Skip to main content

Uttara-khaṇḍa · Chapter 132

Chapter 132

Unit 544 of 693Uttara-khaṇḍa · Chapter 132Uttara-khaṇḍa · Chapter 1321 source entries

Uttara-khaṇḍa · Chapter 132

Source

पार्वत्युवाच। अनंतवासुदेवस्य कीदृशं स्मरणं स्मृतम् । यच्छ्रुत्वा न पुनर्मोहो मानुषाणां प्रजायते १। महादेव उवाच। दृष्टतत्वेन देवेशि स्मरंति विष्णुं नित्यशः । तृषातुरो यथा वारि तद्वद्विष्णुं स्मराम्यहम् २। हिमेनाकुलितं विश्वं स्मरत्यग्निं यथा तथा । तद्वदेव तु वै विष्णुं स्मरंति विबुधादयः ३। पतिव्रता यथा नारी पतिं स्मरति नित्यशः । तथा स्मरंति लोकेशं विष्णुं विश्वेश्वरेश्वरम् ४। भयार्त्तः शरणं यद्वदर्थलोभी यथा धनम् । पुत्रकामो यथा पुत्रं तथा विष्णुं स्मराम्यहम् ५। दूरस्थोऽपि यथा गेहं चातको माधवं यथा । ब्रह्मविद्यां ब्रह्मविदस्तथा विष्णुं स्मराम्यहम् ६। हंसा मानसमिच्छंति ऋषयः स्मरणं हरेः । भक्ताश्च भक्तिमिच्छंति तथा विष्णुं स्मराम्यहम् ७। प्राणिनां वल्लभो देहो यत्र आत्माऽवतिष्ठति । आयुर्वांच्छंति ये जीवास्तथा विष्णुं स्मराम्यहम् ८। भ्रमराश्च यथा पुष्पं चक्रवाका दिवाकरम् । यथात्मवल्लभा भक्तिस्तथा विष्णुं स्मराम्यहम् ९। अंधेनाकुलिता लोका दीपं वांच्छंति वै यथा । तथा वै पुरुषा लोके स्मरणं केशवस्य च १०। यथा श्रमार्त्ता विश्रामं निद्रा व्यसनिनो यथा । गतालस्या यथा विद्यां तथा विष्णुं स्मराम्यहम् ११। मातंगाः पार्वतीं भूमिं सिंहा वनगजादिकम् । तथैव स्मरणं विष्णोः कर्तव्यं पापभीरुभिः १२। सूर्यकांते रवेर्योगाद्वह्निस्तत्र प्रजायते । एवं वै साधुसंयोगाद्धरौ भक्तिः प्रजायते १३। शीतरश्मेर्यथा कांतश्चंद्रयोगादपः श्रयेत् । एवं वैष्णवसंयोगान्मुक्तिर्भवति शाश्वती १४। कुमुद्वती यथा सोमं दृष्ट्वा पुष्पं विकासते । तद्वद्देवे कृता भक्तिर्मुक्तिदा सर्वदा नृणाम् १५। यथानलायाः संत्रस्ता भ्रमरी स्मरणं चरेत् । तेन स्मरणयोगेन नलासारूप्यतामियात् १६। गोपीभिर्जारबुद्ध्या च विष्णोश्च स्मरणं कृतम् । ताश्च सायुज्यतां नीतास्तथा विष्णुं स्मराम्यहम् १७। केऽपि वै दुष्टभावेन च्छद्मभावेन केचन । के चापि लोभभावेन चिंतयंति जनार्दनम् १८। भक्त्या वा स्नेहभावेन द्वेषभावेन वा पुनः । केऽपि स्वामित्त्वभावेन बुद्धया वा बुद्धिपूर्वकम् १९। येनकेनापि भावेन चिंतयंति जनार्दनम् । इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् २०। अहो विष्णोश्च माहात्म्यमद्भुतं लोमहर्षणम् । यदृच्छयापि स्मरणं त्रिधामुक्तिप्रदायकम् २१। न धनेन समृद्धेन विपुलाविद्यया तथा । एकेन भक्तियोगेन समीपे दृश्यते क्षणात् २२। सांनिध्येऽपि स्थितो दूरे नेत्रयोरंजनं यथा । भक्तियोगेन दृश्येन भक्तैश्चैव सनातनः २३। इदं तत्वमिदं तत्वं मोहितो देवमायया । भक्तितत्वं यदा प्राप्तं तदा विष्णुमयं जगत् २४। इंद्राद्यैरमृतं प्राप्तं सुखार्थे शृणु सुंदरि । तथापि दुःखितास्ते वै भक्त्या विष्णोर्यथा विना २५। भक्तिमेवामृतं प्राप्य पुनर्दुःखं न जायते । वैकुंठाख्यं पदं प्राप्य मोदते विष्णुसन्निधौ २६। वारि त्यक्त्वा यथा हंसः पयः पिबति नित्यशः । एवं धर्मान्परित्यज्य विष्णोर्भक्तिं समाश्रयेत् २७। अन्यभक्तिं परित्यज्य विष्णुभक्तिं समाश्रयेत् । तोयं बद्ध्वा तु वस्त्रेण कृतं कार्यं कथं भवेत् २८। प्राप्य देहं विना भक्तिं क्रियते स वृथाश्रमः । विष्णुभक्तिं विना धर्मानुपदिशंति ये जनाः । ते पतंति सदा घोरे नरके नात्र संशयः २९। बाहुभ्यां सागरं तर्तुं यद्वन्मूर्खोऽभिवांछति । संसारसागरं तद्वद्विष्णुभक्तिं विना नरः ३०। विष्णुभक्तिं च रक्षंति कर्मणा पात्यते यदि । अकिंचनः स्पृहायुक्तो मेरौ धत्ते यथा स्पृहाम् ३१। तव भक्तौ तथा देव मया हि क्रियते स्पृहा । जन्मांतरे हि सा भक्तिर्मामकी यत्करोति हि ३२। वह्निर्यथेह स्वल्पोऽपि दहते विविधं वनम् । तद्वदेव तु सा भक्तिरणुमात्रा कृता मया ३३। शतैश्च श्रूयते भक्तिः सहस्रैरपि बुध्यते । तेषां मध्ये तु देवेशि भक्तोह्येकः प्रजायते ३४। बुद्धिं परेषां दास्यंति लोके बहुविधा जनाः । स्वयमाचरते सोऽपि नरः कोटिषु दृश्यते ३५। पूजया हस्यते भक्तिर्जयेन परिहस्यते । एवं भावो हि देवेशे भक्तिस्तेनैव गृह्यते ३६। सागरे च यथा पातः कूपे त्राणोपवेशनम् । यस्य भावो हि तद्वच्च भक्तिः सा तेन गृह्यते ३७। मूले सिक्तस्य वृक्षस्य पत्रं शाखासु दृश्यते । भजनादेव भो देवि फलमग्रे प्रतिष्ठितम् ३८। पानीयहारिणा यद्वत्घटे चित्तं प्रधीयते । तद्वद्देवे हरौ चित्तं धृत्वा मोक्षमवाप्नुयात् ३९। शैशवे च यथा माता गुडं स्तोकं ददाति वै । पुनर्याचति वै बालो गुडं वै लोभकारणात् ४०। नीरे नीरं यथाक्षिप्तं दुग्धे दुग्धं घृते घृतम् । तद्वद्भेदं न पश्यंति विष्णुभक्तिप्रसादतः ४१। भानुः सर्वगतो यद्वद्वह्निः सर्वगतो यथा । भक्तिः स्थितस्तथा भक्तः कर्मभिर्नैव बाध्यते ४२। अजामिलः स्वधर्मं च त्यक्त्वा पापं समाचरन् । पुत्रं नारायणं स्मृत्वा मुक्तिं वै प्राप्तवान्ध्रुवम् ४३। दिवारात्रौ च ये भक्ता नाममात्रोपजीविनः । वैकुंठवासिनस्ते वै तत्र वेदा हि साक्षिणः ४४। अश्वमेधादियज्ञानां फलं स्वर्गेऽपि दृश्यते । तत्फलं तु समग्रं वै भुक्त्वा वै संपतंति च ४५। विष्णुभक्तिस्तथा देवि भुक्त्वा भोगाननेकशः । वैकुंठं प्राप्य वा तेषां पुनरागमनं कदा ४६। विष्णुभक्तिः कृता येन विष्णुलोके वसत्यसौ । दृष्टांतं पश्य देवेशि विष्णुभक्तिप्रसादतः ४७। ग्रावाणो जलमध्यस्थाः शतशस्तेन तारिताः । विना जलं सोमकांतो विष्णुभक्तस्य मानसम् ४८। दर्दुरो वसते नीरे षट्पदो हि वनांतरे । गंधं वेत्ति कुमुद्वत्या भक्तो भक्तौ तथा हरेः ४९। गंगातटे वसंत्येके एके वै शतयोजनम् । कश्चिद्गंगाफलं वेत्ति विष्णुभक्तिं परस्तथा 6.132.