Pātāla-khaṇḍa · Chapter 107
Sourceशुचिस्मितोवाच- कश्यपं जमदग्निं च देवानां च पुरा कथम् । ररक्ष भस्म तद्ब्रह्मन्समाचक्ष्व मुने मम १। दधीच उवाच- कश्यपादियुता देवाः पूर्वमभ्यागमन्गिरिम् । शोकरं नाम विख्यातं गिरिमध्ये सुशोभनम् २। नानाविहंगसंकीर्णं नानामुनिगणाश्रयम् । वासुदेवाश्रयं रम्यमप्सरोगणसेवितम् ३। विचित्रवृक्षसंवीतं सर्वर्तुकुसुमोज्ज्वलम् । तथाविधं प्रविश्यैते गिरिं वयमथापरे ४। स्तुवंतः केशवं तत्र गताः स्म गिरिशेश्वरम् । दृष्ट्वा तत्र महाज्वालां प्रविष्टाश्च वयं च ताम् ५। मामेकं तु तिरस्कृत्य ह्यदहद्देवता मुनीन् । मां ददाह ततः पश्चाद्भस्मीभूता वयं शुभे ६। अस्मानेतादृशान्दृष्ट्वा वीरभद्रः प्रतापवान् । केनापिकारणेनासौ गतवान्पर्वतं च तम् ७। भस्मोद्धूलितसर्वांगो मस्तकस्थशिवः शुचिः । एकाकी निःस्पृहः शान्तो हाहाशब्दमथाशृणोत् ८। अथ चिंतापरश्चासीन्म्रियमाण शवध्वनिः । शवानामिवगंधश्च दृश्यते तन्निरीक्षणे ९। इति निश्चित्य मनसा जगामाग्निमतिप्रभम् । स वह्निर्वीरभद्रं च दग्धुमारब्धवानथ १०। तृणाग्निरिव शांतोऽभूदासाद्य सलिलं यथा । ततोऽपरां महाज्वालां वीरभद्रस्तु दृष्टवान् ११। खं गच्छंतीं महाकालो ज्वालां निपतितामपि । मनसा चिंतयच्चापि वीरभद्रः प्रतापवान् १२। सर्वेषां नाशिनी ज्वाला प्राणिनां शतकोटिशः । तत्सर्वं रक्षणार्थं हि पिपासुश्चाप्यहं त्विमाम् १३। प्राश्नामि महतीं ज्वालां सलिलं तृषितो यथा । एतस्मिन्नंतरे वीरं वागाह चाशरीरिणी १४। भारत्युवाच- वीर मा साहसं कार्षीः क्व तृषा क्वाशुशुक्षणिः । तृषितानां जलेनार्थो विपरीतो वनाग्निना १५। निकामं योजनशिराः प्रणष्टो राक्षसेश्वरः । शतयोजनवक्त्रश्च शतबाहुस्तथापरः १६। अगस्त्यश्च महाभागो निःशेषं पीतसागरः । एतानन्यानसंख्याताञ्ज्वालेयं तानमारयत् १७। वीरभद्र उवाच- भीषिकेयं महाज्वाला त्वदुक्ता न हि जायते । सरस्वति भवत्यां च ममरोषश्च जायते १८। सर्वदेवार्चितपदं वीरभद्रमवेहि माम् । भारत्युवाच- मयोक्तं हितभावेन न द्वेषान्नान्यतो मुने १९। कोपमुत्सृज वीर त्वमात्मनोहितमाचर । इत्युक्त्वांतर्दधे देवी भारती वीरभीतितः २०। अथ वीरो महाज्वालामपासील्लीलयैव तु । क्षणेन महती ज्वाला शतयोजनविस्तृता २१। एकेन वीरभद्रेण पीता परमदुःसहा । अथ चेंद्रमुखानां च मुनीनां भस्मराशयः २२। दृष्टा वै वीरभद्रेण आहूताश्च महात्मना । न चाब्रुवन्प्रतिवचो मृता मुनिदिवौकसः २३। वीरभद्रस्तु विज्ञाय नाशं मुनिदिवौकसाम् । दध्यावमून्कथं सर्वाञ्जीवयाम्यद्य कोविदः २४। ध्यानेन दृष्टवांश्चापि जीवितं भस्मदेहिनाम् । अथाचम्य मृतानां तु भस्मान्यथ च भस्मना २५। मृत्युंजयेन मंत्रेण मंत्रितेन ह्यमंत्रयत् । अथोत्थिता मुनिवराः स्वं स्वं रूपमुपाश्रिताः २६। अथ ते गतवंतश्च गिरिपार्श्वं महाप्रभम् । तत्रापि भक्षिताः सर्वे सर्पेणातिशरीरिणा २७। अथ वीरो महासर्पसमीपमगमत्प्रभुः । वीरमागतमालोक्य भुजगो योद्धुमारभत् २८। युयुधे वर्षमेकं तु नानारूपधरः फणी । अथ वीरः प्रगृह्यौष्ठयुगं करयुगेन च २९। द्विधा चक्रे समस्तांगं देवांस्तत्र गतायुषः । दृष्ट्वाथ भस्मनैवैताञ्जीवयामास शंकरः ३०। अथ देवाः समुनयो वीरभद्रं प्रणम्य तु । गतवंतो यथामार्गं ददृशू रक्ष आगतम् ३१। पंचमेढ्रं महाकायं दोर्भिश्च दशभिर्युतम् । पंचपादसमोपेतं शिरोभिर्युतमष्टभिः ३२। कांक्षमाणं महाहारं युध्यमानो हि वालिना । महावराहवपुषो वासुदेवस्य यद्बलम् ३३। तादृशं द्विगुणीभूतं कपौ वालिनि निश्चितम् । तादृशं वानरश्रेष्ठं ससुग्रीवं सराक्षसः ३४। मुष्टियुद्धे पंचपादैः सहसा हत्य वालिनम् । सुग्रीवं च कराभ्यां स हंतुमेव प्रचक्रमे ३५। आस्ये निक्षिप्य सुग्रीवमग्रसत्कवलं यथा । वालिसुग्रीवग्रसनं दृष्ट्वा चिंतामवाप ह ३६। कथमेनं हनिष्यामि रक्षयिष्ये कथं कपिम् । एवं हि चिंतयानं तं वानरं राक्षसेश्वरः ३७। अग्रसीदेकयत्नेन तथाभूतं च राक्षसम् । दृष्ट्वा देवर्षयः सर्वे पलायनपरास्तथा ३८। पलायमानांस्तान्दृष्ट्वा पंचमेढ्रः स राक्षसः । हस्तैः समस्तैस्तान्सर्वानादायाभक्षयत्तदा ३९। वीरभद्रस्ततो दृष्ट्वा वानरर्षिसुरादनम् । पंचाशद्योजनशिलां करेणादाय तं रुषा ४०। निजघान शिरोमध्ये मध्यमं पतितं शिरः । तत आदाय शैलस्य शृंगं तच्छतयोजनम् ४१। स्थापयित्वा दृढतरं राक्षसेंद्रं तथाहरत् । राक्षसोऽथ बभाषे तं वीरभद्रं त्रिलोचनम् ४२। मम बाहुबलं पश्य वीक्षितं त्वद्बलं मया । असिद्वयं तैलधौतं पंचाशद्योजनोन्नतम् ४३। एकयोजनविस्तारं सुदृढं लक्षणान्वितम् । एकं गृहाणाभिमतं विशिष्टं तन्ममप्रियम् ४४। वीरभद्रस्तथेत्युक्त्वा गृहीत्वासिं महाबलः । करेणाचालयत्तीक्ष्णं क्ष्वेलीं चक्रे ततः क्रुधा ४५। गृहीतासिस्तथा क्ष्वेलद्यं चक्रे राक्षसपुंगवः । वीरभद्रं समभ्येत्य कंठं प्रतिसमर्पयत् ४६। तद्गात्रं भिन्नमभवच्छोणितं निर्गतं बहु । राक्षसस्त्वेकहस्तेन पपौ तच्छोणितं ततः ४७। वीरभद्रः कंठदेशे राक्षसं प्राहरद्रुषा । शिरोद्वयं तथाच्छिन्नं पतमानं ततोऽग्रहीत् ४८। न्यभक्षयदमेयात्मा सिंहनादं चकार ह । तेन नादेन महता क्षुब्धमासीज्जगत्त्रयम् ४९। अन्योन्यमसिघातेन भिन्नगात्रौ विकस्वरौ । किंशुकाविव दृश्येते पुष्पितौ रुधिरोक्षितौ ५०। वर्षमेकं तु संयुध्य सासीदेवासुरौ तदा । अतःपरं वर्षमेकं गदायुद्धमभूत्तयोः ५१। असिपुत्रिकया पश्चाद्वर्षमेकमभूद्रणः । पुनर्गृहीत्वासियुगं युयुधाते परस्परम् ५२। शं ब्रुवाणो महाखड्गं दंष्ट्राकारो गणेश्वरः । सरोषरक्तनयनश्चालयित्वासिमग्रतः ५३। तस्य कंठवनं सर्वं चिच्छेद कदलद्यं यथा । शिरांसि सर्वाण्यादाय बभक्ष भगनेत्रहा ५४। तस्य गात्रं कररुहैर्विदार्याहृत्य देवताः । कपींद्रौ च तथा चान्या अद्राक्षीत्परमेश्वरीम् ५५। एतद्युद्धं महाघोरं नारदो वीक्ष्य चाभ्यगात् । ब्रह्मणे वासुदेवाय शंकराय व्यजिज्ञपत् ५६। मुनयो रक्षिता देवा वालिसुग्रीव वानरौ । एतौ संजीवयामास ब्रह्मविष्णुशिवात्मकः ५७। रक्षसे शंभुना दत्तो वरः परमदारुणः । हिरण्यकशिपोराज्ये बलवानेक राक्षसः ५८। देवैः सार्द्धं तु युयुधे वर्षाणां शतमद्भुतम् । पलायिताश्च बहुधा मृताश्च शतशोसुराः ५९। शुक्रेण रक्षितः सोऽथ गुरुणाचिंतयत्त्विदम् । मृतोऽस्मि शतशः शुक्र जीवितोऽस्मि त्वयैव हि ६०। अमृत्यवे त्वमेतस्मादुदरस्थमृताय च । अन्यथा मरणं मह्यं भविष्यति न संशयः ६१। गुरो यमेन साकं मे युद्धमासीत्सुदारुणम् । मयासौ ग्रसितो युद्धे यमराजः प्रतापवान् ६२। ममोदरं प्रविश्यासौ बिभेद च ननाद च । अहं मृतस्तदा चासं त्वया संजीवितः पुनः ६३। तस्मादुदरसंस्थानां मरणाय तपे तपः । शुक्र उवाच- एवमेतन्न संदेहो यथावत्त्वं समाचर ६४। स्यमंतपंचकं तीर्थं तत्र त्वं तप्तुमर्हसि । राक्षस उवाच- तपे महत्तपो घोरं यन्न चीर्णं सुरासुरैः ६५। गुल्फप्रदेशे पादान्ते त्वयःपाशैः प्रबध्य च । अयःस्तंभयुगं कृत्वा अयःपट्टिकयान्वितम् ६६। पट्टिकायां पादबंधं कृत्वाधः शीर्षतां तथा । विवृतास्यं तथा कल्पं कृत्वाधोमुखमुच्चकैः ६७। स्तंभोत्तरेण ज्वालायां चक्रिकायामितस्ततः । अधःशिरास्तथा तिष्ठन्नुन्मील्यैव विलोचने ६८। एवं तपश्चरिष्यामि वरदः कोपि मे भवेत् । ब्रह्मा वा वरदः सोऽस्तु शंकरो विष्णुरेव च ६९। वरदे न तु मे भाव्यं यो वा कोवा वरप्रदः । इत्थमाभाष्य मुनिना गुरुणा भार्गवेण सः ७०। तथातपच्च षण्मासं पुनरन्यच्चकार ह । नखाभ्यां स्वशिरश्छित्त्वा जुहावाग्नौ समंत्रकम् ७१। नमो भद्राय मंत्रेण चत्वारि च शिरांसि सः । पंचमं