Skip to main content

Uttara-khaṇḍa · Chapter 17

Chapter 17

Unit 429 of 693Uttara-khaṇḍa · Chapter 17Uttara-khaṇḍa · Chapter 171 source entries

Uttara-khaṇḍa · Chapter 17

Source

नारद उवाच- अथ जालंधरोऽपश्यत्कबंधचयभीषणम् । रणं रुधिरमांसौघ मज्जा मेदोऽस्थिदुर्गमम् १। तत्र जालंधरो दैत्यः प्रियाहरणदुःखितः । रणे विलोकयामास वृषस्थं पार्वतीपतिम् २। घोराहिभोगेनविभूषितांगं जटाकलापे शशिभूषणांकितम् । नेत्राग्निकीलोपरिशोभितांगं विना रणं संप्रददर्श सिंधुजः ३। शीघ्रं स्वरथमारुह्य समुद्रतनयस्तदा । संरुष्टः प्राह तं शुंभं तापसो न हतस्त्वया ४। प्राह जालंधरं शुंभस्तपस्तेन महत्कृतम् । हंतुं न शक्यतेऽस्माभिर्हरः संग्रामदुर्जयः ५। इतिशुंभोक्तमाकर्ण्यसिंधुजःक्रोधमूर्च्छितः । हरं पद्मसहस्रेण दैत्यसैन्येन संवृतम् ६। गृहीत्वा कालकेदारं धनुर्जालंधरो ययौ । बाणांस्तीक्ष्णानतिस्थूलान्लोहस्तंभान्तथा बहून् ७। मुमोच युधि दुर्धर्षो वर्षन्मेघ इवागमे । आयांतं रुरुधुः सिंधुसूनुं शंभुगणा युधि ८। ततो रुद्रेण रौद्रैश्च शरौघैस्ताडितो रुषा । रुद्रबाणैस्तदा तस्य कवचं भुवि पातितम् ९। विवर्मापि बभौ सोऽथ मेघमुक्तो यथाचलः । पुनर्जालंधरस्यांगं शंभुना कीलितं शरैः १०। रुधिरं बहु सुस्राव जालंधरशरीरतः । तेनाशु रुधिरौघेण प्लाविता सकला मही ११। ततो देवा भयं जग्मुर्दानवाश्च चकंपिरे । त्यक्त्वा ते प्रमथा वीरा रणभूमिं प्रदुद्रुवुः १२। नद्या इव परा मूर्त्तिः प्रसृता सर्वतोऽपि च । अथाहार्णवजो रुद्रं धनुर्धर वरो ह्यसि १३। इदानीं तत्करिष्यामि येन गच्छसि संक्षयम् । इत्युक्त्वा कालकेदारं सशरं प्रतिगृह्य तत् १४। शीघ्रं संपूरयामास शरैर्नानाविधैः शिवम् । शिवः सहस्रकोटीभिः पूरितांगो रणे बभौ १५। विहंगमैर्यथाकाशं वृक्षैरिव महागिरिः । दैत्यमुक्तैस्तुतैर्बाणैर्दृष्ट्वा व्याप्तं महेश्वरम् १६। वीरभद्रस्तथा कोपाज्जालंधरमधावत । अपीडयदमेयात्मा समुद्रतनयं बली १७। जालंधरोऽथ संक्रुद्धो विध्यन्बाणैः सहस्रशः । धनुः शरान्रथं छत्रं सारथिं तिलशः शरैः १८। चकार वीरभद्रस्य सिंधुसूनुः प्रतापवान् । वीरभद्रोऽथ विरथो हतवान्गदयाब्धिजम् १९। तथैव गदया सोऽपि तं हत्वापातयद्भुवि । गदाप्रहारपतितमालोक्यातिविमूर्च्छितम् २०। मणिभद्रोऽथ समरे जालंधरमधावत । अतिक्रुद्धं तमायांतं दृष्ट्वा दैत्यो महारणे २१। शरैर्व्यस्तोपकरणं स चकार नदीसुतः । अथ मूर्च्छां परित्यज्य उत्तस्थौ सिंहवन्नदन् २२। वीरभद्रस्ततः कोपान्मणिभद्रः प्रतापवान् । जघ्नतुः पर्वताभ्यां तौ व्योमस्थं तटिनीसुतम् २३। तदंगे पतितौ दृष्ट्वा पर्वतौ विनिनद्य च । जघान मुष्टिपातेन वीरभद्रो नदीसुतम् २४। मणिभद्रश्चरणयोर्धृत्वा सागरनंदनम् । स्यंदनाद्भ्रामयामास तदद्भुतमिवाभवत् २५। मणिभद्र गृहीतोऽपि दैत्यराट्स महाबलः । हत्वा चरणघातेन मणिभद्रमपातयत् २६। जालंधरो महाबाहुर्वीरभद्रं च मुष्टिना । अथागतः परिवृतो गणैर्वै नंदिकेश्वरः २७। शुंभस्तमागतं दृष्ट्वा रुरोध सह सैनिकैः । द्वंद्वयुद्धैरथाजग्मुर्गणा दैत्यैः परस्परम् २८। शुंभः शिलादजं राहुर्महाकालं रणे ययौ । कोलाहलं निशुंभोऽथ केतुः कालमधावत २९। शैलोदरो गुहं जंभो माल्यवंतं महाबलः । महापार्श्वो ययौ चंडं चंडीशो रोमकंटकम् ३०। विकटास्योऽथ वै भृंगिमुरुनेत्रो विनायकम् । एवं दैत्येश्वरैः सार्द्धं गणानामधिपा ययुः ३१। अथ शुंभायुधैर्बाणैः प्रहतश्च शिलादजः । चूर्णीचकाराद्रिशृंगैः कपितुंडो महत्तरैः ३२। शुंभस्तेनार्दितः शक्त्या शिलादं च जघान तम् । महाकालो जघानाथ तं राहुं रणमूर्द्धनि ३३। शक्त्याथ तस्य हतवान्स्यंदनं स महाद्रिणा । कोलाहलो हतः शक्त्या निशुंभेन प्रतापवान् ३४। शक्तिं गृहीत्वा ह्यहनद्रथं सारथिना सह । विरथेनाथ दैत्येन भृशं क्रुद्धेन संयुगे ३५। कोलाहलो सुरेंद्रेण सहस्रफणिना हतः । तं हत्वा चातिवेगेन रथं चान्यमुपागतः ३६। फणिचक्रहतः संख्ये क्षणान्मूर्च्छां विहाय च । स्वरथात्शीघ्रमुत्तीर्य गृहीत्वा खड्गचर्मणी ३७। सर्वं चक्रे निशुंभस्य स रथाद्यसिना पृथक् । पुनः स्वरथमारुह्य दैत्यं बाणैरताडयत् ३८। निशुंभोऽप्यतिरोषाच्च तत्पराक्रमविस्मितः । शक्त्या महाबलस्तस्य रथं साश्वं न्यषूदयत् ३९। कोलाहलो रणे धावन्निशुंभं विरथो बली । गतः स सरथं चक्रे विरथं भुजबंधनात् ४०। केतुपुच्छं गृहीत्वा च भ्रामयामास चांबरे । कालश्चिक्षेप सोऽप्यद्रिं स चिच्छेद गिरिं जवात् ४१। तं नगं चूर्णितं दृष्ट्वा ताडयामास मुष्टिना । कालश्चूर्णितसर्वांगः केतुना प्राद्रवद्भयात् ४२। शैलोदरस्तथा स्कंदं जघान गदयोरसि । षडाननोऽपि तं शक्त्या हत्वा भूमावपातयत् ४३। शक्तिप्रहारेण मृतं दानवं वीक्ष्य षण्मुखः । जगर्ज तत्र वैचित्र्यं यथा क्रौंचे विदारिते ४४। माल्यवानथ बाणौघैर्जंभमभ्यर्दयद्रणे । जंभोऽपि सायकैस्तीक्ष्णैर्भित्त्वा तं मूर्च्छितं जहौ ४५। महापार्श्वो रथं धृत्वा बाणौघैर्वाजिवर्जितम् । लीलयैव च खे नीत्वा व्यश्वं चंडमपातयत् ४६। व्यश्वं रथं विलोक्याथ ततश्चंडोऽग्रहीद्गजम् । आपतंतं महापार्श्वं चंडस्तं गदयाहनत् ४७। अचिंत्यैव गदापातं सोऽसुरो भृशदारुणः । प्रहत्य मुष्टिना चंडं पातयामास भूतले ४८। चंडीशशस्त्राभिहतो रोमकंठो महासुरः । चंडीशं पादयोर्धृत्वा रथमूर्ध्नि न्यपातयत् ४९। पपात सहसा भूमौ ययौ तं भीषणेक्षणः । उरुनेत्रेण समरे हतो लंबोदरः शरैः 6.17.५०। दंतेनोरसि तं हत्वा पातयामास भूतले । ऊरुनेत्रः क्षणाच्छांतिमागत्याशु रथं क्षणात् ५१। जघान मुद्गरेणासौ मूर्ध्नि सिंदूरमंडिते । गणेश्वरः पट्टिशेन जघानोरसि दानवम् ५२। तन्मुखादथ निष्क्रांतो नवशीर्षोऽसुरो महान् । अष्टादशभुजो राजन्सोऽप्यधावत शांकरिम् ५३। नवशीर्षोरुनेत्राभ्यां रणे रुद्धो विनायकः । जर्जरीकृतदेहोऽपि जग्राह परशुं रुषा ५४। तेन चिच्छेद शस्त्राणि तयोराजौ गणेश्वरः । रुद्धं गणेश्वरं दृष्ट्वा ताभ्यां संख्येऽथ षण्मुखः ५५। शीघ्रमागत्य सेनानीर्जघान नवशीर्षकम् । नवशीर्षं रणे हत्वा उरुनेत्रमधावत ५६। स्कंदः स्वशक्तिघातेन पातयामास तं नृप । पश्यञ्जालंधरः स्कंदं ययौ सैन्येन संवृतः ५७। पुत्रप्रीत्यासुरान्हंतुं सगणः शंकरोऽपि च । ततो घोरतरं युद्धमभूदद्भुतसैन्ययोः ५८। हरसिंधुजयोर्युद्धे गतप्राणेव रोदसी । अथ जालंधरः क्रुद्धो बाणं संधाय दारुणम् ५९। सहस्रशतसंख्याकैः पत्रैः सर्वत्र भूषितम् । दैत्येंद्रस्तेन बाणेन ललाटेताडयच्छिवम् ६०। ममज्जापुंखमर्यादं ललाटे शंकरस्य च । भाले शशांकवच्छंभोः