trimūrdhan, who promoted deceit.

22. O king, the Yakṣas desiring to conceal themselves, also milked the earth in ancient days, making Vivasvān , having the gem, the calf.

23. The groups of evil spirits and fiends milked the earth, marrow and clotted blood (being the milk). Raupyanābha was the milkman and Sumālin the calf.

24. The Gandharvas again, along with the groups of the celestial nymphs milked the earth, making Citraratha ( Gandharva ) the calf, and the fragrances in the lotus-petal (the milk).

25. Vararuci , the expert in Atharva Veda milked the cow. The mountains also milked her with various jewels (as the milk).

26. Mountain Meru milked (her with) divine herbs (as the milk). The Himālaya was the calf and the pot was made of mountains.

27. The trees also milked the (milk of the) earth, into the pot made from the Palāsa tree; the cut-off sprouts were the milk and Sāla full of flowers and woods was the milkman.

28. And the fig-tree, the lord of all trees and woods, was the calf. Thus others also milked the earth according to their desire.

29. While Pṛthu was ruling, there prevailed longevity, wealth, and happiness. There was no poverty, and also no sick person, no poor person and no sinner.

30. When Pṛthu was ruling, there were no calamities; there was no misfortune; people not having sorrow or grief, were ever joyful.

31. Having uprooted, with the end of his bow, the big mountains, he, with the desire to do good to the people, made the terrestrial globe (i.e. the earth) even.

32-33. There were no inaccessible cities or villages; men did not die with weapons in their hands; there was no sorrow, and science of politics was honoured; men were given to piety when Pṛthu was ruling. I have narrated to you, in the manner mentioned (above), (which were) the pots, which was the milk (etc.).

34-35. He, the wise one, gave those whatever they liked, when all were giving importance to sacrifice (or, when all were giving i.e. pouring wealth into sacrifice). I have (thus) told you, O highly intelligent one, that since the earth became the daughter of Pṛthu, she accordingly was known by the wise to be Pṛthivi.

Bhīṣma said :

36. O brāhmaṇa , tell me in due order, about the entire solar dynasty [ Ādityavaṃśa or Sūryavaṃśa ]; please also explain (to me) the lunar dynasty [ Somavaṃśa or Candravaṃśa ], O you who know the truth.

Pulastya said :

37. Formerly Vivasvān was born to Aditi from Kaśyapa . He had three daughters: Saṃjñā , Rājñi and Prabhā .

38. Raivata ’s daughter Rājñi gave birth to a son (called) Revata . Prabhā gave birth to Prabhāta and Saṃjñā to Manu .

39-40. The twins Yama and Yamunā were also born (to Saṃjñā). Then unable to bear Vivasvān’s lustre, she, the beautiful daughter of Tvaṣṭṛ , produced from her own body, a blameless lady, Chāyā by name.

41-42. To her, who stood before her saying; “what should I do?” she said: “O beautiful Chāyā, you serve my husband, nourish my children with motherly affection” Saying “All right” she of a righteous vow, went to god (Vivasvān) for sensual enjoyment.

43-45. The god too, taking her to be Saṃjñā, longed for her with regard, (and) generated Sāvarṇi Manu resembling Manu (the son of Saṃjñā) in form due to his having complexion similar to that of Vaivasvata Manu . Then in due order he generated a daughter by name Tapatī , on Chāyā, the daughter of Tvaṣṭṛ, taking her to be Saṃjñā. Chāyā loved her son Manu more.

46. The former Manu (i.e. the elder one) did not tolerate it. So Yama, violent with anger, and raising his right foot, threatened (her).

47. Chāyā too, cursed Yama: “This one foot will be full of worms and pus, and blood will ooze from it.”

48-49. Insulted by this curse, Yama told his father: “O god, mother has angrily cursed me without any reason. Due to child-like nature, I raised my foot a little. O lord, even though warded off by Manu, she gave me a curse.

50-52. Probably she is not our mother, since she is partial in her love.” God (Vivasvān) also said in return to Yama: “O highly intelligent one, what should I do? Who does not get misery after happiness? Or (rather), the flow of karma is difficult to be resisted even by Bhava , then what about other creatures? A cock will eat the worms on your leg. This leg of yours will be lame and charming.”

53-54. Thus addressed and consoled, he, through detachment, and subsisting on fruits, foam and wind, and propitiating Brahmā , practised, for myriads of years, a severe penance at Puṣkara Tīrtha . The lotus-born one was pleased by the power of his penance.

55. He asked for the lordship of the world and for the eternal world of Pitṛs, and putting to test this world full of piety and impiety.