५०। कर्पूरागुरुभारं हि उष्ट्रो वहति नित्यशः । मध्यगंधं न जानाति तथा विष्णुं बहिर्मुखाः ५१। मृगाः शालं हि जिघ्रंति कस्तूरीगंधमिच्छवः । स्वनाभिस्थं न जानंति तथा विष्णुं बहिर्मुखाः ५२। उपदेशो हि मूर्खाणां वृथा वै नगनंदिनि । तथैव विष्णुभक्तेर्हि उपदेशो बहिर्मुखे ५३। अहिना च पयः पीतं तत्पयो हि विषायते । तथा वै चान्यभक्तानां विष्णुभक्तिर्विषायते ५४। चक्षुर्विना यथा दीपं दृष्ट्वा दर्पणमेव च । समीपस्था न पश्यंति तथा विष्णुं बहिर्मुखाः ५५। पावको हि यथा धूमैरादर्शोपि मलेन च । यथोल्बेनावृतो गर्भो देहे कृष्णस्तथावृतः ५६। दुग्धे सर्पिः स्थितं यद्वत्तिले तैलं तु सर्वदा । चराचरे तथा विष्णुर्दृश्यते नगनंदिनि ५७। एकसूत्रे मणिगणा धार्यंते बहवो यथा । एवं ब्रह्मादिभिर्विश्वं संप्रोतं ब्रह्मचिन्मये ५८। यथा काष्ठे स्थितो वह्निर्मंथनादेव दृश्यते । एवं सर्वगतो विष्णुर्ध्यानादेव प्रदृश्यते ५९। आदिरेको भवेद्दीपस्तस्माज्जाताः सहस्रशः । एवमेकः स्थितो विष्णुः सर्वव्याप्य प्रतिष्ठति ६०। यथा सूर्योदये ज्योतिः पुष्करे तिष्ठते सदा । दृश्यते बहुधा नीरे लोके विष्णुस्तथा हि सः ६१। मारुतः प्रकृतिस्थोऽपि नानागंधवहः सदा । ईश्वरः सर्वजीवस्थो भुंक्ते प्रकृतिजान्गुणान् ६२। शर्करा विषसंयोगान्नीरं भवति यादृशम् । संभूत्त्वा तादृशो ह्यात्मा कर्मणः फलमश्नुते ६३। उर्वी च नीरसंयोगान्नानावृक्षा प्रजायते । प्रकृतेर्गुणसंयोगान्नानायोनिषु जायते ६४। गजे वै मशके चैव देवे वा मानुषेऽपि वा । नाधिको न च न्यूनो वै निष्ठो देहे स निश्चलः ६५। ब्रह्मादिस्तंबपर्यंता ये चात्र भुवि मानवाः । देवा यज्ञास्तथा नागा गंधर्वाः किन्नरादयः ६६। तेषु सर्वेषु दृश्यंते जले चंद्रमसो यथा । स सच्चिदानंदशिवः स महेशो हि दृश्यते ६७। स वै विष्णुस्तथा प्रोक्तः सोऽयं सर्वगतो हरिः । वेदांतवेद्यः सर्वेशः कालातीतो ह्यनामयः ६८। एवं तं वेत्ति यो देवि स भक्तो नात्र संशयः । एको हि बहुधा ज्ञेयो बहुधाप्येक एव सः ६९। नामरूपविभेदेन जल्प्यते बहुधा भुवि । चक्षुषा न रवेर्ज्योतिर्भानुना चक्षुरेधते ७०। परमात्मा तथा चात्मा प्रतिदेहे तु सर्वदा । घटे घटे यथाकाशस्तस्मिन्भग्ने यथा स्थितः ७१। रूपे रूपे तथा त्वं हि भग्ने तस्मिन्सुनिश्चलः । यथा काष्ठमयं रूपं पतते प्रभुणा विना ७२। क्रिमिभेदमयो देहो पतते चात्मना विना । हेम्नो भवंति वर्णाश्च वह्निना यांति पूर्ववत् ७३। तद्वज्जीवाः प्रपद्यंते भक्ता वै पूर्वरूपताम् । स्वघनेनावृतं सूर्यं मूढाः पश्यंति निष्प्रभम् ७४। तथाऽज्ञानधियो मूढा न जानंति तमीश्वरम् । निर्विकल्पं निराकारं वेदां तैः परिपाठ्यते ७५। निराकाराच्च साकारं स्वेच्छया च प्रकाशते । तस्मात्संजातमाकाशं निःशब्दं गुणवर्जितम् ७६। आकाशान्मारुतो जातः सशब्दं च तदाऽभवत् । वातादजायत ज्योतिर्ज्योतिषश्चाभवज्जलम् ७७। तज्जले रुक्मगर्भश्च विराड्वै विश्वरूपधृक् । तस्य नाभिसरोजे च ब्रह्मांडानां च कोटयः ७८। प्रकृतिः पुरुषस्तस्मान्निर्मितं तु त्रिधा जगत् । तयोर्द्वयोश्च संयोगात्तत्त्वयोगो ऽभ्यजायत ७९। सात्विकी विष्णुसंभूतिर्ब्रह्मा वै राजसः स्मृतः । शिवस्तु तामसः प्रोक्त एभिः सर्वं प्रवर्तितम् ८०। एका ब्राह्मी स्थितिर्लोके कर्मबीजानुसारतः । तया संहरते विष्णुः सर्वलोकानुशेषतः ८१। तिष्ठत्यसौ तदा तत्र भगवान्विष्णुरव्ययः । एवं सर्वगतो विष्णुरादिमध्यांत एव च ८२। अविद्यया न जानंति लोका वै कर्मनिश्चिताः । वर्णोचितानि कर्माणि यः कालेषु प्रकारयेत् ८३। यत्कर्मविष्णुदैवत्यं न हि गर्भस्य कारणम् । वेदांतशास्त्रे मुनिभिः सर्वदैव विचार्यते ८४। ब्रह्मज्ञानमिदं देहे तदहं परिकीर्त्तये । शुभाशुभस्य कार्यं च कारणं मन एव हि ८५। मनसा शुध्यते सर्वं तदा ब्रह्म सनातनम् । मन एव सदा बंधुर्मन एव सदा रिपुः ८६। मनसा तारिताः केचिन्मनसा यातिताश्च के । मध्ये सर्वपरित्यागः बाह्ये कर्म तथाचरन् ८७। एवमेव कृतं कर्म कुर्वन्नपि न लिप्यते । पद्मपत्रं यथा नीर लेशैरपि न लिप्यते ८८। अग्निरग्नौ यथा क्षिप्तो भक्त्या च किं प्रयोजनम् । यदा भक्तिरसो ज्ञातो न मुक्ती रोचते तदा ८९। योगैरष्टविधैर्विष्णुर्न प्राप्यश्चेह जन्मनि । भक्त्या वा प्राप्यते विष्णुः सर्वदा सुलभो भवेत् ९०। वेदांतैः प्राप्यते ज्ञानं ज्ञानेन ज्ञेयमेव च । तत्तु ज्ञेयं यदा प्राप्तं तदा शून्यमिदं जगत् ९१। बलेन प्राप्यते विष्णुर्योगैरष्टविधैश्च किम् । सर्वेषामेव भावानां भावशुद्धिः प्रशस्यते ९२। आलिंग्यते यथा कांता यथा भावस्तथा फलम् । उपानद्युक्तपादो हि वेत्ति चर्ममयीं महीम् ९३। बुद्धिर्यथाविधा यस्य तद्वत्स मन्यते जगत् । दुग्धेन सिक्तो निंबोऽपि कटुभावं न तु त्यजेत् ९४। प्रकृतिं यांति भूतानि उपदेशो निरर्थकः । छित्वा वै सहकारं च फलं पत्रं कथं लभेत् ९५। इंद्रियाणां सुखार्थेन वृथा जन्म कथं नयेत् । स्थाल्यां वैडूर्यमय्यां हि पच्यते चौषधं यथा ९६। दह्यते चागदस्तद्वद्वृथाजन्म कथं भवेत् । निधानं च गृहे क्षिप्त्वा शुभः सेवां कथं चरेत् ९७। त्यक्त्वा वैकुंठनाथं तमन्यमार्गे कथं रमेत् । भक्तिहीनैश्चतुर्वेदैः पठितैः किं प्रयोजनम् ९८। श्वापचो भक्तियुक्तस्तु त्रिदशैरपि पूज्यते । स्वकरे कंकणं बद्ध्वा दर्पणैः किं प्रयोजनम् ९९। ब्रह्मरुद्रादिभिर्देवैर्दत्तैश्वर्याश्च सेवकाः । अर्पितं नैव गृह्णंति प्रभोश्चैव तु किंचन 6.132.