Uttara-khaṇḍa · Chapter 5
Sourceयुधिष्ठिर उवाच- कः पितृव्यः सिंधुसूनोः किं वृत्तं तस्य विग्रहे । युयुधे स कथं दैत्यस्तन्मे कथय नारद १। नारद उवाच-। शृणु त्वं नृपशार्दूल पितृव्यः क्षीरसागरः । जालंधरस्य तं देवैः प्रमथ्य धनमाहृतम् २। श्रीचंद्रामृतनागाश्वपूर्वं तस्य सुरासुरैः । तच्छ्रुत्वा विग्रहं चक्रे देवैर्जालंधरोऽसुरः ३। कदाचित्प्रेषयामास दूतं दुर्वारणं बली । शिक्षयित्वा तु वक्तव्यं देवेंद्रभवनं प्रति ४। अथ स्यंदनमारुह्य ययौ दुर्वारणो दिवि । प्रवेष्टुकामो भवनं द्वारस्थैर्द्वारि निवारितः ५। दूत उवाच-। जालंधरस्य दूतोऽहं आगतः शक्रसंनिधौ । गत्वा तत्र भवंतो मां विज्ञापयितुमर्हथ ६। इति तस्य वचः श्रुत्वा तदैव तु शचीपतिम् । गत्वा च प्रणिपत्याह दूतो देवागतो भुवः ७। दौवारिको महेंद्रेण प्रत्युक्तो दूतमानय । हस्ते गृहीत्वा तं दूतं वासवांतिकमानयत् ८। दुर्वारणो देवसभां प्रविष्टः प्रव्यलोकयत् । हरिं देवैस्तु यस्त्रिंशत्कोटिभिः परिवेष्टितम् ९। स्वर्णसिंहासनं दिव्यं चामरानिलसेवितम् । शचीप्रेमरसोत्फुल्लनयनाब्जसहस्रकम् १०। दुर्वारणोऽथ देवेशं विलोक्य गुरुणा सह । प्रणनामात्मगर्वेण प्रहसन्नयनश्रियम् ११। निर्दिष्टमासनं भेजे दूतो जालंधरस्य सः । कस्य त्वं केन कार्येण प्राप्तः प्राहेति तं हरिः १२। दूतो जालंधरस्याहं स जगाद पुरंदरम् । स राजा सर्वलोकानां तस्याज्ञां शृणु मन्मुखात् १३। पितृव्यो मम दुग्धाब्धिस्त्वया कस्माद्विलोडितः । मंदराद्रिविधानेन हृतं कोशं महाधनम् १४। श्रीचंद्रामृतनागाश्वं तन्मणिं विद्रुमादिकम् । देहि सर्वं तथा स्वर्गं शीघ्रं त्यज पुरंदर १५। स त्वं मद्वचनात्तूर्णं कुरु सर्वं यथोचितम् । तं क्षमापय भूपाल यदि जीवितुमिच्छसि १६। अथ प्रहस्य मघवा प्राह दुर्वारणं प्रति । शृणु दूत समासेन सिंधोर्मथनकारणम् १७। पुरा हिमवतः सूनुर्मैनाको नाम मे रिपुः । स कुक्षौ विधृतस्तेन सागरेण जडेन च १८। दग्धं चराचरं येन वह्निना हयरूपिणा । स चापि विधृतस्तेन सागरेण दुरात्मना १९। धर्मद्विषां दानवानामसौ वै आश्रयः प्रभुः । नित्यं दधि घृतं क्षीरं दानवेभ्यः प्रयच्छति २०। अतएवायमस्माभिः दुर्वारण विलोडितः । दंडितश्च गतश्रीको देवैरथ पुरातनैः २१। शृणु दूत सबंधेन मम विप्रेण शोषितः । कुंभोद्भवेन किंचैष दुःसंगे नैव बाध्यते २२। सोऽपि युद्धार्थमस्माभिः सर्वसैन्येन संवृतः । आगमिष्यति वै नाशं गमिष्यति तदैव हि २३। इतीरयित्वा विरराम वृत्रहा सरित्पतेरात्मजदूतमुच्चकैः । शशंस चागत्य समुद्रसूनोर्देवेश्वरेणोक्तमशेषमादितः २४। नारद उवाच-। महेंद्र वचनं श्रुत्वा निजदूतमुखेन च । समुद्रसूनुः संक्रुद्धः सर्वं सैन्यं समाह्वयत् २५। रसातलस्थिता दैत्याः ये च भूतलवासिनः । आययुः सबलास्तत्र जालंधरमथाज्ञया २६। प्रयाणप्रक्रमे सिंधुसूनोः सैन्यस्य गर्जितैः । स्फुटंति नभसो राजन्पातालमखिला दिशः २७। हयनागोष्ट्रवदना बिडालमुखभीषणाः । व्याघ्रसिंहाखुवदना विद्युत्सदृशलोचनाः २८। सर्पकेशा महादेहाः केचित्खङ्गतनूरुहाः । अन्ये च परिधावंति गर्जंति जलदस्वनैः २९। रथगजहयपत्तिसंकुलं समरविनोदकदंब भासुरम् । अब्जशतसहस्रकोटिनायकं बलमखिलं च तदा रराज राजन् ३०। शतयोजनविस्तीर्णं विमानं हंसकोटिभिः । युक्तं भूतिसहस्रौघं सर्ववस्तुप्रपूरितम् ३१। तद्विमानं समारुह्य सद्यो जालंधरो ययौ । मध्याह्ने मंदरं प्राप्तः प्रथमेऽह्नि बलैः सह ३२। खंडितं शिबिकावाहैर्दलितं भूरिकुंजरैः । द्वितीये दिवसे मेरुं संप्राप्तो बलसंयुतः ३३। इलावृत्ते तु शिखरे तस्थौ तत्कटकं महत् । अथ दैत्याधिपैर्भग्नं खांडवं नंदनं वनम् ३४। शिखराणि विशीर्णानि मेरोर्दानवपुंगवैः । संतानकेषु वृक्षेषु बद्धा हिंदोलमंचकान् ३५। सिद्धांगनाभिः सहिता रेमिरे दैत्यपुंगवाः । कुचकुंकुमतांबूल चंदनागरुभूषणैः ३६। केशपाशच्युतैः पुष्पैः मेरोः संपूरिता नदी । सुमेरोः पूर्वदिग्भागो गजैस्तस्य विघट्टितः ३७। दक्षिणं च रथैश्चेरुरुत्तरं पश्चिमं भटैः । अथ प्रस्थापयामास दैत्याञ्जालधरोऽसुरः ३८। महेंद्रशिखरं चान्ये ययुर्दुंदुभिनिःस्वनैः । राजराजपुरीं भंक्त्वा यमस्य वरुणस्य च ३९। अन्येषां लोकपालानामाययुस्तेऽमरावतीम् । अथोत्पाताभवन्नाके दिव्यभौमांतरिक्षगाः ४०। रजः पपात बहुलं तमस्तोमो विजृंभते । तदा पपात कुलिशं करादिंद्रस्य निष्प्रभम् ४१। दृष्ट्वा निमित्तानि भयावहानि नाके महेंद्रो गुरुमित्युवाच । किं कुर्महे कं शरणं च यामस्तं पश्य युद्धं समुपस्थितं च ४२। ततो वाचस्पतिर्वाक्यमुवाच त्रिदशाधिपम् । चरणौ पाहि शरणं विष्णोर्वैकुंठवासिनः ४३। इत्युक्तो गुरुणा देवैः साकं वैकुंठमंदिरम् । जगामाखंडलः शीघ्रं शरणं कैटभद्विषः ४४। शशंस वासुदेवाय विजयो द्वारपालकः । जालंधरभयत्रस्ताः सर्वे देवाः समागताः ४५। श्रीरुवाच-। न वध्योऽसौ मम भ्राता देवार्थे युध्यता त्वया । शापितो देव मत्प्रीत्या वधार्हो न भविष्यति ४६। इति श्रीवचनं श्रुत्वा विष्णुस्त्रैलोक्यपालकः । अथारुरोह गरुडं पक्षक्षेपावृतांबरम् ४७। वैकुंठभवनात्तूर्णं निर्गतस्त्रिदशान्हरिः । जालंधरभयत्रस्तान्गतकांतीनथैक्षत ४८। ददृशुस्ते सुराः सर्वे हरिं सांद्रघनोपमम् । शार्ङ्गशंखगदापद्मविभूषितचतुर्भुजम् ४९। स्तोत्रं पठित्वा पुरतः प्राहेंद्रः सरितांपतेः । जालंधरेणात्मजेन भग्नं देव त्रिविष्टपम् 6.5.५०। तदिंद्रवचनं श्रुत्वाऽभयं दत्वा दिवौकसाम् । विजेतुमसुरं देवैः सह रेजे सुरांतकृत् ५१। अथानीतं मातलिना रथमारुह्य वासवः । वासुदेवस्य पुरतः प्रययौ विधृताशनिः ५२। वामतस्त्रिदशाः सर्वे सव्यतश्च समाययौ । स्वाहाप्रियो दक्षिणतः स च मेषं समास्थितः ५३। आरुह्यैरावतं नागं जयंतः शक्रनंदनः । उच्चैःश्रवसमिंद्रश्च उभौ भगवतः पुरः ५४। धातार्यमा च मित्रश्च वरुणोंशो भगस्तथा । इंद्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ५५। ततस्त्वष्टा ततो विष्णू रेजे धन्यो जघन्यजः । इत्येते द्वादशादित्या इंद्रस्य पुरतः स्थिताः ५६। वीरभद्रश्च शंभुश्च गिरिशश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ५७। भुवनाधीश्वरश्चैव कपाली च विशांपते । स्थाणुर्भगश्च भगवान्रुद्रा एकादश स्मृताः ५८। श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा । प्राणापानौ सजीवौ च मरुतोऽष्टौ तदग्रतः ५९। विवस्वानपि तन्मध्ये ययौ द्वादशमूर्तिभिः । धनदः शिबिकारूढः किंनरेशो ययौ तदा ६०। रुद्राश्च वृषभारूढा मारुतो मृगवाहनः । ययुः सैन्यस्य पुरतः त्रिशूलपरिघायुधाः ६१। गंधर्वाश्चारणा यक्षाः पिशाचोरग गुह्यकाः । सर्वसैन्यस्य पुरतः सर्वशस्त्रभृतो ययुः ६२। पूर्वापरौ तोयराशी समाक्रांतौ च सैनिकैः । तस्मिन्ससार भूमिराट्वराहवपुषा हरिः ६३। स्वर्गादागत्य वेगेन दैत्यसैन्यजिघांसया । सुमेरोरुत्तरो भागः सुरसैन्येन संवृतः ६४। सेनाभारोद्भुतकरस्तस्थौ जालंधरस्य च । आश्रित्य दक्षिणं भागं तूर्णं कनकशृंगतः ६५। अहोरात्रेण विहिता वर्षे तस्मिन्निलावृते । मेरुमंदरयोर्मध्ये युद्धभूमिः प्रतिष्ठिता ६६। तत्रात्मजयदां भूमिं कविप्रोक्तां मुदायुताः । जग्मुस्ते दानवास्तूर्णं गुरुप्रोक्तां ययुः सुराः ६७। रथप्रवीरैः परितश्च संप्लवैर्गजैर्घनाकारमदप्रवाहिभिः । अश्वैरनंतैर्गरुडाग्रगामिभिः पदातिभिः सारणभूर्भृता बभौ ६८। ततो वादित्रनिर्घोषः सेनयोरुभयोरभूत् । कोलाहलश्च वीराणामन्योन्यमभिगर्जताम् ६९। अथ दानवदेवानां संग्रामोऽभूद्भयावहः । सर्वसैन्यस्य संमर्दो यथा त्रिभुवनक्षयः ७०। भयक्रांता महाश्रांता श्रुतिर्विलपती मुहुः । स्वरथाकाररहितं शरैः संपूरितं तदा ७१। रोमांचिता बभौ द्यौश्च रजोवस्त्रं विधुन्वती । रौद्रैर्विहंगमारावैस्त्रासादाक्रंदतीव हि ७२। देवेंद्रेण तदाज्ञप्ता मेघाः संवर्तकादयः । गजानुच्चैः समारुह्य तेऽसुरान्युयुधुर्मृधे ७३। देवानामश्वारोहाश्च जाता गंधर्वकिन्नराः । रथिनः साध्यसिद्धाश्च गजिनो यक्षचारणाः ७४। पदातिनः किंपुरुषाः पन्नगाः पवनाशनाः । रोगाणामधिपो राजन्यक्ष्मा च यमनायकः ७५। तत्र दानवरोगाणां संग्रामोऽभूत्सुदारुणः । पतिता लुलुठुर्भूमौ दैत्याः शूलज्वरामयैः ७६। दानवैर्निहता रोगाः पेतुः समरमूर्द्धनि । पलायांचक्रिरे केचित्व्याधयो भूधरान्प्रति ७७। औषध्यस्तत्र सहजा वैशल्यकरणीमुखाः । ताभिर्विशल्याः सैन्येषु युयुधुर्यमकिंकराः ७८। दानवैर्निहताः सर्वे शरमुद्गरपट्टिशैः । पदातयः पत्तिगणैः खङ्गैस्तीक्ष्णैः परश्वधैः ७९। कोटिशो जघ्नुरन्योन्यं रुधिरारुणविग्रहाः । अश्वचारा हयैस्तूर्णैश्चिक्षिपुर्गगने तदा ८०। संश्लिष्य जघ्नुरन्योन्यं रुधिरारुणविग्रहाः । समूहो रथिनां भीमो रथौघैश्छाद्य मेदिनीम् ८१। विव्यधुर्निशितैर्बाणैर्धनुर्मुक्तैर्महारथान् । मदक्षीणकपोलांगाः करैर्बद्धा करान्दृढम् ८२। गजान्प्रतिगजाः क्रुद्धाः पातयंति महीतले । कोपि दैत्यो रथं दोर्भ्यामुत्क्षिप्योत्थाय खं ययौ ८३। अश्वचारान्हयान्नागान्पातयामास भूतले । स्कंधे गृहीत्वा तरसा ययौ जालंधरं प्रति ८४। कक्षयोर्वै गजौ गृह्य तृतीयं जठरोपरि । चतुर्थं मस्तके गृह्य रणे धावति कश्चन ८५। उत्पाट्य कोशतः खङ्गं विधूय विमलांबरम् । ययौ सहस्रशो देवान्पातयित्वा रणेऽसुरः ८६। काचित्पीनस्तनी तन्वी खेचरीरति लंपटा । आगत्य गगनात्तूर्णं निन्ये दैत्यं रणांगणात् ८७। चुचुंब सा तद्वदनं तीक्ष्णनाराचकीलितम् । देवसैन्यं ततो बद्ध्वा कालनेमिर्ननर्त्त ह ८८। ततो जनार्दनः क्रुद्धो निर्ययौ कालनेमिनम् । यमो दुर्वारणं वीरं स्वर्भानुश्चंद्रभास्करौ ८९। केतुं वैश्वानरो देवो ययौ शुक्रं बृहस्पतिः । आश्विनौ संयतौ तत्र दैत्यमंगारपर्णकम् ९०। संह्रादं शक्रपुत्रश्च निर्ह्रादं धनदो ययौ । निशुंभश्चावृतो रुद्रैः शुंभो वसुभिराहवे ९१। मेघाकारं स्थितं जंभं विश्वेदेवाः समाययौ । वायवो वज्ररोमाणमथ मृत्युर्मयं ययौ ९२। नमुचिं वासवो व्यग्रं शक्तिहस्तोऽभ्यधावत । अन्यैरपि सुरैर्दैत्याः स्वस्ववीर्यसमैर्वृताः ९३। इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे युधिष्ठिरनारदसंवादे देवदानवयुद्धंनाम पंचमोध्यायः ५।
yudhiṣṭhira uvāca- kaḥ pitṛvyaḥ siṃdhusūnoḥ kiṃ vṛttaṃ tasya vigrahe | yuyudhe sa kathaṃ daityastanme kathaya nārada 1| nārada uvāca-| śṛṇu tvaṃ nṛpaśārdūla pitṛvyaḥ kṣīrasāgaraḥ | jālaṃdharasya taṃ devaiḥ pramathya dhanamāhṛtam 2| śrīcaṃdrāmṛtanāgāśvapūrvaṃ tasya surāsuraiḥ | tacchrutvā vigrahaṃ cakre devairjālaṃdharo'suraḥ 3| kadācitpreṣayāmāsa dūtaṃ durvāraṇaṃ balī | śikṣayitvā tu vaktavyaṃ deveṃdrabhavanaṃ prati 4| atha syaṃdanamāruhya yayau durvāraṇo divi | praveṣṭukāmo bhavanaṃ dvārasthairdvāri nivāritaḥ 5| dūta uvāca-| jālaṃdharasya dūto'haṃ āgataḥ śakrasaṃnidhau | gatvā tatra bhavaṃto māṃ vijñāpayitumarhatha 6| iti tasya vacaḥ śrutvā tadaiva tu śacīpatim | gatvā ca praṇipatyāha dūto devāgato bhuvaḥ 7| dauvāriko maheṃdreṇa pratyukto dūtamānaya | haste gṛhītvā taṃ dūtaṃ vāsavāṃtikamānayat 8| durvāraṇo devasabhāṃ praviṣṭaḥ pravyalokayat | hariṃ devaistu yastriṃśatkoṭibhiḥ pariveṣṭitam 9| svarṇasiṃhāsanaṃ divyaṃ cāmarānilasevitam | śacīpremarasotphullanayanābjasahasrakam 10| durvāraṇo'tha deveśaṃ vilokya guruṇā saha | praṇanāmātmagarveṇa prahasannayanaśriyam 11| nirdiṣṭamāsanaṃ bheje dūto jālaṃdharasya saḥ | kasya tvaṃ kena kāryeṇa prāptaḥ prāheti taṃ hariḥ 12| dūto jālaṃdharasyāhaṃ sa jagāda puraṃdaram | sa rājā sarvalokānāṃ tasyājñāṃ śṛṇu manmukhāt 13| pitṛvyo mama dugdhābdhistvayā kasmādviloḍitaḥ | maṃdarādrividhānena hṛtaṃ kośaṃ mahādhanam 14| śrīcaṃdrāmṛtanāgāśvaṃ tanmaṇiṃ vidrumādikam | dehi sarvaṃ tathā svargaṃ śīghraṃ tyaja puraṃdara 15| sa tvaṃ madvacanāttūrṇaṃ kuru sarvaṃ yathocitam | taṃ kṣamāpaya bhūpāla yadi jīvitumicchasi 16| atha prahasya maghavā prāha durvāraṇaṃ prati | śṛṇu dūta samāsena siṃdhormathanakāraṇam 17| purā himavataḥ sūnurmaināko nāma me ripuḥ | sa kukṣau vidhṛtastena sāgareṇa jaḍena ca 18| dagdhaṃ carācaraṃ yena vahninā hayarūpiṇā | sa cāpi vidhṛtastena sāgareṇa durātmanā 19| dharmadviṣāṃ dānavānāmasau vai āśrayaḥ prabhuḥ | nityaṃ dadhi ghṛtaṃ kṣīraṃ dānavebhyaḥ prayacchati 20| ataevāyamasmābhiḥ durvāraṇa viloḍitaḥ | daṃḍitaśca gataśrīko devairatha purātanaiḥ 21| śṛṇu dūta sabaṃdhena mama vipreṇa śoṣitaḥ | kuṃbhodbhavena kiṃcaiṣa duḥsaṃge naiva bādhyate 22| so'pi yuddhārthamasmābhiḥ sarvasainyena saṃvṛtaḥ | āgamiṣyati vai nāśaṃ gamiṣyati tadaiva hi 23| itīrayitvā virarāma vṛtrahā saritpaterātmajadūtamuccakaiḥ | śaśaṃsa cāgatya samudrasūnordeveśvareṇoktamaśeṣamāditaḥ 24| nārada uvāca-| maheṃdra vacanaṃ śrutvā nijadūtamukhena ca | samudrasūnuḥ saṃkruddhaḥ sarvaṃ sainyaṃ samāhvayat 25| rasātalasthitā daityāḥ ye ca bhūtalavāsinaḥ | āyayuḥ sabalāstatra jālaṃdharamathājñayā 26| prayāṇaprakrame siṃdhusūnoḥ sainyasya garjitaiḥ | sphuṭaṃti nabhaso rājanpātālamakhilā diśaḥ 27| hayanāgoṣṭravadanā biḍālamukhabhīṣaṇāḥ | vyāghrasiṃhākhuvadanā vidyutsadṛśalocanāḥ 28| sarpakeśā mahādehāḥ kecitkhaṅgatanūruhāḥ | anye ca paridhāvaṃti garjaṃti jaladasvanaiḥ 29| rathagajahayapattisaṃkulaṃ samaravinodakadaṃba bhāsuram | abjaśatasahasrakoṭināyakaṃ balamakhilaṃ ca tadā rarāja rājan 30| śatayojanavistīrṇaṃ vimānaṃ haṃsakoṭibhiḥ | yuktaṃ bhūtisahasraughaṃ sarvavastuprapūritam 31| tadvimānaṃ samāruhya sadyo jālaṃdharo yayau | madhyāhne maṃdaraṃ prāptaḥ prathame'hni balaiḥ saha 32| khaṃḍitaṃ śibikāvāhairdalitaṃ bhūrikuṃjaraiḥ | dvitīye divase meruṃ saṃprāpto balasaṃyutaḥ 33| ilāvṛtte tu śikhare tasthau tatkaṭakaṃ mahat | atha daityādhipairbhagnaṃ khāṃḍavaṃ naṃdanaṃ vanam 34| śikharāṇi viśīrṇāni merordānavapuṃgavaiḥ | saṃtānakeṣu vṛkṣeṣu baddhā hiṃdolamaṃcakān 35| siddhāṃganābhiḥ sahitā remire daityapuṃgavāḥ | kucakuṃkumatāṃbūla caṃdanāgarubhūṣaṇaiḥ 36| keśapāśacyutaiḥ puṣpaiḥ meroḥ saṃpūritā nadī | sumeroḥ pūrvadigbhāgo gajaistasya vighaṭṭitaḥ 37| dakṣiṇaṃ ca rathaiśceruruttaraṃ paścimaṃ bhaṭaiḥ | atha prasthāpayāmāsa daityāñjāladharo'suraḥ 38| maheṃdraśikharaṃ cānye yayurduṃdubhiniḥsvanaiḥ | rājarājapurīṃ bhaṃktvā yamasya varuṇasya ca 39| anyeṣāṃ lokapālānāmāyayuste'marāvatīm | athotpātābhavannāke divyabhaumāṃtarikṣagāḥ 40| rajaḥ papāta bahulaṃ tamastomo vijṛṃbhate | tadā papāta kuliśaṃ karādiṃdrasya niṣprabham 41| dṛṣṭvā nimittāni bhayāvahāni nāke maheṃdro gurumityuvāca | kiṃ kurmahe kaṃ śaraṇaṃ ca yāmastaṃ paśya yuddhaṃ samupasthitaṃ ca 42| tato vācaspatirvākyamuvāca tridaśādhipam | caraṇau pāhi śaraṇaṃ viṣṇorvaikuṃṭhavāsinaḥ 43| ityukto guruṇā devaiḥ sākaṃ vaikuṃṭhamaṃdiram | jagāmākhaṃḍalaḥ śīghraṃ śaraṇaṃ kaiṭabhadviṣaḥ 44| śaśaṃsa vāsudevāya vijayo dvārapālakaḥ | jālaṃdharabhayatrastāḥ sarve devāḥ samāgatāḥ 45| śrīruvāca-| na vadhyo'sau mama bhrātā devārthe yudhyatā tvayā | śāpito deva matprītyā vadhārho na bhaviṣyati 46| iti śrīvacanaṃ śrutvā viṣṇustrailokyapālakaḥ | athāruroha garuḍaṃ pakṣakṣepāvṛtāṃbaram 47| vaikuṃṭhabhavanāttūrṇaṃ nirgatastridaśānhariḥ | jālaṃdharabhayatrastāngatakāṃtīnathaikṣata 48| dadṛśuste surāḥ sarve hariṃ sāṃdraghanopamam | śārṅgaśaṃkhagadāpadmavibhūṣitacaturbhujam 49| stotraṃ paṭhitvā purataḥ prāheṃdraḥ saritāṃpateḥ | jālaṃdhareṇātmajena bhagnaṃ deva triviṣṭapam 6.5.50| tadiṃdravacanaṃ śrutvā'bhayaṃ datvā divaukasām | vijetumasuraṃ devaiḥ saha reje surāṃtakṛt 51| athānītaṃ mātalinā rathamāruhya vāsavaḥ | vāsudevasya purataḥ prayayau vidhṛtāśaniḥ 52| vāmatastridaśāḥ sarve savyataśca samāyayau | svāhāpriyo dakṣiṇataḥ sa ca meṣaṃ samāsthitaḥ 53| āruhyairāvataṃ nāgaṃ jayaṃtaḥ śakranaṃdanaḥ | uccaiḥśravasamiṃdraśca ubhau bhagavataḥ puraḥ 54| dhātāryamā ca mitraśca varuṇoṃśo bhagastathā | iṃdro vivasvānpūṣā ca parjanyo daśamaḥ smṛtaḥ 55| tatastvaṣṭā tato viṣṇū reje dhanyo jaghanyajaḥ | ityete dvādaśādityā iṃdrasya purataḥ sthitāḥ 56| vīrabhadraśca śaṃbhuśca giriśaśca mahāyaśāḥ | ajaikapādahirbudhnyaḥ pinākī cāparājitaḥ 57| bhuvanādhīśvaraścaiva kapālī ca viśāṃpate | sthāṇurbhagaśca bhagavānrudrā ekādaśa smṛtāḥ 58| śvasanaḥ sparśano vāyuranilo mārutastathā | prāṇāpānau sajīvau ca maruto'ṣṭau tadagrataḥ 59| vivasvānapi tanmadhye yayau dvādaśamūrtibhiḥ | dhanadaḥ śibikārūḍhaḥ kiṃnareśo yayau tadā 60| rudrāśca vṛṣabhārūḍhā māruto mṛgavāhanaḥ | yayuḥ sainyasya purataḥ triśūlaparighāyudhāḥ 61| gaṃdharvāścāraṇā yakṣāḥ piśācoraga guhyakāḥ | sarvasainyasya purataḥ sarvaśastrabhṛto yayuḥ 62| pūrvāparau toyarāśī samākrāṃtau ca sainikaiḥ | tasminsasāra bhūmirāṭvarāhavapuṣā hariḥ 63| svargādāgatya vegena daityasainyajighāṃsayā | sumeroruttaro bhāgaḥ surasainyena saṃvṛtaḥ 64| senābhārodbhutakarastasthau jālaṃdharasya ca | āśritya dakṣiṇaṃ bhāgaṃ tūrṇaṃ kanakaśṛṃgataḥ 65| ahorātreṇa vihitā varṣe tasminnilāvṛte | merumaṃdarayormadhye yuddhabhūmiḥ pratiṣṭhitā 66| tatrātmajayadāṃ bhūmiṃ kaviproktāṃ mudāyutāḥ | jagmuste dānavāstūrṇaṃ guruproktāṃ yayuḥ surāḥ 67| rathapravīraiḥ paritaśca saṃplavairgajairghanākāramadapravāhibhiḥ | aśvairanaṃtairgaruḍāgragāmibhiḥ padātibhiḥ sāraṇabhūrbhṛtā babhau 68| tato vāditranirghoṣaḥ senayorubhayorabhūt | kolāhalaśca vīrāṇāmanyonyamabhigarjatām 69| atha dānavadevānāṃ saṃgrāmo'bhūdbhayāvahaḥ | sarvasainyasya saṃmardo yathā tribhuvanakṣayaḥ 70| bhayakrāṃtā mahāśrāṃtā śrutirvilapatī muhuḥ | svarathākārarahitaṃ śaraiḥ saṃpūritaṃ tadā 71| romāṃcitā babhau dyauśca rajovastraṃ vidhunvatī | raudrairvihaṃgamārāvaistrāsādākraṃdatīva hi 72| deveṃdreṇa tadājñaptā meghāḥ saṃvartakādayaḥ | gajānuccaiḥ samāruhya te'surānyuyudhurmṛdhe 73| devānāmaśvārohāśca jātā gaṃdharvakinnarāḥ | rathinaḥ sādhyasiddhāśca gajino yakṣacāraṇāḥ 74| padātinaḥ kiṃpuruṣāḥ pannagāḥ pavanāśanāḥ | rogāṇāmadhipo rājanyakṣmā ca yamanāyakaḥ 75| tatra dānavarogāṇāṃ saṃgrāmo'bhūtsudāruṇaḥ | patitā luluṭhurbhūmau daityāḥ śūlajvarāmayaiḥ 76| dānavairnihatā rogāḥ petuḥ samaramūrddhani | palāyāṃcakrire kecitvyādhayo bhūdharānprati 77| auṣadhyastatra sahajā vaiśalyakaraṇīmukhāḥ | tābhirviśalyāḥ sainyeṣu yuyudhuryamakiṃkarāḥ 78| dānavairnihatāḥ sarve śaramudgarapaṭṭiśaiḥ | padātayaḥ pattigaṇaiḥ khaṅgaistīkṣṇaiḥ paraśvadhaiḥ 79| koṭiśo jaghnuranyonyaṃ rudhirāruṇavigrahāḥ | aśvacārā hayaistūrṇaiścikṣipurgagane tadā 80| saṃśliṣya jaghnuranyonyaṃ rudhirāruṇavigrahāḥ | samūho rathināṃ bhīmo rathaughaiśchādya medinīm 81| vivyadhurniśitairbāṇairdhanurmuktairmahārathān | madakṣīṇakapolāṃgāḥ karairbaddhā karāndṛḍham 82| gajānpratigajāḥ kruddhāḥ pātayaṃti mahītale | kopi daityo rathaṃ dorbhyāmutkṣipyotthāya khaṃ yayau 83| aśvacārānhayānnāgānpātayāmāsa bhūtale | skaṃdhe gṛhītvā tarasā yayau jālaṃdharaṃ prati 84| kakṣayorvai gajau gṛhya tṛtīyaṃ jaṭharopari | caturthaṃ mastake gṛhya raṇe dhāvati kaścana 85| utpāṭya kośataḥ khaṅgaṃ vidhūya vimalāṃbaram | yayau sahasraśo devānpātayitvā raṇe'suraḥ 86| kācitpīnastanī tanvī khecarīrati laṃpaṭā | āgatya gaganāttūrṇaṃ ninye daityaṃ raṇāṃgaṇāt 87| cucuṃba sā tadvadanaṃ tīkṣṇanārācakīlitam | devasainyaṃ tato baddhvā kālanemirnanartta ha 88| tato janārdanaḥ kruddho niryayau kālaneminam | yamo durvāraṇaṃ vīraṃ svarbhānuścaṃdrabhāskarau 89| ketuṃ vaiśvānaro devo yayau śukraṃ bṛhaspatiḥ | āśvinau saṃyatau tatra daityamaṃgāraparṇakam 90| saṃhrādaṃ śakraputraśca nirhrādaṃ dhanado yayau | niśuṃbhaścāvṛto rudraiḥ śuṃbho vasubhirāhave 91| meghākāraṃ sthitaṃ jaṃbhaṃ viśvedevāḥ samāyayau | vāyavo vajraromāṇamatha mṛtyurmayaṃ yayau 92| namuciṃ vāsavo vyagraṃ śaktihasto'bhyadhāvata | anyairapi surairdaityāḥ svasvavīryasamairvṛtāḥ 93| iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe yudhiṣṭhiranāradasaṃvāde devadānavayuddhaṃnāma paṃcamodhyāyaḥ 5|
English translation
Yudhiṣṭhira said :
1. Who is the paternal uncle of the Ocean’s son? What happened to him in the war? How did the demon fight? O Nārada , tell me that.
Nārada said :
2-5. O best king, listen. The Milky Ocean is the paternal uncle of Jālandhara . After the gods and the demons had churned from him Lakṣmī , the Moon, the elephant (called Airāvata ), the horse (named Uccaiḥśravas ) the gods snatched the wealth. Hearing that the demon Jālandhara fought with the gods. Once the mighty one, having instructed his messenger what to speak, sent him, Durvāraṇa (by name), to the residence of the lord of gods. Then, getting into a chariot, Durvāraṇa went to heaven. Desiring to enter the residence, he was prohibited by the door-keepers.
The messenger said :
6-11. I am Jālandhara’s messenger. I have come to Indra . Please go there and respectfully inform (Indra) about me (i.e. my arrival).
Then a door-keeper, having heard his words, just then went to (Indra), the lord of Śacī . Having saluted him, he said: “O lord, a messenger from the earth has come.” To him Indra said: “Bring (in) the messenger.” He, holding the hand of the messenger, brought him near Indra. Durvāraṇa entered the assembly of the gods. He saw Indra who was surrounded by thirty-three crore gods, (who was seated upon) a divine, golden throne, who was waited upon with the breezes (produced) by chowries, whose one thousand eyes resembling fully bloomed lotuses were full of the feeling of love for Śacī. Then Durvāraṇa, seeing the lord of gods along with Bṛhaspati , (and) laughing at the beauty of his eyes, saluted him.
