Brahma-khaṇḍa · Chapter 11
Sourceशौनक उवाच- इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः । हरिस्वरूपिणा साक्षाद्वेदव्यासेन शासित १। निरहंकार हे सूत लोकानुग्रहकारक । केन स्यात्सुभगा नारी पापिनी च सुदुर्भगा २। पतिप्रियांग केन स्याद्रूपिता चक्षुषोः सुधा । केन वा जायते लक्ष्मीस्तन्मे ब्रूहि तपोधन ३। सूत उवाच- यदि पुण्यमिदं विप्र वृत्तं परमदुर्लभम् । शृणुष्व भोः समासेन कथयामि विधानतः ४। आसीद्भद्रश्रवा राजा युगे द्वापरसंज्ञके । सौराष्ट्रदेशवासी च वेदवेदांगपारगः ५। भार्या तस्य च संजाता नाम्ना सुरतिचंद्रिका । तस्यां बभूवुः श्रीराज्ञः सप्तपुत्रा मनोरमाः ६। ततोऽभिजाता दुहिता सुंदरी सत्यवादिनी । श्यामबाला च विप्रेंद्र नाम्ना प्रीतिकरी पितुः ७। अथैकदा श्यामबाला सुवर्णसिकतासु च । गूढैर्मनोहरै रत्नैः सखिभिः क्रीडितुं मुदा ८। जगाम नीपवृक्षस्य तलं परमदुर्लभम् । एतस्मिन्नंतरे विप्र लक्ष्मीः संसारतारिणी ९। लोकानां नीतिदा साथ समायाता स्वयं पुरः । धृत्वा च ब्राह्मणीरूपं पलितांगी च भूसुर १०। अखिलानां च लोकानां शास्तू राज्ञः क्षयं विना । केषां क्षुद्रतराणां हि गृहे गच्छामि सांप्रतम् ११। इति संचिंत्य मनसा गता राजनिकेतनम् । सुवर्णभित्तिभिर्युक्तं पताकाभिरलंकृतम् १२। सिंहद्वारमतिक्रम्य प्राह दौवारिकीं ततः । द्वारं जहि हि भो द्वारि नियुक्ते शुभलक्षणे १३। यामि वेगेन पश्यामि राज्ञीं सुरतिचंद्रिकाम् । तच्छ्रुत्वा वचनं तस्या रत्नदंडकरा च सा । कोकिलावाक्यवन्मुक्तं परमं हर्षमाययौ १४। द्वारनियुक्तोवाच- किं नाम वहसे वृद्धे कः पतिस्तावकः पुनः । आगतासि कथं किं ते कार्य्यं राज्ञ्याश्च दर्शने । कस्मात्किं ब्रूहि विप्रे त्वं श्रोतुं कौतुहलं हि मे १५। वृद्धोवाच- शृणु पोष्ये महाराज पत्न्या दंडकरे यदा । श्रोतुं कौतूहलं तेऽस्ति मदागमनकारणम् १६। प्रसिद्धा कमला नाम्ना चाहं प्राणेश्वरो मम । भुवनेश इति ख्यातो नाम्ना द्वारवतीपुरी १७। तस्यां वै वर्त्तते पोष्ये मम प्राणेश्वरस्ततः । आगताहं रत्नवेत्रकरे शृणु सकौतुकम् १८। ममागमनकार्यं हि वच्मीदानीं तवाग्रतः । पुरासीद्वैश्यकुलजा राज्ञी तव च दुःखिनी १९। एकस्मिन्दिवसे पोष्ये पतिना कलहः कृतः । तया नार्या च दुःखिन्या ततो वै भर्तृपीडिता २०। बहिर्भूय द्रुतं गेहाद्रुदंती च पुनः पुनः । तस्याश्च रोदनं श्रुत्वा चागताहं समीपतः २१। अपृच्छं सर्ववृत्तांतं कथितो वै यथार्थतः । तया ततो व्रतवरमुपदेशं ददाम्यहम् २२। ममोपदेशतः सा वै चक्रे व्रतवरं मुदा । तस्य प्रसादाद्भो द्वाःस्थे संजाता सुखिता च सा २३। कदाचिद्वैश्यकुलजा पत्या मृत्योर्वशं गता । समानेतुं ततस्तौ तु विहिताखिलघातकौ २४। किंकरान्प्रेषयामास चंडाद्यान्धर्मराट्प्रभुः । यमाज्ञया समायाता यमदूता भयंकराः २५। बद्ध्वा तौ चर्मपाशेन लोहमुद्गरपाणयः । उद्यमं चक्रिरे गंतुं यमस्य शरणं प्रति २६। अत्रांतरे च लक्ष्म्यास्ते दूता