तु शिरो हातुं यतमाने च राक्षसे ७२। वह्निमध्यात्समुत्तस्थौ भगवानंबिकापतिः । शुद्धस्फटिकसंकाशो बालचन्द्र विभूषणः ७३। अधःशिरस्कं तद्रक्ष इदमाह महेश्वरः । मा साहसं कृथा रक्षो वरदोऽस्मि वरं वृणु ७४। राक्षस उवाच- बहूनां च वराणां त्वं दाता नूनं महेश्वरः । हतशीर्षसमुत्पत्तिं ग्रस्तजीवमृतिं तथा ७५। वराहवपुषो विष्णोरस्तु शक्तिश्चतुर्गुणा । मयि तेन हि रोषः स्यात्संनिधिस्तु सदा मम ७६। त्वज्जटोत्पाटनेनैकः पुरुषः संभविष्यति । तेनैव मरणं नान्यैरिदमस्तु वृतं मम ७७। भविष्यत्येवमेवैतदित्युक्त्वांतर्हितोहरः । एवंलब्धवरः पापी राक्षसो निहतस्त्वया ७८। अथालिंग्य हरिर्वीरं शंकरश्च पितामहः । यथागतमथोजग्मुरथ देवादियोषितः ७९। निपत्य दंडवद्भूमौ वीरभद्रमथाब्रुवन् । नमस्ते देवदेवेश नमस्ते करुणाकर ८०। नमस्ते शाश्वतानंत नमस्ते वरदो भव । वीरभद्र उवाच- भस्मना जीवयिष्यामि सुरान्समुनि वानरान् ८१। भवतीभिः प्रतोष्टव्यं शोकः कार्यो न चाधुना । इत्युक्त्वा वीरभद्रस्तु भस्मनाजीवयत्सतान् ८२। उत्थिता मुनिदेवाश्च वानरौ चोत्थितौ ततः । इदमूचुर्वचो हृष्टाः शिरःस्थांजलयो नमन् ८३। त्वयात्र जीवितास्तात पिता त्वं धर्मतो हि नः । अस्माकं शरणं नित्यं भव शंकरसंभव ८४। शिशूनां दुष्टचरितं दृष्ट्वा शिक्षेस्तथा च तान् । रक्षेः परकृता बाधा व्याधिभ्यश्च यथौरसान् ८५। दक्षाध्वरे कृतागस्काः शिक्षिता भवतानघ । इदानीं रक्षितास्तात वयं शिशुवदेव ते ८६। वीरभद्र उवाच- सत्यमेतन्न संदेहो यत्र बाधा भवेत्तु वः । तत्र मां स्मरत क्षिप्रं बाधानाशं गमिष्यति ८७। वीरभद्रं पदं येपि पठंत्यष्टशतं ततः । प्रणवादि नमोंऽतं च चतुर्थीसहितं तथा ८८। तेषां राक्षसपीडानां नाशनं च भविष्यति । ब्रह्मराक्षसपीडासु पिशाचादिभयेषु च ८९। नामानुस्मरणात्सर्वबाधानां च विनाशनम् ९०। विद्युत्प्रभालोचनमुग्रमीशं बालेंदुदंष्ट्रारुणशोभिताधरम् । सुनीलगात्रं च जटाकृतस्रजं दधानमंगे भसितत्रिपुंड्रकम् ९१। ब्रह्मराक्षसमुक्त्यर्थं स्मरणं त्विदमीरितम् । मंत्रे च वीरभद्रस्य सर्वमेतदुदीरितम् ९२। दधीच उवाच- अथैवं विदधे वीरो मुनिदेवास्तथागताः । एतत्त्रियायुषं प्रोक्तं भस्ममाहात्म्यमुत्तमम् ९३। पठतः शृण्वतो वापि स्मरतोऽघविनाशनम् । शिवभक्तिप्रदं पुण्यमायुरारोग्यवर्द्धनम् ९४। शुचिस्मितोवाच-। अहं कृतार्था धन्या च नारीणामुत्तमास्म्यहम् । हतपापा तथा चास्मि नमस्ते मुनिपुंगव ९५। इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे सप्तोत्तरशततमोऽध्यायः १०७।
śucismitovāca- kaśyapaṃ jamadagniṃ ca devānāṃ ca purā katham | rarakṣa bhasma tadbrahmansamācakṣva mune mama 1| dadhīca uvāca- kaśyapādiyutā devāḥ pūrvamabhyāgamangirim | śokaraṃ nāma vikhyātaṃ girimadhye suśobhanam 2| nānāvihaṃgasaṃkīrṇaṃ nānāmunigaṇāśrayam | vāsudevāśrayaṃ ramyamapsarogaṇasevitam 3| vicitravṛkṣasaṃvītaṃ sarvartukusumojjvalam | tathāvidhaṃ praviśyaite giriṃ vayamathāpare 4| stuvaṃtaḥ keśavaṃ tatra gatāḥ sma giriśeśvaram | dṛṣṭvā tatra mahājvālāṃ praviṣṭāśca vayaṃ ca tām 5| māmekaṃ tu tiraskṛtya hyadahaddevatā munīn | māṃ dadāha tataḥ paścādbhasmībhūtā vayaṃ śubhe 6| asmānetādṛśāndṛṣṭvā vīrabhadraḥ pratāpavān | kenāpikāraṇenāsau gatavānparvataṃ ca tam 7| bhasmoddhūlitasarvāṃgo mastakasthaśivaḥ śuciḥ | ekākī niḥspṛhaḥ śānto hāhāśabdamathāśṛṇot 8| atha ciṃtāparaścāsīnmriyamāṇa śavadhvaniḥ | śavānāmivagaṃdhaśca dṛśyate tannirīkṣaṇe 9| iti niścitya manasā jagāmāgnimatiprabham | sa vahnirvīrabhadraṃ ca dagdhumārabdhavānatha 