12-20. That messenger of Jālandhara occupied the seat that was pointed out. Indra said to him: “To whom do you belong? On what mission have you come?” He said to Indra: “I am Jālandhara’s envoy. He is the king of all worlds. From my mouth listen to his order: ‘Why did you, by employing the Mandara mountain (as the churning rod) churn my uncle, the Milky Ocean? You took away the treasure, the great wealth like Lakṣmī, the Moon, the elephant (viz. Airāvata), the horse (called Uccaiḥśravas), gems like corals. Give (back) all that. So also, O Indra, quickly leave the heaven. By my words, quickly do everything that is proper. If you desire to live, apologise to the king.” Then Indra laughed and spoke to Durvāraṇa: “O messenger, hear in brief the reason for churning the Ocean. Formerly my enemy Maināka , the son of Himālaya , was held by the foolish Ocean in his side, and the wicked Ocean also held (i.e. supported) the Fire in the form of a horse, who had burnt the mobile and the immobile. This lord is the place of refuge of the demons, the haters of Dharma . He always gives curd, ghee , milk to the demons.
21-24. O Durvāraṇa, therefore, he was churned by us; and he, with his wealth lost, was punished by the ancient gods. O messenger, listen. He was dried up by the brāhmaṇa ( Agastya ) born from a pitcher, due to his (i.e. Agastya’s) association with me. Moreover, he is tormented due to his bad company. (If) he also, surrounded by his entire army, will come to fight with us, he will just then meet with destruction.” Speaking like this, (Indra) the killer of Vṛtra , ceased (speaking). He loudly praised the messenger of the Ocean’s son. (The messenger), having come (back) to the son of the Ocean, told him everything from the beginning that the lord of gods had said.
Nārada said :
25-34a. Having heard Indra’s words (i.e. message) from the mouth of his messenger, the Ocean’s son became angry and called his entire army. Then by (Jālandhara’s) order the demons who lived in the lower world, so also those who lived on the earth came there with their armies to Jālandhara. He set out on a march. Due to the roars of the army of the Ocean’s son, O king, the sky, the nether world and all the quarters burst. (Demons) fearful with faces like those of horses, elephants, camels, cats, (so also those) having faces like those of tigers, lions, rats, having eyes like the lightning, (and) some having serpent-like hair, large bodies, some with sword-like nails, and others also ran and roared with the sound (like that) of the clouds. O king, that entire army, full of chariots, elephants, horses and foot-soldiers, and fearful due to the multitudes of amusements in the war shone at that time. Having got into the aeroplane which was a hundred yojanas extensive, to which crores of swans were yoked, which had a stream of a thousand grandeurs, which was filled with all things, Jālandhara quickly went (out). On the first day, he, with his armies, reached Mandara at mid-day. It was broken (into portions) by palanquin carriers and divided by many elephants. On the second day he, along with his army, reached Meru . That great army remained on the peak (called) Ilāvṛta .
34b-40a. Then the chief demons destroyed the Khāṇḍava , Nandana forest. The best demons shattered the peaks of Meru. The best demons, after having tied the couch-like swings to the santāna trees, dallied with siddha women. The river on Meru was filled with saffron on the breasts, tāmbūlas , sandal, agaru (sandal) ornaments, and flowers dropped from the hair. The eastern side of that good Meru was shaken by his elephants. The chariots moved to the south and the warriors to the north and west. Then the demon Jālandhara made the demons set out. Others also, along with the sounds of drums, went to the Mahendra peak. Having destroyed the city of the king of kings, and of Yama and Varuṇa , so also (the cities) of other regents of quarters, they came to Amarāvatī .
40b-42. Then divine portents, so also portents in the sky, the earth and the atmosphere appeared. Much dust fell (down); mass of darkness spread (out). Then the thunderbolt, being lustreless, fell down from Indra’s hand. Seeing fearful omens, Indra said to Bṛhaspati: “What should we do, and whose refuge should we seek? See, the war is imminent.”
43-45. Then Bṛhaspati spoke these words to the king of heaven: “Approach the feet of Viṣṇu living in Vaikuṇṭha .” Indra, thus told by Bṛhaspati, went along with the gods to (Viṣṇu’s) abode—Vaikuṇṭha—and quickly sought the refuge of (Viṣṇu) the enemy of Kaiṭabha . Vijayā , the doorkeeper, informed Viṣṇu (of his arrival). All gods, trembling through fear of Jālandhara, came (there).
Śrī said :
46-49. You who are fighting for gods, should not kill him, my brother. He, O god, should only be cursed and not be killed.
Hearing these words of Lakṣmī, Viṣṇu the protector of the three worlds, mounted upon Garuḍa that covered the sky (just) by the flapping of his wings. Hari quickly moved out of his Vaikuṇṭha abode and saw the gods trembling through the fear of Jālandhara and with their lustre lost. All the gods saw Viṣṇu resembling a dense cloud, and with his four hands adorned with the Śārṅga (bow), the conch, the mace and the lotus.