१००। अकिंचनाय भक्ताय दातुं नालं गतो वरम् । निःशरीरस्य कृष्णस्य तत्र ध्यानं कथं भवेत् १०१। साकारं बहवो दृष्ट्वा गता भक्त्या च तत्पदम् । पूजा भक्तिः कथं शून्ये साकारे कथ्यते बुधैः १०२। शून्यमार्गे कथं याति आधारेण विना नरः । साकारो यः स्वयं स्वामी निराकारः स वै प्रभुः १०३। साकारो हि सुखेनैव निराकारो न दृश्यते । सेवारसश्च साकारे निराकारेण वैरसः १०४। साकारेण निराकारो ज्ञायते स्वयमेव हि । हरिस्मृतिप्रसादेन रोमांचित तनुर्यदा १०५। नयनानंदसलिलं मुक्तिर्दासी भवेत्तदा । बाल्ये च यत्कृतं पापं तत्कथं न विनश्यति १०६। पूजादानव्रतैस्तीर्थैर्जपहोमैस्त्वदर्पितैः । निजधर्मं परित्यज्य तपो घोरं कथं चरेत् १०७। स्वधर्मे निधनं श्रेयः परमधर्मो भयावहः । विधिं संत्यज्य शास्त्रीयं तपो घोरं कथं चरेत् १०८। आश्रमेण विना मूढो नैव सिद्धिमवाप्नुयात् । ब्रह्मणा निर्मिता वर्णाः स्वे स्वे धर्मे नियोजिताः १०९। स्वधर्मेणागतं द्रव्यं शुक्लद्रव्यं तदुच्यते । शुक्लद्रव्येण यद्दानं दीयते श्रद्धयान्वितम् ११०। स्वल्पेनापि महत्पुण्यं तस्य संख्या न विद्यते । नीचसंगेन यद्द्रव्यमानीतं गृहकर्मसु १११। तेन द्रव्येण यद्दानं कृतं वै मनुजादिभिः । तत्फलं न भवेत्ते वै नैव तत्फलभागिनः ११२। यादृशं कुरुते कर्म इंद्रियाणां सुखेच्छया । तादृशीं योनिमाप्नोति मूढो हि ज्ञानदुर्बलः ११३। इह यत्कुरुते कर्म तत्परत्रोपभुज्यते । पुण्यमाचरतः पुंसो यदि दुःखं प्रजायते ११४। तदा तापो न कर्त्तव्यस्तत्कर्म पूर्वदेहजम् । पापमाचरतः पुंसो जायते दुःखमेव च ११५। न कर्त्तव्यस्तदा हर्षः सुखे तत्र सुरेश्वरि । रज्जुबद्धाश्च पशवः प्रभुणा स्वेच्छया यथा ११६। नीयंते कर्मबंधेन मनुजा अपि भूतले । शाखामृगो वनचरो नृत्यते च गृहे गृहे ११७। एवं च कर्मणा जीवा नीयंते सर्वयोनिषु । क्रीडता कंदुको यद्वत्प्रेर्यते प्रभुणेच्छया ११८। कर्मणा वा तथा जंतुर्नीयते सुखदुःखयोः । प्राणी स्वकर्मभिर्बद्धो न शक्तो बंधनिग्रहे ११९। देवा वै कर्मभिर्बद्धा ऋषयश्च तथापरे । कैलासे रुद्रदेहस्था भुजंगा विषभोजिनः १२०। असमर्थाः सुधा भोक्तुं कर्मयोनिर्बलीयसी । नीरोगदेहदाता यो बुधैः सूर्यो हि कथ्यते १२१। तद्रथे सारथिः पंगुः कर्मयोनिर्बलीयसी । इंद्रद्युम्नो हि राजर्षिर्गजत्वं कर्मणा गतः १२२। समर्थस्वामिना तस्मिन्कर्मयोनिर्वृथा कृता । रुद्रब्रह्मादयो देवा मानवाश्चासुराश्च ये १२३। ते सर्वे कर्मबद्धाश्च विचरंति महीतले । कर्माधीनं जगत्सर्वं विष्णुना निर्मितं पुरा १२४। तत्कर्मकेशवाधीनं रामनाम्ना विनश्यति । सर्वत्रापि स्थितं तोयं मुक्तिदं तु सितासिते १२५। एवमाचरतां कर्म मुक्तिदं केशवार्चनम् । इंद्रियाणां सुखार्थाय यः कर्म मनसाचरेत् १२६। अहं कृतेन मन्येत केवलं देहमेव हि । मनसा संस्मरन्जंतुः प्रायश्चित्तं समाचरेत् १२७। स पूर्वकर्मभोक्ता च अग्रे कर्म न वर्द्धते । प्रशंसंति ग्रहान्केचित्केचित्प्रेतपिशाचकान् १२८। केचिद्देवान्प्रशंसंति ह्योषधीः केचिदूचिरे । केचिन्मंत्रं च सिद्धिं च केचिद्बुद्धिपराक्रमम् १२९। उद्यमं साहसं धैर्यं केचिन्नीतिं बलं तथा । अहंकर्मप्रशंसाभिः सर्वे कामानुवर्तिनः १३०। इति मे निश्चिता बुद्धिः कथ्यते पूर्वसूरिभिः । यदा पुण्यमयो जंतुः पापं किंचिन्नः विद्यते १३१। ज्ञानं हि द्विविधं चैव तदा पुण्यं सुखं भवेत् । पापं पुण्यं समं यस्य तदा कर्मसु विद्यते १३२। समं योगं यदा द्वंद्वं तदानंदपदं व्रजेत् । बाह्ये सर्वपरित्यागी मनसा संस्पृही भवेत् १३३। तद्वृथाचरितं तस्य तेन तत्पापभोगिनः । बाह्ये करोति कर्माणि मनसा निःस्पृहो भवेत् १३४। त्यागोऽसौ मध्यमो ज्ञेयो न तु पूर्णफलं लभेत् । बाह्यमध्ये परित्यज्य बुद्ध्या शून्यावलंबनम् १३५। त्यागः स उत्तमो ज्ञेयो योगिनामपि दुर्ल्लभः । क्रोधात्सर्वं त्यजंत्येके केचिद्वादप्रभावतः १३६। कष्टात्सर्वं त्यजंत्येके त्यागाः सर्वेनुमध्यमाः । सुबुद्ध्या श्रद्धया युक्तो न क्रोधादिवशंगतः १३७। कर्मणां ह्यवलिप्तोऽपि सुगतिं याति मानवः । शुचीनां श्रीमतां गेहे धीमतां योगिनामपि १३८। योगाद्भ्रष्टस्तु जायेत कुले वै द्विजपूर्वके । स्वल्पेनैव तु कालेन पूर्णं योगं च विंदति १३९। चिदानंदपदं गच्छेद्योगभक्तिप्रसादतः । पंकेनैव यथा पंकं रुधिरं रुधिरेण वै १४०। हिंसया कर्मणा कर्म कथं क्षालयितुं क्षमः । हिंसाकर्ममयोयज्ञः कथं कर्मक्षये क्षमः १४१। स्वर्गकामकृता यज्ञा स्वर्गे ते चाल्पसौख्यदाः । अनित्यानि तु सौख्यानि भवंति च बहून्यपि १४२। नित्यं सौख्यं न तेष्वस्ति विना भक्त्या हरेः क्वचित् । सार्वभौमसुखं राज्यं स्वर्गे चापि तथा सुखम् १४३। अन्यत्किंचिन्न वांछामि गर्भवासाद्बिभेम्यहम् । ग्रावा वै भिद्यते लोहैर्माणिक्यं नैव भिद्यते १४४। नानाकाममयी बुद्ध्या विष्णुभक्तिर्न भिद्यते । बको जलचरान्भुंक्ते मंडूकादींश्च वर्जयेत् १४५। तथा यमः सर्वहंता वर्जयेत्कृष्णसेवकान् । यो रक्षति स हर्ता च स वै पालक उच्यते १४६। अपराधशतैर्युक्तं स्वं स्थाने यत्र वासिता । यथा कृतापराधस्य कृष्णस्तस्य कृपाकरः १४७। फलं च लभते वाद्य रक्षकः किं करोति चेत् । एवमात्मा च देहेस्मिन्परवश्यकृपाकरः १४८। प्राप्तो न पारः शनकैर्मल्लैर्युक्ता न वापि ता । व्याधस्य मुक्तिदाता च कुब्जका तारिता स्वयम् १४९। ब्रह्माद्यैर्दुर्लभः स्वप्ने सुलभो गोपमंदिरे । गोपोच्छिष्टं यदा भुक्तं तदा ते तारिताः स्वयम् 6.132.१५०। योगिभिर्गीयते नित्यं परमात्मा जनार्दनः । अव्ययः पुरुषः श्रीमान्दृष्ट्वा तैर्देवि विस्मये १५१। एतत्स्मरणकं दिव्यं ये पठंति दिने दिने । सर्वपापविनिर्मुक्ता यांति विष्णोः सनातनम् १५२। अनया भावबुद्ध्या च पठनं विष्णुसन्निधौ । इहलोके सुखं भुक्त्वा परं पदमवाप्नुयात् १५३। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखण्डे विष्णुस्मरणंनाम द्वात्रिंशाधिकशततमोऽध्यायः १३२।