स रराज महाप्रभः ६१। यथादित्यो हि घर्मांते संध्याकालेंबुदागमे । अथ रुद्रो महाबाणं जग्राह ज्वलनोपमम् ६२। यस्य वेगे तु पवनः फले यस्याग्निभास्करौ । कालो ग्रंथिषु सर्वेषु शरे देवी धरा स्थिता ६३। हरस्तेन शरेणाशु विव्याध हृदि सिंधुजम् । तेन बाणप्रहारेण रुधिरौघपरिप्लुतः ६४। पपात शरभिन्नांगो वज्राहत इवाचलः । तदा दैत्याः समाक्रंदन्जगर्जुः प्रमथास्तथा ६५। सिंधुजं मूर्छितं दृष्ट्वा रुरुधुर्दानवाः शिवम् । रक्षार्थमुद्यताः केचित्केचित्तं परितः स्थिताः ६६। यावज्जालंधरो मूर्छां प्राप्तो वारिधिनंदनः । तावद्रुद्रेण नाराचैर्हता जालंधरी चमूः ६७। चिराज्जालंधरस्त्यक्त्वा मूर्छां सैन्यं हतं नृप । दृष्ट्वा भयान्वितः सेनां विकीर्णां च तथा रणे ६८। ततः काव्यं स सस्मार मनसा परमं गुरुम् । स्मृतस्तेन त्वरन्प्राप्तः कविर्जालंधरं प्रति ६९। स्वस्ति कृत्वा जगादाथ भार्गवः सिंधुनंदनम् । किं करोमि महाराज तव कार्यं महाबल ७०। नारद उवाच- इति काव्यवचः श्रुत्वा भार्गवं बहु मानयन् । नत्वा गुरुमुवाचाथ राजा जालंधरस्तथा ७१। राजोवाच- जीवयैतान्मृताञ्छुक्र दैत्यान्सर्वान्समंततः । इत्युक्तः सिंधुजेनाजौ सैन्यं तत्र व्यलोकयत् ७२। पंचविंशत्सहस्राणि योजनानां प्रमाणतः । दैत्यांगरथसंकीर्णमुपर्युपरि पार्थिव ७३। उच्छ्रये पंचनवतियोजनानां महीं चिताम् । योधवाहनदेहाद्यैरिव पूर्णां धरां ततः ७४। मंत्रोदकेन चाभ्युक्ष्य दैत्यानुत्थापयत्कविः । यावद्रुद्रो जटाजूटं बबंध भुजगैर्दृढम् ७५। तावत्काव्येन तत्सैन्यं मंत्रेणोत्थापितं नृप । व्याघ्रान्यथा केसरिणो गजेंद्राः शूकरान्यथा ७६। आगतान्दानवान्दृष्ट्वा चिंतयामास शंकरः । किमेतदिह संजातं मृतान्सृजति कुत्रचित् ७७। ददर्श चिंतयन्काव्य इति तस्मिन्रणे भवः । जीवयंतं रणे दैत्यान्धावंतं वेगवत्तरम् ७८। ततः क्रुद्धो महादेवः शुक्रं हंतुं मनो दधे । त्रिशूलिनमनुज्ञाय रहश्चोवाच तं कविः ७९। ब्राह्मणोऽहं कथं हंसि सर्वविद्याविशारदम् । ब्रह्महत्या मयि हते तव रुद्र भविष्यति ८०। इति श्रुत्वा कवेर्वाक्यं शूलं तत्याज शंकरः । स्मृत्वा तत्पूर्ववृत्तांतं यल्लग्नं ब्रह्मणः शिरः ८१। ब्राह्मणो न हि हंतव्यो हरन्प्राणानपि प्रियान् । अयं तु जीवयन्दैत्यान्निग्राह्यः सर्वथा मया ८२। तस्मादेनं क्षिपाम्याशु स्त्रीयोनौ दैत्यजीवनम् । एवमुक्तवतः शंभोस्तृतीयनयनाद्द्रुतम् ८३। कृत्या विवासा चात्युग्रा मुक्तकेशी महोदरा । स्थूललंबस्तनी योनी दंष्ट्रालोचनभीषणा ८४। आज्ञापयेति स तया प्रोक्तस्तामब्रवीच्छिवः । कृत्ये त्वं दानवाचार्यं स्वयोनौ क्षिप दुर्मतिम् ८५। यावज्जालंधरं हन्मि तावदेनं भगे वह । हते जालंधरे दैत्ये पश्चान्निस्तीर्य मोचय ८६। हरेणोक्तेति सा कृत्या भार्गवं समधावत । पपात भूमौ तां दृष्ट्वा कविर्दैत्याः प्रदुद्रुवुः ८७। केशेष्वाकृष्य धुन्वाना नग्नमालिंग्य भार्गवम् । योनौ दधार सा कृत्या हसंती जयनंदन ८८। भगे क्षिप्तं गुरुं दृष्ट्वा यावज्जालंधरोऽसुरः । संदधे मार्गणांस्तावत्सा कृत्यादृश्यतां गता ८९। इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां युधिष्ठिरनारदसम्वादे जालंधरोपाख्याने शुक्रयोनिप्रवेशोनाम सप्तदशोऽध्यायः १७।

