Pātāla-khaṇḍa · Chapter 44
Sourceशेष उवाच। आगत्य सविधे रुद्रं समरांगणमूर्धनि । जगाद हनुमान्वीरः संजिहीर्षुः सुराधिपम् १। हनूमानुवाच। त्वं यदाचरसे रुद्र धर्मस्य प्रतिकूलनम् । तस्मात्त्वां शास्तुमिच्छामि रामभक्तवधोद्यतम् २। मया पुरा श्रुतं देव ऋषिभिर्बहुधोदितम् । रघुनाथपदस्मारी नित्यं रुद्रः पिनाकभृत् ३। तत्सर्वं तु मृषा जातं शत्रुघ्नं प्रति युध्यतः । पुष्कलो मे हतः शूरः शत्रुघ्नोऽपि विमूर्च्छितः ४। तस्मात्त्वां पातयाम्यद्य त्रैलोक्यप्रलयोद्यतम् । यत्नात्तिष्ठस्व भोः शर्व रामभक्तिपराङ्मुखः ५। शेष उवाच। इत्युक्तवंतं प्लवगं प्रोवाच स महेश्वरः । धन्योऽसि वीरवर्यस्त्वं भवान्वदति नो मृषा ६। मत्स्वामी रामचंद्रोऽयं सुरासुरनमस्कृतः । तदश्वमानयामास शत्रुघ्नः परवीरहा ७। तद्रक्षार्थं समायातस्तद्भक्त्या तु वशीकृतः । यथाकथंचिद्भक्तोऽसौ रक्ष्यः स्वात्मा इति स्थितिः ८। रघुनाथः कृपां कृत्वा विलोकय तु निस्त्रपम् । मां स्वभक्त सुदुःखेन किंचित्कोपं दधन्महान् ९। शेष उवाच। एवं वदति चंडीशे हनूमान्कुपितो भृशम् । शिलामादाय महतीं ताडयामास तद्रथम् १०। शिलया ताडितस्तस्य रथः शकलतां गतः । ससूतः सहयः केतुपताकाभिः समन्वितः ११। नभःस्था देवताः सर्वाः प्रशशंसुः कपीश्वरम् । धन्योसि प्लवगाधीश महत्कर्म त्वया कृतम् १२। श्रीशिवं विरथं दृष्ट्वा नंदी तं समुपाद्रवत् । उवाच श्रीमहादेवं मत्पृष्ठं गम्यतामिति १३। वृषस्थितं तु भूतेशं हनूमान्कुपितो भृशम् । शिलामुत्पाट्य तरसा प्राहनद्धृदये तदा १४। तदाहतो भूतपतिः शूलं तीक्ष्णं समाददे । जाज्वल्यमानं त्रिशिखं वह्निज्वालासमप्रभम् १५। आयातं तन्महद्दृष्ट्वा शूलं प्रज्वलनप्रभम् । हस्ते गृहीत्वा तरसा बभंज तिलशः क्षणात् १६। भग्ने त्रिशूले तरसा कपीन्द्रेण क्षणाच्छिवः । शक्तिं करे समाधत्त सर्वलोहविनिर्मिताम् १७। सा शक्तिः शिवनिर्मुक्ता हृदये तस्य धीमतः । लग्ना क्षणादभूत्तत्र विक्लवः प्लवगाधिपः १८। क्षणाच्च तद्व्यथां तीर्त्वा गृहीत्वा वृक्षमुल्बणम् । ताडयामास हृदये महाव्यालविभूषिते १९। ताडितास्तेन वीरेण फणीन्द्रास्त्रा समागताः । इतस्ततस्ते तं मुक्त्वा गताः पातालमुज्जवाः २०। शिवस्तस्मिन्नगे मुक्ते वक्षसि स्वे निरीक्ष्य च । कुपितो व्यदधाद्घोरं मुसलं करयुग्मके २१। हतोसि गच्छ संग्रामात्पलाय्य प्लवगाधम । एष ते प्राणहंताहं मुसलेन क्षणादिह २२। मुसलं वीक्ष्य निर्मुक्तं शिवेन कुपितेन वै । कीशस्तद्वंचयामास महावेगाद्धरिं स्मरन् २३। मुसलं तत्पपाताधः शिवमुक्तं महायसम् । विदार्य पृथिवीं सर्वां जगाम च रसातलम् २४। तदा प्रकुपितोऽत्यतं हनूमान्रामसेवकः । गृहीत्वा पर्वतं हस्ते ताडयामास वक्षसि २५। स यावत्पर्वतं छेत्तुं मतिं चक्रे सतीपतिः । तावद्धतः कपींद्रेण शालेन बहुशाखिना २६। तमपिच्छेत्तुमुद्युक्तो यावत्तावच्छिलाहतः । शिलास्ता भेदितुं स्वांतं चकार मृड उद्यतः २७। तावद्वृष्टिं चकारायं शिलाभिर्नगपर्वतैः । लांगूलेन च संवेष्ट्य ताडयत्येष भूतपम् २८। शिलाभिः पर्वतैर्वृक्षैः पुच्छास्फोटेन भूरिशः । नंदी प्राप्तो महात्रासं चंद्रोऽपि शकलीकृतः २९। अत्यंतं विह्वलो जातो महेशानः प्रकोपनः । क्षणेक्षणे