50-56a. Having recited a hymn of praise in front of (Viṣṇu) Indra said: “O god, Jālandhara, the son of the lord of the rivers has devastated the heaven.” Hearing these words (of Indra) and having granted safety to the residents of heaven (i.e. the gods), (Viṣṇu) the destroyer of the demons, shone along with the gods to conquer the demon. Then Indra, holding the thunderbolt and getting into the chariot brought by Mātalin, went before Viṣṇu. All the gods were on the left side. He came from the left. ( Agni ) to whom the oblations are dear, seated on a ram, was on the southern side. Indra’s son, Jayanta , mounted upon the elephant Airāvata, and Indra mounted upon (the horse) Uccaiḥśravas, and both (remained) in front of the lord. (There were) Dhātṛ , Aryaman , Mitra , Varuṇa, Aṃśa , Bhaga , Indra, Vivasvat , Pūṣan , and the tenth was said to be Parjanya . Then Tvaṣṭṛ shone, so also Viṣṇu, the younger brother (of Indra).
56b-60. Thus these twelve Ādityas stood before Indra. Vīrabhadra , Śambhu , and the very glorious Giriśa , Ajaikapād, Ahirbudhnya , Pinākin who was (never) defeated, Bhuvanādhīśvara, Kapālin, Sthāṇu , and Bhaga, and Bhagavat , are said to be the eleven Rudras , O king, before him (also stood) the eight Maruts , viz. Śvasana, Sparśana, Vāyu , Anila , so also Māruta , Prāṇa , Apāna and Sajīva. Vivasvat also went among them with his ten forms. At that time Dhanada (i.e. Kubera ), the lord of kinnaras , having got into a palanquin (also) went there.
61-67. The Rudras mounted on bulls, so also Māruta, being carried by a deer and having the weapons like tridents and iron clubs, went in front of the army. Gandharvas , cāraṇas , yakṣas , piśācas , snakes, guhyakas holding all weapons went in front of the army. The soldiers also crossed the eastern and western oceans. In it Hari, with the body (i.e. in the form) of a boar moved with a desire to kill the army of the demons, after he had speedily come from the heaven. The northern part of the Sumeru mountain was covered by the army of the gods. Having resorted quickly to the southern peak of the golden mountain, the wonderful huge army of Jālandhara remained. The battlefield remained day and night in the region of Ilāvṛta where it was arranged between Meru and Mandara (mountains). The demons, full of joy, quickly went to that region described as bringing victory by Śukra , so also the gods went to that region described (like that) by Bṛhaspati.
68-71. It was surrounded by excellent chariots, surges of elephants giving out the streams of rut resembling clouds. The land causing (the armies) move shone with innumerable horses and foot-soldiers walking in front of Garuḍa. Then there was the great sound of the musical instruments of both the armies; so also the tumu1t of the warriors roaring at one another. Then a great war, causing fear, took place between the demons and the gods. There was the friction of the entire army like the destruction of the three worlds. Śruti (the sacred text) overpowered with fear, and much fatigued wept again and again. The battlefield was at that time filled with arrows concealing the forms of the chariots.
72-75. The Sky also, tossing the garment of dust, was horripilated. She (i.e. the Sky) was as it were crying through fear with the loud notes of the birds. Then Indra ordered the clouds like Saṃvartaka . They, mounting upon tall elephants fought in the war. Gandharvas and kinnaras became the drivers of the horses of gods. Sādhyas and siddhas (became) chariot-fighters. Yakṣas and cāraṇas (became) elephant-riders. Serpents eating (i.e. living upon) air, so also kinnaras (became) the foot-soldiers. O king, the leader Yama (became) the chief of the diseases, viz. consumption.
76-81a. A fierce battle took place there between the demons and the diseases. The demons (struck by) diseases like acute pain and fever fell and rolled on the ground. The diseases struck by the demons dropped on the battlefield. Certain diseases fled to the mountains. There were natural herbs which rendered them free from trouble. With them the servants of Yama rendered (the soldiers) in the armies free from trouble. The groups of foot-soldiers among the demons killed all the foot-soldiers (among the army of the gods) with arrows, mallets and spears with sharp edges, sharp swords, and hatchets. Crores (of the warriors) with their bodies tawny due to blood killed one another. The quick, horses threw up in the sky the horse-riders at that time. With their bodies tawny due to blood, they clung to one another, and struck one another.
81b-86. The fierce mass of the fighters from chariots covered the earth with streams of chariots. They pierced with sharp arrows discharged from the bows the great fighters from chariots. The elephants, with their temples emaciated due to rut, and being angry, knocked down the elephants after binding their trunks with their own trunks. Some demon lifting a chariot with his arms went to the sky. He knocked down on the ground the horse-riders, horses and elephants. Taking them on his shoulder he quickly went to Jālandhara. Someone, taking two elephants on his two sides, a third one on his belly and a fourth one on his head, runs (i.e. ran) on the battlefield. A demon, taking out his sword from the sheath and shaking the clear sky, went after knocking down thousands of gods on the battlefield.
87-88. A semi-divine female able to fly, of stout breasts, lustful, slim-bodied, quickly came from the sky and took away a demon from the battlefield. She kissed his face fixed with sharp arrows. Then Kālanemi , having bound the army of the gods, danced.
89-93. Then angry Viṣṇu went out to (attack) Kālanemi; Yama (went against) the hero Durvāraṇa, and Rāhu (against) the Moon and the Sun. God Vaiśvānara (went out to attack) Ketu , and Bṛhaspati went (out to fight with) Śukra. The restrained Aśvins went (out to attack) the demon Aṅgāraparṇaka. (Jayanta) Indra’s son (went to attack) Saṃhrāda , and Kubera went (to attack) Nihrāda. Rudras surrounded Niśumbha and Vasus surrounded Śumbha in the war. Viśvedevas went (out to attack) Jāmbha who stood in the form of a cloud. Vāyus (went out to attack) Vajraroman, and Mṛtyu went (out to attack) Maya . Vāsava with the Śakti -missile in his hand, ran to Namuci who was distracted. The other gods also surrounded the demons matching them in valour.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 44516, revision 334359 (2022-04-02T00:06:37Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365436.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.