nārada uvāca- atha jālaṃdharo'paśyatkabaṃdhacayabhīṣaṇam | raṇaṃ rudhiramāṃsaugha majjā medo'sthidurgamam 1| tatra jālaṃdharo daityaḥ priyāharaṇaduḥkhitaḥ | raṇe vilokayāmāsa vṛṣasthaṃ pārvatīpatim 2| ghorāhibhogenavibhūṣitāṃgaṃ jaṭākalāpe śaśibhūṣaṇāṃkitam | netrāgnikīlopariśobhitāṃgaṃ vinā raṇaṃ saṃpradadarśa siṃdhujaḥ 3| śīghraṃ svarathamāruhya samudratanayastadā | saṃruṣṭaḥ prāha taṃ śuṃbhaṃ tāpaso na hatastvayā 4| prāha jālaṃdharaṃ śuṃbhastapastena mahatkṛtam | haṃtuṃ na śakyate'smābhirharaḥ saṃgrāmadurjayaḥ 5| itiśuṃbhoktamākarṇyasiṃdhujaḥkrodhamūrcchitaḥ | haraṃ padmasahasreṇa daityasainyena saṃvṛtam 6| gṛhītvā kālakedāraṃ dhanurjālaṃdharo yayau | bāṇāṃstīkṣṇānatisthūlānlohastaṃbhāntathā bahūn 7| mumoca yudhi durdharṣo varṣanmegha ivāgame | āyāṃtaṃ rurudhuḥ siṃdhusūnuṃ śaṃbhugaṇā yudhi 8| tato rudreṇa raudraiśca śaraughaistāḍito ruṣā | rudrabāṇaistadā tasya kavacaṃ bhuvi pātitam 9| vivarmāpi babhau so'tha meghamukto yathācalaḥ | punarjālaṃdharasyāṃgaṃ śaṃbhunā kīlitaṃ śaraiḥ 10| rudhiraṃ bahu susrāva jālaṃdharaśarīrataḥ | tenāśu rudhiraugheṇa plāvitā sakalā mahī 11| tato devā bhayaṃ jagmurdānavāśca cakaṃpire | tyaktvā te pramathā vīrā raṇabhūmiṃ pradudruvuḥ 12| nadyā iva parā mūrttiḥ prasṛtā sarvato'pi ca | athāhārṇavajo rudraṃ dhanurdhara varo hyasi 13| idānīṃ tatkariṣyāmi yena gacchasi saṃkṣayam | ityuktvā kālakedāraṃ saśaraṃ pratigṛhya tat 14| śīghraṃ saṃpūrayāmāsa śarairnānāvidhaiḥ śivam | śivaḥ sahasrakoṭībhiḥ pūritāṃgo raṇe babhau 15| vihaṃgamairyathākāśaṃ vṛkṣairiva mahāgiriḥ | daityamuktaistutairbāṇairdṛṣṭvā vyāptaṃ maheśvaram 16| vīrabhadrastathā kopājjālaṃdharamadhāvata | apīḍayadameyātmā samudratanayaṃ balī 17| jālaṃdharo'tha saṃkruddho vidhyanbāṇaiḥ sahasraśaḥ | dhanuḥ śarānrathaṃ chatraṃ sārathiṃ tilaśaḥ śaraiḥ 18| cakāra vīrabhadrasya siṃdhusūnuḥ pratāpavān | vīrabhadro'tha viratho hatavāngadayābdhijam 19| tathaiva gadayā so'pi taṃ hatvāpātayadbhuvi | gadāprahārapatitamālokyātivimūrcchitam 20| maṇibhadro'tha samare jālaṃdharamadhāvata | atikruddhaṃ tamāyāṃtaṃ dṛṣṭvā daityo mahāraṇe 21| śarairvyastopakaraṇaṃ sa cakāra nadīsutaḥ | atha mūrcchāṃ parityajya uttasthau siṃhavannadan 22| vīrabhadrastataḥ kopānmaṇibhadraḥ pratāpavān | jaghnatuḥ parvatābhyāṃ tau vyomasthaṃ taṭinīsutam 23| tadaṃge patitau dṛṣṭvā parvatau vininadya ca | jaghāna muṣṭipātena vīrabhadro nadīsutam 24| maṇibhadraścaraṇayordhṛtvā sāgaranaṃdanam | syaṃdanādbhrāmayāmāsa tadadbhutamivābhavat 25| maṇibhadra gṛhīto'pi daityarāṭsa mahābalaḥ | hatvā caraṇaghātena maṇibhadramapātayat 26| jālaṃdharo mahābāhurvīrabhadraṃ ca muṣṭinā | athāgataḥ parivṛto gaṇairvai naṃdikeśvaraḥ 27| śuṃbhastamāgataṃ dṛṣṭvā rurodha saha sainikaiḥ | dvaṃdvayuddhairathājagmurgaṇā daityaiḥ parasparam 28| śuṃbhaḥ śilādajaṃ rāhurmahākālaṃ raṇe yayau | kolāhalaṃ niśuṃbho'tha ketuḥ kālamadhāvata 29| śailodaro guhaṃ jaṃbho mālyavaṃtaṃ mahābalaḥ | mahāpārśvo yayau caṃḍaṃ caṃḍīśo romakaṃṭakam 30| vikaṭāsyo'tha vai