Uttara-khaṇḍa · Chapter 238
Sourceरुद्र उवाच- भ्रातरं निहतं ज्ञात्वा हिरण्यकशिपुस्ततः । तपस्तेपे महादैत्यो मेरोः पार्श्वे च मां प्रति १। दिव्यवर्षसहस्राणि वायुभक्षो महाबलः । जपन्पंचाक्षरं मंत्रं पूजयामास मां शुभे २। ततः प्रहृष्टमनसा तमवोचं महासुरम् । वरं वृणीष्व दैतेय यत्ते मनसि वर्त्तते । ततः प्रोवाच दैतेयो मां प्रसन्नं शुभानने ३। हिरण्यकशिपुरुवाच- देवासुरमनुष्याणां गंधर्वोरगरक्षसाम् । पशुपक्षिमृगाणां च सिद्धानां वै महात्मनाम् ४। यक्षविद्याधराणां च किन्नराणां तथैव च । सर्वेषामेव रोगाणामायुधानां तथैव च । सर्वेषामृषिमुख्यानामवध्यत्वं प्रयच्छ मे ५। रुद्र उवाच- एवमस्त्विति तद्रक्षस्त्वब्रुवं प्रियदर्शने । मत्तो महद्वरं प्राप्य स दैतेयो महाबलः ६। जित्वा महेंद्रं देवांश्च स त्रैलोक्येश्वरोऽभवत् । सर्वांश्च यज्ञभागांश्च स्वयमेवाग्रहीद्बलात् ७। त्रातारं नाधिगच्छंति देवतास्तेन निर्जिताः । तस्यैव किंकराः सर्वे गंधर्वा देवदानवाः ८। यक्षाश्चनागाः सिद्धाश्च साध्याश्च वशवर्तिनः । उत्तानपादस्य सुतां कल्याणीं नाम कन्यकाम् ९। उपयेमे विधानेन दैत्यराजो महाबलः । तस्यां जातो महातेजाः प्रह्लादो दैत्यराट्शुभे १०। अनुरक्तो हृषीकेशे गर्भवासेऽपि यो हरौ । सर्वावस्थासु कृत्येषु मनोवाक्कायकर्म्मभिः ११। नान्यं जानाति देवेशात्प्रसन्नात्मा सनातनात् । स कालेऽपि विनीतः सन्गुरुगेहे वसत्सुधीः १२। अधीत्य सर्ववेदांश्च शास्त्राणि विविधानि च । कस्यचित्त्वथ कालस्य गुरुणा सह दैत्यजः १३। पितुः समीपमागत्य ववंदे विनयान्वितः । तं परिष्वज्य बाहुभ्यां तनयं शुभलक्षणम् । अंके निधाय दैत्येंद्रः प्रोवाचेदं सुविस्मितम् १४। हिरण्यकशिपुरुवाच- प्रह्लाद चिरकालं त्वं गुरुगेहे निवेशितः । यदुक्ता गुरुणा विद्या तन्ममाचक्ष्व सुव्रत १५। रुद्र उवाच- इति पृष्टः स्वपित्रा वै प्रह्लादो जन्मवैष्णवः । प्राह दैत्येश्वरं प्रीत्या वचनं कलुषापहम् १६। प्रह्लाद उवाच- यो वै सर्वोपनिषदामर्थः पुरुष ईश्वरः । तं वै सर्वगतं विष्णुं नमस्कृत्वा ब्रवीमि ते १७। रुद्र उवाच-। इति विष्णुस्तुतिं श्रुत्वा दैत्यराड् विस्मयान्वितः । उवाच तं गुरुं रोषात्किं त्वयोक्तं ममात्मजे १८। ममात्मजस्य दुर्बुद्धे हरिसंस्तवमीदृशम् । किमर्थमुक्तवान्जाड्यमकार्य्यं ब्राह्मणोचितम् १९। अश्राव्यं मदमित्रस्य स्तवमेतं ममाग्रतः । बालेनापिकृतंत्वेतत्त्वत्प्रसादाद्दिवजाधम २०। इत्युक्त्वा परितो वीक्ष्य दैत्यराट्क्रोधमूर्च्छितः । उवाच दैत्यमेकं तु बंधयैनं द्विजाधमम् २१। इतिराजवचः श्रुत्वा स बबंध भृगोः सुतम् । बध्यमानं गुरुं दृष्ट्वा प्रह्लादो ब्राह्मणप्रियः । उवाच पितरं तात इदं मे नोक्तवान्गुरुः २२। कृपया देवदेवस्य शिक्षितोस्मि हरेः प्रभो । नान्यो गुरुर्मे भवति स एव प्रेरको हरिः २३। श्रोता मंता तथा वक्ता द्रष्टा सर्वग ईश्वरः । हरिरेवाक्षयः कर्त्ता नियंता सर्वदेहिनाम् । तस्मादनागसो विप्रो मोक्तव्योऽयं गुरुः प्रभो २४। रुद्र उवाच- इति पुत्रवचः श्रुत्वा हिरण्यकशिपुस्ततः । तं ब्राह्मणं मोचयित्वा स्वसुतं प्राह विस्मयात् २५। किं वत्स त्वं भ्रमस्येवं मिथ्यावाक्यैर्द्विजन्मनः । को विष्णुः किं तु तद्रूपं कुत्रासौ संस्थितो हरिः २६। अहमेवेश्वरो लोके त्रैलोक्याधिपतिर्यतः । मामेवार्च्चय गोविंदं त्यज शत्रुं दुरासदम् २७। अथवा शंकरं देवं रुद्रं लोकगुरुं प्रभुम् । अर्च्चयस्वासुराध्यक्षं सर्वैश्वर्य्यप्रदं शिवम् २८। त्रिपुंड्रधारणं कृत्वा भस्मना दैत्यपूजितम् । पूजयित्वा महादेवं पाशुपत्योक्तमार्गतः २९। रुद्र उवाच- इति दैत्यपतेर्वाक्यं श्रुत्वा दैत्यपुरोहिताः ३०। पुरोहिता ऊचुः- एवमेव महाभाग कुरुष्व वचनं पितुः । त्यज शत्रुं कैटभारिं पूजयस्व त्रिलोचनम् ३१। रुद्रात्परतरो देवो नास्ति सर्वप्रदो नॄणाम् । पिता तवापि तस्यैव प्रसादादीश्वरोऽभवत् ३२। रुद्र उवाच- इति तेषां वचः श्रुत्वा प्रह्लादो जन्मवैष्णवं ३३। प्रह्लाद उवाच- अहो भगवतः श्रेष्ठा यन्माया मोहितं जगत् । अहो वेदांतविदुषः सर्वलोकेषु पूजिताः ३४। ब्राह्मणा अपि चापल्याद्वदंत्येवं मदान्विताः । नारायणः परं ब्रह्म तत्वं नारायणः परम् ३५। नारायणः परो ध्याता ध्यानं नारयणः परम् । गतिर्विश्वस्य जगतः शाश्वतं शिवमच्युतः ३६। धाता विधाता जगतो वासुदेवः सनातनः । विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ३७। हिरण्मयवपुर्नित्यःपुंडरीकनिभेक्षणः । श्रीभूलीलापतिः सौम्योनिर्म्मलः शुभविग्रहः ३८। तेनैव सृष्टौ ब्रह्मेशौ सर्गे देवोत्तमौ विभू । तस्यैवाज्ञां पुरस्कृत्य वर्त्तेते ब्रह्मशंकरौ ३९। भीषास्माद्वाति पवनो भीषोदेति दिवाकरः । भीषास्मादग्निश्चंद्रोऽथ मृत्युर्धावति पंचमः ४०। आसीदेको हरिर्दिव्यो देवो नारायणः परः । ब्रह्मा नेंद्रो न चेशानो न च चंद्र दिवाकरौ ४१। न वा द्यावापृथिव्यौ च नक्षत्राणि दिवौकसः । तस्य विष्णोः परं धाम सदा पश्यंति सूरयः ४२। एवं सर्वोपनिषदामर्थं हित्वा द्विजोत्तमाः । रागाल्लोभाद्भयाद्वापि किं ब्रवीथ ममाग्रतः ४३। तं सर्वरक्षकं देवं त्यक्त्वा सर्वेश्वरं हरिम् । कथं पाषंडमाश्रित्य पूजयामि च शंकरम् ४४। लक्ष्मीपतिं देवदेवमनंतं पुरुषोत्तमम् । इंदीवरदलश्यामं पद्मपत्रायतेक्षणम् ४५। श्रीवत्सलक्षितोरस्कं सर्व्वाभरणभूषितम् । सदा कुमारं सर्व्वेशं नित्यानन्दसुखप्रदम् ४६। कृष्णं दध्युर्महात्मानो योगिनः सनकादयः । यमर्चयंति ब्रह्मेश शक्राद्या देवतागणाः ४७। यस्य पत्न्याः कटाक्षार्द्धदृष्ट्या दृष्टा दिवौकसः । ब्रह्मेंद्र रुद्र वरुण यम सोम धनाधिपाः ४८। यन्नामस्मरणादेव पापिनामपि सत्वरम् । मुक्तिर्भवति जंतूनां ब्रह्मादीनां सुदुर्लभा ४९। स एवं रक्षकः श्रीशो देवानामपि सर्वदा । तमेव पूजयिष्यामि लक्ष्म्या संयुतमच्युतम् ५०। प्राप्स्यामि सुसुखेनैव तद्विष्णोः परमं पदम् । रुद्र उवाच- इति तस्य वचः श्रुत्वा हिरण्यकशिपुस्ततः ५१। क्रोधेन महताविष्टो जज्वालाग्निरिवापरः । परितो वीक्ष्य दैतेयानित्याह क्रोधमूर्छितः ५२। हिरण्यकशिपुरुवाच - भीषणैः शस्त्रसंघातैः प्रह्लादं पापकारिणम् । ममाज्ञया घातयध्वं शत्रुपूजनतत्परम् ५३। रक्षिता हरिरेवेति रक्षते तेन वात्सलात् । अद्यैव सफलं तस्य पश्येयं हरिरक्षणम् ५४। रुद्र उवाच- तदोद्यतास्त्रा दैतेया हंतुं दैत्येश्वरात्मजम् । परिवार्य महात्मानं तस्थुर्दैत्येश्वराज्ञया ५५। प्रह्लादोऽपि तथा विष्णुं ध्यात्वा हृदयपंकजे । जपन्नष्टाक्षरं मंत्रं तस्थौ गिरिरिवापरः ५६। तं जघ्नुः परितो वीराः शूलतोमरशक्तिभिः । प्रह्लादस्य वपुस्तत्र हरिसंस्मरणाच्छुभे ५७। विष्णोः प्रभावाद्दुद्धर्षाद्वज्रभूतमभूद्भृशम् । ततः संप्राप्य तद्गात्रं महास्त्राणि सुरद्विषाम् ५८। नीलोत्पलदलानीव पेतुश्चिछन्नाः क्षितौ शुभे । अल्पमप्यस्य तद्गात्रं भेत्तुं दैत्या न च क्षमाः ५९। विस्मितावाङ्मुखास्तस्थुर्दैत्य राजांतिके भटाः । तादृग्विधं महात्मानं दृष्ट्वा पुत्रं महाबलम् ६०। विस्मयं परमं गत्वा दैत्यराट्क्रोधमूर्छितः । आदिदेश ततः सर्वान्दंदशूकान्महाविषान् ६१। वासुकिप्रभृतीन्भीमान्खादयध्वमिति क्रुधा । आदिष्टास्तेन राज्ञाथ ते नागाः सुमहाबलाः ६२। ज्वलितास्या महाभीमास्तं च खादुर्महाबलम् । गरुडध्वजभक्तं तं विदश्य गरलायुधाः ६३। निर्विषाश्च्छिन्नदशना बभूवुरनिलाशनाः । वैनतेयसहस्रेण छिन्नगात्राः सुविह्वलाः ६४। प्रदुद्रुवुर्दिशः सर्वावमंतो रुधिरं भृशम् । तादृग्विधान्महासर्पान्दृष्ट्वा दैत्यपतिस्तदा ६५। आदिदेश ततः क्रुद्धो दिग्गजान्सुमदान्वितान् । निर्दिष्टास्तेन राज्ञाथ दिग्गजाश्च मदोद्धताः ६६। परिवार्याथ तं जघ्नुर्दंतैः पृथुतरैर्भृशम् । अथ दिग्गजदंताश्च छिन्नमूलाः पतन्भुवि ६७। दंतैर्विनाकृता नागा भयार्ता वै प्रदुद्रुवुः । तान्दृष्ट्वाथ महानागान्दैत्येंद्रः कुपितो बली ६८। प्रज्वाल्य च महावह्निं चिक्षेप सुतमात्मनः । जलशायिप्रियं दृष्ट्वा प्रह्लादं हव्यवाहनः ६९। न ददाह च तं धीरं सुशीतः समभूच्छिखी । अदह्यमानं तं बालं दृष्ट्वा राजा सुविस्मितः ७०। प्रादात्तस्मै विषं घोरं सर्वभूतहितं तदा । तस्य विष्णोः प्रभावाच्च विषमस्यामृतं भवेत् ७१। अर्पणात्तस्य देवस्य विषं चामृतमश्नुते । एवमाद्यैर्वधोपायैर्घोररूपैः सुदारुणैः ७२। मोहयित्वात्मजं राजा तस्यावध्यत्वमीक्ष्य च । ततः साम्ना सुतं प्राह दैत्यराड्विस्मयाकुलः ७३। हिरण्यकशिपुरुवाच- त्वया विष्णोः परत्वं च सम्यगुक्तं ममाग्रतः । व्यापित्वात्सर्वभूतानां विष्णुरित्यभिधीयते ७४। योऽसौ सर्वगतो देवः स एव परमेश्वरः । तस्य सर्वगतत्वं वै प्रत्यक्षं दर्शयस्व मे ७५। ऐश्वर्यशक्तितेजांसि ज्ञानवीर्यबलानि च । परस्य तस्य परमं रूपं गुणविभूतयः ७६। सम्यग्दृष्ट्वा प्रयत्नेन विष्णुं मन्ये दिवौकसाम् । मम प्रतिबलो लोके नास्ति देवेषु कश्चन ७७। ईशानवरदानेन सर्वभूतेष्ववध्यताम् । प्राप्तवान्सर्वभूतानांनदुर्जयत्वं च मानद । ईश्वरत्वं लभेद्विष्णुर्मां जित्वा बलवीर्यतः ७८। रुद्र उवाच- इति तस्य वचः श्रुत्वा प्रह्लादः प्राह विस्मितः । हरेः प्रभावं दैन्यस्य कथयामास सुव्रतः ७९। प्रह्लाद उवाच- योऽसौ नारायणः श्रीमान्परमात्मा सनातनः । वसनात्सर्वभूतेषु वासुदेवः स उच्यते ८०। सर्वस्यापि जगद्धाता विष्णुरित्यभिधीयते । न किंचिदस्मादन्यं तु जगत्स्थावर जंगमम् ८१। सर्वत्र चिदचिद्वस्तु रूपं तस्यैव नान्यथा । त्रिपाद्व्याप्तिः परं व्योम्नि पादव्याप्ति कलाद्भुता ८२। योऽसौ चक्रगदापाणिः पीतवासा जनार्दनः । योगिभिर्दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् ८३। द्रष्टुं न शक्यो रोषाच्च मत्सराद्वा जनार्दनः । देवतिर्यङ्मनुष्येषु स्थावरेष्वपि जंतुषु । व्याप्य तिष्ठति सर्व्वेषु क्षुद्रेष्वपि महत्सु च ८४। रुद्र उवाच- इति प्रह्लादवचनं श्रुत्वा दैत्यवरस्तदा । उवाच रोषताम्राक्षो भर्त्सयंश्च सुतं मुहुः ८५। हिरण्यकशिपुरुवाच- असौ सर्वगतो विष्णुरपि चेत्परमः पुमान् । प्रत्ययं दर्शयस्वाद्य बहुभिः किं च लापितैः ८६। महादेव उवाच-। इत्युक्त्वा सहसा दैत्यः प्रासादस्तंभमात्मनः । ताडयामास हस्तेन प्रह्लादमिदमब्रवीत् ८७। हिरण्यकशिपुरुवाच- अस्मिन्दर्शय तं विष्णुं यदि सर्वगतो भवेत् । अन्यथा त्वां वधिष्यामि मिथ्यावाक्यप्रलापिनम् ८८। रुद्र उवाच- इत्युक्त्वा सहसा खङ्गमाकृष्य दितिजेश्वरः । प्रह्लादोरसि चिक्षेप हंतुं खङ्गेन तं रुषा ८९। तस्मिन्क्षणे महाशब्दः स्तंभे संश्रूयते भृशम् । संवर्ताशनिसंरावैः खमिव स्फुटितांतरम् ९०। तेन शब्देन महता दैत्यश्रोत्रविघातिना । सर्वे निपातिता भूमौ छिन्नमूला इव द्रुमाः ९१। बिभ्यंतः संप्लुतं दैत्या मेनिरे वै जगत्त्रयम् । ततः स्तंभे महातेजा निष्क्रांतो वै महाहरिः ९२। चकार स महाघोरं जगत्क्षयनिभं स्वनम् । तेन नादेन महता तारकाः पतिता भुवि ९३। नृसिंहवपुरास्थाय तत्रैवाविरभूद्धरिः । अनेककोटिसूर्य्याग्नि तेजसा स समावृतः ९४। मुखे पंचाननप्रख्यः शरीरे मानुषाकृतिः । दंष्ट्राकरालवदनः स्फुरज्जिह्वाम्बरोद्धतः ९५। ज्वालावलितकेशांतस्तप्तालातेक्षणो विभुः । सहस्रबाहुभिर्दीर्घैः सर्वायुधसमन्वितैः ९६। वृतो मेरुरिवाभाति बहुशाखानगान्वितः । दिव्यमाल्यांबरधरो दिव्याभरणभूषितः ९७। तस्थौ नृकेसरीरूपः संहर्त्तुं सर्वदानवान् । तं दृष्ट्वा घोरसंकाशं नरसिंहं महाबलम् ९८। दग्धाक्षिपक्ष्मो दैत्येंद्रो विह्वलांगः पपात ह । प्रह्लादोऽथ तदा दृष्ट्वा नारसिंहोपमं हरिम् ९९। जयशब्देन देवेशं नमश्चक्रे जनार्दनम् । ददर्श तस्य गात्रेषु नृसिंहस्य महात्मनः १०० 6.238.100। लोकान्समुद्रा न्सद्वीपान्सुरगंधर्वमानुषान् । अजांडानां सहस्रं तु सटाग्रे तस्य दृश्यते १०१। दृश्यंते तस्य नेत्रेषु सोमसूर्य्यादयस्तथा । कर्णयोरश्विनौ देवौ दिशश्च विदिशस्तथा १०२। ललाटे ब्रह्मरुद्रौ च नभो वायुश्च नासिके । इंद्राग्नी तस्य वक्त्रांतेजिह्वायां तु सरस्वती १०३। दंष्ट्रासु सिंहशार्दूलाः शरभाश्च महोरगाः । कंठे च दृश्यते मेरुः स्कंधेष्वपि महाद्रयः १०४। देवतिर्य्यङ्मनुष्याश्च बाहुष्वपि महात्मनः । नाभौ चास्यांतरिक्षं च पादयोः पृथिवीतथा १०५। रोमस्वोषधयः सर्वाः पादपा नखपंक्तिषु । निःश्वासेषु च वेदाश्च साङ्गोपाङ्गसमन्विताः १०६। आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । सर्वाङ्गेषु प्रदृश्यंते गंधर्वाप्सरसश्च ये १०७। इत्थं विभूतयस्तस्य दृश्यंते परमात्मनः । श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् १०८। शंखचक्रगदाखङ्ग शार्ङ्गाद्यैर्हेतिभिर्युतम् । सर्वोपनिषदामर्थं दृष्ट्वा दैत्येश्वरात्मजः १०९। हर्षाश्रुजलसिक्तांगः प्रणनाम मुहुर्मुहुः । दैत्येंद्रस्तु हरिं दृष्ट्वा क्रोधान्मृत्युवशे स्थितः ११०। योद्धुं खङ्गं समुद्यम्य नृसिंहं तमभिद्रवत् । अथ दैत्यगणाः सर्व्वे