10| tṛṇāgniriva śāṃto'bhūdāsādya salilaṃ yathā | tato'parāṃ mahājvālāṃ vīrabhadrastu dṛṣṭavān 11| khaṃ gacchaṃtīṃ mahākālo jvālāṃ nipatitāmapi | manasā ciṃtayaccāpi vīrabhadraḥ pratāpavān 12| sarveṣāṃ nāśinī jvālā prāṇināṃ śatakoṭiśaḥ | tatsarvaṃ rakṣaṇārthaṃ hi pipāsuścāpyahaṃ tvimām 13| prāśnāmi mahatīṃ jvālāṃ salilaṃ tṛṣito yathā | etasminnaṃtare vīraṃ vāgāha cāśarīriṇī 14| bhāratyuvāca- vīra mā sāhasaṃ kārṣīḥ kva tṛṣā kvāśuśukṣaṇiḥ | tṛṣitānāṃ jalenārtho viparīto vanāgninā 15| nikāmaṃ yojanaśirāḥ praṇaṣṭo rākṣaseśvaraḥ | śatayojanavaktraśca śatabāhustathāparaḥ 16| agastyaśca mahābhāgo niḥśeṣaṃ pītasāgaraḥ | etānanyānasaṃkhyātāñjvāleyaṃ tānamārayat 17| vīrabhadra uvāca- bhīṣikeyaṃ mahājvālā tvaduktā na hi jāyate | sarasvati bhavatyāṃ ca mamaroṣaśca jāyate 18| sarvadevārcitapadaṃ vīrabhadramavehi mām | bhāratyuvāca- mayoktaṃ hitabhāvena na dveṣānnānyato mune 19| kopamutsṛja vīra tvamātmanohitamācara | ityuktvāṃtardadhe devī bhāratī vīrabhītitaḥ 20| atha vīro mahājvālāmapāsīllīlayaiva tu | kṣaṇena mahatī jvālā śatayojanavistṛtā 21| ekena vīrabhadreṇa pītā paramaduḥsahā | atha ceṃdramukhānāṃ ca munīnāṃ bhasmarāśayaḥ 22| dṛṣṭā vai vīrabhadreṇa āhūtāśca mahātmanā | na cābruvanprativaco mṛtā munidivaukasaḥ 23| vīrabhadrastu vijñāya nāśaṃ munidivaukasām | dadhyāvamūnkathaṃ sarvāñjīvayāmyadya kovidaḥ 24| dhyānena dṛṣṭavāṃścāpi jīvitaṃ bhasmadehinām | athācamya mṛtānāṃ tu bhasmānyatha ca bhasmanā 25| mṛtyuṃjayena maṃtreṇa maṃtritena hyamaṃtrayat | athotthitā munivarāḥ svaṃ svaṃ rūpamupāśritāḥ 26| atha te gatavaṃtaśca giripārśvaṃ mahāprabham | tatrāpi bhakṣitāḥ sarve sarpeṇātiśarīriṇā 27| atha vīro mahāsarpasamīpamagamatprabhuḥ | vīramāgatamālokya bhujago yoddhumārabhat 28| yuyudhe varṣamekaṃ tu nānārūpadharaḥ phaṇī | atha vīraḥ pragṛhyauṣṭhayugaṃ karayugena ca 29| dvidhā cakre samastāṃgaṃ devāṃstatra gatāyuṣaḥ | dṛṣṭvātha bhasmanaivaitāñjīvayāmāsa śaṃkaraḥ 30| atha devāḥ samunayo vīrabhadraṃ praṇamya tu | gatavaṃto yathāmārgaṃ dadṛśū rakṣa āgatam 31| paṃcameḍhraṃ mahākāyaṃ dorbhiśca daśabhiryutam | paṃcapādasamopetaṃ śirobhiryutamaṣṭabhiḥ 32| kāṃkṣamāṇaṃ mahāhāraṃ yudhyamāno hi vālinā | mahāvarāhavapuṣo vāsudevasya yadbalam 33| tādṛśaṃ dviguṇībhūtaṃ kapau vālini niścitam | tādṛśaṃ vānaraśreṣṭhaṃ sasugrīvaṃ sarākṣasaḥ 34| muṣṭiyuddhe paṃcapādaiḥ sahasā hatya vālinam | sugrīvaṃ ca karābhyāṃ sa haṃtumeva pracakrame 35| āsye nikṣipya sugrīvamagrasatkavalaṃ yathā | vālisugrīvagrasanaṃ dṛṣṭvā ciṃtāmavāpa ha 36| kathamenaṃ haniṣyāmi rakṣayiṣye kathaṃ kapim | evaṃ hi ciṃtayānaṃ taṃ vānaraṃ rākṣaseśvaraḥ 37| agrasīdekayatnena tathābhūtaṃ ca rākṣasam | dṛṣṭvā devarṣayaḥ sarve palāyanaparāstathā 38| palāyamānāṃstāndṛṣṭvā paṃcameḍhraḥ sa rākṣasaḥ | hastaiḥ samastaistānsarvānādāyābhakṣayattadā 39| vīrabhadrastato dṛṣṭvā vānararṣisurādanam | paṃcāśadyojanaśilāṃ kareṇādāya taṃ ruṣā 40| nijaghāna śiromadhye madhyamaṃ patitaṃ śiraḥ | tata ādāya śailasya śṛṃgaṃ tacchatayojanam 41| sthāpayitvā dṛḍhataraṃ rākṣaseṃdraṃ tathāharat | rākṣaso'tha babhāṣe taṃ vīrabhadraṃ trilocanam 42| mama bāhubalaṃ paśya vīkṣitaṃ tvadbalaṃ mayā | asidvayaṃ tailadhautaṃ paṃcāśadyojanonnatam 43| ekayojanavistāraṃ sudṛḍhaṃ lakṣaṇānvitam | ekaṃ gṛhāṇābhimataṃ viśiṣṭaṃ tanmamapriyam 44| vīrabhadrastathetyuktvā gṛhītvāsiṃ mahābalaḥ | kareṇācālayattīkṣṇaṃ kṣvelīṃ cakre tataḥ krudhā 45| gṛhītāsistathā kṣveladyaṃ cakre rākṣasapuṃgavaḥ | vīrabhadraṃ samabhyetya kaṃṭhaṃ pratisamarpayat 46| tadgātraṃ bhinnamabhavacchoṇitaṃ nirgataṃ bahu | rākṣasastvekahastena papau tacchoṇitaṃ tataḥ 47| vīrabhadraḥ kaṃṭhadeśe rākṣasaṃ prāharadruṣā | śirodvayaṃ tathācchinnaṃ patamānaṃ tato'grahīt 48| nyabhakṣayadameyātmā siṃhanādaṃ cakāra ha | tena nādena mahatā kṣubdhamāsījjagattrayam 49| anyonyamasighātena bhinnagātrau vikasvarau | kiṃśukāviva dṛśyete puṣpitau rudhirokṣitau 50| varṣamekaṃ tu saṃyudhya sāsīdevāsurau tadā | ataḥparaṃ varṣamekaṃ gadāyuddhamabhūttayoḥ 51| asiputrikayā paścādvarṣamekamabhūdraṇaḥ | punargṛhītvāsiyugaṃ yuyudhāte parasparam 52| śaṃ bruvāṇo mahākhaḍgaṃ daṃṣṭrākāro gaṇeśvaraḥ | saroṣaraktanayanaścālayitvāsimagrataḥ 53| tasya kaṃṭhavanaṃ sarvaṃ ciccheda kadaladyaṃ yathā | śirāṃsi sarvāṇyādāya babhakṣa bhaganetrahā 54| tasya gātraṃ kararuhairvidāryāhṛtya devatāḥ | kapīṃdrau ca tathā cānyā adrākṣītparameśvarīm 55| etadyuddhaṃ mahāghoraṃ nārado vīkṣya cābhyagāt | brahmaṇe vāsudevāya śaṃkarāya vyajijñapat 56| munayo rakṣitā devā vālisugrīva vānarau | etau saṃjīvayāmāsa brahmaviṣṇuśivātmakaḥ 57| rakṣase śaṃbhunā datto varaḥ paramadāruṇaḥ | hiraṇyakaśiporājye balavāneka rākṣasaḥ 58| devaiḥ sārddhaṃ tu yuyudhe varṣāṇāṃ śatamadbhutam | palāyitāśca bahudhā mṛtāśca śataśosurāḥ 59| śukreṇa rakṣitaḥ so'tha guruṇāciṃtayattvidam | mṛto'smi śataśaḥ śukra jīvito'smi tvayaiva hi 60| amṛtyave tvametasmādudarasthamṛtāya ca | anyathā maraṇaṃ mahyaṃ bhaviṣyati na saṃśayaḥ 61| guro yamena sākaṃ me yuddhamāsītsudāruṇam | mayāsau grasito yuddhe yamarājaḥ pratāpavān 62| mamodaraṃ praviśyāsau bibheda ca nanāda ca | ahaṃ mṛtastadā cāsaṃ tvayā saṃjīvitaḥ punaḥ 63| tasmādudarasaṃsthānāṃ maraṇāya tape tapaḥ | śukra uvāca- evametanna saṃdeho yathāvattvaṃ samācara 64| syamaṃtapaṃcakaṃ tīrthaṃ tatra tvaṃ taptumarhasi | rākṣasa uvāca- tape mahattapo ghoraṃ yanna cīrṇaṃ surāsuraiḥ 65| gulphapradeśe pādānte tvayaḥpāśaiḥ prabadhya ca | ayaḥstaṃbhayugaṃ kṛtvā ayaḥpaṭṭikayānvitam 66| paṭṭikāyāṃ pādabaṃdhaṃ kṛtvādhaḥ śīrṣatāṃ tathā | vivṛtāsyaṃ tathā kalpaṃ kṛtvādhomukhamuccakaiḥ 67| staṃbhottareṇa jvālāyāṃ cakrikāyāmitastataḥ | adhaḥśirāstathā tiṣṭhannunmīlyaiva vilocane 68| evaṃ tapaścariṣyāmi varadaḥ kopi me bhavet | brahmā vā varadaḥ so'stu śaṃkaro viṣṇureva ca 69| varade na tu me bhāvyaṃ yo vā kovā varapradaḥ | itthamābhāṣya muninā guruṇā bhārgaveṇa saḥ 70| tathātapacca ṣaṇmāsaṃ punaranyaccakāra ha | nakhābhyāṃ svaśiraśchittvā juhāvāgnau samaṃtrakam 71| namo bhadrāya maṃtreṇa catvāri ca śirāṃsi saḥ | paṃcamaṃ tu śiro hātuṃ yatamāne ca rākṣase 72| vahnimadhyātsamuttasthau bhagavānaṃbikāpatiḥ | śuddhasphaṭikasaṃkāśo bālacandra vibhūṣaṇaḥ 73| adhaḥśiraskaṃ tadrakṣa idamāha maheśvaraḥ | mā sāhasaṃ kṛthā rakṣo varado'smi varaṃ vṛṇu 74| rākṣasa uvāca- bahūnāṃ ca varāṇāṃ tvaṃ dātā nūnaṃ maheśvaraḥ | hataśīrṣasamutpattiṃ grastajīvamṛtiṃ tathā 75| varāhavapuṣo viṣṇorastu śaktiścaturguṇā | mayi tena hi roṣaḥ syātsaṃnidhistu sadā mama 76| tvajjaṭotpāṭanenaikaḥ puruṣaḥ saṃbhaviṣyati | tenaiva maraṇaṃ nānyairidamastu vṛtaṃ mama 77| bhaviṣyatyevamevaitadityuktvāṃtarhitoharaḥ | evaṃlabdhavaraḥ pāpī rākṣaso nihatastvayā 78| athāliṃgya harirvīraṃ śaṃkaraśca pitāmahaḥ | yathāgatamathojagmuratha devādiyoṣitaḥ 79| nipatya daṃḍavadbhūmau vīrabhadramathābruvan | namaste devadeveśa namaste karuṇākara 80| namaste śāśvatānaṃta namaste varado bhava | vīrabhadra uvāca- bhasmanā jīvayiṣyāmi surānsamuni vānarān 81| bhavatībhiḥ pratoṣṭavyaṃ śokaḥ kāryo na cādhunā | ityuktvā vīrabhadrastu bhasmanājīvayatsatān 82| utthitā munidevāśca vānarau cotthitau tataḥ | idamūcurvaco hṛṣṭāḥ śiraḥsthāṃjalayo naman 83| tvayātra jīvitāstāta pitā tvaṃ dharmato hi naḥ | asmākaṃ śaraṇaṃ nityaṃ bhava śaṃkarasaṃbhava 84| śiśūnāṃ duṣṭacaritaṃ dṛṣṭvā śikṣestathā ca tān | rakṣeḥ parakṛtā bādhā vyādhibhyaśca yathaurasān 85| dakṣādhvare kṛtāgaskāḥ śikṣitā bhavatānagha | idānīṃ rakṣitāstāta vayaṃ śiśuvadeva te 86| vīrabhadra uvāca- satyametanna saṃdeho yatra bādhā bhavettu vaḥ | tatra māṃ smarata kṣipraṃ bādhānāśaṃ gamiṣyati 87| vīrabhadraṃ padaṃ yepi paṭhaṃtyaṣṭaśataṃ tataḥ | praṇavādi namoṃ'taṃ ca caturthīsahitaṃ tathā 88| teṣāṃ rākṣasapīḍānāṃ nāśanaṃ ca bhaviṣyati | brahmarākṣasapīḍāsu piśācādibhayeṣu ca 89| nāmānusmaraṇātsarvabādhānāṃ ca vināśanam 90| vidyutprabhālocanamugramīśaṃ bāleṃdudaṃṣṭrāruṇaśobhitādharam | sunīlagātraṃ ca jaṭākṛtasrajaṃ dadhānamaṃge bhasitatripuṃḍrakam 91| brahmarākṣasamuktyarthaṃ smaraṇaṃ tvidamīritam | maṃtre ca vīrabhadrasya sarvametadudīritam 92| dadhīca uvāca- athaivaṃ vidadhe vīro munidevāstathāgatāḥ | etattriyāyuṣaṃ proktaṃ bhasmamāhātmyamuttamam 93| paṭhataḥ śṛṇvato vāpi smarato'ghavināśanam | śivabhaktipradaṃ puṇyamāyurārogyavarddhanam 94| śucismitovāca-| ahaṃ kṛtārthā dhanyā ca nārīṇāmuttamāsmyaham | hatapāpā tathā cāsmi namaste munipuṃgava 95| iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde saptottaraśatatamo'dhyāyaḥ 107|
English translation
Śucismitā said :
1. O brāhmaṇa , O sage, tell me how formerly the sacred ash protected Kaśyapa , Jamadagni of the gods?
Dadhīca said :
2-6. Formerly gods accompanied by Kaśyapa and others went to a well-known mountain named Śokara. In the middle of the mountain was a very beautiful (forest) which was full of many birds, which was resorted to by various hosts of sages, which was the resort of Vāsudeva , which was charming, which was resorted to by bevies of celestial nymphs, which was crowded with strange trees, which was bright with flowers of all seasons. We and others entered the best mountain (forest) like that and praising Viṣṇu went there to lord Śiva . We saw a great flame there and we entered it. Excepting me that deity (i.e. that flame) burnt (other) sages. After that it (also) burnt me. O auspicious one, we were reduced to ash.