विष्णुपरायणाः । समानेतुं समायाताः शंखचक्रगदाधराः २७। दृष्ट्वा तथाविधांस्तांश्च यमदूताः पलायिताः । लक्ष्मीदूता महात्मानः स्वप्रकाशादयस्तथा २८। पाशं छित्त्वा समारोप्य राजहंसयुते रथे । जग्मुर्लक्ष्मीपुरं सर्वे सहसाकाशवर्त्मना २९। यावद्वारं व्रतवरं कृत्वा वैश्या च सा तदा । तावत्कल्पसहस्राणि तस्थतुः कमलापुरे ३०। पुण्यशेषस्य भोगार्थं जातौ राजान्वयेऽधुना । व्रतं च विस्मृतौ द्वाःस्थे राजसंपत्तिगर्वितौ । तस्माच्च तव तस्यापि चोपदेशार्थमागता ३१। द्वाःस्थोवाच- केनैव तु विधानेन वृद्धे व्रतवरं कृतम् । कस्मिन्मासे व्रतं श्रेष्ठं देवता का च पूज्यते ३२। एतन्मे पृच्छतो मातर्यथावद्वक्तुमर्हसि । कमलोवाच- कार्त्तिके च व्यतिक्रांते मार्गशीर्षे समागते । तस्मिन्मासे च भो पोष्ये वासरे गुरुसंज्ञके ३३। ततः पूर्वाह्णसमये सकलैर्व्रतिभिर्वृता । नारायणेन सहितां लक्ष्मीं संपूजयेत्ततः ३४। मिष्टैः पायसयुक्तैश्च भुक्तैश्च खंडमिश्रितैः । लक्ष्मीं संतोषयेत्प्रेष्ये ततः संप्रार्थयेदिदम् ३५। त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे । यथा त्वमचला कृष्णे तथा भव मयि स्थिता ३६। ईश्वरी कमले देवि शरणं च भवानघे । नानोपहारद्रव्यैश्च लक्ष्मीमाज्ञाप्य तोषयेत् ३७। शास्त्रैश्च पूजयेद्देवीं महोत्सवसमन्विताम् । ततो नैवेद्यशेषांश्च दत्वा ब्राह्मणसत्तमम् ३८। आत्मानं स्वपतिं पुत्रान्पोष्येऽन्यानपि सेवकान् । द्वितीये तु गुरोर्वारे विशेषं शृणु सुंदरि ३९। चित्रधूलीप्रशस्तैश्च भ्राष्ट्रैर्गोधूमनिर्मितैः । तोषयेत्कमलादेव्याः कुर्य्याद्वै भक्तिभावतः ४०। तृतीये खंडसंयुक्तं दध्योदननिवेदनम् । शामाक शालि कासारैश्चतुर्थे पूजयेन्मुदा ४१। लक्ष्मीदेवीं प्रयत्नेन रत्नदंडकरे ततः । लक्ष्मीदेवी प्रीतये तु ब्राह्मणान्पूजयेद्धनैः ४२। वस्त्रालंकारभोज्यैश्च फलैर्नानाविधैस्तथा । पोष्योवाच- अत्रैव तिष्ठ भो वृद्धे राज्ञीं सुरतिचंद्रिकाम् ४३। विज्ञाप्य त्वां नयिष्यामि मा क्रोधं कुरु सत्तमे । इत्युक्त्वा सा तु चार्वंगी गता राज्ञीसमीपतः ४४। शिरस्यंजलिमाधाय पोष्या ब्रह्मन्समूलतः । आरभ्य सांगपर्यंतं यदूचे कमलालया ४५। तत्सर्वं कथयामास राज्ञीं सुरतिचंद्रिकाम् । द्वारपालीवचः श्रुत्वा राज्ञी सुरतिचंद्रिका ४६। जगाम ब्राह्मणीपार्श्वं सगर्वा प्राह सुंदर । राज्ञ्युवाच- वृद्धे ब्राह्मणि किं वृत्तं चोपदेशार्थमागता ४७। कथयस्व चिरं मह्यं भयं त्यक्त्वा यथासुखम् । ब्राह्मण्युवाच- तवानीतिमहं दृष्ट्वा गंतुमिच्छामि चंचला ४८। कथयिष्यामि किं दुष्टे व्रतं परमदुर्लभम् । इंदिरावासरे चाद्य चांडालेन करोषि यत् ४९। तद्दृष्टं मयि का दुष्टे तद्गेहे गर्वितेऽधुना । तच्छ्रुत्वा ब्राह्मणीवाक्यं क्रोधसंरक्तलोचना ५०। जरंतीं ब्राह्मणीं चैव प्रहारं च चकार सा । ततः सा कमला वृद्धा क्रंदमाना पलायिता ५१। क्रीडमाना ततः श्यामा ब्राह्मणीक्रन्दनध्वनिम् । आगतास्याः समीपं