प्रहारेण विह्वलं कुर्वतं भृशम् ३०। जगाद प्लवगाधीशं धन्योसि रघुपानुग । महत्कर्म कृतं तेऽद्य यत्तेहं सुप्रतोषितः ३१। न दानेन न यज्ञेन नाल्पेन तपसा ह्यहम् । सुलभोऽस्मि महावेग तस्मात्प्रार्थय मे वरम् ३२। शेष उवाच। एवं ब्रुवंतं तं दृष्ट्वा हनूमान्निजगाद तम् । प्रहसन्निर्भिया वाण्या महेशानं सुतोषितम् ३३। हनूमानुवाच। रघुनाथप्रसादेन सर्वं मेऽस्ति महेश्वर । तथापि याचे हि वरं त्वत्तः समरतोषितात् ३४। एष पुष्कलसंज्ञो नः समरे पतितो हतः । तथैव रामावरजः शत्रुघ्नो मूर्च्छितो रणे ३५। अन्ये च वीरा बहवः पतिताः शरविक्षताः । मूर्च्छिताः पतिताः केचित्तान्रक्षस्व गणैः सह ३६। यथा चैतान्महाभूता वेतालाश्च पिशाचकाः । न हरंति न खादंति श्वशृगालादयस्तथा ३७। एतेषां वपुषो भेदो न भवेत्त्वं तथाचर । यावदिंद्रगणं जित्वा न यामि द्रोणपर्वतम् ३८। तत्रस्था औषधीर्वापि नीत्वा संस्थापितान्भटान् । जीवयामि बलात्सर्वांस्तावत्त्वं रक्ष सर्वशः ३९। एष गच्छामि तं नेतुं द्रोणं पर्वतसत्तमम् । यस्मिन्वसंत्योषधयः प्राणिसंजीवनंकराः ४०। एतद्वचः समाकर्ण्य तथेति निजगाद तम् । याहि शीघ्रं नगं तं तु रक्षामि त्वद्भटान्मृतान् ४१। तच्छ्रुत्वा वाक्यमीशस्य जगाम द्रोणपर्वतम् । द्वीपान्सर्वानतिक्रम्य जगाम क्षीरसागरम् ४२। अत्र तु स्वगणैश्चायं रक्षति स्म शिवो महान् । श्मशानं तद्गणैः स्वीयैर्महाबलपराक्रमैः ४३। हनूमान्द्रोणमासाद्य द्रोणंनाम महागिरिम् । लांगूले तं निधायाशु प्रतस्थे रणमंडलम् ४४। तं नेतुमुद्यते विप्र चकंपे स च पर्वतः । कंपमानं तु तं दृष्ट्वा तत्पाला देवतागणाः ४५। हाहेति कृत्वा प्रोचुस्ते किमिदं भविता गिरौ । को ह्येनं नयते वीरो महाबलपराक्रमः ४६। एवं कृत्वा सुराः सर्वे संहता ददृशुः कपिम् । मुंचैनमिति तं प्रोच्य जघ्नुः शस्त्रास्त्रकोटिभिः ४७। तान्सर्वान्निघ्नतो दृष्ट्वा हनूमान्कुपितो भृशम् । जघान तान्क्षणाद्वीरः शक्रः सर्वासुरान्यथा ४८। केचित्पदाहतास्तत्र केचित्करविमर्दिताः । लांगूलेन हताः केचित्केचिच्छृंगेण चाहताः ४९। सर्वे ते नाशमापन्नाः क्षणात्कीशेन ताडिताः । केचिन्निपतिता भूमौ रुधिरेण परिप्लुताः ५०। केचित्कीशभयात्त्रस्ता जग्मुः शक्रं सुराधिपम् । क्षतेन च परिप्लुष्टा रुधिरक्षतदेहिनः ५१। तान्दृष्ट्वा भयसंविग्नान्रुधिरेण परिप्लुतान् । सुराञ्जगाद विमनाः शक्रः सर्वसुरोत्तमः ५२। कथं यूयं भयत्रस्ताः कथं रुधिरविप्लुताः । केन दैत्येन निहता राक्षसेनाधमेन वा ५३। सर्वं शंसत मे तथ्यं यथा ज्ञात्वा व्रजामि तम् । निहत्य बद्ध्वा चायामि युष्मद्घातकमुन्मदम् ५४। इति वाक्यं समाकर्ण्य तुरासाहं सुरोत्तमाः । जगदुर्दीनया वाचा सुरासुरनमस्कृतम् ५५। देवा ऊचुः। इहागत्य न जानीमः कश्चिद्वानररूपधृक् । नेतुं द्रोणं समुद्युक्तो लांगूले वेष्ट्य तं गिरिम् ५६। गंतुं कृतमतिस्तावद्वयं सर्वे सुसंहताः । युद्धं चक्रुः सुसंनद्धाः सर्वशस्त्रास्त्रवर्षिणः ५७। तेन सर्वे वयं युद्धे निर्जिता बलशालिना । अनेके निहतास्तत्र भूमौ पेतुः सुरोत्तमाः ५८। वयं तु बहुभिः पुण्यैर्जीविता इह चागताः । शोणितेन सुसिक्तांगाः क्षतपीडासमन्विताः ५९। एतद्वाक्यं समाकर्ण्य सुराणां स पुरंदरः । आदिदेश सुरान्सर्वान्महाबलसमन्वितान् ६०। यात महाद्रोणगिरिं कपिं बद्धुं महाबलम् । बद्ध्वा नयत यूयं वै सुराणां रणपातकम् ६१। इत्याज्ञप्ता ययुस्ते वै द्रोणं पर्वतसत्तमम् । यत्रास्ते बलवान्वीरो हनूमान्कपिसत्तमः ६२। गत्वा ते प्राहरन्सर्वे हनूमंतं महाबलम् । हनूमता ते निहता मुष्टिभिः करताडनैः ६३। पतितास्ते क्षणात्तत्र रुधिरक्षतविग्रहाः । अन्ये पलायनपरा जग्मुस्ते त्रिदिवेश्वरम् ६४। तच्छ्रुत्वा कुपितः शक्रः सर्वानमरसत्तमान् । आदिदेश महावीरं वानरेंद्रं सुरोत्तमः ६५। तदाज्ञप्ता ययुस्ते वै यत्र कीशेश्वरो बली । तान्सर्वानागतान्दृष्ट्वा जगाद कपिसत्तमः ६६। मायां तु वीराः समरे संहर्तारं हि मां बलात् । नेष्यामि युष्मानधुना संयमिन्याः पुरोंऽतिके ६७। इत्युक्ता अपि ते सर्वे सन्नद्धाः प्राहरन्कपिम् । शस्त्रास्त्रैर्बहुधा मुक्तैर्महाबलसमन्विताः ६८। केचिच्छूलैः परशुभिः केचित्खड्गैश्च पट्टिशैः । मुसलैः शक्तिभिः केचित्क्रोधेन कलुषीकृताः ६९। स आहतोऽमरवरैर्विविधैरायुधैर्बली । शिलाभिस्ताञ्जघानाशु सर्वानमरसत्तमान् ७०। केचित्पलाय्य आहुस्ते गताः शक्रसमीपकम् । तदुक्तं वाक्यमाकर्ण्य भयं प्राप सुराधिपः ७१। बृहस्पतिं सुराध्यक्षं मंत्रिणं स्वर्गवासिनाम् । पप्रच्छ सविधे गत्वा नत्वा सुरगुरुं वरम् ७२। इंद्र उवाच। कोऽसौ यो वानरो द्रोणं नेतुं स्वामिन्समागतः । येन मे निहता वीरा अमराः शस्त्रधारिणः ७३। शेष उवाच। एतच्छ्रुत्वा तु तद्वाक्यमुक्तमांगिरसो महान् । जगाद भयसंविग्नं तुरासाहं सुराधिपम् ७४। बृहस्पतिरुवाच। यो रावणमहन्संख्ये कुंभकर्णमदीदहत् । येन ते वैरिणः सर्वे हतास्तस्यैव सेवकः ७५। येन लंका सत्रिकूटा निर्दग्धा पुच्छवह्निना । अक्षश्च निहतो येन हनूमंतमवेहि तम् ७६। तेन सर्वे विनिहता द्रोणार्थमयमुद्यतः । हयमेधं महाराजः करोति बलिसत्तमः ७७। तस्याश्वं शिवभक्तस्तु नृपो वीरमणिर्महान् । जहार तत्र समभूद्रणं सुरविमोहनम् ७८। शिवेन निहताः संख्ये वीरा रामस्य भूरिशः । तान्वै जीवयितुं द्रोणं नेष्यत्येव महाबलः ७९। नायं वर्षशतैर्जेयो भवता बलसंयुतः । तस्मात्प्रसादय कपिं देहि तत्रत्यमौषधम् ८०। इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे द्रोणगिरौ देवानां पराजयोनाम चतुश्चत्वारिंशत्तमोऽध्यायः ४४ ।
śeṣa uvāca| āgatya savidhe rudraṃ samarāṃgaṇamūrdhani | jagāda hanumānvīraḥ saṃjihīrṣuḥ surādhipam 1| hanūmānuvāca| tvaṃ yadācarase rudra dharmasya pratikūlanam | tasmāttvāṃ śāstumicchāmi rāmabhaktavadhodyatam 2| mayā purā śrutaṃ deva ṛṣibhirbahudhoditam | raghunāthapadasmārī nityaṃ rudraḥ pinākabhṛt 3| tatsarvaṃ tu mṛṣā jātaṃ śatrughnaṃ prati yudhyataḥ | puṣkalo me hataḥ śūraḥ śatrughno'pi vimūrcchitaḥ 4| tasmāttvāṃ pātayāmyadya trailokyapralayodyatam | yatnāttiṣṭhasva bhoḥ śarva rāmabhaktiparāṅmukhaḥ 5| śeṣa uvāca| ityuktavaṃtaṃ plavagaṃ provāca sa maheśvaraḥ | dhanyo'si vīravaryastvaṃ bhavānvadati no mṛṣā 6| matsvāmī rāmacaṃdro'yaṃ surāsuranamaskṛtaḥ | tadaśvamānayāmāsa śatrughnaḥ paravīrahā 7| tadrakṣārthaṃ samāyātastadbhaktyā tu vaśīkṛtaḥ | yathākathaṃcidbhakto'sau rakṣyaḥ svātmā iti sthitiḥ 8| raghunāthaḥ kṛpāṃ kṛtvā vilokaya tu nistrapam | māṃ svabhakta suduḥkhena kiṃcitkopaṃ dadhanmahān 9| śeṣa uvāca| evaṃ vadati caṃḍīśe hanūmānkupito bhṛśam | śilāmādāya mahatīṃ tāḍayāmāsa tadratham 10| śilayā tāḍitastasya rathaḥ śakalatāṃ gataḥ | sasūtaḥ sahayaḥ ketupatākābhiḥ samanvitaḥ 11| nabhaḥsthā devatāḥ sarvāḥ praśaśaṃsuḥ kapīśvaram | dhanyosi plavagādhīśa mahatkarma tvayā kṛtam 12| śrīśivaṃ virathaṃ dṛṣṭvā naṃdī taṃ samupādravat | uvāca śrīmahādevaṃ matpṛṣṭhaṃ gamyatāmiti 13| vṛṣasthitaṃ tu bhūteśaṃ hanūmānkupito bhṛśam | śilāmutpāṭya tarasā prāhanaddhṛdaye tadā 14| tadāhato bhūtapatiḥ śūlaṃ tīkṣṇaṃ samādade | jājvalyamānaṃ triśikhaṃ vahnijvālāsamaprabham 15| āyātaṃ tanmahaddṛṣṭvā śūlaṃ prajvalanaprabham | haste gṛhītvā tarasā babhaṃja tilaśaḥ kṣaṇāt 16| bhagne triśūle tarasā kapīndreṇa kṣaṇācchivaḥ | śaktiṃ kare samādhatta sarvalohavinirmitām 17| sā śaktiḥ śivanirmuktā hṛdaye tasya dhīmataḥ | lagnā kṣaṇādabhūttatra viklavaḥ plavagādhipaḥ 18| kṣaṇācca tadvyathāṃ tīrtvā gṛhītvā vṛkṣamulbaṇam | tāḍayāmāsa hṛdaye mahāvyālavibhūṣite 19| tāḍitāstena vīreṇa phaṇīndrāstrā samāgatāḥ | itastataste taṃ muktvā gatāḥ pātālamujjavāḥ 20| śivastasminnage mukte vakṣasi sve nirīkṣya ca | kupito vyadadhādghoraṃ musalaṃ karayugmake 21| hatosi gaccha saṃgrāmātpalāyya plavagādhama | eṣa te prāṇahaṃtāhaṃ musalena kṣaṇādiha 22| musalaṃ vīkṣya nirmuktaṃ śivena kupitena vai | kīśastadvaṃcayāmāsa mahāvegāddhariṃ smaran 23| musalaṃ tatpapātādhaḥ śivamuktaṃ mahāyasam | vidārya pṛthivīṃ sarvāṃ jagāma ca rasātalam 24| tadā prakupito'tyataṃ hanūmānrāmasevakaḥ | gṛhītvā parvataṃ haste tāḍayāmāsa vakṣasi 25| sa yāvatparvataṃ chettuṃ matiṃ cakre satīpatiḥ | tāvaddhataḥ kapīṃdreṇa śālena bahuśākhinā 26| tamapicchettumudyukto yāvattāvacchilāhataḥ | śilāstā bhedituṃ svāṃtaṃ cakāra mṛḍa udyataḥ 27| tāvadvṛṣṭiṃ cakārāyaṃ śilābhirnagaparvataiḥ | lāṃgūlena ca saṃveṣṭya tāḍayatyeṣa bhūtapam 28| śilābhiḥ parvatairvṛkṣaiḥ pucchāsphoṭena bhūriśaḥ | naṃdī prāpto mahātrāsaṃ caṃdro'pi śakalīkṛtaḥ 29| atyaṃtaṃ vihvalo jāto maheśānaḥ prakopanaḥ | kṣaṇekṣaṇe prahāreṇa vihvalaṃ kurvataṃ bhṛśam 30| jagāda plavagādhīśaṃ dhanyosi raghupānuga | mahatkarma kṛtaṃ te'dya yattehaṃ supratoṣitaḥ 31| na dānena na yajñena nālpena tapasā hyaham | sulabho'smi mahāvega tasmātprārthaya me varam 32| śeṣa uvāca| evaṃ bruvaṃtaṃ taṃ dṛṣṭvā hanūmānnijagāda tam | prahasannirbhiyā vāṇyā maheśānaṃ sutoṣitam 33| hanūmānuvāca| raghunāthaprasādena sarvaṃ me'sti maheśvara | tathāpi yāce hi varaṃ tvattaḥ samaratoṣitāt 34| eṣa puṣkalasaṃjño naḥ samare patito hataḥ | tathaiva rāmāvarajaḥ śatrughno mūrcchito raṇe 35| anye ca vīrā bahavaḥ patitāḥ śaravikṣatāḥ | mūrcchitāḥ patitāḥ kecittānrakṣasva gaṇaiḥ saha 36| yathā caitānmahābhūtā vetālāśca piśācakāḥ | na haraṃti na khādaṃti śvaśṛgālādayastathā 37| eteṣāṃ vapuṣo bhedo na bhavettvaṃ tathācara | yāvadiṃdragaṇaṃ jitvā na yāmi droṇaparvatam 38| tatrasthā auṣadhīrvāpi nītvā saṃsthāpitānbhaṭān | jīvayāmi balātsarvāṃstāvattvaṃ rakṣa sarvaśaḥ 39| eṣa gacchāmi taṃ netuṃ droṇaṃ parvatasattamam | yasminvasaṃtyoṣadhayaḥ prāṇisaṃjīvanaṃkarāḥ 40| etadvacaḥ samākarṇya tatheti nijagāda tam | yāhi śīghraṃ nagaṃ taṃ tu rakṣāmi tvadbhaṭānmṛtān 41| tacchrutvā vākyamīśasya jagāma droṇaparvatam | dvīpānsarvānatikramya jagāma kṣīrasāgaram 42| atra tu svagaṇaiścāyaṃ rakṣati sma śivo mahān | śmaśānaṃ tadgaṇaiḥ svīyairmahābalaparākramaiḥ 43| hanūmāndroṇamāsādya droṇaṃnāma mahāgirim | lāṃgūle taṃ nidhāyāśu pratasthe raṇamaṃḍalam 44| taṃ netumudyate vipra cakaṃpe sa ca parvataḥ | kaṃpamānaṃ tu taṃ dṛṣṭvā tatpālā devatāgaṇāḥ 45| hāheti kṛtvā procuste kimidaṃ bhavitā girau | ko hyenaṃ nayate vīro mahābalaparākramaḥ 46| evaṃ kṛtvā surāḥ sarve saṃhatā dadṛśuḥ kapim | muṃcainamiti taṃ procya jaghnuḥ śastrāstrakoṭibhiḥ 47| tānsarvānnighnato dṛṣṭvā hanūmānkupito bhṛśam | jaghāna tānkṣaṇādvīraḥ śakraḥ sarvāsurānyathā 48| kecitpadāhatāstatra kecitkaravimarditāḥ | lāṃgūlena hatāḥ kecitkecicchṛṃgeṇa cāhatāḥ 49| sarve te nāśamāpannāḥ kṣaṇātkīśena tāḍitāḥ | kecinnipatitā bhūmau rudhireṇa pariplutāḥ 50| kecitkīśabhayāttrastā jagmuḥ śakraṃ surādhipam | kṣatena ca paripluṣṭā rudhirakṣatadehinaḥ 51| tāndṛṣṭvā bhayasaṃvignānrudhireṇa pariplutān | surāñjagāda vimanāḥ śakraḥ sarvasurottamaḥ 52| kathaṃ yūyaṃ bhayatrastāḥ kathaṃ rudhiraviplutāḥ | kena daityena nihatā rākṣasenādhamena vā 53| sarvaṃ śaṃsata me tathyaṃ yathā jñātvā vrajāmi tam | nihatya baddhvā cāyāmi yuṣmadghātakamunmadam 54| iti vākyaṃ samākarṇya turāsāhaṃ surottamāḥ | jagadurdīnayā vācā surāsuranamaskṛtam 55| devā ūcuḥ| ihāgatya na jānīmaḥ kaścidvānararūpadhṛk | netuṃ droṇaṃ samudyukto lāṃgūle veṣṭya taṃ girim 56| gaṃtuṃ kṛtamatistāvadvayaṃ sarve susaṃhatāḥ | yuddhaṃ cakruḥ susaṃnaddhāḥ sarvaśastrāstravarṣiṇaḥ 57| tena sarve vayaṃ yuddhe nirjitā balaśālinā | aneke nihatāstatra bhūmau petuḥ surottamāḥ 58| vayaṃ tu bahubhiḥ puṇyairjīvitā iha cāgatāḥ | śoṇitena susiktāṃgāḥ kṣatapīḍāsamanvitāḥ 59| etadvākyaṃ samākarṇya surāṇāṃ sa puraṃdaraḥ | ādideśa surānsarvānmahābalasamanvitān 60| yāta mahādroṇagiriṃ kapiṃ baddhuṃ mahābalam | baddhvā nayata yūyaṃ vai surāṇāṃ raṇapātakam 61| ityājñaptā yayuste vai droṇaṃ parvatasattamam | yatrāste