7-14. Seeing us like this, that brave Vīrabhadra went to that mountain for some reason. With his entire body smeared with sacred ash, he remaining at the top, auspicious and pure, all alone, desireless and tranquil, heard the sound of wailing. Then he was full of thought: ‘The sound of the bodies of dead men and the smell as it were of dead bodies, are being perceived.’ Deciding like this in his mind, he went to the fire of great brilliance. Then that fire also started to burn Vīrabhadra. But it went out as the fire of (i.e. burning) grass (i.e. hay) would go out on receiving (i.e. being sprinkled over with) water. Then Vīrabhadra saw a great, mighty flame, which went (up) to the sky even (like) flame falling (i.e. dropped by) Śiva (obscure!). The brave Vīrabhadra thought in his mind: ‘(This) flame is the destroyer of hundreds of crores of beings. So for the protection of all I desire to drink it. As a thirsty man drinks water, I shall consume this great flame.’ In the meanwhile a divine voice said to (Vīrabhadra) the hero.
The voice said :
15-17. O hero, do not do a rash act. Where is your thirst, and where is the fire? (i.e. What a great disparity is there between the two!). Those that are thirsty are interested in water. Opposite is (their attitude towards) a wild fire. The lord of demons, viz. Praṇaṣṭa had a large head extending over a yojana . There was another (demon) whose face extended over a hundred yojanas and who had a hundred arms. The illustrious Agastya had completely drunk (the water of) the ocean. This flame destroyed these and other well-known (beings).
Vīrabhadra said :
18-19a. This flame will not cause fear as told by you. O Sarasvatī , I shall be angry with you. Know me to be Vīrabhadra whose position is honoured by all gods.
Bhāratì said :
19b-22a. O sage, what I said was with an affectionate feeling, and not through hatred or any other feeling. O hero, give up your anger and do what is beneficial for yourself.
Saying so the goddess vanished through the fear of the hero. Then that hero easily drank (i.e. consumed) the great flame.
22b-26a. In a moment Vīrabhadra all alone drank that great flame which extended over a hundred yojanas and was extremely difficult to bear. Just on seeing the heaps of ashes (of the bodies) of (gods) led by Indra and of sages, the magnanimous Vīrabhadra called them (out). Those dead sages and residents of heaven (i.e. gods) did not respond. Knowing the destruction of the sages and gods, Vīrabhadra thought: ‘How can I, (though) an experienced one, bring all of them back to life?’ Through meditation he knew (how to bring them back to) life. Sipping (water) he consecrated with the hallowed Mṛtyuñjaya hymn and with sacred ash the ashes (of the bodies) of the dead.
26b-28a. Then the best sages, having resorted to their respective bodies, got up. Then they went to the very bright side of the mountain. There also they were swallowed by a serpent of a mighty body. Then the mighty hero (Vīrabhadra) went to the great serpent.
28b-33a. Seeing Vīrabhadra to have come (there), the serpent started fighting. The serpent, taking up various forms, fought for a year. Then the hero holding with both his hands, the two lips (of the serpent), tore his entire body into two (parts). Seeing the gods dead, Śaṅkara brought them back to life with the sacred ash only. Then the gods, along with the sages, saluted Vīrabhadra and went their way. (Then) they saw the demon Pañcameḍhra who had come there, had a large body, was endowed with ten arms, possessed five feet, had eight heads, and desired a large (quantity of) food.
33b-38. That demon, when he had fought with the monkey Vālin , who had certainly double the strength of Viṣṇu, having the body of a large boar, had suddenly struck Valin with his five feet in boxing, and had proceeded to kill Sugrīva with his hands. He put Sugrīva into his mouth and swallowed him like a morsel. Seeing Vālin and Sugrīva swallowed, he thought: ‘How shall I kill him and how shall I save the monkey?’ When he was thinking like this the lord of demons ate up the monkey with one effort. Seeing the demon like that, all the gods and sages became intent on running (away).
39-44. Seeing them running, that demon Pañcameḍhra took all of them with all his hands and ate them up. Then Vīrabhadra, seeing the monkeys, sages and gods being eaten up (by the demon) angrily took in his hand a rock extending over fifty yojanas and struck it on the heads (of the demon). The middle head (of the demon) fell down. Then taking the peak of the mountain which was a hundred yojanas long and holding it more firmly, he struck the lord of mountains. Then the demon said to that three-eyed Vīrabhadra: “(Now) see the strength of my arms. I have seen your might. There is a couple of swords. They are glistening with oil, and they are fifty yojanas high (i.e. long). They extend over a yojana, are very strong, and have (good) characteristics. You take one liked by you. The one that remains is dear to me.”
45-49. Saying, “All right”, the very strong Vīrabhadra took one sword; and he moved the sharp sword with his hand; and then roared angrily. The best demon also took a sword and roared in the same way. Having approached Vīrabhadra, he put it on his neck (i.e. struck on his neck with it). The limb (i.e. the neck) was pierced, and profuse blood flowed out. With one hand the demon then drank the blood. Vīrabhadra angrily struck the demon on the region of his neck. He took the two heads that were cut off and that were falling down. The magnanimous one swallowed them, and roared like a lion. Due to that great roar the three worlds were agitated.
50-55. With their bodies pierced by strokes of swords made by each other, they who were roaring and who were wet with blood, appeared like the blossomed kiṃśuka (trees). The god (Vīrabhadra) and the demon (Pañcameḍhra) with swords (in their hands) fought for a year. After that they fought a mace-fight for a year. Then a battle with knives took place (between the two) for a year. Then again taking two swords, they fought with each other. Then the lord of (Śiva’s) attendants, of the nature ofa tusk, saying, ‘Prosperity (to you)’, and with his eyes red with anger, moved a great sword before him, and cut off his entire forest-like neck, as (one would cut off) a plantain tree. Taking all the heads, he ate them up. Having torn his body with his nails, he took out and saw the deities, the lordly monkeys (i.e. Vālin and Sugrīva) and the great goddess.