bhṛṃgimurunetro vināyakam | evaṃ daityeśvaraiḥ sārddhaṃ gaṇānāmadhipā yayuḥ 31| atha śuṃbhāyudhairbāṇaiḥ prahataśca śilādajaḥ | cūrṇīcakārādriśṛṃgaiḥ kapituṃḍo mahattaraiḥ 32| śuṃbhastenārditaḥ śaktyā śilādaṃ ca jaghāna tam | mahākālo jaghānātha taṃ rāhuṃ raṇamūrddhani 33| śaktyātha tasya hatavānsyaṃdanaṃ sa mahādriṇā | kolāhalo hataḥ śaktyā niśuṃbhena pratāpavān 34| śaktiṃ gṛhītvā hyahanadrathaṃ sārathinā saha | virathenātha daityena bhṛśaṃ kruddhena saṃyuge 35| kolāhalo sureṃdreṇa sahasraphaṇinā hataḥ | taṃ hatvā cātivegena rathaṃ cānyamupāgataḥ 36| phaṇicakrahataḥ saṃkhye kṣaṇānmūrcchāṃ vihāya ca | svarathātśīghramuttīrya gṛhītvā khaḍgacarmaṇī 37| sarvaṃ cakre niśuṃbhasya sa rathādyasinā pṛthak | punaḥ svarathamāruhya daityaṃ bāṇairatāḍayat 38| niśuṃbho'pyatiroṣācca tatparākramavismitaḥ | śaktyā mahābalastasya rathaṃ sāśvaṃ nyaṣūdayat 39| kolāhalo raṇe dhāvanniśuṃbhaṃ viratho balī | gataḥ sa sarathaṃ cakre virathaṃ bhujabaṃdhanāt 40| ketupucchaṃ gṛhītvā ca bhrāmayāmāsa cāṃbare | kālaścikṣepa so'pyadriṃ sa ciccheda giriṃ javāt 41| taṃ nagaṃ cūrṇitaṃ dṛṣṭvā tāḍayāmāsa muṣṭinā | kālaścūrṇitasarvāṃgaḥ ketunā prādravadbhayāt 42| śailodarastathā skaṃdaṃ jaghāna gadayorasi | ṣaḍānano'pi taṃ śaktyā hatvā bhūmāvapātayat 43| śaktiprahāreṇa mṛtaṃ dānavaṃ vīkṣya ṣaṇmukhaḥ | jagarja tatra vaicitryaṃ yathā krauṃce vidārite 44| mālyavānatha bāṇaughairjaṃbhamabhyardayadraṇe | jaṃbho'pi sāyakaistīkṣṇairbhittvā taṃ mūrcchitaṃ jahau 45| mahāpārśvo rathaṃ dhṛtvā bāṇaughairvājivarjitam | līlayaiva ca khe nītvā vyaśvaṃ caṃḍamapātayat 46| vyaśvaṃ rathaṃ vilokyātha tataścaṃḍo'grahīdgajam | āpataṃtaṃ mahāpārśvaṃ caṃḍastaṃ gadayāhanat 47| aciṃtyaiva gadāpātaṃ so'suro bhṛśadāruṇaḥ | prahatya muṣṭinā caṃḍaṃ pātayāmāsa bhūtale 48| caṃḍīśaśastrābhihato romakaṃṭho mahāsuraḥ | caṃḍīśaṃ pādayordhṛtvā rathamūrdhni nyapātayat 49| papāta sahasā bhūmau yayau taṃ bhīṣaṇekṣaṇaḥ | urunetreṇa samare hato laṃbodaraḥ śaraiḥ 6.17.50| daṃtenorasi taṃ hatvā pātayāmāsa bhūtale | ūrunetraḥ kṣaṇācchāṃtimāgatyāśu rathaṃ kṣaṇāt 51| jaghāna mudgareṇāsau mūrdhni siṃdūramaṃḍite | gaṇeśvaraḥ paṭṭiśena jaghānorasi dānavam 52| tanmukhādatha niṣkrāṃto navaśīrṣo'suro mahān | aṣṭādaśabhujo rājanso'pyadhāvata śāṃkarim 53| navaśīrṣorunetrābhyāṃ raṇe ruddho vināyakaḥ | jarjarīkṛtadeho'pi jagrāha paraśuṃ ruṣā 54| tena ciccheda śastrāṇi tayorājau gaṇeśvaraḥ | ruddhaṃ gaṇeśvaraṃ dṛṣṭvā tābhyāṃ saṃkhye'tha ṣaṇmukhaḥ 55| śīghramāgatya senānīrjaghāna navaśīrṣakam | navaśīrṣaṃ raṇe hatvā urunetramadhāvata 56| skaṃdaḥ svaśaktighātena pātayāmāsa taṃ nṛpa | paśyañjālaṃdharaḥ skaṃdaṃ yayau sainyena saṃvṛtaḥ 57| putraprītyāsurānhaṃtuṃ sagaṇaḥ śaṃkaro'pi ca | tato ghorataraṃ yuddhamabhūdadbhutasainyayoḥ 58| harasiṃdhujayoryuddhe gataprāṇeva rodasī | atha jālaṃdharaḥ kruddho bāṇaṃ saṃdhāya dāruṇam 59| sahasraśatasaṃkhyākaiḥ patraiḥ sarvatra bhūṣitam | daityeṃdrastena bāṇena lalāṭetāḍayacchivam 60| mamajjāpuṃkhamaryādaṃ lalāṭe śaṃkarasya ca | bhāle