लब्धसंज्ञा महाबलाः १११। स्वान्यायुधानि चादाय हरिं जघ्नुस्त्वरान्विताः । पलालकाण्डानि यथा वह्नौ क्षिप्तान्यनेकशः ११२। तथैव भस्मतां यांति महास्त्राणि हरेस्तनौ । तान्यनीकानि दैत्यानां दृष्ट्वा नरहरिस्तदा ११३। सटैर्ददाह च ज्वालामालाविरचित स्फुटैः । नृकेसरि सटोद्भूतवह्निना दानवा भृशम् ११४। निर्भस्मिता गणाः सर्वे निःशेषं तदभूद्बलम् । प्रह्लादं सानुगं हित्वा भस्मिते वीक्ष्य तद्बले ११५। क्रोधाद्दैत्यपतिः खङ्गमाकृष्याभिप्रपद्यत । खङ्गहस्तं तु दैत्येंद्रं जग्राहैकेन बाहुना ११६। पातयामास देवेशो यथा शाखां महानिलः । गृहीत्वा पतितं भूमौ महाकायं नृकेसरी ११७। स्वोत्संगे स्थापयामास ददर्शासौ मुखं हरेः । विष्णुनिंदाकृतंपापंतथावैष्णवदोषजम् ११८। नृसिंहस्पर्शनादेवनिर्भस्मितमभूत्तदा । अथदैत्येश्वरस्याथमहद्गात्रंनृकेसरी ११९। नखेर्विदारयामासतीक्ष्णैर्वज्रनिभैर्घनैः । सनिर्म्मलात्मादैत्येंद्र पःश्यन्साक्षान्मुखं हरेः १२०। नखनिर्भिन्नहृदयः कृतार्थो विजहावसून् । तद्गात्रं शतधा भित्त्वा नखैस्तीक्ष्णैर्महाहरिः १२१। आकृष्यांत्राणि दीर्घाणि कंठे संसक्तवान्प्रियान् । अथ देवगणाः सर्व्वे मुनयश्च तपोधनाः १२२। ब्रह्मरुद्रौ पुरस्कृत्य शनैः स्तोतुं समाययुः । ते प्रसादयितुं भीता ज्वलंतं विश्वतोमुखम् १२३। मातरं जगतां धात्रीं चिंतयामासुरीश्वरीम् । हिरण्यवर्णां हरिणीं सर्व्वोपद्रवनाशिनीम् १२४। विष्णोर्नित्यानवद्यांगीं ध्यात्वा नारायणीं शुभाम् । देवीसूक्तजपैर्भक्त्या नमश्चक्रुः सनातनीम् १२५। तैश्चिंत्यमाना सा देवी तत्रैवाविरभूत्तदा । चतुर्भुजा विशालाक्षी सर्वाभरणभूषिता १२६। दुकूलवस्त्रसहितां दिव्यमालानुलेपनाम् । तां दृष्ट्वा देवदेवस्य प्रियां सर्वे दिवौकसः १२७। ऊचुः प्रांजलयो देवीं प्रसन्नं कुरुते प्रियम् । त्रैलोक्यस्याभयं स्वामी यथा दद्यात्तथा कुरु १२८। रुद्र उवाच- इत्युक्ता सहसा देवी प्रियं प्राप्य जनार्दनम् । प्रणिपत्य नमस्कृत्य प्रसीदेति उवाच तम् १२९। तां दृष्ट्वा महिषीं स्वस्य प्रियां सर्व्वेश्वरो हरिः । रक्षःशरीरजं क्रोधं तत्याज प्रीतवत्क्षणात् १३०। अंकमादाय तां देवीं समाश्लिष्य दयानिधिः । कृपासुधार्द्रदृष्ट्या वै निरैक्षत सुरान्हरिः १३१। ततो जयजयेत्युच्चैः स्तुवतां नमतां तदा । तद्दयादृष्टिदृष्टानां सानंदः संभ्रमोऽभवत् १३२। ततो देवगणाः सर्वे हर्षनिर्भरमानसाः । ऊचुः प्रांजलयो देवं नमस्कृत्य जगत्पतिम् १३३। देवगणा ऊचुः - द्रष्टुमत्यद्भुतं तेजो न शक्तास्ते जगत्पते । अत्यद्भुतमिदं रूपं बहुबाहुपदांकितम् १३४। जगत्त्रयसमाक्रांतं तेजस्तीक्ष्णतरं तव । द्रष्टुं स्थातुं न शक्ताः स्मः सर्व्व एव दिवौकसः १३५। महादेव उवाच-। इत्यर्थितस्तु विबुधैस्तेजस्तदतिभीषणम् । उपसंहृत्य देवेशो बभूव सुखदर्शनः १३६। शरत्कोटींदुसंकाशः पुंडरीकनिभेक्षणः । सुधामय सटापुंज विद्युत्कोटिनिभः शुभः १३७। नानारत्नमयैर्दिव्यैः केयूरैः कटकान्वितैः । बाहुभिः कल्पवृक्षस्य शाखौघैरिव सत्फलैः १३८। चतुर्भिः कोमलैर्दिव्यैरन्वितः परमेश्वरः । जपाकुसुमसंकाशैः शोभितः करपंकजैः १३९। शंखचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः । वरदाभयहस्ताभ्यामितराभ्यां नृकेसरी १४०। श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः । उद्यद्दिनकाराभ्यां च कुण्डलाभ्यां विराजितः १४१। हारकेयूरकटकैर्भूषणैः समलंकृतः । सव्यांगस्थ श्रियायुक्तो राजते नरकेसरी १४२। लक्ष्मीनृसिंहं तं दृष्ट्वा देवताः समहर्षयः । आनन्दाश्रुजलैः सिक्ता हर्षनिर्भरचेतसः १४३। आनंदसिंधुमग्नास्ते नमश्चक्रुर्निरंतरम् । अर्चयामासुरात्मेशं दिव्यपुष्पसमर्पणैः १४४। रत्नकुंभैः सुधापूर्णैरभिषिच्य सनातनम् । वस्त्रैराभरणैर्गंधैः पुष्पैर्धूपैर्म्मनोरमैः १४५। दिव्यैर्निवेदितैर्दीपैरर्च्चयित्वा नृकेसरिम् । तुष्टुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्म्मुहुर्म्महुः १४६। ततः प्रसन्नो लक्ष्मीशस्तेषामिष्टान्वरान्ददौ । ततो देवगणैः सार्धं सर्व्वेशो भक्तवत्सलः १४७। प्रह्लादं सर्वदैत्यानां चक्रे राजानमव्ययम् । आश्वास्य भक्तं प्रह्लादमभिषिच्य सुरोत्तमैः १४८। ददौ तस्मै वरानिष्टान्भक्तिं चाव्यभिचारिणीम् । ततो देवगणैः सर्वैः स्तूयमानो नृकेसरी १४९। विकीर्णपुष्पवपुभिस्तत्रैवांतरधीयत । ततः सुरगणाः सर्वे स्वंस्वं स्थानं प्रपेदिरे १५०। पुनश्च यज्ञभागान्स्वान्बुभुजुः प्रीतमानसाः । ततो देवाः सगंधर्वा निरातंकाभवंस्तदा १५१। तस्मिन्हते महादैत्ये सर्व एव प्रहर्षिताः । प्रह्लादस्तु तदा चक्रे राज्यं धर्मेण वैष्णवः १५२। हरेः प्रसादाल्लब्धं तु राज्यं वैष्णवसत्तमः । बहुभिर्यज्ञदानाद्यैरर्चयित्वा नृकेसरिम् १५३। काले हरिपदं प्राप योगिगम्यं सनातनम् । एतत्प्रह्लादचरितं ये तु शृण्वंति नित्यशः १५४। ते सर्वेपापनिर्मुक्ता यास्यंति परमां गतिम् । एतत्ते कथितं देवि नृसिंहं वैभवं हरेः । शेषां च वैभवावस्थां शृणु देवि यथाक्रमम् १५५। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां सहिंतायामुत्तरखंडे उमामहेश्वरसंवादे नृसिंहप्रादुर्भावोनामाष्टत्रिंशदधिकद्विशततमोऽध्यायः २३८।
rudra uvāca- bhrātaraṃ nihataṃ jñātvā hiraṇyakaśipustataḥ | tapastepe mahādaityo meroḥ pārśve ca māṃ prati 1| divyavarṣasahasrāṇi vāyubhakṣo mahābalaḥ | japanpaṃcākṣaraṃ maṃtraṃ pūjayāmāsa māṃ śubhe 2| tataḥ prahṛṣṭamanasā tamavocaṃ mahāsuram | varaṃ vṛṇīṣva daiteya yatte manasi varttate | tataḥ provāca daiteyo māṃ prasannaṃ śubhānane 3| hiraṇyakaśipuruvāca- devāsuramanuṣyāṇāṃ gaṃdharvoragarakṣasām | paśupakṣimṛgāṇāṃ ca siddhānāṃ vai mahātmanām 4| yakṣavidyādharāṇāṃ ca kinnarāṇāṃ tathaiva ca | sarveṣāmeva rogāṇāmāyudhānāṃ tathaiva ca | sarveṣāmṛṣimukhyānāmavadhyatvaṃ prayaccha me 5| rudra uvāca- evamastviti tadrakṣastvabruvaṃ priyadarśane | matto mahadvaraṃ prāpya sa daiteyo mahābalaḥ 6| jitvā maheṃdraṃ devāṃśca sa trailokyeśvaro'bhavat | sarvāṃśca yajñabhāgāṃśca svayamevāgrahīdbalāt 7| trātāraṃ nādhigacchaṃti devatāstena nirjitāḥ | tasyaiva kiṃkarāḥ sarve gaṃdharvā devadānavāḥ 8| yakṣāścanāgāḥ siddhāśca sādhyāśca vaśavartinaḥ | uttānapādasya sutāṃ kalyāṇīṃ nāma kanyakām 9| upayeme vidhānena daityarājo mahābalaḥ | tasyāṃ jāto mahātejāḥ prahlādo daityarāṭśubhe 10| anurakto hṛṣīkeśe garbhavāse'pi yo harau | sarvāvasthāsu kṛtyeṣu manovākkāyakarmmabhiḥ 11| nānyaṃ jānāti deveśātprasannātmā sanātanāt | sa kāle'pi vinītaḥ sangurugehe vasatsudhīḥ 12| adhītya sarvavedāṃśca śāstrāṇi vividhāni ca | kasyacittvatha kālasya guruṇā saha daityajaḥ 13| pituḥ samīpamāgatya vavaṃde vinayānvitaḥ | taṃ pariṣvajya bāhubhyāṃ tanayaṃ śubhalakṣaṇam | aṃke nidhāya daityeṃdraḥ provācedaṃ suvismitam 14| hiraṇyakaśipuruvāca- prahlāda cirakālaṃ tvaṃ gurugehe niveśitaḥ | yaduktā guruṇā vidyā tanmamācakṣva suvrata 15| rudra uvāca- iti pṛṣṭaḥ svapitrā vai prahlādo janmavaiṣṇavaḥ | prāha daityeśvaraṃ prītyā vacanaṃ kaluṣāpaham 16| prahlāda uvāca- yo vai sarvopaniṣadāmarthaḥ puruṣa īśvaraḥ | taṃ vai sarvagataṃ viṣṇuṃ namaskṛtvā bravīmi te 17| rudra uvāca-| iti viṣṇustutiṃ śrutvā daityarāḍ vismayānvitaḥ | uvāca taṃ guruṃ roṣātkiṃ tvayoktaṃ mamātmaje 18| mamātmajasya durbuddhe harisaṃstavamīdṛśam | kimarthamuktavānjāḍyamakāryyaṃ brāhmaṇocitam 19| aśrāvyaṃ madamitrasya stavametaṃ mamāgrataḥ | bālenāpikṛtaṃtvetattvatprasādāddivajādhama 20| ityuktvā parito vīkṣya daityarāṭkrodhamūrcchitaḥ | uvāca daityamekaṃ tu baṃdhayainaṃ dvijādhamam 21| itirājavacaḥ śrutvā sa babaṃdha bhṛgoḥ sutam | badhyamānaṃ guruṃ dṛṣṭvā prahlādo brāhmaṇapriyaḥ | uvāca pitaraṃ tāta idaṃ me noktavānguruḥ 22| kṛpayā devadevasya śikṣitosmi hareḥ prabho | nānyo gururme bhavati sa eva prerako hariḥ 23| śrotā maṃtā tathā vaktā draṣṭā sarvaga īśvaraḥ | harirevākṣayaḥ karttā niyaṃtā sarvadehinām | tasmādanāgaso vipro moktavyo'yaṃ guruḥ prabho 24| rudra uvāca- iti putravacaḥ śrutvā hiraṇyakaśipustataḥ | taṃ brāhmaṇaṃ mocayitvā svasutaṃ prāha vismayāt 25| kiṃ vatsa tvaṃ bhramasyevaṃ mithyāvākyairdvijanmanaḥ | ko viṣṇuḥ kiṃ tu tadrūpaṃ kutrāsau saṃsthito hariḥ 26| ahameveśvaro loke trailokyādhipatiryataḥ | māmevārccaya goviṃdaṃ tyaja śatruṃ durāsadam 27| athavā śaṃkaraṃ devaṃ rudraṃ lokaguruṃ prabhum | arccayasvāsurādhyakṣaṃ sarvaiśvaryyapradaṃ śivam 28| tripuṃḍradhāraṇaṃ kṛtvā bhasmanā daityapūjitam | pūjayitvā mahādevaṃ pāśupatyoktamārgataḥ 29| rudra uvāca- iti daityapatervākyaṃ śrutvā daityapurohitāḥ 30| purohitā ūcuḥ- evameva mahābhāga kuruṣva vacanaṃ pituḥ | tyaja śatruṃ kaiṭabhāriṃ pūjayasva trilocanam 31| rudrātparataro devo nāsti sarvaprado nṝṇām | pitā tavāpi tasyaiva prasādādīśvaro'bhavat 32| rudra uvāca- iti teṣāṃ vacaḥ śrutvā prahlādo janmavaiṣṇavaṃ 33| prahlāda uvāca- aho bhagavataḥ śreṣṭhā yanmāyā mohitaṃ jagat | aho vedāṃtaviduṣaḥ sarvalokeṣu pūjitāḥ 34| brāhmaṇā api cāpalyādvadaṃtyevaṃ madānvitāḥ | nārāyaṇaḥ paraṃ brahma tatvaṃ nārāyaṇaḥ param 35| nārāyaṇaḥ paro dhyātā dhyānaṃ nārayaṇaḥ param | gatirviśvasya jagataḥ śāśvataṃ śivamacyutaḥ 36| dhātā vidhātā jagato vāsudevaḥ sanātanaḥ | viśvamevedaṃ puruṣastadviśvamupajīvati 37| hiraṇmayavapurnityaḥpuṃḍarīkanibhekṣaṇaḥ | śrībhūlīlāpatiḥ saumyonirmmalaḥ śubhavigrahaḥ 38| tenaiva sṛṣṭau brahmeśau sarge devottamau vibhū | tasyaivājñāṃ puraskṛtya varttete brahmaśaṃkarau 39| bhīṣāsmādvāti pavano bhīṣodeti divākaraḥ | bhīṣāsmādagniścaṃdro'tha mṛtyurdhāvati paṃcamaḥ 40| āsīdeko harirdivyo devo nārāyaṇaḥ paraḥ | brahmā neṃdro na ceśāno na ca caṃdra divākarau 41| na vā dyāvāpṛthivyau ca nakṣatrāṇi divaukasaḥ | tasya viṣṇoḥ paraṃ dhāma sadā paśyaṃti sūrayaḥ 42| evaṃ sarvopaniṣadāmarthaṃ hitvā dvijottamāḥ | rāgāllobhādbhayādvāpi kiṃ bravītha mamāgrataḥ 43| taṃ sarvarakṣakaṃ devaṃ tyaktvā sarveśvaraṃ harim | kathaṃ pāṣaṃḍamāśritya pūjayāmi ca śaṃkaram 44| lakṣmīpatiṃ devadevamanaṃtaṃ puruṣottamam | iṃdīvaradalaśyāmaṃ padmapatrāyatekṣaṇam 45| śrīvatsalakṣitoraskaṃ sarvvābharaṇabhūṣitam | sadā kumāraṃ sarvveśaṃ nityānandasukhapradam 46| kṛṣṇaṃ dadhyurmahātmāno yoginaḥ sanakādayaḥ | yamarcayaṃti brahmeśa śakrādyā devatāgaṇāḥ 47| yasya patnyāḥ kaṭākṣārddhadṛṣṭyā dṛṣṭā divaukasaḥ | brahmeṃdra rudra varuṇa yama soma dhanādhipāḥ 48| yannāmasmaraṇādeva pāpināmapi satvaram | muktirbhavati jaṃtūnāṃ brahmādīnāṃ sudurlabhā 49| sa evaṃ rakṣakaḥ śrīśo devānāmapi sarvadā | tameva pūjayiṣyāmi lakṣmyā saṃyutamacyutam 50| prāpsyāmi susukhenaiva tadviṣṇoḥ paramaṃ padam | rudra uvāca- iti tasya vacaḥ śrutvā hiraṇyakaśipustataḥ 51| krodhena mahatāviṣṭo jajvālāgnirivāparaḥ | parito vīkṣya daiteyānityāha krodhamūrchitaḥ 52| hiraṇyakaśipuruvāca - bhīṣaṇaiḥ śastrasaṃghātaiḥ prahlādaṃ pāpakāriṇam | mamājñayā ghātayadhvaṃ śatrupūjanatatparam 53| rakṣitā harireveti rakṣate tena vātsalāt | adyaiva saphalaṃ tasya paśyeyaṃ harirakṣaṇam 54| rudra uvāca- tadodyatāstrā daiteyā haṃtuṃ daityeśvarātmajam | parivārya mahātmānaṃ tasthurdaityeśvarājñayā 55| prahlādo'pi tathā viṣṇuṃ dhyātvā hṛdayapaṃkaje | japannaṣṭākṣaraṃ maṃtraṃ tasthau giririvāparaḥ 56| taṃ jaghnuḥ parito vīrāḥ śūlatomaraśaktibhiḥ | prahlādasya vapustatra harisaṃsmaraṇācchubhe 57| viṣṇoḥ prabhāvādduddharṣādvajrabhūtamabhūdbhṛśam | tataḥ saṃprāpya tadgātraṃ mahāstrāṇi suradviṣām 58| nīlotpaladalānīva petuścichannāḥ kṣitau śubhe | alpamapyasya tadgātraṃ bhettuṃ daityā na ca kṣamāḥ 59| vismitāvāṅmukhāstasthurdaitya rājāṃtike bhaṭāḥ | tādṛgvidhaṃ mahātmānaṃ dṛṣṭvā putraṃ mahābalam 60| vismayaṃ paramaṃ gatvā daityarāṭkrodhamūrchitaḥ | ādideśa tataḥ sarvāndaṃdaśūkānmahāviṣān 61| vāsukiprabhṛtīnbhīmānkhādayadhvamiti krudhā | ādiṣṭāstena rājñātha te nāgāḥ sumahābalāḥ 62| jvalitāsyā mahābhīmāstaṃ ca khādurmahābalam | garuḍadhvajabhaktaṃ taṃ vidaśya garalāyudhāḥ 63| nirviṣāścchinnadaśanā babhūvuranilāśanāḥ | vainateyasahasreṇa chinnagātrāḥ suvihvalāḥ 64| pradudruvurdiśaḥ sarvāvamaṃto rudhiraṃ bhṛśam | tādṛgvidhānmahāsarpāndṛṣṭvā daityapatistadā 65| ādideśa tataḥ kruddho diggajānsumadānvitān | nirdiṣṭāstena rājñātha diggajāśca madoddhatāḥ 66| parivāryātha taṃ jaghnurdaṃtaiḥ pṛthutarairbhṛśam | atha diggajadaṃtāśca chinnamūlāḥ patanbhuvi 67| daṃtairvinākṛtā nāgā bhayārtā vai pradudruvuḥ | tāndṛṣṭvātha mahānāgāndaityeṃdraḥ kupito balī 68| prajvālya ca mahāvahniṃ cikṣepa sutamātmanaḥ | jalaśāyipriyaṃ dṛṣṭvā prahlādaṃ havyavāhanaḥ 69| na dadāha ca taṃ dhīraṃ suśītaḥ samabhūcchikhī | adahyamānaṃ taṃ bālaṃ dṛṣṭvā rājā suvismitaḥ 70| prādāttasmai viṣaṃ ghoraṃ sarvabhūtahitaṃ tadā | tasya viṣṇoḥ prabhāvācca viṣamasyāmṛtaṃ bhavet 71| arpaṇāttasya devasya viṣaṃ cāmṛtamaśnute | evamādyairvadhopāyairghorarūpaiḥ sudāruṇaiḥ 72| mohayitvātmajaṃ rājā tasyāvadhyatvamīkṣya ca | tataḥ sāmnā sutaṃ prāha daityarāḍvismayākulaḥ 73| hiraṇyakaśipuruvāca- tvayā viṣṇoḥ paratvaṃ ca samyaguktaṃ mamāgrataḥ | vyāpitvātsarvabhūtānāṃ viṣṇurityabhidhīyate 74| yo'sau sarvagato devaḥ sa eva parameśvaraḥ | tasya sarvagatatvaṃ vai pratyakṣaṃ darśayasva me 75| aiśvaryaśaktitejāṃsi jñānavīryabalāni ca | parasya tasya paramaṃ rūpaṃ guṇavibhūtayaḥ 76| samyagdṛṣṭvā prayatnena viṣṇuṃ manye divaukasām | mama pratibalo loke nāsti deveṣu kaścana 77| īśānavaradānena sarvabhūteṣvavadhyatām | prāptavānsarvabhūtānāṃnadurjayatvaṃ ca mānada | īśvaratvaṃ labhedviṣṇurmāṃ jitvā balavīryataḥ 78| rudra uvāca- iti tasya vacaḥ śrutvā prahlādaḥ prāha vismitaḥ | hareḥ prabhāvaṃ dainyasya kathayāmāsa suvrataḥ 79| prahlāda uvāca- yo'sau nārāyaṇaḥ śrīmānparamātmā sanātanaḥ | vasanātsarvabhūteṣu vāsudevaḥ sa ucyate 80| sarvasyāpi jagaddhātā viṣṇurityabhidhīyate | na kiṃcidasmādanyaṃ tu jagatsthāvara jaṃgamam 81| sarvatra cidacidvastu rūpaṃ tasyaiva nānyathā | tripādvyāptiḥ paraṃ vyomni pādavyāpti kalādbhutā 82| yo'sau cakragadāpāṇiḥ pītavāsā janārdanaḥ | yogibhirdṛśyate bhaktyā nābhaktyā dṛśyate kvacit 83| draṣṭuṃ na śakyo roṣācca matsarādvā janārdanaḥ | devatiryaṅmanuṣyeṣu sthāvareṣvapi jaṃtuṣu | vyāpya tiṣṭhati sarvveṣu kṣudreṣvapi mahatsu ca 84| rudra uvāca- iti prahlādavacanaṃ śrutvā daityavarastadā | uvāca roṣatāmrākṣo bhartsayaṃśca sutaṃ muhuḥ 85| hiraṇyakaśipuruvāca- asau sarvagato viṣṇurapi cetparamaḥ pumān | pratyayaṃ darśayasvādya bahubhiḥ kiṃ ca lāpitaiḥ 86| mahādeva uvāca-| ityuktvā sahasā daityaḥ prāsādastaṃbhamātmanaḥ | tāḍayāmāsa hastena prahlādamidamabravīt 87| hiraṇyakaśipuruvāca- asmindarśaya taṃ viṣṇuṃ yadi sarvagato bhavet | anyathā tvāṃ vadhiṣyāmi mithyāvākyapralāpinam 88| rudra uvāca- ityuktvā sahasā khaṅgamākṛṣya ditijeśvaraḥ | prahlādorasi cikṣepa haṃtuṃ khaṅgena taṃ ruṣā 89| tasminkṣaṇe mahāśabdaḥ staṃbhe saṃśrūyate bhṛśam | saṃvartāśanisaṃrāvaiḥ khamiva sphuṭitāṃtaram 90| tena śabdena mahatā daityaśrotravighātinā | sarve nipātitā bhūmau chinnamūlā iva drumāḥ 91| bibhyaṃtaḥ saṃplutaṃ daityā menire vai jagattrayam | tataḥ staṃbhe mahātejā niṣkrāṃto vai mahāhariḥ 92| cakāra sa mahāghoraṃ jagatkṣayanibhaṃ svanam | tena nādena mahatā tārakāḥ patitā bhuvi 93| nṛsiṃhavapurāsthāya tatraivāvirabhūddhariḥ | anekakoṭisūryyāgni tejasā sa samāvṛtaḥ 94| mukhe paṃcānanaprakhyaḥ śarīre mānuṣākṛtiḥ | daṃṣṭrākarālavadanaḥ sphurajjihvāmbaroddhataḥ 95| jvālāvalitakeśāṃtastaptālātekṣaṇo vibhuḥ | sahasrabāhubhirdīrghaiḥ sarvāyudhasamanvitaiḥ 96| vṛto merurivābhāti bahuśākhānagānvitaḥ | divyamālyāṃbaradharo divyābharaṇabhūṣitaḥ 97| tasthau nṛkesarīrūpaḥ saṃharttuṃ sarvadānavān | taṃ dṛṣṭvā ghorasaṃkāśaṃ narasiṃhaṃ mahābalam 98| dagdhākṣipakṣmo daityeṃdro vihvalāṃgaḥ papāta ha | prahlādo'tha tadā dṛṣṭvā nārasiṃhopamaṃ harim 99| jayaśabdena deveśaṃ namaścakre janārdanam | dadarśa tasya gātreṣu nṛsiṃhasya mahātmanaḥ 100 6.238.100| lokānsamudrā nsadvīpānsuragaṃdharvamānuṣān | ajāṃḍānāṃ sahasraṃ tu saṭāgre tasya dṛśyate 101| dṛśyaṃte tasya netreṣu somasūryyādayastathā | karṇayoraśvinau devau diśaśca vidiśastathā 102| lalāṭe brahmarudrau ca nabho vāyuśca nāsike | iṃdrāgnī tasya vaktrāṃtejihvāyāṃ tu sarasvatī 103| daṃṣṭrāsu siṃhaśārdūlāḥ śarabhāśca mahoragāḥ | kaṃṭhe ca dṛśyate meruḥ skaṃdheṣvapi mahādrayaḥ 104| devatiryyaṅmanuṣyāśca bāhuṣvapi mahātmanaḥ | nābhau cāsyāṃtarikṣaṃ ca pādayoḥ pṛthivītathā 105| romasvoṣadhayaḥ sarvāḥ pādapā nakhapaṃktiṣu | niḥśvāseṣu ca vedāśca sāṅgopāṅgasamanvitāḥ 106| ādityā vasavo rudrā viśvedevā marudgaṇāḥ | sarvāṅgeṣu pradṛśyaṃte gaṃdharvāpsarasaśca ye 107| itthaṃ vibhūtayastasya dṛśyaṃte paramātmanaḥ | śrīvatsakaustubhoraskaṃ vanamālāvibhūṣitam 108| śaṃkhacakragadākhaṅga śārṅgādyairhetibhiryutam | sarvopaniṣadāmarthaṃ dṛṣṭvā daityeśvarātmajaḥ 109| harṣāśrujalasiktāṃgaḥ praṇanāma muhurmuhuḥ | daityeṃdrastu hariṃ dṛṣṭvā krodhānmṛtyuvaśe sthitaḥ 110| yoddhuṃ khaṅgaṃ samudyamya nṛsiṃhaṃ tamabhidravat | atha daityagaṇāḥ sarvve labdhasaṃjñā mahābalāḥ 111| svānyāyudhāni cādāya hariṃ jaghnustvarānvitāḥ | palālakāṇḍāni yathā vahnau kṣiptānyanekaśaḥ 112| tathaiva bhasmatāṃ yāṃti mahāstrāṇi harestanau | tānyanīkāni daityānāṃ dṛṣṭvā naraharistadā 113| saṭairdadāha ca jvālāmālāviracita sphuṭaiḥ | nṛkesari saṭodbhūtavahninā dānavā bhṛśam 114| nirbhasmitā gaṇāḥ sarve niḥśeṣaṃ tadabhūdbalam | prahlādaṃ sānugaṃ hitvā bhasmite vīkṣya tadbale 115| krodhāddaityapatiḥ khaṅgamākṛṣyābhiprapadyata | khaṅgahastaṃ tu daityeṃdraṃ jagrāhaikena bāhunā 116| pātayāmāsa deveśo yathā śākhāṃ mahānilaḥ | gṛhītvā patitaṃ bhūmau mahākāyaṃ nṛkesarī 117| svotsaṃge sthāpayāmāsa dadarśāsau mukhaṃ hareḥ | viṣṇuniṃdākṛtaṃpāpaṃtathāvaiṣṇavadoṣajam 118| nṛsiṃhasparśanādevanirbhasmitamabhūttadā | athadaityeśvarasyāthamahadgātraṃnṛkesarī 119| nakhervidārayāmāsatīkṣṇairvajranibhairghanaiḥ | sanirmmalātmādaityeṃdra paḥśyansākṣānmukhaṃ hareḥ 120| nakhanirbhinnahṛdayaḥ kṛtārtho vijahāvasūn | tadgātraṃ śatadhā bhittvā nakhaistīkṣṇairmahāhariḥ 121| ākṛṣyāṃtrāṇi dīrghāṇi kaṃṭhe saṃsaktavānpriyān | atha devagaṇāḥ sarvve munayaśca tapodhanāḥ 122| brahmarudrau puraskṛtya śanaiḥ stotuṃ samāyayuḥ | te prasādayituṃ bhītā jvalaṃtaṃ viśvatomukham 123| mātaraṃ jagatāṃ dhātrīṃ ciṃtayāmāsurīśvarīm | hiraṇyavarṇāṃ hariṇīṃ sarvvopadravanāśinīm 124| viṣṇornityānavadyāṃgīṃ dhyātvā nārāyaṇīṃ śubhām | devīsūktajapairbhaktyā namaścakruḥ sanātanīm 125| taiściṃtyamānā sā devī tatraivāvirabhūttadā | caturbhujā viśālākṣī sarvābharaṇabhūṣitā 126| dukūlavastrasahitāṃ divyamālānulepanām | tāṃ dṛṣṭvā devadevasya priyāṃ sarve divaukasaḥ 127| ūcuḥ prāṃjalayo devīṃ prasannaṃ kurute priyam | trailokyasyābhayaṃ svāmī yathā dadyāttathā kuru 128| rudra uvāca- ityuktā sahasā devī priyaṃ prāpya janārdanam | praṇipatya namaskṛtya prasīdeti uvāca tam 129| tāṃ dṛṣṭvā mahiṣīṃ svasya priyāṃ sarvveśvaro hariḥ | rakṣaḥśarīrajaṃ krodhaṃ tatyāja prītavatkṣaṇāt 130| aṃkamādāya tāṃ devīṃ samāśliṣya dayānidhiḥ | kṛpāsudhārdradṛṣṭyā vai niraikṣata surānhariḥ 131| tato jayajayetyuccaiḥ stuvatāṃ namatāṃ tadā | taddayādṛṣṭidṛṣṭānāṃ sānaṃdaḥ saṃbhramo'bhavat 132| tato devagaṇāḥ sarve harṣanirbharamānasāḥ | ūcuḥ prāṃjalayo devaṃ namaskṛtya jagatpatim 133| devagaṇā ūcuḥ - draṣṭumatyadbhutaṃ tejo na śaktāste jagatpate | atyadbhutamidaṃ rūpaṃ bahubāhupadāṃkitam 134| jagattrayasamākrāṃtaṃ tejastīkṣṇataraṃ tava | draṣṭuṃ sthātuṃ na śaktāḥ smaḥ sarvva eva divaukasaḥ 135| mahādeva uvāca-| ityarthitastu vibudhaistejastadatibhīṣaṇam | upasaṃhṛtya deveśo babhūva sukhadarśanaḥ 136| śaratkoṭīṃdusaṃkāśaḥ puṃḍarīkanibhekṣaṇaḥ | sudhāmaya saṭāpuṃja vidyutkoṭinibhaḥ śubhaḥ 137| nānāratnamayairdivyaiḥ keyūraiḥ kaṭakānvitaiḥ | bāhubhiḥ kalpavṛkṣasya śākhaughairiva satphalaiḥ 138| caturbhiḥ komalairdivyairanvitaḥ parameśvaraḥ | japākusumasaṃkāśaiḥ śobhitaḥ karapaṃkajaiḥ 139| śaṃkhacakragṛhītābhyāmudbāhubhyāṃ virājitaḥ | varadābhayahastābhyāmitarābhyāṃ nṛkesarī 140| śrīvatsakaustubhorasko vanamālāvibhūṣitaḥ | udyaddinakārābhyāṃ ca kuṇḍalābhyāṃ virājitaḥ 141| hārakeyūrakaṭakairbhūṣaṇaiḥ samalaṃkṛtaḥ | savyāṃgastha śriyāyukto rājate narakesarī 142| lakṣmīnṛsiṃhaṃ taṃ dṛṣṭvā devatāḥ samaharṣayaḥ | ānandāśrujalaiḥ siktā harṣanirbharacetasaḥ 143| ānaṃdasiṃdhumagnāste namaścakrurniraṃtaram | arcayāmāsurātmeśaṃ divyapuṣpasamarpaṇaiḥ 144| ratnakuṃbhaiḥ sudhāpūrṇairabhiṣicya sanātanam | vastrairābharaṇairgaṃdhaiḥ puṣpairdhūpairmmanoramaiḥ 145| divyairniveditairdīpairarccayitvā nṛkesarim | tuṣṭuvuḥ stavanairdivyairnamaścakrurmmuhurmmahuḥ 146| tataḥ prasanno lakṣmīśasteṣāmiṣṭānvarāndadau | tato devagaṇaiḥ sārdhaṃ sarvveśo bhaktavatsalaḥ 147| prahlādaṃ sarvadaityānāṃ cakre rājānamavyayam | āśvāsya bhaktaṃ prahlādamabhiṣicya surottamaiḥ 148| dadau tasmai varāniṣṭānbhaktiṃ cāvyabhicāriṇīm | tato devagaṇaiḥ sarvaiḥ stūyamāno nṛkesarī 149| vikīrṇapuṣpavapubhistatraivāṃtaradhīyata | tataḥ suragaṇāḥ sarve svaṃsvaṃ sthānaṃ prapedire 150| punaśca yajñabhāgānsvānbubhujuḥ prītamānasāḥ | tato devāḥ sagaṃdharvā nirātaṃkābhavaṃstadā 151| tasminhate mahādaitye sarva eva praharṣitāḥ | prahlādastu tadā cakre rājyaṃ dharmeṇa vaiṣṇavaḥ 152| hareḥ prasādāllabdhaṃ tu rājyaṃ vaiṣṇavasattamaḥ | bahubhiryajñadānādyairarcayitvā nṛkesarim 153| kāle haripadaṃ prāpa yogigamyaṃ sanātanam | etatprahlādacaritaṃ ye tu śṛṇvaṃti nityaśaḥ 154| te sarvepāpanirmuktā yāsyaṃti paramāṃ gatim | etatte kathitaṃ devi nṛsiṃhaṃ vaibhavaṃ hareḥ | śeṣāṃ ca vaibhavāvasthāṃ śṛṇu devi yathākramam 155| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ sahiṃtāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde nṛsiṃhaprādurbhāvonāmāṣṭatriṃśadadhikadviśatatamo'dhyāyaḥ 238|
English translation
Rudra said :
1-2. Having learnt that his brother was killed, the great demon Hiraṇyakaśipu practised a penance near Meru (dedicating it) to me. O auspicious one, he, the very powerful one, eating (i.e. subsisting on) air, muttering the five-syllabled formula, worshipped me for thousands of divine years.
3. Then with a pleased mind, I said to the great demon: “O demon, ask for the boon that is in your mind.” Then the demon spoke to me, who was pleased, O you of an auspicious face:
Hiraṇyakaśipu said :
4-5. Grant me exemption from death from gods, demons, human beings, gandharvas , serpents, fiends, beasts, birds, animals, noble siddhas and yakṣas , vidyādharas , so also kinnaras , so also all diseases, weapons, all principal sages.