तु श्रुत्वा बाला तपोधना ५२। श्यामाबालोवाच- वृद्धे व्यथेदृशी केन दत्ता तुभ्यं वदस्व मे । तस्या वचनमाकर्ण्य शोकगद्गदया गिरा ५३। कमला कथितं सर्वं वृत्तांतं द्विजसत्तम । श्यामाबाला ततः श्रुत्वा व्रतं परमदुर्ल्लभम् ५४। शास्त्रोक्तविधिना चक्रे सश्रद्धं च सभक्तितः । त्रिवारे परिपूर्णे तु तुर्यवारे समागते ५५। विवाहकर्मसंसिद्धं द्विजलक्ष्मीप्रसादतः । श्रीसिद्धेश्वरदेवस्य नृपतेर्भूपतेजसः ५६। मालाधरो नाम सुतो गृहीत्वा तां गृहं गतः । अथ तस्यां गतायां तु ब्रह्मन्शृणुष्व कौतुकम् ५७। राज्ञीगृहे च सर्वाणि स्थितानि सुबहूनि च । द्रव्याणि केन नीतानि न ज्ञातान्यपि भूसुर ५८। निर्वित्ता बुद्धिहीना सा चान्नवस्त्रविवर्जिता । उपविष्टा च केनापि गंतुं च दुहितुर्गृहम् ५९। प्रेषयामास भर्त्तारं किंचित्प्रार्थनहेतवे । तस्य मालाधरस्यापि ग्रामे च सरसीतटे ६०। कालेन कियता विप्र प्रविवेश च कष्टतः । तस्माज्जलं समानेतुं तस्या दास्यः समागताः । तं दृष्ट्वा दुःखिनां श्रेष्ठं पप्रच्छुः सानुकंपिताः ६१। दास्य ऊचुः- कस्त्वं कुतः समायातो मांसरक्तविवर्ज्जितः । रूक्षांगो रूक्षकेशश्च तत्सर्वं कथयस्व नः ६२। दरिद्र उवाच- श्यामाबालापिता चाहं सौराष्ट्रनगरागतः । कथयध्वं च भो दास्यः श्यामाबालासमीपतः ६३। तच्छ्रुत्वा वचनं तस्य कौतूहलसमन्विताः । परस्परमुखाः सर्वा जहसुः स्वपुरं गताः ६४। श्यामाबाला च कथितं सर्वं वृत्तं च भो द्विज । श्रुत्वैतद्वचनं तासां प्रेषयामास सेवकान् ६५। पुष्पतैलं दिव्यवस्त्रं चंदनं पर्णवीटिकाम् । घोटकं च तथा दत्वा पितरं प्रति सुंदरी ६६। गत्वाथ सर्वे ते भृत्याः कृत्वा सुवेषमुत्तमम् । श्यामाबालागृहं निन्युर्देवराजगृहोपमम् ६७। श्यामाबाला ततश्चैव पितरं दुखिनां वरम् । श्याल्यन्नं सघृतं चैव भोजयामास यत्नतः ६८। तुर्येषु समतीतेषु दिवसेषु तपोधन । प्रेषयामास तं दत्वा गुप्तपात्रस्थितं धनम् ६९। ततः प्रविश्य स्वगृहे धनं पात्रान्तरस्थितम् । ददर्शांगारनिचयं रुरोद भृशदुःखितः ७०। दुहितुः सदनं यातुं निःससार गृहागतः । तत्रैव सरसीकूले प्रविवेश च दुःखिनी ७१। तथैनां च समानीतां यथा स्याः प्राणवल्लभाम् । तथैव पूजयामास मातृस्नेहात्पतिव्रता ७२। एतस्मिन्समये विप्र लक्ष्मीवासरमुत्तमम् । श्यामाबाला कारयितुं मनश्चक्रे च मातरम् ७३। तस्या माता दरिद्राणि भुक्त्वा वैकांतिकेपि च । शावकानां तु चोच्छिष्टं लक्ष्मीकोपसमन्विता ७४। इंदिरायास्तृतीयानि वासराणि गतान्यपि । चतुर्थवासरे तां तत्कारयामास सा दृढम् ७५। आगता नगरं सा वै राज्ञी सुरतिचंद्रिका । दृष्ट्वा गृहं तथा दिव्यमिंदिरायाः प्रसादतः ७६। श्यामाबाला च विप्रेंद्र कदाचित्समये पुनः । मातुर्गृहं गता चाथ ऐश्वर्यस्य दिदृक्षया ७७। श्यामाबालां ततो दूराद्दृष्ट्वा संकुपिता च सा । न पश्यामि मुखं तस्या इत्युक्त्वालक्षिता स्थिता ७८। गत्वा गृहांतरालं च गृहीत्वा सैंधवं च सा । आगता स्वगृहं