pārvatyuvāca| anaṃtavāsudevasya kīdṛśaṃ smaraṇaṃ smṛtam | yacchrutvā na punarmoho mānuṣāṇāṃ prajāyate 1| mahādeva uvāca| dṛṣṭatatvena deveśi smaraṃti viṣṇuṃ nityaśaḥ | tṛṣāturo yathā vāri tadvadviṣṇuṃ smarāmyaham 2| himenākulitaṃ viśvaṃ smaratyagniṃ yathā tathā | tadvadeva tu vai viṣṇuṃ smaraṃti vibudhādayaḥ 3| pativratā yathā nārī patiṃ smarati nityaśaḥ | tathā smaraṃti lokeśaṃ viṣṇuṃ viśveśvareśvaram 4| bhayārttaḥ śaraṇaṃ yadvadarthalobhī yathā dhanam | putrakāmo yathā putraṃ tathā viṣṇuṃ smarāmyaham 5| dūrastho'pi yathā gehaṃ cātako mādhavaṃ yathā | brahmavidyāṃ brahmavidastathā viṣṇuṃ smarāmyaham 6| haṃsā mānasamicchaṃti ṛṣayaḥ smaraṇaṃ hareḥ | bhaktāśca bhaktimicchaṃti tathā viṣṇuṃ smarāmyaham 7| prāṇināṃ vallabho deho yatra ātmā'vatiṣṭhati | āyurvāṃcchaṃti ye jīvāstathā viṣṇuṃ smarāmyaham 8| bhramarāśca yathā puṣpaṃ cakravākā divākaram | yathātmavallabhā bhaktistathā viṣṇuṃ smarāmyaham 9| aṃdhenākulitā lokā dīpaṃ vāṃcchaṃti vai yathā | tathā vai puruṣā loke smaraṇaṃ keśavasya ca 10| yathā śramārttā viśrāmaṃ nidrā vyasanino yathā | gatālasyā yathā vidyāṃ tathā viṣṇuṃ smarāmyaham 11| mātaṃgāḥ pārvatīṃ bhūmiṃ siṃhā vanagajādikam | tathaiva smaraṇaṃ viṣṇoḥ kartavyaṃ pāpabhīrubhiḥ 12| sūryakāṃte raveryogādvahnistatra prajāyate | evaṃ vai sādhusaṃyogāddharau bhaktiḥ prajāyate 13| śītaraśmeryathā kāṃtaścaṃdrayogādapaḥ śrayet | evaṃ vaiṣṇavasaṃyogānmuktirbhavati śāśvatī 14| kumudvatī yathā somaṃ dṛṣṭvā puṣpaṃ vikāsate | tadvaddeve kṛtā bhaktirmuktidā sarvadā nṛṇām 15| yathānalāyāḥ saṃtrastā bhramarī smaraṇaṃ caret | tena smaraṇayogena nalāsārūpyatāmiyāt 16| gopībhirjārabuddhyā ca viṣṇośca smaraṇaṃ kṛtam | tāśca sāyujyatāṃ nītāstathā viṣṇuṃ smarāmyaham 17| ke'pi vai duṣṭabhāvena cchadmabhāvena kecana | ke cāpi lobhabhāvena ciṃtayaṃti janārdanam 18| bhaktyā vā snehabhāvena dveṣabhāvena vā punaḥ | ke'pi svāmittvabhāvena buddhayā vā buddhipūrvakam 19| yenakenāpi bhāvena ciṃtayaṃti janārdanam | ihaloke sukhaṃ bhuktvā yāṃti viṣṇoḥ sanātanam 20| aho viṣṇośca māhātmyamadbhutaṃ lomaharṣaṇam | yadṛcchayāpi smaraṇaṃ tridhāmuktipradāyakam 21| na dhanena samṛddhena vipulāvidyayā tathā | ekena bhaktiyogena samīpe dṛśyate kṣaṇāt 22| sāṃnidhye'pi sthito dūre netrayoraṃjanaṃ yathā | bhaktiyogena dṛśyena bhaktaiścaiva sanātanaḥ 23| idaṃ tatvamidaṃ tatvaṃ mohito devamāyayā | bhaktitatvaṃ yadā prāptaṃ tadā viṣṇumayaṃ jagat 24| iṃdrādyairamṛtaṃ prāptaṃ sukhārthe śṛṇu suṃdari | tathāpi duḥkhitāste vai bhaktyā viṣṇoryathā vinā 25| bhaktimevāmṛtaṃ prāpya punarduḥkhaṃ na jāyate | vaikuṃṭhākhyaṃ padaṃ prāpya modate viṣṇusannidhau 26| vāri tyaktvā yathā haṃsaḥ payaḥ pibati nityaśaḥ | evaṃ dharmānparityajya viṣṇorbhaktiṃ samāśrayet 27| anyabhaktiṃ parityajya viṣṇubhaktiṃ samāśrayet | toyaṃ baddhvā tu vastreṇa kṛtaṃ kāryaṃ kathaṃ bhavet 28| prāpya dehaṃ vinā bhaktiṃ kriyate sa vṛthāśramaḥ | viṣṇubhaktiṃ vinā dharmānupadiśaṃti ye janāḥ | te pataṃti sadā ghore narake nātra saṃśayaḥ 29| bāhubhyāṃ sāgaraṃ tartuṃ yadvanmūrkho'bhivāṃchati | saṃsārasāgaraṃ tadvadviṣṇubhaktiṃ vinā naraḥ 30| viṣṇubhaktiṃ ca rakṣaṃti karmaṇā pātyate yadi | akiṃcanaḥ spṛhāyukto merau dhatte yathā spṛhām 31| tava bhaktau tathā deva mayā hi kriyate spṛhā | janmāṃtare hi sā bhaktirmāmakī yatkaroti hi 32| vahniryatheha svalpo'pi dahate vividhaṃ vanam | tadvadeva tu sā bhaktiraṇumātrā kṛtā mayā 33| śataiśca śrūyate bhaktiḥ sahasrairapi budhyate | teṣāṃ madhye tu deveśi bhaktohyekaḥ prajāyate 34| buddhiṃ pareṣāṃ dāsyaṃti loke bahuvidhā janāḥ | svayamācarate so'pi naraḥ koṭiṣu dṛśyate 35| pūjayā hasyate bhaktirjayena parihasyate | evaṃ bhāvo hi deveśe bhaktistenaiva gṛhyate 36| sāgare ca yathā pātaḥ kūpe trāṇopaveśanam | yasya bhāvo hi tadvacca bhaktiḥ sā tena gṛhyate 37| mūle siktasya vṛkṣasya patraṃ śākhāsu dṛśyate | bhajanādeva bho devi phalamagre pratiṣṭhitam 38| pānīyahāriṇā yadvatghaṭe cittaṃ pradhīyate | tadvaddeve harau cittaṃ dhṛtvā mokṣamavāpnuyāt 39| śaiśave ca yathā mātā guḍaṃ stokaṃ dadāti vai | punaryācati vai bālo guḍaṃ vai lobhakāraṇāt 40| nīre nīraṃ yathākṣiptaṃ dugdhe dugdhaṃ ghṛte ghṛtam | tadvadbhedaṃ na paśyaṃti viṣṇubhaktiprasādataḥ 41| bhānuḥ sarvagato yadvadvahniḥ sarvagato yathā | bhaktiḥ sthitastathā bhaktaḥ karmabhirnaiva bādhyate 42| ajāmilaḥ svadharmaṃ ca tyaktvā pāpaṃ samācaran | putraṃ nārāyaṇaṃ smṛtvā muktiṃ vai prāptavāndhruvam 43| divārātrau ca ye bhaktā nāmamātropajīvinaḥ | vaikuṃṭhavāsinaste vai tatra vedā hi sākṣiṇaḥ 44| aśvamedhādiyajñānāṃ phalaṃ svarge'pi dṛśyate | tatphalaṃ tu samagraṃ vai bhuktvā vai saṃpataṃti ca 45| viṣṇubhaktistathā devi bhuktvā bhogānanekaśaḥ | vaikuṃṭhaṃ prāpya vā teṣāṃ punarāgamanaṃ kadā 46| viṣṇubhaktiḥ kṛtā yena viṣṇuloke vasatyasau | dṛṣṭāṃtaṃ paśya deveśi viṣṇubhaktiprasādataḥ 47| grāvāṇo jalamadhyasthāḥ śataśastena tāritāḥ | vinā jalaṃ somakāṃto viṣṇubhaktasya mānasam 48| darduro vasate nīre ṣaṭpado hi vanāṃtare | gaṃdhaṃ vetti kumudvatyā bhakto bhaktau tathā hareḥ 49| gaṃgātaṭe vasaṃtyeke eke vai śatayojanam | kaścidgaṃgāphalaṃ vetti viṣṇubhaktiṃ parastathā 6.132.50| karpūrāgurubhāraṃ hi uṣṭro vahati nityaśaḥ | madhyagaṃdhaṃ na