śaśāṃkavacchaṃbhoḥ sa rarāja mahāprabhaḥ 61| yathādityo hi gharmāṃte saṃdhyākāleṃbudāgame | atha rudro mahābāṇaṃ jagrāha jvalanopamam 62| yasya vege tu pavanaḥ phale yasyāgnibhāskarau | kālo graṃthiṣu sarveṣu śare devī dharā sthitā 63| harastena śareṇāśu vivyādha hṛdi siṃdhujam | tena bāṇaprahāreṇa rudhiraughapariplutaḥ 64| papāta śarabhinnāṃgo vajrāhata ivācalaḥ | tadā daityāḥ samākraṃdanjagarjuḥ pramathāstathā 65| siṃdhujaṃ mūrchitaṃ dṛṣṭvā rurudhurdānavāḥ śivam | rakṣārthamudyatāḥ kecitkecittaṃ paritaḥ sthitāḥ 66| yāvajjālaṃdharo mūrchāṃ prāpto vāridhinaṃdanaḥ | tāvadrudreṇa nārācairhatā jālaṃdharī camūḥ 67| cirājjālaṃdharastyaktvā mūrchāṃ sainyaṃ hataṃ nṛpa | dṛṣṭvā bhayānvitaḥ senāṃ vikīrṇāṃ ca tathā raṇe 68| tataḥ kāvyaṃ sa sasmāra manasā paramaṃ gurum | smṛtastena tvaranprāptaḥ kavirjālaṃdharaṃ prati 69| svasti kṛtvā jagādātha bhārgavaḥ siṃdhunaṃdanam | kiṃ karomi mahārāja tava kāryaṃ mahābala 70| nārada uvāca- iti kāvyavacaḥ śrutvā bhārgavaṃ bahu mānayan | natvā gurumuvācātha rājā jālaṃdharastathā 71| rājovāca- jīvayaitānmṛtāñchukra daityānsarvānsamaṃtataḥ | ityuktaḥ siṃdhujenājau sainyaṃ tatra vyalokayat 72| paṃcaviṃśatsahasrāṇi yojanānāṃ pramāṇataḥ | daityāṃgarathasaṃkīrṇamuparyupari pārthiva 73| ucchraye paṃcanavatiyojanānāṃ mahīṃ citām | yodhavāhanadehādyairiva pūrṇāṃ dharāṃ tataḥ 74| maṃtrodakena cābhyukṣya daityānutthāpayatkaviḥ | yāvadrudro jaṭājūṭaṃ babaṃdha bhujagairdṛḍham 75| tāvatkāvyena tatsainyaṃ maṃtreṇotthāpitaṃ nṛpa | vyāghrānyathā kesariṇo gajeṃdrāḥ śūkarānyathā 76| āgatāndānavāndṛṣṭvā ciṃtayāmāsa śaṃkaraḥ | kimetadiha saṃjātaṃ mṛtānsṛjati kutracit 77| dadarśa ciṃtayankāvya iti tasminraṇe bhavaḥ | jīvayaṃtaṃ raṇe daityāndhāvaṃtaṃ vegavattaram 78| tataḥ kruddho mahādevaḥ śukraṃ haṃtuṃ mano dadhe | triśūlinamanujñāya rahaścovāca taṃ kaviḥ 79| brāhmaṇo'haṃ kathaṃ haṃsi sarvavidyāviśāradam | brahmahatyā mayi hate tava rudra bhaviṣyati 80| iti śrutvā kavervākyaṃ śūlaṃ tatyāja śaṃkaraḥ | smṛtvā tatpūrvavṛttāṃtaṃ yallagnaṃ brahmaṇaḥ śiraḥ 81| brāhmaṇo na hi haṃtavyo haranprāṇānapi priyān | ayaṃ tu jīvayandaityānnigrāhyaḥ sarvathā mayā 82| tasmādenaṃ kṣipāmyāśu strīyonau daityajīvanam | evamuktavataḥ śaṃbhostṛtīyanayanāddrutam 83| kṛtyā vivāsā cātyugrā muktakeśī mahodarā | sthūlalaṃbastanī yonī daṃṣṭrālocanabhīṣaṇā 84| ājñāpayeti sa tayā proktastāmabravīcchivaḥ | kṛtye tvaṃ dānavācāryaṃ svayonau kṣipa durmatim 85| yāvajjālaṃdharaṃ hanmi tāvadenaṃ bhage vaha | hate jālaṃdhare daitye paścānnistīrya mocaya 86| hareṇokteti sā kṛtyā bhārgavaṃ samadhāvata | papāta bhūmau tāṃ dṛṣṭvā kavirdaityāḥ pradudruvuḥ 87| keśeṣvākṛṣya dhunvānā nagnamāliṃgya bhārgavam | yonau dadhāra sā kṛtyā hasaṃtī jayanaṃdana 88| bhage kṣiptaṃ guruṃ dṛṣṭvā yāvajjālaṃdharo'suraḥ | saṃdadhe mārgaṇāṃstāvatsā kṛtyādṛśyatāṃ gatā 89| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatasahasrasaṃhitāyāṃ yudhiṣṭhiranāradasamvāde jālaṃdharopākhyāne śukrayonipraveśonāma saptadaśo'dhyāyaḥ 17|

English translation

Nārada said :

1-5. Then Jālandhara saw the battlefield which was fierce due to the heaps of headless trunks, and whicḥ was inaccessible due to flow of blood and flesh and due to marrow, fat and bones. There, on the battlefield, the demon Jālandhara who was distressed due to his wife being kidnapped, saw Śiva , the lord of Pārvatī , who was mounted upon a bull, whose body was adorned with the hood of a fierce serpent, who was marked with the (crescent) moon on the mass of his matted hair, and whose body was graced with the flame coming out of his eye. The Ocean’s son saw him not fighting. Having quickly got into his chariot, the Ocean’s son, getting angry, then said to Śumbha : “You have not killed the ascetic.” Śumbha said to Jālandhara: “He has practised great (i.e. severe) austerities. Therefore, he cannot be killed. Śiva is invincible in the battle.”

6-11. Having heard these words of Śumbha, the Ocean’s son was violent with anger, and taking the Kalakedāra bow, he (i.e. Jālandhara) went to Śiva, surrounded by a thousand padma army of the demons. In the battle the dreadful (demon) discharged many arrows that were sharp, very large and that had iron props, as a cloud showers (water) on its arrival. In the battle, Śiva’s attendants stopped the Ocean’s son who was coming (to Śiva). Then (the demon) was angrily struck by Śiva with volleys of fearful arrows. By Śiva’s arrows his armour was knocked down on the ground. He, even without the armour, looked like a mountain left by a cloud. The body ofJālandhara was again nailed by Śiva with arrows. From Jālandhara’s body much blood flowed. By means of the stream of blood the entire earth was moistened.

12-17. Then the gods were frightened and the dèmons trembled. The brave pramathas left the battlefield and fled. A great form like that of a river spread everywhere. Then the Ocean’s son said to Śiva: “You are the best among the archers. Now I shall do that by which you will perish.” Speaking like this, he took up the Kalakedāra bow with the arrows and quickly filled (i.e. covered) Śiva with various kinds of arrows. On the battlefield Śiva with his body covered with crores (of arrows) shone like the sky with birds or a great mountain with trees. Seeing that Śiva was covered with those arrows discharged by the demon (Jālandhara), Vīrabhadra angrily ran to Jālandhara. The powerful and magnanimous (Vīrabhadra) troubled the Ocean’s son.

18-23. Jālandhara, the brave son of the Ocean, who was angry, piercing (Vīrabhadra) with thousands of arrows reduced to pieces as small as the sesamum-seeds, with his arrows, (Vīrabhadra’s) bow, arrows, chariot, umbrella and charioteer. Then Vīrabhadra, who was without his chariot, struck the Ocean’s son with a mace. In the same way he (i.e. Jālandhara) too struck him with a mace and knocked him down on the ground. Seeing him fallen due to the stroke with mace, and very much bewildered, Maṇibhadra then ran to Jālandhara in the battle. Seeing him who was very angry, coming (to him), the demon, son of the River ( Gaṅgā ) scattered his implements with his arrows. Then shaking off his bewilderment, he, roaring like a lion, got up. Then Vīrabhadra and the valourous Maṇibhadra angrily struck with two rocks the River’s son remaining in the sky.

24-27. Seeing the two rocks to have fallen on his body, Vīrabhadra roared and struck the River’s son (i.e. Jālandhara) with the blow of his fist. Maṇibhdra seized the Ocean’s son by his feet and whirled him from his chariot. That was a great wonder. The very powerful king of the demons, though seized by Maṇibhadra, struck Maṇibhadra with the blows of his feet and knocked him down. That mighty-armed Jālandhara also (knocked down) Vīrabhadra with (the blow of) his fist. Then Nandikeśvara surrounded by attendants came (there).

28-35a. Seeing him coming Śumbha with his soldiers obstructed him. Then the attendants (of Śiva) and the demons came to one another fighting duels. In the battle Śumbha went to (fight with) Śilādaja, and Rāhu to (fight with) Mahākāla . Niśumbha ran to Kolāhala and Ketu to Kāla . Śailodara (ran) to Guha (i.e. Kārtikeya ) and the very mighty Jambha (rushed) to Mālyavat . Mahāpārśva went to Caṇḍa and Caṇḍīśa to Romakaṇṭaka. Vikaṭāsya went to Bhṛṅgī and Urunetra to Gajānana . In this way the chiefs of the attendants went (to fight with) the lordly demons. Then Śilādaja, having an ape-like face, struck by the weapons and arrows of Śumbha, bruised him with great peaks of mountains. Śumbha, afflicted by that, struck Śilādaja with a śakti . Then in the battle Mahākāla struck that Rāhu with a śakti. He struck his chariot with a great rock. The brave Kolāhala was struck with a śakti by Niśumbha. Taking a śakti, he struck his chariot with the charioteer.

35b-41. The very angry demon, the lord of demons, who was without a chariot, struck Kolāhala with a sahasraphaṇin (a serpent-like weapon). Having struck him, he speedily went to another chariot. Struck with the phaṇicakra in the battle, he, in a moment, shook off his swoon, quickly got down from his chariot, took a sword and shield, and cut off everything including the chariot of Niśumbha. Again getting into his chariot, he struck the demon with arrows. The very strong Niśumbha too, amazed at his valour, very angrily destroyed with a śakti his chariot with the horses. Kolāhala, the mighty one who was without his chariot, went running to Niśumbha and by chaining his arms rendered him who had a chariot, chariotless. Kāla seized Ketu’s tail and whirled him into the sky. He too threw a rock. He (i.e. Kāla) quickly cut off the rock.

42-45. Seeing the rock pounded, he struck him (i.e. Ketu) with his fist. Kāla with his entire body bruised by Ketu, ran away through fear. In the same way Śailodara struck Kārtikeya on his chest with a mace. Kārtikeya also struck him with a śakti and knocked him down on the ground. Seeing the demon dead due to the stroke of the śakti, Kārtikeya roared. There was a surprise as when Krauñca was rent asunder. With volleys of arrows Mālyavat struck Jambha in the battle. Jambha too left him swooning after piercing him with sharp arrows.

46-51a. Then Mahāpārśva seized the chariot with volleys of arrows and rendering it horseless easily took it into the sky and knocked down the horseless chariot at Caṇḍa. Seeing the chariot without horses, Caṇḍa took up (i.e. mounted upon) an elephant. Caṇḍa struck with his mace Mahāpārśva attacking him. That very fierce demon, ignoring the blow of the mace, struck Caṇḍa with his fist and knocked him on the ground. The great demon Romakaṇṭha, struck by the weapon of Caṇḍīśa, seized Caṇḍīśa by the feet and dropped him on the top of chariot. All of a sudden he fell on the ground, and he of fearful eyes, went to (attack) him. Gajānana was struck with arrows by Urunetra in the battle. He struck him with his tusk in his chest and knocked him down on the ground.