balavānvīro hanūmānkapisattamaḥ 62| gatvā te prāharansarve hanūmaṃtaṃ mahābalam | hanūmatā te nihatā muṣṭibhiḥ karatāḍanaiḥ 63| patitāste kṣaṇāttatra rudhirakṣatavigrahāḥ | anye palāyanaparā jagmuste tridiveśvaram 64| tacchrutvā kupitaḥ śakraḥ sarvānamarasattamān | ādideśa mahāvīraṃ vānareṃdraṃ surottamaḥ 65| tadājñaptā yayuste vai yatra kīśeśvaro balī | tānsarvānāgatāndṛṣṭvā jagāda kapisattamaḥ 66| māyāṃ tu vīrāḥ samare saṃhartāraṃ hi māṃ balāt | neṣyāmi yuṣmānadhunā saṃyaminyāḥ puroṃ'tike 67| ityuktā api te sarve sannaddhāḥ prāharankapim | śastrāstrairbahudhā muktairmahābalasamanvitāḥ 68| kecicchūlaiḥ paraśubhiḥ kecitkhaḍgaiśca paṭṭiśaiḥ | musalaiḥ śaktibhiḥ kecitkrodhena kaluṣīkṛtāḥ 69| sa āhato'maravarairvividhairāyudhairbalī | śilābhistāñjaghānāśu sarvānamarasattamān 70| kecitpalāyya āhuste gatāḥ śakrasamīpakam | taduktaṃ vākyamākarṇya bhayaṃ prāpa surādhipaḥ 71| bṛhaspatiṃ surādhyakṣaṃ maṃtriṇaṃ svargavāsinām | papraccha savidhe gatvā natvā suraguruṃ varam 72| iṃdra uvāca| ko'sau yo vānaro droṇaṃ netuṃ svāminsamāgataḥ | yena me nihatā vīrā amarāḥ śastradhāriṇaḥ 73| śeṣa uvāca| etacchrutvā tu tadvākyamuktamāṃgiraso mahān | jagāda bhayasaṃvignaṃ turāsāhaṃ surādhipam 74| bṛhaspatiruvāca| yo rāvaṇamahansaṃkhye kuṃbhakarṇamadīdahat | yena te vairiṇaḥ sarve hatāstasyaiva sevakaḥ 75| yena laṃkā satrikūṭā nirdagdhā pucchavahninā | akṣaśca nihato yena hanūmaṃtamavehi tam 76| tena sarve vinihatā droṇārthamayamudyataḥ | hayamedhaṃ mahārājaḥ karoti balisattamaḥ 77| tasyāśvaṃ śivabhaktastu nṛpo vīramaṇirmahān | jahāra tatra samabhūdraṇaṃ suravimohanam 78| śivena nihatāḥ saṃkhye vīrā rāmasya bhūriśaḥ | tānvai jīvayituṃ droṇaṃ neṣyatyeva mahābalaḥ 79| nāyaṃ varṣaśatairjeyo bhavatā balasaṃyutaḥ | tasmātprasādaya kapiṃ dehi tatratyamauṣadham 80| iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe droṇagirau devānāṃ parājayonāma catuścatvāriṃśattamo'dhyāyaḥ 44 |
English translation
Śeṣa said:
1. The hero Hanūmat, desirous of killing the lord of gods, came near Rudra on the battlefield and said (to him):
Hanūmat said :
2-5. O Rudra, what you are doing is against religious merit. Therefore, I desire to punish you eager to kill Rama ’s devotee. Formerly I heard it said variously by gods and sages that Rudra, the trident-holder, always remembers Rāma ’s feet. All that has become (i.e. proved) false in your case, who are fighting with Śatrughna . My b rave (hero) Puṣkala is killed and Śatrughna also has become unconscious. Therefore, I shall today knock you, ready to destroy the three worlds, down. O Śarva (i.e. Śiva ), you who are averse to Rāma’s devotion, stand carefully.