jānāti tathā viṣṇuṃ bahirmukhāḥ 51| mṛgāḥ śālaṃ hi jighraṃti kastūrīgaṃdhamicchavaḥ | svanābhisthaṃ na jānaṃti tathā viṣṇuṃ bahirmukhāḥ 52| upadeśo hi mūrkhāṇāṃ vṛthā vai naganaṃdini | tathaiva viṣṇubhakterhi upadeśo bahirmukhe 53| ahinā ca payaḥ pītaṃ tatpayo hi viṣāyate | tathā vai cānyabhaktānāṃ viṣṇubhaktirviṣāyate 54| cakṣurvinā yathā dīpaṃ dṛṣṭvā darpaṇameva ca | samīpasthā na paśyaṃti tathā viṣṇuṃ bahirmukhāḥ 55| pāvako hi yathā dhūmairādarśopi malena ca | yatholbenāvṛto garbho dehe kṛṣṇastathāvṛtaḥ 56| dugdhe sarpiḥ sthitaṃ yadvattile tailaṃ tu sarvadā | carācare tathā viṣṇurdṛśyate naganaṃdini 57| ekasūtre maṇigaṇā dhāryaṃte bahavo yathā | evaṃ brahmādibhirviśvaṃ saṃprotaṃ brahmacinmaye 58| yathā kāṣṭhe sthito vahnirmaṃthanādeva dṛśyate | evaṃ sarvagato viṣṇurdhyānādeva pradṛśyate 59| ādireko bhaveddīpastasmājjātāḥ sahasraśaḥ | evamekaḥ sthito viṣṇuḥ sarvavyāpya pratiṣṭhati 60| yathā sūryodaye jyotiḥ puṣkare tiṣṭhate sadā | dṛśyate bahudhā nīre loke viṣṇustathā hi saḥ 61| mārutaḥ prakṛtistho'pi nānāgaṃdhavahaḥ sadā | īśvaraḥ sarvajīvastho bhuṃkte prakṛtijānguṇān 62| śarkarā viṣasaṃyogānnīraṃ bhavati yādṛśam | saṃbhūttvā tādṛśo hyātmā karmaṇaḥ phalamaśnute 63| urvī ca nīrasaṃyogānnānāvṛkṣā prajāyate | prakṛterguṇasaṃyogānnānāyoniṣu jāyate 64| gaje vai maśake caiva deve vā mānuṣe'pi vā | nādhiko na ca nyūno vai niṣṭho dehe sa niścalaḥ 65| brahmādistaṃbaparyaṃtā ye cātra bhuvi mānavāḥ | devā yajñāstathā nāgā gaṃdharvāḥ kinnarādayaḥ 66| teṣu sarveṣu dṛśyaṃte jale caṃdramaso yathā | sa saccidānaṃdaśivaḥ sa maheśo hi dṛśyate 67| sa vai viṣṇustathā proktaḥ so'yaṃ sarvagato hariḥ | vedāṃtavedyaḥ sarveśaḥ kālātīto hyanāmayaḥ 68| evaṃ taṃ vetti yo devi sa bhakto nātra saṃśayaḥ | eko hi bahudhā jñeyo bahudhāpyeka eva saḥ 69| nāmarūpavibhedena jalpyate bahudhā bhuvi | cakṣuṣā na raverjyotirbhānunā cakṣuredhate 70| paramātmā tathā cātmā pratidehe tu sarvadā | ghaṭe ghaṭe yathākāśastasminbhagne yathā sthitaḥ 71| rūpe rūpe tathā tvaṃ hi bhagne tasminsuniścalaḥ | yathā kāṣṭhamayaṃ rūpaṃ patate prabhuṇā vinā 72| krimibhedamayo deho patate cātmanā vinā | hemno bhavaṃti varṇāśca vahninā yāṃti pūrvavat 73| tadvajjīvāḥ prapadyaṃte bhaktā vai pūrvarūpatām | svaghanenāvṛtaṃ sūryaṃ mūḍhāḥ paśyaṃti niṣprabham 74| tathā'jñānadhiyo mūḍhā na jānaṃti tamīśvaram | nirvikalpaṃ nirākāraṃ vedāṃ taiḥ paripāṭhyate 75| nirākārācca sākāraṃ svecchayā ca prakāśate | tasmātsaṃjātamākāśaṃ niḥśabdaṃ guṇavarjitam 76| ākāśānmāruto jātaḥ saśabdaṃ ca tadā'bhavat | vātādajāyata jyotirjyotiṣaścābhavajjalam 77| tajjale rukmagarbhaśca virāḍvai viśvarūpadhṛk | tasya nābhisaroje ca brahmāṃḍānāṃ ca koṭayaḥ 78| prakṛtiḥ puruṣastasmānnirmitaṃ tu tridhā jagat | tayordvayośca saṃyogāttattvayogo 'bhyajāyata 79| sātvikī viṣṇusaṃbhūtirbrahmā vai rājasaḥ smṛtaḥ | śivastu tāmasaḥ prokta ebhiḥ sarvaṃ pravartitam 80| ekā brāhmī sthitirloke karmabījānusārataḥ | tayā saṃharate viṣṇuḥ sarvalokānuśeṣataḥ 81| tiṣṭhatyasau tadā tatra bhagavānviṣṇuravyayaḥ | evaṃ sarvagato viṣṇurādimadhyāṃta eva ca 82| avidyayā na jānaṃti lokā vai karmaniścitāḥ | varṇocitāni karmāṇi yaḥ kāleṣu prakārayet 83| yatkarmaviṣṇudaivatyaṃ na hi garbhasya kāraṇam | vedāṃtaśāstre munibhiḥ sarvadaiva vicāryate 84| brahmajñānamidaṃ dehe tadahaṃ parikīrttaye | śubhāśubhasya kāryaṃ ca kāraṇaṃ mana eva hi 85| manasā śudhyate sarvaṃ tadā brahma sanātanam | mana eva sadā baṃdhurmana eva sadā ripuḥ 86| manasā tāritāḥ kecinmanasā yātitāśca ke | madhye sarvaparityāgaḥ bāhye karma tathācaran 87| evameva kṛtaṃ karma kurvannapi na lipyate | padmapatraṃ yathā nīra leśairapi na lipyate 88| agniragnau yathā kṣipto bhaktyā ca kiṃ prayojanam | yadā bhaktiraso jñāto na muktī rocate tadā 89| yogairaṣṭavidhairviṣṇurna prāpyaśceha janmani | bhaktyā vā prāpyate viṣṇuḥ sarvadā sulabho bhavet 90| vedāṃtaiḥ prāpyate jñānaṃ jñānena jñeyameva ca | tattu jñeyaṃ yadā prāptaṃ tadā śūnyamidaṃ jagat 91| balena prāpyate viṣṇuryogairaṣṭavidhaiśca kim | sarveṣāmeva bhāvānāṃ bhāvaśuddhiḥ praśasyate 92| āliṃgyate yathā kāṃtā yathā bhāvastathā phalam | upānadyuktapādo hi vetti carmamayīṃ mahīm 93| buddhiryathāvidhā yasya tadvatsa manyate jagat | dugdhena sikto niṃbo'pi kaṭubhāvaṃ na tu tyajet 94| prakṛtiṃ yāṃti bhūtāni upadeśo nirarthakaḥ | chitvā vai sahakāraṃ ca phalaṃ patraṃ kathaṃ labhet 95| iṃdriyāṇāṃ sukhārthena vṛthā janma kathaṃ nayet | sthālyāṃ vaiḍūryamayyāṃ hi pacyate cauṣadhaṃ yathā 96| dahyate cāgadastadvadvṛthājanma kathaṃ bhavet | nidhānaṃ ca gṛhe kṣiptvā śubhaḥ sevāṃ kathaṃ caret 97| tyaktvā vaikuṃṭhanāthaṃ tamanyamārge kathaṃ ramet | bhaktihīnaiścaturvedaiḥ paṭhitaiḥ kiṃ prayojanam 98| śvāpaco bhaktiyuktastu tridaśairapi pūjyate | svakare kaṃkaṇaṃ baddhvā darpaṇaiḥ kiṃ prayojanam 99| brahmarudrādibhirdevairdattaiśvaryāśca sevakāḥ | arpitaṃ naiva gṛhṇaṃti prabhoścaiva tu kiṃcana 6.132.100| akiṃcanāya bhaktāya dātuṃ nālaṃ gato varam | niḥśarīrasya kṛṣṇasya tatra dhyānaṃ kathaṃ bhavet 101| sākāraṃ bahavo dṛṣṭvā gatā bhaktyā ca tatpadam | pūjā bhaktiḥ kathaṃ śūnye sākāre kathyate budhaiḥ 102| śūnyamārge kathaṃ yāti ādhāreṇa vinā naraḥ | sākāro yaḥ svayaṃ svāmī nirākāraḥ sa vai prabhuḥ 103| sākāro hi sukhenaiva nirākāro na dṛśyate | sevārasaśca sākāre nirākāreṇa vairasaḥ 104| sākāreṇa nirākāro jñāyate svayameva hi | harismṛtiprasādena romāṃcita tanuryadā 105| nayanānaṃdasalilaṃ muktirdāsī bhavettadā | bālye ca yatkṛtaṃ pāpaṃ tatkathaṃ na vinaśyati 106| pūjādānavrataistīrthairjapahomaistvadarpitaiḥ | nijadharmaṃ parityajya tapo ghoraṃ kathaṃ caret 107| svadharme nidhanaṃ śreyaḥ paramadharmo bhayāvahaḥ | vidhiṃ saṃtyajya śāstrīyaṃ tapo ghoraṃ kathaṃ caret 108| āśrameṇa vinā mūḍho naiva siddhimavāpnuyāt | brahmaṇā nirmitā varṇāḥ sve sve dharme niyojitāḥ 109| svadharmeṇāgataṃ dravyaṃ śukladravyaṃ taducyate | śukladravyeṇa yaddānaṃ dīyate śraddhayānvitam 110| svalpenāpi mahatpuṇyaṃ tasya saṃkhyā na vidyate | nīcasaṃgena yaddravyamānītaṃ gṛhakarmasu 111| tena dravyeṇa yaddānaṃ kṛtaṃ vai manujādibhiḥ | tatphalaṃ na bhavette vai naiva tatphalabhāginaḥ 112| yādṛśaṃ kurute karma iṃdriyāṇāṃ sukhecchayā | tādṛśīṃ yonimāpnoti mūḍho hi jñānadurbalaḥ 113| iha yatkurute karma tatparatropabhujyate | puṇyamācarataḥ puṃso yadi duḥkhaṃ prajāyate 114| tadā tāpo na karttavyastatkarma pūrvadehajam | pāpamācarataḥ puṃso jāyate duḥkhameva ca 115| na karttavyastadā harṣaḥ sukhe tatra sureśvari | rajjubaddhāśca paśavaḥ prabhuṇā svecchayā yathā 116| nīyaṃte karmabaṃdhena manujā api bhūtale | śākhāmṛgo vanacaro nṛtyate ca gṛhe gṛhe 117| evaṃ ca karmaṇā jīvā nīyaṃte sarvayoniṣu | krīḍatā kaṃduko yadvatpreryate prabhuṇecchayā 118| karmaṇā vā tathā jaṃturnīyate sukhaduḥkhayoḥ | prāṇī svakarmabhirbaddho na śakto baṃdhanigrahe 119| devā vai karmabhirbaddhā ṛṣayaśca tathāpare | kailāse rudradehasthā bhujaṃgā viṣabhojinaḥ 120| asamarthāḥ sudhā bhoktuṃ karmayonirbalīyasī | nīrogadehadātā yo budhaiḥ sūryo hi kathyate 121| tadrathe sārathiḥ paṃguḥ karmayonirbalīyasī | iṃdradyumno hi rājarṣirgajatvaṃ karmaṇā gataḥ 122| samarthasvāminā tasminkarmayonirvṛthā kṛtā | rudrabrahmādayo devā mānavāścāsurāśca ye 123| te sarve karmabaddhāśca vicaraṃti mahītale | karmādhīnaṃ jagatsarvaṃ viṣṇunā nirmitaṃ purā 124| tatkarmakeśavādhīnaṃ rāmanāmnā vinaśyati | sarvatrāpi sthitaṃ toyaṃ muktidaṃ tu sitāsite 125| evamācaratāṃ karma muktidaṃ keśavārcanam | iṃdriyāṇāṃ sukhārthāya yaḥ karma manasācaret 126| ahaṃ kṛtena manyeta kevalaṃ dehameva hi | manasā saṃsmaranjaṃtuḥ prāyaścittaṃ samācaret 127| sa pūrvakarmabhoktā ca agre karma na varddhate | praśaṃsaṃti grahānkecitkecitpretapiśācakān 128| keciddevānpraśaṃsaṃti hyoṣadhīḥ kecidūcire | kecinmaṃtraṃ ca siddhiṃ ca kecidbuddhiparākramam 129| udyamaṃ sāhasaṃ dhairyaṃ kecinnītiṃ balaṃ tathā | ahaṃkarmapraśaṃsābhiḥ sarve kāmānuvartinaḥ 130| iti me niścitā buddhiḥ kathyate pūrvasūribhiḥ | yadā puṇyamayo jaṃtuḥ pāpaṃ kiṃcinnaḥ vidyate 131| jñānaṃ hi dvividhaṃ caiva tadā puṇyaṃ sukhaṃ bhavet | pāpaṃ puṇyaṃ samaṃ yasya tadā karmasu vidyate 132| samaṃ yogaṃ yadā dvaṃdvaṃ tadānaṃdapadaṃ vrajet | bāhye sarvaparityāgī manasā saṃspṛhī bhavet 133| tadvṛthācaritaṃ tasya tena tatpāpabhoginaḥ | bāhye karoti karmāṇi manasā niḥspṛho bhavet 134| tyāgo'sau madhyamo jñeyo na tu pūrṇaphalaṃ labhet | bāhyamadhye parityajya buddhyā śūnyāvalaṃbanam 135| tyāgaḥ sa uttamo jñeyo yogināmapi durllabhaḥ | krodhātsarvaṃ tyajaṃtyeke kecidvādaprabhāvataḥ 136| kaṣṭātsarvaṃ tyajaṃtyeke tyāgāḥ sarvenumadhyamāḥ | subuddhyā śraddhayā yukto na krodhādivaśaṃgataḥ 137| karmaṇāṃ hyavalipto'pi sugatiṃ yāti mānavaḥ | śucīnāṃ śrīmatāṃ gehe dhīmatāṃ yogināmapi 138| yogādbhraṣṭastu jāyeta kule vai dvijapūrvake | svalpenaiva tu kālena pūrṇaṃ yogaṃ ca viṃdati 139| cidānaṃdapadaṃ gacchedyogabhaktiprasādataḥ | paṃkenaiva yathā paṃkaṃ rudhiraṃ rudhireṇa vai 140| hiṃsayā karmaṇā karma kathaṃ kṣālayituṃ kṣamaḥ | hiṃsākarmamayoyajñaḥ kathaṃ karmakṣaye kṣamaḥ 141| svargakāmakṛtā yajñā svarge te cālpasaukhyadāḥ | anityāni tu saukhyāni bhavaṃti ca bahūnyapi 142| nityaṃ saukhyaṃ na teṣvasti vinā bhaktyā hareḥ kvacit | sārvabhaumasukhaṃ rājyaṃ svarge cāpi tathā sukham 143| anyatkiṃcinna vāṃchāmi garbhavāsādbibhemyaham | grāvā vai bhidyate lohairmāṇikyaṃ naiva bhidyate 144| nānākāmamayī buddhyā viṣṇubhaktirna bhidyate | bako jalacarānbhuṃkte maṃḍūkādīṃśca varjayet 145| tathā yamaḥ sarvahaṃtā varjayetkṛṣṇasevakān | yo rakṣati sa hartā ca sa vai pālaka ucyate 146| aparādhaśatairyuktaṃ svaṃ sthāne yatra vāsitā | yathā kṛtāparādhasya kṛṣṇastasya kṛpākaraḥ 147| phalaṃ ca labhate vādya rakṣakaḥ kiṃ karoti cet | evamātmā ca dehesminparavaśyakṛpākaraḥ 148| prāpto na pāraḥ śanakairmallairyuktā na vāpi tā | vyādhasya muktidātā ca kubjakā tāritā svayam 149| brahmādyairdurlabhaḥ svapne sulabho gopamaṃdire | gopocchiṣṭaṃ yadā bhuktaṃ tadā te tāritāḥ svayam 6.132.150| yogibhirgīyate nityaṃ paramātmā janārdanaḥ | avyayaḥ puruṣaḥ śrīmāndṛṣṭvā tairdevi vismaye 151| etatsmaraṇakaṃ divyaṃ ye paṭhaṃti dine dine | sarvapāpavinirmuktā yāṃti viṣṇoḥ sanātanam 152| anayā bhāvabuddhyā ca paṭhanaṃ viṣṇusannidhau | ihaloke sukhaṃ bhuktvā paraṃ padamavāpnuyāt 153| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṇḍe viṣṇusmaraṇaṃnāma dvātriṃśādhikaśatatamo'dhyāyaḥ 132|