51b-57. In a moment Urunetra became pacified, quickly came to the chariot, and, with a mallet, struck (Gajānana) on his head adorned with red lead. (Gajānana) the lord of (Śiva’s) attendants struck the demon (Urunetra) on his chest with a spear having a sharp edge. From his mouth came out a great demon having nine heads and eighteen arms. O king, he too ran to (Gajānana) the son of Śiva. Gajānana was obstructed by Navaśīrṣa and Urunetra. Though his body was wounded, he angrily took an axe. With that the chief of the attendants (of Śiva) cut off their weapons in the battle. Seeing that Gajānana was obstructed by the two (demons), Senānī —Kārtikeya—quickly came (there) and killed Navaśīrṣa. Having killed Navaśīrṣa in the battle, he ran to Urunetra. O king, with the blow of his (weapon called) śakti, Kārtikeya knocked him down. Jālandhara, seeing Kārtikeya, and surrounded by his army went to (attack) him.

58-62a. Śiva too through affection for his son and with his attendants (came there) to kill the demons. Then between the two armies a wonderful and very fierce battle took place. In the battle between Śiva and the Ocean’s son the heaven and earth were as if lifeless. Then the angry Jālandhara, the lord of the demons, fixed a fierce arrow and with that arrow adorned all round with feathers numbering a thousand hundreds, struck Śiva on his forehead. It sank up to its. feathered part into Śiva’s head like the moon and like the sun in the evening in the autumn at the end of the summer.

62b-66. Then Śiva took up a great arrow which resembled fire, in whose speed there was wind (i.e. which was speedy like wind), at the head of which remained fire and the sun, at whose knots remained death; in the arrow goddess Dharā (the earth) remained. With that arrow Śiva quickly pierced the Ocean’s son in his chest. Due to the stroke of the arrow, he, with his body wounded by that arrow, and wet with a stream of blood, fell down like a mountain struck by thunderbolt. At that time the demons wailed, and the pramathas (the goblin-attendants of Śiva) roared. Seeing the Ocean’s son fainted, the demons obstructed Śiva. Some were eager to protect him, others stood around him.

67-70. While Jālandhara, the Ocean’s son was in a swoon, Śiva struck the army of Jālandhara with arrows. After a long time Jālandhara gave up the swoon (i.e. regained consciousness), and, full of fear, saw his army killed (by Śiva) and dispersed on the battlefield; he mentally remembered his great preceptor, Śukra . Remembered by him, Śukra quickly came to Jālandhara. Wishing him well, Śukra said to the Ocean’s son: “O great king, O mighty one, what mission of you should I do?”

Nārada said :

71. Hearing these words of Śukra, Jālandhara very much honoured Śukra, his preceptor, and saluting him said:

The king said :

72-76. O Śukra, bring back to life all these demons that are dead all around.

Thus addressed by the Ocean’s son in the battle, he observed the army which measured twenty-five thousand yojanas and which was further and further crowded with the bodies and chariots of the demons piled up on earth up to ninety-five yojanas. (He) then (saw) the earth as it were full of the bodies of the warriors and horses (and elephants). Having sprinkled the demons with charmed water, Śukra made them rise up. While Śiva tied firmly the mass of his matted hair with serpents, Śukra made the army rise up by means of a charm.

77-80. Śiva thought on seeing the demons that had come, as lions do on seeing tigers or lordly elephants do on seeing pigs: ‘What has happened here? Somewhere he creates (i.e. brings back to life) the dead.’ Thinking like this on the battlefield, Śiva saw on the battlefield, Śukra bringing back the demons to life and running faster (i.e. very fast). Then Śiva who was angry, made up his mind to kill Śukra. Requesting the Trident-holder (Śiva) in private, Śukra said to him: “I am a brāhmaṇa . How do (i.e. can) you kill a brāhmaṇa skilled in all lores? O Śiva, you will incur (the sin of killing) a brāhmaṇa on killing me.

81-84. Hearing these words of Śukra, Śiva gave up the trident. On remembering the former account, viz. the sticking of Brahmā ’s head (he thought:) ‘A brāhmaṇa is not to be killed, even if he takes away one’s life dear to one. But this (Śukra) who is bringing the demons back to life, must be fully curbed by me. Therefore, I shall quickly throw him leading the life of a demon, into the vulva of a woman.’ From the third eye of Śiva who was thinking like this, a female deity to whom sacrifices are offered for destructive and magical purposes, quickly (came out). She was naked, very fierce; she had let loose her hair; her belly was big. Her breasts were big and hanging; Her vulva, fangs and eyes were fearful.

85-89. Śiva, who was addressed by her, ‘Order (me)’, said to her: “O Kṛtyā , put quickly the wicked-minded preceptor of the demons into your vulva; and carry (i.e. keep) him in your vulva till I kill Jālandhara. After the demon Jālandhara is killed, you take him out and release him.” That deity to whom sacrifices are offered for destructive and magical purposes, who was thus told by Śiva, ran to Śukra. On seeing her the demon fell on the ground; and the demons fled. Shaking Śukra by seizing his hair, she embraced Śukra, and laughing, she held him in her vulva, O Jayanandana. Seeing his preceptor put by the deity into her vulva when Jālandhara fixed the arrows, she disappeared.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 44605, revision 336262 (2022-04-20T15:25:58Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365448.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.