56. O innocent one, he thus obtained the lordship of the world, the supremacy over the Pitṛs and over piety and impiety.

57. Vivasvān then having come to know that act of Saṃjñā, went to Tvaṣṭṛ and angrily reported it to him.

58-60. Then Tvaṣṭṛ said these kind words to him: “O remover of darkness, not being able to bear your severe lustre, she came to me here, I, fearing you, kept her off, O lord of the sky. ‘Since you have come to me here without your intention being known (by your husband), please do not enter my house’.

61. Thus addresed, she the blameless one, quickly went to the Maru country and taking the form of a mare, lived on the earth.

62-66. “Therefore, show favour to me if I deserve it. Putting you on a machine I shall take off your lustre and will make your appearance delightful to the eyes of the world, O lord.” When the Sun said to him, “All right”, he separated the Sun’s lustre from him, and fashioned from it Viṣṇu’s disk, and also Rudra ’s trident and Indra’s bolt (all) capable of destroying the demons and the friends. Tvaṣṭṛ made the Sun’s form matchless and having a thousand rays, (but) without feet. He could not see the form of the feet of the Sun. Even now nobody should ever fashion the (Sun’s image with) feet.

67. He, the most sinful one, who fashions it, reaches a censured condition, and contracts leprosy, known to be miserable in this world.

68. Therefore one, desiring religious merit and sensual enjoyments, should never fashion in pictures and temples the feet of the intelligent lord of lords.

69-70. Then the love-striken lord of gods going to the earth in the guise of a horse and endowed with great lustre, had oral coitus with her; and the mind of Saṃjñā, afflicted by fear, became agitated.

71. Suspecting him to be a stranger, she threw out (his semen) through her nostrils. We have heard that from that semen Aśvins were born.

72. They became known as Dasra (wonder-workers) and Nāsatya (truthful) (due to their being born) from the nostrils.

73. Full of joy, he went to the heaven with his wife in an aeroplane. Sāvarṇya Manu also is even now practising penance on Meru.

74. Śani also, due to the power of his penance, attained equality with the planets, and Yamunā and Tapatī became rivers.

75. Similarly, Viṣṭhi too, of a terrible form, settled in the form of time. Vaivasvata Manu too had ten sons.

76-77. Out of them Ila was the first who was born as a result of a sacrifice performed to obtain a male issue. (The ten sons were:) Ikṣvāku , Kuśanābha , Ariṣṭa and Dhṛṣṭa , Nariṣyanta , Karūṣa , and very powerful Śaryāti , Pṛṣadhra , and Nābhāga ; all these were divine men.

78. Manu, having first consecrated his righteous son Ila, went to the Puṣkara penance-grove for (practising) penance.

79. For his success Brahmā, the giver of boons, came there, (and said to him:) “Well-being to you, O Mānaveya; ask for a boon”.

80-81. Then he said to the lotus-born god, having lotuslike eyes: “O lotus-born, lord, let all the righteous kings, the lords on the earth, be under my control, through your favour”. Saying “Let it be so”, the lord of gods vanished there only.

82-85. Then coming (back) to Ayodhyā , he lived as before. Then, once, Ila, Manu’s son, seated in a chariot, moved out on this earth, rich with kings, for the fulfilment of an object, and roaming overall regions and subduing kings; and he, the brave one, being attracted, went to Śaṅkara ’s great grove called Śaravaṇa , full of desire-yielding creepers and trees, in which, Śiva , lord of gods, having the crescent moon on his head, sports with Umā. Formerly a convention was fixed about that Śaravaṇa:

86. “Whatever called male enters our grove, all that, within a radius of ten yojanas , will turn into a female.”

87. Not knowing this convention, king Ila entered Śaravaṇa, (and) instantly became a woman, and the same moment (his) horse turned into a mare.

88-91. And while in the female body, he forgot everything that he did as a man; he became a slender lady called llā, having plump, raised and compact breasts, raised hips and loins, having long and dark eyes like lotus-leaves, having a face like the full moon, having plump, raised and long arms, and dark, curly and fine hair, of a charming face and talking sweetly and indistinctly, of a slender shape, with a fair complexion, and having thin, reddish, sprout-like nails, having bow-like eyebrows, and with a gait concealing (i.e. superior to) that of a swan.

92-94. The beautiful young woman, wandering in the forest, thought: ‘Who would be my father, or brother, or mother here? To which husband am I given? For how many years am I (living) on the earth?’ While thinking (thus), she, a lady of an excellent complexion, was seen by ( Budha ), the son of Soma, with his mind seized by the figure of Ilā. Budha, oppressed by love, tried to secure her.