Śeṣa said :
6-9. That great lord said to the monkey speaking like this: “O best hero, you are fortunate. What you say is not false. This Rāmacandra saluted by gods and demons is my lord. Śatrughna, the killer of his enemy’s heroes, brought his horse. Inspired by devotion to him (i.e. Rāma) he came to protect him. The duty (of the lord) is that his devotee, his own soul, must be protected on any account. Let the great Raghunātha look upon me who am shameless by showing pity for me who was a little angry due to the great grief of my devotee.”
Śeṣa said :
10-16. When the lord of Caṇḍī was speaking like this, Hanūmat, extremely angry, took a big stone and hit it at his chariot. His chariot, hit with the stone was broken to pieces along with the charioteer, horses, flag and banners. All the deities in the sky praised the lord of monkeys; “O lord of monkeys, you are blessed; you have done a great feet.” Seeing Śrī Śiva without a chariot Nandin ran to him. He said to the great god: “Sit on my back.” Hanūmat was extremely angry with Śiva who was seated on (the back of) the bull (i.e. Nandin). Drawing out a big stone he then quickly hit it on his chest. Hit with it the lord of the beings (i.e. Śiva) took a sharp, bright, spear, having three points and resembling the flames of fire. Seeing that great trident, bright like fire, that came to him, he (i.e. Hanūmat) took it in his hand and in a moment quickly broke it into (pieces as small as) the sesamum seeds.
17-21. When the lord of the monkeys quickly in a moment broke the trident, Śiva took in his hand the (missile called) Śakti entirely made of iron. That Śakti discharged by Śiva stuck to (i.e. hit) the chest of the intelligent (Hanūmat) (and) in a moment the lord of the monkeys became afflicted. In a moment having overcome that pain he seized a strong tree and hit it on (Śiva’s) chest adorned with great serpents. The lordly serpents struck by the hero were frightened. Leaving him and going here and there they speedily went to the nether world. Śiva seeing the tree discharged (by Hanūmat) and (hitting) his chest got angry and took a terrible pestle in both his hands.
22-29a. (He said): “O mean monkey, you are (now) killed. Flee and go (away) from the battle. In a moment I shall destroy your life with (this) pestle.” Seeing the pestle discharged by the angry Śiva the monkey remembering Viṣṇu (i.e. Rāma) avoided it very speedily. That pestle made of strong iron and discharged by Śiva, fell down. Having torn off the entire earth it went to the nether world. Hanūmat, the servant of Rāma, was extremely angry at that time. Taking a mountain in his hand he hit it on the chest (of Śiva). While the lord of Satī (i.e. Śiva) was thinking of cutting off the mountain he was struck by the lord of monkeys with a tree having many branches. When he (i.e. Śiva) was intent on cutting it off, he was hit with rocks (by Hanūmat). The persevering Śiva made up his mind to break those rocks. Just then he showered him (i.e. Śiva) with trees and mountains. Having encircled the protector of the beings (i.e. Śiva) with his tail he struck him again and again with stones, mountains, trees and strokes of his tail. Nandin was very much frightened, and even the moon was reduced to pieces. The very angry great god got very much confused.
29b-32. He said to the lord of monkeys who every moment made him very much disquieted: “O follower of the protector of Raghus , you are blessed. You have today done a great feat, so that I am very much pleased with you. O you, having a great speed, I am not easily obtainable by means of charity or sacrifice or a little penance. Therefore, ask for a boon from me.”
Śeṣa said:
33. Hanūmat laughing (i.e. smiling) and speaking in fearless words, spoke to that very much delighted great god (i.e. Śiva) who was speaking like this:
Hanūmat said :
34-40. O great god, by Ragunātha’s grace I have everything. Yet I ask for a boon from you who are pleased with the battle. This our (hero) named Puṣkala has fallen down dead. So also Śatrughna, Rāma’s younger brother, became unconscious in the battle. Many other heroes wounded with arrows have also fallen. Some are unconscious, some have sunk; (please) protect them along with your own attendants. Do that by which big ghosts, vampires and fiends, so also foxes and others, will not take them away and eat them up; and (do that by which) their bodies will not be split. By all means preserve all of them, till, having conquered the attendants of Indra , I bring (either) the Droṇa mountain or the herbs thereon, and bring back, per force, to life these heroes kept under (your) control. Here I go to take that Droṇa mountain on which life-restoring herbs exist.