56-63. Seeing this very fierce battle, Nārada went and told Brahmā , Vāsudeva and Śaṅkara (about it): “The sages, the deities, the two monkeys Vālin and Sugrīva have been protected by him; and he, of the nature of Brahma , Viṣṇu and Śiva has brought the two (monkeys) back to life.” An awful boon was given by Śiva to a demon. There was a mighty demon in the kingdom of Hiraṇyakaśipu . He wonderfully fought for a hundred years with the gods. Many fled in various ways, and hundreds of demons died. He, thinking like this, was protected by his preceptor, Śukra : “O Śukra, I died a hundred times, and was brought back to life by you only. Make me immortal, and make him who is in my belly mortal (i.e. let me be immortal, and let those eaten by me die). Otherwise, I shall die; there is no doubt about it. O preceptor, I had a very terrible fight with Yama . In the battle, that valorous king Yama was swallowed up by me. He entered my belly, pierced it and roared. I then died, but was again brought back to life by you. Therefore, I shall practise penance for the death of those who are in my belly.”
Śukra said :
64-65a. This is so. There is no doubt about it. You practise it duly. There is a holy place (called) Syamantapañcaka . Please go there.
The demon said :
65b-74. I shall practise a very terrible (i.e. severe) penace, (like) which was not practised by gods and demons. I shall bind with iron fetters my feet at the end, i.e. at the ankles. I shall fashion a couple of iron-pillars having iron-straps. I shall bind (i.e. keep tied) my feet in the strap and put my head below (and feet above); similarly I shall keep my mouth open, and make my face (let) down. I shall remain with a flame fluttering in a circular way and will keep my eyes open. I shall practise penance like this, whosoever may be the giver of the boon. Let Brahmā or Śaṅkara or Viṣṇu be the giver of the boon, whosoever may grant it.
Having thus spoken to his preceptor Bhārgava (i.e. Śukra), he practised the penance for five or six months and again practised another penance. Having cut off his head with his nails, he offered it, with (the accompaniment of) a hymn, into the fire. He offered his four heads, with (the utterance of) the hymn, ‘Salutaion to Bhadra ’. When the demon was trying to abandon (i.e. to offer) his fifth head, the revered lord of Ambikā (i.e. Śiva) stood up from the fire. He resembled a pure crystal and was adorned with the young moon. The great god said to the demon who had bent down his head: “O demon, do not do a rash act. I am the giver of a boon. Ask for a boon.”
The demon said :
75-81a. You, the great god, are the giver of many boons. Let my heads that are struck off grow again and let the beings swallowed by me die. Let me have four times the power of Viṣṇu, having the body of the Boar. You may never be angry with me and be always near me. A man would come up when your matted hair is pulled out. Let me die at his hands; and not (be killed) by others. This is what I ask for.
“It shall be just so”. Saying like this Śiva disappeared. ( Bhāratī said:) “You have killed the sinful demon who had received such a boon.” Then having embraced the hero (Vīrabhadra), Viṣṇu, Śiva and the grandsire (i.e. Brahmā) went as they had come. The wives of deities etc. fell (i.e. prostrated before him) on the ground like a staff and said to Vīrabhadra: “Salutation to you, O lord of the god of gods; salutation to you, O eternal and endless one; salutation to you; be the giver of boons.”
Vīrabhadra said :
81b-86. By means of the sacred ash I shall bring back to life the gods along with the sages and the monkeys. You should be pleased; now you should not grieve.
Saying so, Vīrabhadra brought them back to life with the sacred ash. The sages and the gods, so also the two monkeys (i.e. Vālin and Sugrīva) got up. With the palms of their hands put to their heads, they who were pleased, saluted him, and said: “O dear one, you have brought (us) back to life; you are our spiritual father. O you born of Śaṃkara , always be our refuge. Punish the children on seeing their bad behaviour; so also protect them as your own sons from the torment inflicted by the enemies and from diseases. O you sinless one, you punished those who had committed sins at the sacrifice of Dakṣa . O father, we are now (to be protected by you) like children.”
Vīrabhadra said :
87-92. This is true. There is no doubt about it. Remember me when you are troubled. The trouble will quickly perish. The troubles from demons to those who recite the name of Vīrabhadra a hundred and eight times, beginning with ‘Om’ and ending with (the word) ‘salutation’, with (i.e. using) the dative (as Vīrabhadrāya), will come to an end. At the time of trouble from brāhmaṇa-ghosts and fear from goblins etc. all the troubles vanish (merely) by remembering the name (of Vīrabhadra). (One should remember him) whose eyes are like the brilliance of lightning, who is the lord, whose lips are tawny and shining with fangs resembling the young moon, whose body is very dark, who has the garland of matted hair, and who has on his body three lines of sacred ash. This recollection (of Vīrabhadra) is told for (getting) freedom from brāhmaṇa-ghosts. All this is explained in the hymn of Vīrabhadra.
Dadhīca said :
93-95. The hero accomplished (like this). So also the sages and gods that had come. By these three the great importance of the sacred ash is proclaimed. Of him who recites or listens to it, it destroys the sins, gives devotion to Śiva, and prolongs life and good health.
Śucismitā said :
I am happy; I am blessed; I am best among women. My sins are destroyed. My salutation to you, O best sage.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 44073, revision 333747 (2022-03-16T02:27:37Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365419.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.