95-96. He, of a distinguished form, bald-headed, entered the grove with a water-pot and a book, a bamboo-stick in his hand, having a ring of kuśa -grass and a shovel, with a brāhmaṇa’s form, having a tuft of hair, reciting Veda, wearing earrings, accompanied by young boys and having sacred fuel, flowers, kuśa grass and water.

97-100. At that time, having looked into it, he hastily concealing himself in a bower outside the grove, called that Ilā, and it was, as it were, an unexpected taunt (for her). “Leaving the service of my sacred fire, where have you gone? Now the time for your sport is over, O you of large hips, come on; why are you confused? This evening time is here, the time for diversion. Having besmeared ground, adorn my house with flowers”.

101. She said: “O you having penance as your wealth, I have forgotten all th is. Tell me all about myself, about you—my husband, and my family, O sinless one.”

102. Budha said to that slender lady: “O you ofexcellent complxion, you are Ilā, and I am known as passionate Budha, well-versed in many lores.

103-105. I am born in the family of the brilliant one (i.e. Soma); my father is the chief of the brāhmaṇas.” After these words uttered by him, she entered Buddha ’s abode, full of jewelled pillars, fashioned with divine illusion. Ilā, having remained in that house regarded herself to be blessed. ‘Oh! wonderful are the vow, the figure, the wealth and the family of this my lord’.

106. And Ilā sported with him in the forest for a long time, in the house full of all enjoyments as in Indra’s residence.

107. Then the king’s brothers, the sons of Manu, Ikṣvāku and others, looking for him, came to that Śaravaṇa.

108. Then they all saw an excellent mare, shining with rays shooting from the points of gems, standing in front of them.

109-110. Recognising her, all of them were amazed. ‘This is the horse, Candraprabha by name, of that magnanimous one. Why has he turned into an excellent mare?’ Then they asked Maitrāvaruṇi (i.e. Vasiṣṭha ), their priest (about it).

111. “O you best among the contemplative sages, tell us, as to what this extraordinary appearance is”. Vasiṣṭha too, knowing all that bymeans of his divine intuition, said:

112-114. “Formerly in the Śaravaṇa a stipulation was laid down by Śambhu ’s wife: The man who would enter this grove will become a woman. This horse also, along with the king, turned into a female. Propitiating the trident-holder (i.e. Śiva), make such an effort that this Ilā will (again) turn into a man resembling Kubera .”

115. With various eulogies they praised Pārvatī and the highest lord (Śiva). They (two) said: “Severe is the stipulation.

116. What indeed is proper? Having given us that fruit which will accrue through Īkṣvāku ’s horse-sacrifice the brave one will undoubtedly be a low man ( kiṃpuruṣa ?).”

117. Saying “All right”, all those sons of Vaivasvata went (from that place). After the performance of the horse-sacrifice, Ilā became a low man.

118-119. The brave one became a man for one month, and a woman for another. Remaining in the house of Budha, Ilā became pregnant, and gave birth to a son endowed with many good qualities. Budha, having generated that Pūru , again went to heaven.

120. Then, after Ilā’s name that region became (i.e. came to be called) ‘ Ilāvṛta ’. King Ila born in the lunar and solar families, increased his family.

121. Similarly Purūravas , who increased the family was born from Pūru. And king Ikṣvāku was said to (belong to) the solar race.

122-126. Ila is called Sudyumna in his low man’s condition. Again, three victorious sons were born to Sudyumna: Utkala , and Gaya , and powerful Haritāśva . The city of Utkala is Utkalā by name; that of Gaya is Gayā ; (to its) south, along with the Kuru -country is said to be the region of Haritāśva. Having consecrated his son Purūravas, as the king, he went to Ilāvṛta to enjoy (there) for a divine year, subsisting on fruits. Ikṣvāku, the eldest son, got the Madhyadeśa (as his kingdom). Śuka of great strength was the son of Nariṣyanta. Ambarīṣa was born from Nābhāga.

127. Dhṛṣṭa had three sons: Dhṛṣṭaketu , Svadharman and the valorous Raṇadhṛṣṭa . Śaryāti’s son was Ānarta , and his daughter was Sukanyā .

128. Brave Rocamāna was the son of Ānarta; his country was Ānarta, and (capital) city was Kuśasthalī .

129. Rocamāna’s son was Reva , and from Reva was born Raivata; his other name was Kakudmin ; he was the eldest among (Reva’s) sons.

130. Revatī was his daughter; she is known to be the wife of ( Bala -) Rāma ; and from Karūṣā, were born Kārūṣas , well-known on the earth.