English translation

Pārvatī said :

1. (Tell me) how is Ananta Vāsudeva (i.e. Viṣṇu ) remembered, hearing which there would be no delusion produced in human beings?

Mahādeva said :

2-23. O chief goddess, human beings always remember Viṣṇu on realising the truth. I remember Viṣṇu, as one oppressed with thirst (thinks of) water. Gods and others remember Viṣṇu in the same way as the world distressed with cold remembers (i.e. thinks of) fire. They remember Viṣṇu, the lord of the world, the lord of the master of the universe, as a loyal wife always remembers her husband. I remember Viṣṇu, as one afflicted with fear remembers a refuge, a greedy person thinks of wealth, or one longing for a son thinks of a son. I remember Viṣṇu, as one away (from one’s house) remembers one’s house, as cātaka thinks of spring, as theologians think of the knowledge of the supreme spirit. Swans long for the Mānasa (lake), sages for the recollection of Viṣṇu, devotees for devotion. In the same way I remember Viṣṇu. The body where the soul exists is dear to the beings. Those that live long for a (long) life. In the same way I remember Viṣṇu. As bees remember a flower, cakravākas the sun, those loving the soul think of devotion, so I remember Viṣṇu. As people distressed with darkness long for a lamp, in the same way men long for the recollection of Viṣṇu. As those afflicted with exertion think of rest, as the addicted ones think of sleep, as those free from laziness think of knowledge, so I remember Viṣṇu. Those who are afraid of sins should remember Viṣṇu, as the elephants think of a mountainous region, or the lions of a forest or elephants. As fire is produced in the sun-stone due to contact with (the rays of) the sun, in the same way devotion is produced (in the minds of men) for Viṣṇu by the contact of good people. As the moon-stone would resort to (i.e. give out) water by the contact (of the rays) of the moon, in the same way eternal release takes place by the contact of a devotee of Viṣṇu. As the lotus-plant on seeing the moon has its flowers bloomed, similarly, devotion entertained for the good always gives salvation to men. As a frightened bee would remember a lotus, and would, due to that recollection, have identity of form with it, as the cowherdesses remembered Viṣṇu (i.e. Kṛṣṇa ) as their paramour and they were absorbed (by him), so I remember Viṣṇu. Those who think of Viṣṇu with a wicked mind, with a deceitful mind, with greedy thoughts, without any desire, with devotion, affection or hatred, those who remember him as their lord, those who remember him deliberately or non-deliberately with whatever feeling enjoy happiness in this world and go to the eternal (position) of Viṣṇu. Oh, the greatness of Viṣṇu is wonderful and thrilling. Even his recollection by chance gives salvation in three ways (i.e. sālokya etc.). Not by abundant wealth, nor by great knowledge, is he seen as he is seen through devotion alone in a moment. Though near he stands away as collyrium in the eyes. The ancient one would be seen by his devotees through devotion (alone).

24-44. A man deluded by the lord’s Māyā thinks as: ‘This is the truth, this is the truth’. When the truth of devotion is obtained, then the (entire) world becomes full of Viṣṇu. O beautiful one, for getting happiness Indra and others secured nectar; but without devotion for Viṣṇu, they were unhappy. Having obtained the nectar in the form of devotion, no unhappiness comes again. Obtaining the position called Vaikuṇtha he rejoices there in the vicinity of Viṣṇu. As the swan abandons water and always drinks milk (only), in the same way one should, abandoning (other) practices, resort to devotion for Viṣṇu. Giving up devotion for (any) other (deity) one should resort to devotion for Viṣṇu. How would one succeed in binding (i.e. putting) water with (i.e. in) a (piece of) cloth? That stage of life passed without devotion after having obtained the (human) body is in vain. Those men who advise (people) about religious practices without devotion for Viṣṇu, always fall into a fearful hell. There is no doubt about it. As a fool desires to cross (i.e. swim over) the ocean with his arms, so a (foolish) man desires to cross the ocean of the mundane existence without devotion for Viṣṇu. Even if they (i.e. Viṣṇu’s devotees) are thrown down due to (the effect of) their deeds, they preserve devotion for Viṣṇu. As a penniless person, full of longing, desires (to get) the Meru (mountain), in the same way, O god, I long for devotion for you, since that devotion of me in the other (i.e. previous) existence, causes it. As in this world even a small fire burns various forests, so the devotion of the size of an atom which I have (i.e. resorted to will destroy my sins). Hundreds hear about devotion. Thousands understand it. But, O goddess, among them, only one becomes a devotee. Various people will give (i.e. instruct) people (in) devotion. But a man himself practising it is seen to be one among crores. Worship laughs at devotion; success ridicules devotion. He who has such a (strong) feeling for the lord of gods alone takes (to) devotion. As from a fall into the ocean and entering into a tank there is a protection, similarly one takes to devotion according to his thoughts. The leaves of a tree sprinkled at its root are seen on the branches. O goddess, the fruit later proceeds by resorting to (Viṣṇu) only. As one who carries water fixes his mind (i.e. attention) on the pot (containing the water), similarly one should fix his mind on Viṣṇu and get salvation. In his childhood his mother gives (a child) a little jaggery. But the child, through greed, again asks for (more) jaggery. Due to Viṣṇu’s grace they do not notice the difference as when water is put into water, milk into milk, or ghee into ghee. As the sun is everywhere, or the fire is everywhere, similarly one remaining in devotion, is never troubled by (fruits of his) acts(?). Ajāmila , giving up his duty and practising sin, certainly got salvation on remembering his son (called) Nārāyaṇa . All those devotees who, day and night, subsist on (Viṣṇu’s) name only, live in Vaikuṇṭha . In this case, the Vedas are the anthority.

45-64. The fruit of the sacrifices like the horse-sacrifice is seen in heaven. Enjoying all that fruit they fall (from heaven). Similarly the devotees of Viṣṇu enjoy many pleasures. Having reached Vaikuṇṭha when will they return (to the earth)? He who is devoted to Viṣṇu, lives in Viṣṇu’s heaven. See the example, O goddess. Due to devotion to Viṣṇu, he made hundreds of stones float on the water. The mind of Viṣṇu’s devotee is the moonstone without water. A frog lives in water; a bee lives in a grove and perceives the fragrance of a lotus-plant. In the same way Viṣṇu’s devotee lives in his devotion. Some live on the bank of Gaṅgā . Some (at a distance of) a hundred yojanas . One gets the fruit due to Gaṅgā; the other devotion for Viṣṇu. Those that have turned away their faces from Viṣṇu are like the camel that always carries the camphor and agaru (sandal) but does not know their fragrance. Those that are averse to Viṣṇu are like the deer that smell a tree, when they desire a fragrance, but do not notice the musk in their navels. O daughter of the ( Himālaya ) Mountain, as (giving) advices to fools is useless, similarly advice to one averse to Viṣṇu-devotion is in vain. Water drunk by a serpent becomes poison. Similarly devotion to Viṣṇu for devotees of other deities is poison. Those who are near a lamp or a mirror do not see it without sight, similarly those averse to Viṣṇu (do not see him). As fire is covered by smoke, a mirror by dirt, an embryo by amnion, similarly Kṛṣṇa is covered in (i.e. by) the body. O daughter of the (Himālaya) Mountain, as ghee always remains in milk, oil in a sesamum-seed, similarly Viṣṇu exists in the mobile and the immobile (objects). As many gems are held (together) by a thread, similarly the universe including Brahmā and others is woven in Brahman of the form of intelligence. As fire existing in wood is seen after friction only, similarly omnipresent Viṣṇu is seen by means of meditation only. At first there is one lamp. Then thousands are produced (i.e. lighted) from it. Similarly one Viṣṇu alone exists after having pervaded everything. A flash always remains in water at sunrise, and is seen in various ways in the pond. That Viṣṇu is like that in the world. Wind even in its natural state always carries various fragrances. Similarly the god, dwelling in all beings, enjoys the constituents of Prakṛti . As sugar due to its contact with water, turns into water, similarly the soul, being like them (i.e. the acts) enjoys the fruits of his acts. The earth, due to its contact with water, has many trees. Similarly (the soul) due to the contact with Prakṛti’s constituents, is born in many stocks.

65-75. He, the steady one, lives in (the body of) an elephant or a gnat, a deity or a human being and is neither superior (in one) nor inferior (in another). As the moon is noticed in water, in the same way he is seen in all those beginning with Brahmā to a clump of grass, men, gods, sacrifices, and serpents that are there on the earth. He that is seen is existence, intelligence, bliss and Śiva (auspicious). He is the great lord. He is also said to be Viṣṇu. He is omnipresent Hari (i.e. Viṣṇu). He is known from the Upaniṣads ; he is the master of all; he is beyond time; and is sound. O goddess, he who knows him to be like this is undoubtedly (his) devotee. Though one, he should be known to be many; and though many, to be one. Due to his various names and forms he is said to be many on the earth. The sun’s lustre does not grow due to the eyes, but the sight grows due to the sun. The supreme soul (as the individual soul) is always present in every body, as in every jar there is space. (And even) when the jar is broken, it (still) exists. In every form he is like that (i.e. has that form); and when it (i.e. the form) is broken, he remains very stable. As a form made of wood drops (down) without a master, in the same way the body, having differences like an insect, falls without the soul. The various kinds (of forms) of gold, become as before (i.e. gold) due to (being heated by) fire. In the same way the devotees attain the former form. Fools see (i.e. think) the sun to be lustreless due to being screened by a cloud. In the same way fools of ignorant minds do not know that lord who is described by the Upaniṣads as not admitting an alternative and as formless.

76-90. In accordance with his will he becomes one having a form, from his (condition of being) formless. From him ether without sound and quality is produced. Air was produced from ether. Then it had a sound. From air sprang up light, and from light water was produced. In that water was Virāṭ , having a universal form and of a bright interior. In the lotus of his navel there were crores of universes. From it (arose) Prakṛti (and) Puruṣa and then the world of three kinds was produced. From the union of the two arose the combination of the elements. The product of Viṣṇu in sāttvika . Brahmā is said to be endowed with the quality of rajas . Śiva is said to be endowed with the quality of tamas . They have urged all this. In the world there is one condition called Brāhmī (i.e. of Brahmā) due to the seed of the act (of a being). Viṣṇu completely withdraws the world due to it. This immutable lord Viṣṇu then remains there. Thus Viṣṇu is present everywhere—in the beginning, middle and end. People determined by (the effects of) their acts do not know (the truth) due to ignorance. He would cause (people) to do the acts that are proper for the castes at (different) times. That act which is intended for god Viṣṇu is not the cause of (i.e. does not lead to) conception (i.e. birth). This is always thought over by all the sages in the Upaniṣads and holy texts. This knowledge of Brahman is in the body. I shall tell it. Mind alone is the cause and effect of good and bad (acts). Everything is purified by mind. Then it is the ancient Brahman. Mind alone is always the kinsman and the foe (also). Some are emancipated by mind; some are troubled by mind. Everything is renounced in it, but they have done acts outwardly. Acts when done in this fashion alone, do not taint (the doer), as a lotus-leaf is not tainted by even drops of water, (or) as fire when put into (another) fire. What is the use of devotion? When the flavour of devotion is known, then salvation is not liked. By means of the Yoga of eight kinds [1] Viṣṇu is not reached in this existence. Viṣṇu is reached by devotion and would always be easily accessible.