किंचित्तूष्णीं लक्ष्मीसमाश्रितम् ७९। राजा स्वामी च पप्रच्छ तां साध्वीं पतिदेवताम् । किमानीतं त्वया कांते कथयस्व ममाग्रतः ८०। कांतोवाच- राज्यसारं समानीतं दर्शयिष्यामि भोजने । इत्युक्त्वा सा तदा पाकं कृत्वा च लवणं विना ८१। अन्नादिकं ततो दत्वा मालाधराय भूभुजे । ततो मालाधरो राजा व्यंजनं लवणवर्जितम् ८२। भुक्त्वा वैगुण्यतां प्राप्तो राज्यसारं ददौ च सा । तदा हृष्टमना राजा भोजनं कृतवान्द्विज ८३। प्रशशंस च तां नारीं धन्याधन्या इति ब्रुवन् । एतद्व्रतं च या नारी न करोति महादरात् ८४। जन्मजन्मनि सा नारी दरिद्रा दुर्भगा भवेत् । इदं या शृणुयाद्भक्त्या पठेद्यो वा समाहितः ८५। सर्वपापैर्विनिर्मुक्तो लक्ष्मीलोकं लभेच्च सः । इमां व्रतकथां या तु न श्रुत्वा क्रियते व्रतम् । तस्या व्रतफलं चैव नश्यत्येव न संशयः ८६। इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे एकादशोऽध्यायः ११।
śaunaka uvāca- idānīṃ śrotumicchāmi kathayasva yathārthataḥ | harisvarūpiṇā sākṣādvedavyāsena śāsita 1| nirahaṃkāra he sūta lokānugrahakāraka | kena syātsubhagā nārī pāpinī ca sudurbhagā 2| patipriyāṃga kena syādrūpitā cakṣuṣoḥ sudhā | kena vā jāyate lakṣmīstanme brūhi tapodhana 3| sūta uvāca- yadi puṇyamidaṃ vipra vṛttaṃ paramadurlabham | śṛṇuṣva bhoḥ samāsena kathayāmi vidhānataḥ 4| āsīdbhadraśravā rājā yuge dvāparasaṃjñake | saurāṣṭradeśavāsī ca vedavedāṃgapāragaḥ 5| bhāryā tasya ca saṃjātā nāmnā suraticaṃdrikā | tasyāṃ babhūvuḥ śrīrājñaḥ saptaputrā manoramāḥ 6| tato'bhijātā duhitā suṃdarī satyavādinī | śyāmabālā ca vipreṃdra nāmnā prītikarī pituḥ 7| athaikadā śyāmabālā suvarṇasikatāsu ca | gūḍhairmanoharai ratnaiḥ sakhibhiḥ krīḍituṃ mudā 8| jagāma nīpavṛkṣasya talaṃ paramadurlabham | etasminnaṃtare vipra lakṣmīḥ saṃsāratāriṇī 9| lokānāṃ nītidā sātha samāyātā svayaṃ puraḥ | dhṛtvā ca brāhmaṇīrūpaṃ palitāṃgī ca bhūsura 10| akhilānāṃ ca lokānāṃ śāstū rājñaḥ kṣayaṃ vinā | keṣāṃ kṣudratarāṇāṃ hi gṛhe gacchāmi sāṃpratam 11| iti saṃciṃtya manasā gatā rājaniketanam | suvarṇabhittibhiryuktaṃ patākābhiralaṃkṛtam 12| siṃhadvāramatikramya prāha dauvārikīṃ tataḥ | dvāraṃ jahi hi bho dvāri niyukte śubhalakṣaṇe 13| yāmi vegena paśyāmi rājñīṃ suraticaṃdrikām | tacchrutvā vacanaṃ tasyā ratnadaṃḍakarā ca sā | kokilāvākyavanmuktaṃ paramaṃ harṣamāyayau 14| dvāraniyuktovāca- kiṃ nāma vahase vṛddhe kaḥ patistāvakaḥ punaḥ | āgatāsi kathaṃ kiṃ te kāryyaṃ rājñyāśca darśane | kasmātkiṃ brūhi vipre tvaṃ śrotuṃ kautuhalaṃ hi me 15| vṛddhovāca- śṛṇu poṣye mahārāja patnyā daṃḍakare yadā | śrotuṃ kautūhalaṃ te'sti madāgamanakāraṇam 16| prasiddhā kamalā nāmnā cāhaṃ prāṇeśvaro mama | bhuvaneśa iti khyāto nāmnā dvāravatīpurī 17| tasyāṃ vai varttate poṣye mama prāṇeśvarastataḥ | āgatāhaṃ ratnavetrakare śṛṇu sakautukam 18| mamāgamanakāryaṃ hi vacmīdānīṃ tavāgrataḥ | purāsīdvaiśyakulajā rājñī tava ca duḥkhinī 19| ekasmindivase poṣye patinā kalahaḥ kṛtaḥ | tayā nāryā ca duḥkhinyā tato vai bhartṛpīḍitā 20| bahirbhūya drutaṃ gehādrudaṃtī ca punaḥ punaḥ | tasyāśca rodanaṃ śrutvā cāgatāhaṃ samīpataḥ 21| apṛcchaṃ sarvavṛttāṃtaṃ kathito vai yathārthataḥ | tayā tato vratavaramupadeśaṃ dadāmyaham 22| mamopadeśataḥ sā vai cakre vratavaraṃ mudā | tasya prasādādbho dvāḥsthe saṃjātā sukhitā ca sā 23| kadācidvaiśyakulajā patyā mṛtyorvaśaṃ gatā | samānetuṃ tatastau tu vihitākhilaghātakau 24| kiṃkarānpreṣayāmāsa caṃḍādyāndharmarāṭprabhuḥ | yamājñayā samāyātā yamadūtā bhayaṃkarāḥ 25| baddhvā tau carmapāśena lohamudgarapāṇayaḥ | udyamaṃ cakrire gaṃtuṃ yamasya śaraṇaṃ prati 26| atrāṃtare ca lakṣmyāste dūtā viṣṇuparāyaṇāḥ | samānetuṃ samāyātāḥ śaṃkhacakragadādharāḥ 27| dṛṣṭvā tathāvidhāṃstāṃśca yamadūtāḥ palāyitāḥ | lakṣmīdūtā mahātmānaḥ svaprakāśādayastathā 28| pāśaṃ chittvā samāropya rājahaṃsayute rathe | jagmurlakṣmīpuraṃ sarve sahasākāśavartmanā 29| yāvadvāraṃ vratavaraṃ kṛtvā vaiśyā ca sā tadā | tāvatkalpasahasrāṇi tasthatuḥ kamalāpure 30| puṇyaśeṣasya bhogārthaṃ jātau rājānvaye'dhunā | vrataṃ ca vismṛtau dvāḥsthe rājasaṃpattigarvitau | tasmācca tava tasyāpi copadeśārthamāgatā 31| dvāḥsthovāca- kenaiva tu vidhānena vṛddhe vratavaraṃ kṛtam | kasminmāse vrataṃ śreṣṭhaṃ devatā kā ca pūjyate 32| etanme pṛcchato mātaryathāvadvaktumarhasi | kamalovāca- kārttike ca vyatikrāṃte mārgaśīrṣe samāgate | tasminmāse ca bho poṣye vāsare gurusaṃjñake 33| tataḥ pūrvāhṇasamaye sakalairvratibhirvṛtā | nārāyaṇena sahitāṃ lakṣmīṃ saṃpūjayettataḥ 34| miṣṭaiḥ pāyasayuktaiśca bhuktaiśca khaṃḍamiśritaiḥ | lakṣmīṃ saṃtoṣayetpreṣye tataḥ saṃprārthayedidam 35| trailokyapūjite devi kamale viṣṇuvallabhe | yathā tvamacalā kṛṣṇe tathā bhava mayi sthitā 36| īśvarī kamale devi śaraṇaṃ ca bhavānaghe | nānopahāradravyaiśca lakṣmīmājñāpya toṣayet 37| śāstraiśca pūjayeddevīṃ mahotsavasamanvitām | tato naivedyaśeṣāṃśca datvā brāhmaṇasattamam 38| ātmānaṃ svapatiṃ putrānpoṣye'nyānapi sevakān | dvitīye tu gurorvāre viśeṣaṃ śṛṇu suṃdari 39| citradhūlīpraśastaiśca bhrāṣṭrairgodhūmanirmitaiḥ | toṣayetkamalādevyāḥ kuryyādvai bhaktibhāvataḥ 40| tṛtīye