Rudra said :
6-14. O you of a pleasing appearance, I said to the demon: “Let it be so.” The very powerful demon, having got the great boon from me, conquered Indra and gods and became the lord of the three worlds; and he himself forcibly took all portions of sacrifices. Gods, vanquished by him, did not find a protector. All gandharvas, gods, demons, yakṣas, nāgas , siddhas and sādhyas were under his control. The very mighty king of the demons married, according to proper rites, Uttānapāda ’s daughter named Kalyāṇī . O you auspicious one, from her was born the very lustrous Prahlāda , the king of the demons. Even while (he was) in (his mother’s) womb, he was attached to Viṣṇu . He, of a delighted mind, never knew anyone else except the lord of gods in all conditions and deeds (done) with his mind, speech and body. The humble and very intelligent one stayed in his preceptor’s house at a (proper) time. Having studied all the Vedas and various sacred texts, the demon’s son sometime came along with his preceptor to his father and saluted him with humility. The lord of the demons, having embraced his son of auspicious marks with his arms, and having put him who was much amazed, on his lap, said these (words to him):
Hiraṇyakaśipu said :
15. O Prahlāda, you stayed in your preceptor’s house for a long time. O you of a good vow, tell me the knowledge given to you by your preceptor.
Rudra said :
16. Thus asked by his father, Prahlāda, a born devotee of Viṣṇu, affectionately spoke words removing sins to the lord of demons:
Prahlāda said :
17. After having saluted Viṣṇu, the Highest Being, the lord, who is the aim of all Upaniṣads , I shall tell you.
Rudra said :
18-20. The lord of demons, having thus heard Viṣṇu’s praise, was amazed. He angrily said to the preceptor: “What have you taught my son? O you wicked one, why did you teach my son such praise of Viṣṇu, a stupid thing not fit to be done by a brāhmaṇa ? O mean brāhmaṇa, due to your favour (only) this my son has told me the praise of my enemy, which is not fit to be heard.”
21-24. Speaking like this and looking around, the demon-king, in a fit of anger, said to a demon: “Bind this mean brāhmaṇa.” Hearing these words of the king, he bound ( Śukra ,) Bhṛgu ’s son. Seeing his preceptor being bound, Prahlāda, to whom brāhmaṇas were dear, said to his father: “O father, my perceptor [preceptor?] did not teach me this. I have learnt it through the favour of Viṣṇu, the speaker, the seer. The lord is omnipresent. Viṣṇu alone is the imperishable agent, the controller of all human beings. Therefore, O lord, This brāhmaṇa, my preceptor, who is innocent, should be released.”
Rudra said :
25-29. Having heard the words of his son, Hiraṇyakaśipu then let the brāhmaṇa free, and with amazement said to his son: “O son, why do you thus go astray (influenced) by the brāhmaṇa’s words? Who is Viṣṇu? What is his form? Where does this Viṣṇu stay? Since I am the lord in the world, the master of the three worlds, honour me only. Abandon this Viṣṇu, our enemy, difficult to be overpowered. Or worship lord Śaṅkara , god Śiva , Rudra , the father of the worlds, the chief of gods, giving all splendour. After putting on the mark of three lines on your forehead with ash worship Mahādeva worshipped by demons, in the manner as told in the Pāśupata sect.
Rudra said :
30-32. Hearing these words of the lord of the demons, the priest of the demons said: “O glorious one, do like this only as your father tells. Abandon (our) enemy, Kaiṭabha ’s enemy, and worship the three-eyed (god, i.e. Śiva). There is no greater god than Śiva, who gives everything to men. Your father also became the lord (of demons) because of his favour only.”
Rudra said :
33. Hearing these words of them, Prahlāda, a born devotee of Viṣṇu, said:
34-42. “O greatest ones, since the world is deluded by the Maya of the lord, even brāhmaṇas knowing Vedānta and honoured among all the people, being proud, speak like this through fickleness. Nārāyaṇa is the highest Brahman . Nārāyaṇa is the highest truth. Nārāyaṇa is the highest meditator and the highest meditation. He is the refuge of the entire world. Acyuta is the eternal good. Eternal Vāsudeva is the sustainer, the creator of the world. The Highest Being is all this. Everything depends upon him. His body is all golden. He is eternal. His eyes are like lotuses. He is the lord of Śrī, Bhū and Līlā . He is pleasing, spotless and of an auspicious body. He alone created the two lords, Brahmā and Śiva, the two best gods. Brahmā and Śiva act by honouring (i.e. according to) his order only. The wind blows through his fear. The sun rises through his fear. Through his fear run fire, the moon and death as the fifth. The highest, divine god Nārāyaṇa Viṣṇu was alone there (in the beginning). Brahmā was not there; Indra was not there; Śiva was not there; the sun and the moon were not there. The heaven and the earth were not there; nor were the stars and the gods there. The wise men always see the highest abode of that Viṣṇu.
43-51a. O best brāhmaṇas, having ignored the significance of all Upaniṣads, why do you talk like this through attachment or greed before me? Abandoning that Viṣṇu, the god protecting all, and the god of all, how can I, resorting to heresy, worship Śiva? The noble meditating sages like Sanaka meditated upon Kṛṣṇa , the lord of Lakṣmī , the god of gods, Ananta , the Highest Being, dark like the petals of a blue lotus, having large eyes like lotus-leaves, with his chest marked with Śrīvatsa , adorned with all ornaments, always a youth, the lord of all, eternal joy, and giver of pleasures, whom the hosts of gods like Brahmā, Śiva, Indra and others worship, with half a glance of whose wife, gods like Brahmā, Indra, Rudra, Varuṇa , Yama , Soma and ( Kubera ) the lord of wealth, are looked at. Merely by recollecting his name, even sinful living beings quickly obtain salvation, very difficult to be secured (even) by Brahmā and others. That lord of Śrī alone is always the protector of even the gods. I shall worship only that Viṣṇu united with Lakṣmī. With great ease only I shall reach that highest place of Viṣṇu.”
Rudra said :
51b. Hearing these words of him, Hiraṇyakaśipu, full of anger, burnt like another fire. Looking at the demons around him, he, in a fit of anger, spoke like this:
Hiraṇyakaśipu said :
52-54. By my order kill sinful Prahlāda highly devoted to worshipping my enemy, with multitudes of fierce weapons. His protector Viṣṇu alone will protect him through love. Today only I would see (if) his being protected by Viṣṇu is effective.
Rudra said :
55-59. Then by the order of the lord of demons, the demons, with weapons raised, stood round the son of the lord of demons to kill him. Prahlāda too, meditating upon Viṣṇu in the lotus of his heart, and muttering the eight-syllabled formula, stood like another mountain. On all sides the heroes struck him with lances, iron clubs and śaktis . O you auspicious one, due to Viṣṇu’s inviolable power, Prahlāda’s body very much became adamantine due to remembering Viṣṇu. Then the great missiles of the enemies of gods, having reached his body, and being cutt off, fell down on the ground like blue lotuses, O auspicious one. The demons were not able to pierce (i.e. hurt) his body even slightly.
60-67. The soldiers, being amazed and with their faces hung down, stood near the king. Seeing his very powerful son of that kind, the demon-king being very much amazed and full of anger, wrathfully ordered all the very poisonous, fearful snakes like Vāsuki : “Eat him (up).” Then the very powerful, very fierce snakes, with their mouths blazing, ate (i.e. started eating) the very powerful (Prahlāda). They, full of poison, bit the devotee of (Viṣṇu) the Garuḍa -bannered one. The (snakes) that subsisted on air became poisonless and had their teeth cut off. With their limbs cut off by a thousand sons of Vinatā , and very much afflicted and vomiting profuse blood, they ran into all directions. Seeing the great snakes (reduced to a condition) like that, the angry lord of the demons then ordered the very much intoxicated quarter-elephants. The quarter-elephants, haughty with rut, ordered by that king, surrounded him, and struck him hard with their very large tusks. Then the tusks of the quarter-elephants, with their roots cut off, fell on the ground.
68-73. The elephants, rendered tuskless, and overcome by fear, fled. Seeing the great elephants (fleeing) the mighty lord of demons got angry. And burning a great fire, he threw it at his son. Fire, seeing Prahlāda, dear to Viṣṇu, did not burn the wise one. Fire became very cool. Seeing the boy not being burnt, the king, who was very much amazed, gave him, good to all beings, terrible poison. Due to the power of that Viṣṇu, the poison become nectar. Poison, due to one’s offering (oneself) to that god, becomes nectar. Having thus deluded his son by means of such fierce and very terrible means, and seeing that he could not be killed, the king of demons, being full of amazement spoke mildly to his son:
Hiraṇyakaśipu said :
74-78. You have properly described before me Viṣṇu’s greatness. He is called Viṣṇu because (he stands) pervading all worlds. He who is the omnipresent god is alone the highest god. Actually show me his omnipresence. Having carefully and properly seen the splendour of qualities like supremacy, power, lustre, knowledge, heroism, strength, excellent form of him the highest one, I shall honour Viṣṇu from among the gods. There is no match for my power among the gods. O you who honour (others), as a result of grant of a boon from Śiva I have obtained immunity from death among all living beings and invincibility for living beings. Viṣṇu would receive the title of lord after having vanquished me with power and might.
Rudra said :
79. Hearing these words of him, Prahlāda, being amazed, spoke. He, of a good vow, told about the glory of Viṣṇu to the demon.
Prahlāda said :
80-84. Since that Nārāyaṇa, the glorious one, the highest soul, the ancient one lives in all beings, he is called Vāsudeva. He, the sustainer of the world, is called Viṣṇu. Nothing other than him is the immobile and the mobile. The sentient objects everywhere are Viṣṇu only and none else. The heaven he has pervaded himself with three steps and the pervasion with one step is wonderful(?). That Viṣṇu, having a disc and a mace in his hands, and wearing a yellow garment, is seen by meditating sages through devotion and never without it. Viṣṇu cannot be seen through anger or jealousy. Having pervaded (everything) among gods, lower animals, immobile objects, living beings and among all small and great (objects), he dwells.