41-47. Hearing these words (Śiva) said to him: “All right. Quickly go to that mountain. I shall preserve your dead warriors.” Having heard those words of the lord, he went to the mountain Droṇa. Having crossed all islands he went to the milky ocean. Here (i.e. on the battlefield), great Śiva, with his very strong and brave attendants took care of the corpses. Hanūmat having reached (the mountain) Droṇa and having put that great mountain called Droṇa on his tail quickly started for the battlefield. O brāhmaṇa , when he was engaged in carrying it, the mountain shook. Seeing it shaking the hosts of deities protecting it wailed and said: “What is this happening on the mountain? Who is this hero of great power and valour that is taking away this (mountain)?” Doing (i.e. saying) so all the gods together saw the monkey. Saying to him, “Leave it” they struck him with crores of weapons and missiles.
48-55. Seeing them all striking (him) Hanūmat was very much angry. In a moment the hero struck them all as Indra had struck the demons. Some of them were struck (by him) with his feet; some were crushed with his hands. Some were struck with his tail and some were hit with the peak (of the mountain). All of them struck by the monkey, perished in a moment. Some wet with blood, fell on the ground. Some trembled due to the fear of the monkey (and) went to Indra, the lord of gods. Seeing them disturbed with fear and wet with blood, Indra, the best of all gods, being dejected said to the gods: “How (is it that) you are shaking with fear? How (is it that) you are wet with blood? By which demon or by which mean goblin have you been struck? Tell me the whole truth, so that knowing it I shall go to (i.e. march against) him; and having struck and bound him, the mad one who struck you, I shall come (back).” Hearing these words the best gods spoke in piteous words to Indra saluted by gods and demons.
Gods said :
56-61. We do not know (we are not sure, but) someone, taking the form of a monkey, came here and was intent upon taking that mountain after encircling it with his tail. When he decided (i.e. was about) to go back, all of us gathered together and being well-equipped and showering him with all weapons and missiles, fought with him. He, the powerful one, vanquished all of us in a battle. Many excellent gods, struck (by him) there fell on the ground. We with our bodies quite wet with blood and afflicted with the wounds and (i.e. but) alive due to our religious merit, have come here.
Hearing these words of the gods Indra ordered all gods endowed with great power: “Go to the great mountain Droṇa to bind the very mighty monkey. Binding him who has committed a great sin against the gods, bring him (here).”
62-67. Thus ordered, they went to the best mountain Droṇa, where the mighty hero, Hanūmat, the best monkey, stood. Having gone there all of them spoke to Hanūmat. They were struck by Hanūmat with fists and slaps. In a moment, they with their bodies having bloody wounds fell there. Others intent on fleeing went to the lord of heaven. Hearing it (i.e. the account) angry Indra, the best of gods, directed all the best gods towards the great hero, the lord of monkeys. Ordered by him they went. where the mighty lord of monkeys (stood). Having seen all of them come there the best of the monkeys said: “O heroes, do not go to (i.e. march against) me in the battle. I shall now forcibly take you near the city of Yama .”
68-72. Though told like this, all of them endowed with great power, got ready and struck the monkey with weapons and missiles discharged in various ways. Cruel due to anger some of the best gods struck the mighty one with various (weapons and missiles like) lances, hatchets, swords, spears with sharp edges, pestles and śaktis . He quickly struck all the best gods with rocks. Some fled to Indra and told (the account) to him. Hearing the words told by them the lord of the gods was frightened. Having gone near (i.e. to) Bṛhaspati , the head and the counsellor of the residents of heaven, the excellent preceptor of gods, and having saluted him, he asked him:
Indra said :
73. O lord, who is the monkey that has come to carry Droṇa (mountain)? Who (i.e. he) has killed my heroes, the gods, holding weapons.
Śeṣa said :
74. Having heard these words uttered by him, the great Āṅgirasa (i.e. Bṛhaspati) spoke to Indra, the lord of gods, who was dejected with fear.
Bṛhaspati said :
75-80. He is the servant of him (i.e. of Rāma) who killed Rāvaṇa in the battle and burnt (i.e. destroyed) Kumbhakarṇa and who killed all the enemies. Know him to be Hanūmat who with the fire (set) to his tail burnt Laṅkā along with the Trikūṭa mountain and who killed Akṣa . He killed all (the gods). He is intent upon (taking) the Droṇa (mountain). The great king (Rāma), the best one among the mighty, is performing the horse-sacrifice. The great king Vīramaṇi , Śiva’s devotee, took away his horse. Then a battle fascinating the gods, took place. In the battle Śiva killed many heroes of Rāma. To revive them this very mighty one will certainly take the Droṇa (mountain). (Even) after fighting with him for hundreds of years he, the powerful one, will not be vanquished by you. Therefore, propitiate the monkey. Give him the herb thereon.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 43938, revision 336116 (2022-04-18T20:32:23Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365355.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.