khaṃḍasaṃyuktaṃ dadhyodananivedanam | śāmāka śāli kāsāraiścaturthe pūjayenmudā 41| lakṣmīdevīṃ prayatnena ratnadaṃḍakare tataḥ | lakṣmīdevī prītaye tu brāhmaṇānpūjayeddhanaiḥ 42| vastrālaṃkārabhojyaiśca phalairnānāvidhaistathā | poṣyovāca- atraiva tiṣṭha bho vṛddhe rājñīṃ suraticaṃdrikām 43| vijñāpya tvāṃ nayiṣyāmi mā krodhaṃ kuru sattame | ityuktvā sā tu cārvaṃgī gatā rājñīsamīpataḥ 44| śirasyaṃjalimādhāya poṣyā brahmansamūlataḥ | ārabhya sāṃgaparyaṃtaṃ yadūce kamalālayā 45| tatsarvaṃ kathayāmāsa rājñīṃ suraticaṃdrikām | dvārapālīvacaḥ śrutvā rājñī suraticaṃdrikā 46| jagāma brāhmaṇīpārśvaṃ sagarvā prāha suṃdara | rājñyuvāca- vṛddhe brāhmaṇi kiṃ vṛttaṃ copadeśārthamāgatā 47| kathayasva ciraṃ mahyaṃ bhayaṃ tyaktvā yathāsukham | brāhmaṇyuvāca- tavānītimahaṃ dṛṣṭvā gaṃtumicchāmi caṃcalā 48| kathayiṣyāmi kiṃ duṣṭe vrataṃ paramadurlabham | iṃdirāvāsare cādya cāṃḍālena karoṣi yat 49| taddṛṣṭaṃ mayi kā duṣṭe tadgehe garvite'dhunā | tacchrutvā brāhmaṇīvākyaṃ krodhasaṃraktalocanā 50| jaraṃtīṃ brāhmaṇīṃ caiva prahāraṃ ca cakāra sā | tataḥ sā kamalā vṛddhā kraṃdamānā palāyitā 51| krīḍamānā tataḥ śyāmā brāhmaṇīkrandanadhvanim | āgatāsyāḥ samīpaṃ tu śrutvā bālā tapodhanā 52| śyāmābālovāca- vṛddhe vyathedṛśī kena dattā tubhyaṃ vadasva me | tasyā vacanamākarṇya śokagadgadayā girā 53| kamalā kathitaṃ sarvaṃ vṛttāṃtaṃ dvijasattama | śyāmābālā tataḥ śrutvā vrataṃ paramadurllabham 54| śāstroktavidhinā cakre saśraddhaṃ ca sabhaktitaḥ | trivāre paripūrṇe tu turyavāre samāgate 55| vivāhakarmasaṃsiddhaṃ dvijalakṣmīprasādataḥ | śrīsiddheśvaradevasya nṛpaterbhūpatejasaḥ 56| mālādharo nāma suto gṛhītvā tāṃ gṛhaṃ gataḥ | atha tasyāṃ gatāyāṃ tu brahmanśṛṇuṣva kautukam 57| rājñīgṛhe ca sarvāṇi sthitāni subahūni ca | dravyāṇi kena nītāni na jñātānyapi bhūsura 58| nirvittā buddhihīnā sā cānnavastravivarjitā | upaviṣṭā ca kenāpi gaṃtuṃ ca duhiturgṛham 59| preṣayāmāsa bharttāraṃ kiṃcitprārthanahetave | tasya mālādharasyāpi grāme ca sarasītaṭe 60| kālena kiyatā vipra praviveśa ca kaṣṭataḥ | tasmājjalaṃ samānetuṃ tasyā dāsyaḥ samāgatāḥ | taṃ dṛṣṭvā duḥkhināṃ śreṣṭhaṃ papracchuḥ sānukaṃpitāḥ 61| dāsya ūcuḥ- kastvaṃ kutaḥ samāyāto māṃsaraktavivarjjitaḥ | rūkṣāṃgo rūkṣakeśaśca tatsarvaṃ kathayasva naḥ 62| daridra uvāca- śyāmābālāpitā cāhaṃ saurāṣṭranagarāgataḥ | kathayadhvaṃ ca bho dāsyaḥ śyāmābālāsamīpataḥ 63| tacchrutvā vacanaṃ tasya kautūhalasamanvitāḥ | parasparamukhāḥ sarvā jahasuḥ svapuraṃ gatāḥ 64| śyāmābālā ca kathitaṃ sarvaṃ vṛttaṃ ca bho dvija | śrutvaitadvacanaṃ tāsāṃ preṣayāmāsa sevakān 65| puṣpatailaṃ divyavastraṃ caṃdanaṃ parṇavīṭikām | ghoṭakaṃ ca tathā datvā pitaraṃ prati suṃdarī 66| gatvātha sarve te bhṛtyāḥ kṛtvā suveṣamuttamam | śyāmābālāgṛhaṃ ninyurdevarājagṛhopamam 67| śyāmābālā tataścaiva pitaraṃ dukhināṃ varam | śyālyannaṃ saghṛtaṃ caiva bhojayāmāsa yatnataḥ 68| turyeṣu samatīteṣu divaseṣu tapodhana | preṣayāmāsa taṃ datvā guptapātrasthitaṃ dhanam 69| tataḥ praviśya svagṛhe dhanaṃ pātrāntarasthitam | dadarśāṃgāranicayaṃ ruroda bhṛśaduḥkhitaḥ 70| duhituḥ sadanaṃ yātuṃ niḥsasāra gṛhāgataḥ | tatraiva sarasīkūle praviveśa ca duḥkhinī 71| tathaināṃ ca samānītāṃ yathā syāḥ prāṇavallabhām | tathaiva pūjayāmāsa mātṛsnehātpativratā 72| etasminsamaye vipra lakṣmīvāsaramuttamam | śyāmābālā kārayituṃ manaścakre ca mātaram 73| tasyā mātā daridrāṇi bhuktvā vaikāṃtikepi ca | śāvakānāṃ tu cocchiṣṭaṃ lakṣmīkopasamanvitā 74| iṃdirāyāstṛtīyāni vāsarāṇi gatānyapi | caturthavāsare tāṃ tatkārayāmāsa sā dṛḍham 75| āgatā nagaraṃ sā vai rājñī suraticaṃdrikā | dṛṣṭvā gṛhaṃ tathā divyamiṃdirāyāḥ prasādataḥ 76| śyāmābālā ca vipreṃdra kadācitsamaye punaḥ | māturgṛhaṃ gatā cātha aiśvaryasya didṛkṣayā 77| śyāmābālāṃ tato dūrāddṛṣṭvā saṃkupitā ca sā | na paśyāmi mukhaṃ tasyā ityuktvālakṣitā sthitā 78| gatvā gṛhāṃtarālaṃ ca gṛhītvā saiṃdhavaṃ ca sā | āgatā svagṛhaṃ kiṃcittūṣṇīṃ lakṣmīsamāśritam 79| rājā svāmī ca papraccha tāṃ sādhvīṃ patidevatām | kimānītaṃ tvayā kāṃte kathayasva mamāgrataḥ 80| kāṃtovāca- rājyasāraṃ samānītaṃ darśayiṣyāmi bhojane | ityuktvā sā tadā pākaṃ kṛtvā ca lavaṇaṃ vinā 81| annādikaṃ tato datvā mālādharāya bhūbhuje | tato mālādharo rājā vyaṃjanaṃ lavaṇavarjitam 82| bhuktvā vaiguṇyatāṃ prāpto rājyasāraṃ dadau ca sā | tadā hṛṣṭamanā rājā bhojanaṃ kṛtavāndvija 83| praśaśaṃsa ca tāṃ nārīṃ dhanyādhanyā iti bruvan | etadvrataṃ ca yā nārī na karoti mahādarāt 84| janmajanmani sā nārī daridrā durbhagā bhavet | idaṃ yā śṛṇuyādbhaktyā paṭhedyo vā samāhitaḥ 85| sarvapāpairvinirmukto lakṣmīlokaṃ labhecca saḥ | imāṃ vratakathāṃ yā tu na śrutvā kriyate vratam | tasyā vrataphalaṃ caiva naśyatyeva na saṃśayaḥ 86| iti śrīpādme mahāpurāṇe brahmakhaṃḍe sūtaśaunakasaṃvāde ekādaśo'dhyāyaḥ 11|
English translation
Śaunaka said :