Rudra said :
85-87. Hearing these words of Prahlāda, that excellent demon, with his eyes red due to anger, reproaching his son repeatedly, said to him:
Hiraṇyakaśipu said :
If that Viṣṇu is omnipresent and the Highest Being, then actually show him to me. What is the use of much nonsensical talk?
Mahādeva said :
Speaking like this, Hìraṇyakaśipu struck a pillar of the palace with his hand, and said these (words) to Prahlāda:
Hìraṇyakaśipu said :
88. IfViṣṇu would be (i.e. is) omnipresent, then show him (to me) in this (pillar). Otherwise I shall kill you, uttering false words.
Rudra said :
89-93. Speaking like this, the lord of the demons, suddenly drew out his sword, and angrily threw it at Prahlāda’s chest to kill him. At that moment, a great sound was heard from the pillar. The interior of the sky was as it were broken with sounds of the destructive fire. Due to that big sound, striking the ears of the demons, all fell on the ground like trees with their roots cut off. The frightened demons thought that the three worlds were inundated. Then great Viṣṇu, of a great lustre, came out of the pillar. He made a very fearful sound, resembling (the one) at the time of the destruction of the world. Due to that great sound stars fell on the ground.
94-97. Having assumed the body of Nṛsiṃha , Viṣṇu manifested (himself) there only. He was covered with the lustre of crores of suns and fires. In his face he resembled a lion, and in (the other parts of) the body he had a human figure. His mouth was fierce due to fangs, and was raised up to the sky with his throbbing tongue. The ends of his hair were surrounded by flames. The lord had eyes like burning firebrands. Covered by a thousand long arms, full of all weapons, he appeared like (mountain) Meru, with many trees having branches. He had worn a garland of divine flowers, and was decorated with divine ornaments.
98-107. To destroy all demons he remained in the form of a man-lion. Seeing very powerful, terrible-looking man-lion, the lord of demons, with his eyelashes burnt and body afflicted, fell (down). Then Prahlāda, seeing Viṣṇu like a man-lion, saluted Viṣṇu with the words ‘Victory (to you).’ On the limbs of that high-souled man-lion he saw worlds, seas, islands, gods, gandharvas, human beings; a thousand cosmic eggs were seen on the tip of his mane. Similarly in his eyes were seen the moon, the sun etc. In his eyes (were seen) gods Aśvinas , directions and intermediate directions. On his forehead (were seen) Brahmā and Rudra; in his nose (were seen) the sky and air. In his mouth Indra and Agni (were seen). On his tongue Sarasvatī (was seen). On his fangs (were seen) lions, tigers, Śarabhas (i.e. the fabulous eightlegged animals), and great serpents. On his throat was seen Meru, and great mountains (were seen) on his shoulders. On the arms of the noble one (were seen) gods, lower animals and human beings. The atmosphere (was seen) in his navel, and the earth (was seen) on his feet. On his hair all herbs (were seen). On the rows of his nails trees (were seen). In his breaths, Vedas with Aṅgas and Upāṅgas (were seen). On all his limbs (were seen) Ādityas , Vasus , Rudras , hosts of Maruts , gandharvas and celestial nymphs.
108-114. Thus were seen the splendours of the highest soul. The son of the lord of demons, seeing Viṣṇu having Śrīvatsa and Kaustubha (worn) on his chest, adorned with a garland of wood-flowers, endowed with weapons like a conch, a disc, a mace, a sword, the Śārṅga (bow), the goal of all Upaniṣads, had his body sprinkled with tears of joy and repeatedly saluted him. The lord of demons, who was under the influence of (i.e. in the clutches of) death, seeing Viṣṇu, and raising his sword, ran to Nṛsiṃha to fight with him. Then all the very powerful demons who had regained consciousness, took their own weapons, and hurriedly struck Viṣṇu. The weapons were reduced to ash on (reaching) the body of Viṣṇu, as straws thrown into fire (are burnt) in various ways. At that time Viṣṇu, seeing the armies of the demons, burnt them with his bright mane which was arranged with lines of flames. The demons were very much burnt by the fire coming out of Nṛsiṃha’s mane.
115-123. All the attendants (were thus burnt). The army had none left in it. Seeing that army, except Prahlāda with his followers, reduced to ash, the lord of demons angrily drew out his sword and moved (towards Viṣṇu). The lord of gods seized the lord of demons with a sword in his hand with one arm, and dropped him down, as a stormy wind (knocks down) a branch. Nṛsiṃha, taking the huge-bodied (demon), fallen on the ground, placed him on his lap. He saw Viṣṇu’s face. At that time the sin due to censuring Viṣṇu, and due to the blemish of not being a devotee of Viṣṇu, was reduced to ash merely by Viṣṇu’s touch. Then Nṛsiṃha tore off the huge body of the lord of demons with his sharp, hard nails resembling the thunderbolt. The lord of demons, with his soul purified, and with his heart torn off with the nails, actually saw the face of Viṣṇu, and being (thus) fortunate, gave up his life. Great Viṣṇu, having cut off his body into a hundred pieces, and drawn out his long entrails, put the dear ones round his neck (put them affectionately round his neck). Then all hosts of gods, sages having penance as their treasure, led by Brahmā and Rudra, slowly came there to praise (him). They were afraid to propitiate the blazing (Viṣṇu) having faces on all sides.
124-126. (Then) they brought before their mind the goddess, the mother, the supporter of the worlds, of a golden complexion, extremely beautiful ( hariṇī ) [1] , and destroying all troubles. Having prought [brought?] before their mind the auspicious Lakṣmī (wife) of Viṣṇu, always of a blameless body, with the hymns of the goddess (i.e. Lakṣmī), and devoutly saluted her, the eternal one, brought before their mind by them, that goddess, having four arms, large eyes, and adorned with all ornaments, appeared (there).
127-128. Seeing the beloved of the god of gods, who had put on silken garments, and a divine garland, all gods, with the palms of their hands joined, said to her: “Propitiate your husband. Act in such a way that the lord would give the three worlds immunity from fear.”
Rudra said :
129-133. The goddess, thus addressed, suddenly went to her husband Viṣṇu and having bowed down before him and saluted him, said to him: “(Please) be pleased.” Seeing his own dear wife, Viṣṇu, the lord of all, gave up his anger due to the demon’s body, and in a moment became pleased. That ocean of pity, Viṣṇu, placing the goddess on his lap and embracing her, looked at the gods with eyes wet with the nectar of favour. Then there was a joyful agitation among them, praising him and saluting him, and seen by him with kind eyes. Then all the hosts of gods, with their minds full of joy, having saluted the god, the lord of the worlds, with the palms of their hands joined, said (to him):
The hosts of gods said :
134-135. O lord of the worlds, we are not able to see your very wonderful lustre, and your very wonderful form, marked with many arms and feet. We, all gods, are not able to see and put up with your very strong lustre that has filled the three worlds.
Mahādeva said :
136-146. Thus requested by the gods, the lord of gods withdrew that very fearful lustre, and became of a pleasing appearance, auspicious, resembling a crore of autumnal moons, having eyes like lotuses, resembling crores of flashes of lightning due to the mass of his mane full of nectar. The great lord was graced with four delicate, divine arms, endowed with divine armlets and bracelets full of various jewels, resembling the branches with fruits of the desire-yielding tree. The lord was decorated with lotus-like hands resembling japā -flowers. The man-lion was adorned with two raised hands holding a conch and a disc, and with other two granting boons and freedom from fear. His chest was (marked) with Śrīvatsa and Kaustubha; he was adorned with a garland of wood-flowers. He was also decorated with ear-rings resembling the rays of the rising sun. The man-lion, adorned with ornaments like necklaces, armlets, bracelets, shone with Lakṣmī sitting on the left (lap) of his body. The deities along with the great sages, seeing Lakṣmī and the man-lion, with their hearts full of joy, sprinkled them with tears of joy. They, plunged into the ocean of joy, constantly saluted them. By offering divine flowers, they worshipped the lord of souls. Having sprinkled the ancient Nṛsiṃha with the nectar from jewelled pitchers full of nectar, having worshipped him with divine offerings of lights, they praised him with divine hymns, and repeatedly saluted him.
147-155. Then the lord of Lakṣmī, who was pleased, gave them boons desired by them. Then Viṣṇu, to whom his devotees are dear, along with all hosts of gods made the imperishable Prahlāda the king of all demons. Having cheered up Prahlāda, and having, with the best gods, consecrated him, he gave him the boons desired by him and faithful devotion. Then Nṛsiṃha, being praised by all hosts of gods, and his body scattered over with beautiful flowers, vanished there only. Then all the hosts of gods went to their respective abodes. And again, they, with their minds pleased, enjoyed the portions of sacrifices. Then the gods, along with gandharvas, became free from fear. When the great demon was killed, all were delighted only. Prahlāda, Viṣṇu’s devotee, then righteously ruled over the kingdom. The best devotee of viṣṇu obtained the kingdom through Viṣṇu’s grace. He having worshipped Nṛsiṃha with many sacrifices and gifts etc. obtained, at (the proper) time, Viṣṇu’s eternal place, obtained by meditating sages. Those who everyday listen to Prahlāda’s account, are all free from sins, and will obtain the highest state. O goddess, I have told you this grandeur of Viṣṇu as Nṛsiṃha. O goddess, listen to the remaining state of grandeur in due order.
[1]: [1] : Hariṇī—One of the four classes of women, also called ‘Citriṇī’, who is said to be a woman endowed with various talents and excellences. The four divisions into which writers on erotical science class women are: Padminī, Citriṇī, Śaṅkhinī, and Hastinī or Kariṇī.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 14633, revision 336656 (2022-04-26T00:55:11Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365822.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.