91-100. Knowledge is obtained through the Upaniṣads. That which is to be known is obtained by means of knowledge. When that which is to be known is obtained, then the world is a void. Viṣṇu is reached through (mental) power. What is the use of the eightfold Yoga? Of all dispositions purity of disposition is commended. When the beloved is embraced by one, one gets the effect as is one’s disposition. One having sandals on one’s feet feels the earth to be full of hide. One looks upon the world as one’s mind is. The nimba tree, though sprinkled with milk, would not give up its bitterness. Beings go to (i.e. behave in conformity with) their nature. Advice is useless. How would one obtain the fruits and the leaves of the (mango) tree after having cut it off? Why should one pass one’s life with a desire for the pleasures of senses? As medicine is cooked in a pan of lapis lazuli and then the drug is burnt, in the same way, how would the existence be in vain? How would a good man, after putting the treasure in his house, do service? How would one rejoice on another path (by) leaving the lord of Vaikuṇṭha (i.e. Viṣṇu)? What is the use of the recital of the Vedas by those who are without devotion? A cāṇḍāla having devotion is worshipped even by gods. What is the use of mirrors for him who has put on a bracelet on his hand? The servants (i.e. the devotees) to whom affluence is given by gods like Brahmā, Rudra , do not take anything that is offered to the lord.

101-109. It is better to give to a devotee who is poor. How can there be meditation on Kṛṣṇa having no body? Many (devotees) seeing him of a form, have, through devotion, gone to his position. How can worship or devotion be possible in the case of one that is non-existent? The wise ones recommend (worship and devotion) in the case of one that has a form. How can a man go along a vacant path without a support? This master has a form. That lord is formless. The one having a form is easily seen. The formless one is not seen. There is pleasure of service of the one having a form; no (such) pleasure in the case of serving a formless one. The formless one himself is known through him who has a form. When the body is horripilated by the grace of the recollection of Viṣṇu, when tears of joy are in the eyes, then salvation becomes a slave. How does the sin committed in childhood, perish? (It perishes) by means of worship, gifts, vows, (visits to) holy places, mutterings (of hymns), sacrifices dedicated to you. How should one, giving up one’s duty, practise severe penance? It is better to die in (i.e. while doing) one’s duty. Another’s duty is fraught with fear. How should one, giving up the practice laid down by holy texts, practise severe penance? A fool without (remaining in) the stage of human life, would not obtain success. The castes are made by Brahmā, and they have been assigned their respective duties.

110-124. Wealth that comes through the performance of the duty of one’s own caste is said to be white. That little gift, given with devotion, made with white wealth, gives great religious merit and it cannot be reckoned. The gift given by men with the wealth brought for domestic rites through contact with mean people, would not be fruitful. They would not share its fruit. A fool, weak in knowledge, obtains that kind of stock which (is in conformity with the) kind of acts he performs with a desire for pleasure. The (fruit of the) act done in this world is had in the other-world. If in the case of a man doing righteous acts, pain is produced, then he should not be distressed. That is (the result of) the deeds of the former body (i.e. existence). Grief alone is produced in the case of the man committing sins. O chief goddess, at that time one should not be delighted. As the master leads the beasts tied with a rope, men also are similarly led by the bond of their deeds on the earth. A monkey dwelling in forest dances in every house; in the same way the beings are taken through all stocks by (their) deeds. As the master while playing sends forth a ball according to his desire, similarly a being is taken to happiness or unhappiness by his deeds. The being bound by (the effects of) his deeds, is unable to remove the bond. Gods and other sages also are bound by (the effects of) their deeds. Even the serpents remaining on Rudra’s body consume poison on Kailāsa . They are unable to enjoy nectar. The effect of deeds (Karmayoni?) prevail. The charioteer or the Sun, who is said by the wise to give a sound body is a cripple. The effects of deeds (Karmayoni?) pravail. A royal sage Iadradyumna [ Indradyumna ?] became an elephant due to his deeds. The result of deeds in that case was made ineffective by the powerful lord (?) All gods like Rudra, Brahma , men and demons, being bound by (the effects of) acts, move on the earth. Viṣṇu formerly created the entire world, (and is) influenced by acts.

125-139. Those acts, dependent on Viṣṇu, perish by means of (repeating) the name of Rama . Water is present everywhere; but that one at Prayāga gives salvation. To those who do the acts like this, worship of Keśava gives salvation. The being who does an act for the pleasure of senses, and would, through egotism think of the body, should go through an expiation, remembering (Viṣṇu). He undergoes the fruits of his past acts (only). The (fruit of) his acts does not grow later. Some praise the Planets; some evil spirits and goblins. Some praise deities; some have talked about the herbs. Some talk about a hymn, about a super-human power, about intellect or valour. So also about exertion, boldness, courage and prudence. All follow their desires talking about acts resulting from egotism. This is my definite idea. This is what is told by the former wise men. When a being is full of religious merit and there is no sin (in him), and when he has the two-fold knowledge, then his merit would be pleasant. When his sin and religious merit are equal, he remains in (i.e. doing) acts. When he has attained the equanimity of mind, he would reach the place of joy. Of him, who has discarded everything outwardly, but would long for (everything) mentally, such a behaviour is useless and he will have to undergo (fruits of) his sins. A man does acts outwardly; but mentally he is desireless. Such a sacrifice is mediocre. He would not obtain its complete fruit. Discarding acts outwardly, and mentally depending upon (i.e. looking upon everything as) void-such a sacrifice is said to be the best—difficult to be had even by the meditating sages. Some abandon everything through anger; some through the power of discussion. Some discard everything with difficulty. All (such) sacrifices are mediocre. A man endowed with devotion through good mind, and not influenced by anger etc., obtains a good position, though smeared with (the effects of) acts. He who is dropped from abstract meditation, would be born in the house of the pure and the rich or in the family—chief being that of a brāhmaṇa —of the intelligent meditating sages. In a short time he acquires complete abstract meditation.

140-153. Due to abstract meditation, devotion (to) and grace (of the lord), he would reach the position of Brahman of the nature of) intelligence and joy. How can one wash off (the effect of) one’s act with a harmful act as mud with mud or blood with blood? How can a sacrifice full of a harmful act be capable of destroying (the effect of one’s) acts? Sacrifices performed with a desire for (going to) heaven give little happiness in heaven. Even though many, the pleasures there are transitory. Without devotion for Viṣṇu, there is no eternal happiness in (i.e. from) them. (Except) a sovereign empire giving pleasure and happiness in heaven, I do not desire anything else. I am afraid of living in a womb (i.e. of rebirth). With (hammers of) iron a stone alone is broken, and not a ruby. A crane eats aquatic beings, (but) would avoid frogs etc. Similarly, Yama , the destroyer of everything, would avoid Viṣṇu’s servants. He who protects is the one that removes difficulties, and is said to be the guardian. He lodges at his place him who has (committed) hundreds of faults; since Kṛṣṇa favours him who has committed an offence. He gets the fruit today. What does the protector do? In the same way, the soul in this body, shows favour to them depending upon others. [2] Along with the strong, he does not slowly go to the other end. [2] He gave salvation to the hunter, and himself emancipated Kubjā . He is difficult to be had (i.e. seen even) in a dream by Brahma and others, but is easily accessible in a cowherd’s house. When he ate what was left over by the cowherds, he himself emancipated them. O goddess, the highest soul, Viṣṇu, is always praised by the meditating sages. The immutable Puruṣa, along with Lakṣmī , is amazing. Those who everyday recite this narration, are freed from all sins, and go to the eternal position of Viṣṇu. One who recites it with this devotion near (the image of) Viṣṇu, would obtain the highest position after enjoying happiness in this world.

[1]: [1] : Aṣṭavidha Yoga—The eightfold means of Yoga consists of the disciplines of: (1) restraint (yama); (2) culture or cultivating good habits like purification of the body, contentment etc; (3) posture (āsana); (4) breath-control (prāṇāyāma); (5) withdrawal of the senses (pratyāhara); (6) attention (dhāraṇā); (7) meditation (dhyāna); and (8) concentration (samādhi).

[2]: [2] : verses 148, 149 etc. and many others in this chapter are not clear.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 44815, revision 334387 (2022-04-02T23:37:29Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365711.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.