131. Pṛṣadhra became a Śūdra as a result of a cow’s slaughter, due to his preceptor’s curse. Ikṣvāku’s sons named Vikukṣi , Nimi , Daṇḍaka were pre-eminant among his hundred sons.

132. His other fifty sons became best kings to the north of Meru.

133. Forty-eight out of the hundred were known to be the kings to the south of Meru.

134. From the eldest son was born Kakutstha . His son was Suyodhana . His son was Pṛthu. Viśva was the son of that Pṛthu.

135. His (Viśva’s) son was Ārdra ; from him was born Yuvanāśva .

136. Yuvanāśva’s valourous son was Śāvasta , by whom was set up Śāvastī in the Aṅga country, O prince.

Bṛhadaśva was born of Śāvasta, and from Bṛhadaśva Kuvalāśva was born.

137-138. He became (i.e. came to be called) Dhundhumāra for having formerly killed the demon Dhundhu . He had three sons; Dṛḍhāśva and Ghṛṇi , and the brave Kapilāśva was also the famous son of Dhundhumāra. Dṛḍhāśva’s son was Pramoda , and his son was Haryaśva .

139. Haryaśva’s son was Nikumbha , and from him was born Saṃhatāśva . Akṛtāśva and Raṇāśva were the two sons of Saṃhatāśva.

140-141. Raṇāśva’s son was Yuvanāśva and from him was born Māndhātr. Purukutsa and king Dharmasetu , well known Mucukunda and the brave Śakramitra were born from Māndhātṛ . Dussaha , Narmadā ’s husband, was the son of Purukutsa.

142. His (Dussaha’s) son was Sambhūti ; from him was born Tridhanvan; the son born to Tridhanvan is known as Trayyāruṇa .

143. His son was Satyavrata ; his son was known to be Satyaratha ; his son was Hariścandra ; Rohita was born from Hariścandra.

144. Vṛka was born from Rohita, and Bāhu from Vṛka. Sagara who was a very religious king was his son.

145. Sagara had two wives; Prabhā and Bhānumati. In olden days they propitiated Aurvāgni (the sub-marine fire).

146. Aurva , pleased with them, granted them an excellent boon as desired by them.

147. One asked for sixty thousand sons; the other chose a son continuing the race. Prabhā chose many sons, Bhānumatī chose one son, viz. Asamañjasa .

148. Prabhā, of the Yadu family, gave birth to sixty thousand sons, who pursuing the ( Aśvamedha ) horse dug the earth and were burnt in a group by Viṣṇu.

149-150. The well known son of Asamañjasa was Aṃśumān ; his son was Dilīpa ; from him Bhagīratha was born, who, by performing a penance brought down the Ganges (known) as Bhāgīrathī (after him) (to the earth). Bhagīratha’s son was the well-known Nābhāga.

151. Nābhāga’s son, was Ambarīṣa; from him Sindhudvīpa was born; his son was Ayutāyu , and from his Ṛtuparṇa was born.

152. His son was Kalmāṣapāda . Sarvakarman is known to have been born to him. His son was Anaraṇya ; his son was Nighna .

153. Nighna had two sons: Anamitra and Raghūttama. Anamitra went to the forest after having destroyed his enemies.

154. From Raghu was born Dilīpa and from Dilīpa Aja was born. Dīrghabāhu was born from Aja and from him (Dīrghabāhu) Prajāpāla was born.

155. From him was born Daśaratha ; he had four sons, of the nature of Nārāyaṇa , and Rāma was his eldest son.

156. He destroyed Rāvaṇa and increased the race of Raghus . Vālmīki , the best of the Bhārgavas , composed his biography.

157. His son was Kuśa by name, who increased the Ikṣvāku-race. Atithi was born from Kuśa and Niṣadha was his (Atithi’s) son.

158. From Niṣadha was born Nala ; from him was born Nabhas . From Nabhas Puṇḍarīka was born and from him Kṣemadhanvan was born.

159. His son was the brave Devānīka ; his son was Ahīnagu ; Sahasrāśva was born from him.

160. From him (Sahasrāśva) was born Candrāvaloka and from him Tārāpīḍa was born. His son was Candragiri , whose son was Candra .

161-162. From him was born Śrutāyu , who was killed in the Bhārata war; in his family two Nalas only were particularly famous: the son of Vīrasena and the king Naiṣadha , i.e. the son of Niṣadha. These were the kings in Vivasvat ’s race, who gave rich presents. (Thus) the important kings in the Ikṣvāku race have been described.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 32005, revision 334427 (2022-04-03T10:17:51Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364128.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.