1-3. Now I desire to hear, O you who were actually instructed by Veda Vyāsa , of the nature of Viṣṇu . O you who have no pride, O you who favour the world, tell me properly as to how (i. e. by doing what) a sinful and very miserable woman would be fortunate. By (doing) what would she be dear to her husband, would she be beautiful, and nectar to (his) eyes? O you, rich in penance, tell me by which (means) wealth is produced.
Sūta said :
4. O brāhmaṇa , if (you think) this is a meritorious account, difficult to be had, (then) listen. I shall tell it to you briefly and properly.
5-13. In the yuga called Dvāpara , there was a king by name Bhadraśravas . He was a resident of the Saurāṣṭra country and had mastered the Vedas and the Vedāṅgas . He had a wife by name Suratacandrikā. From her the king got seven attractive sons. Then a beautiful and truthful daughter, Śyāmābālā by name was born. She delighted her father. Once Śyāmābālā went joyfully with her friends to the ground under a nīpa tree, very difficult to be met with, in the golden sands to play with attractive gems (to be) concealed (and then to be discovered). In the meanwhile, O brāhmaṇa, Lakṣmī , rescuing people from the worldly existence and giving (i.e. teaching) them the right course and having taken the form of an old brāhmaṇa lady, herself came (there); and O brāhmaṇa, thinking in her mind (i.e. to herself), ‘Barring the house of the king, the ruler of all the people, to the house of which mean people should I go now?’ she went to the king’s abode which had golden walls and which was adorned with banners. Then having crossed the main gate, she said to the door-keeper: “O you of auspicious characteristics who are appointed at the door, leave it (and report to the queen). I am quickly going and seeing queen Suratacandrikā”.
14. Hearing those words of her, uttered like the note of a cuckoo, (the doorkeeper) holding a golden staff in her hand, was extremely delighted.
The doorkeeper said :
15. O old lady, what is your name? Who is your husband? How have you come (here)? What is your business in seeing (i.e. with) the queen? For what reason (do you want to see her)? What (is your intention), O brāhmaṇa lady? I have curiosi ty to hear it.
The old lady said :
16-18a. Listen, O you (queen’s) employee, O you who hold a jewelled staff (i.e. you who are the doorkeeper) of the great king’s wife, since you have curiosity for (i.e. to know) the reason for my arrival, I am (that) well-known (goddess) named Kamalā , and the lord of the worlds is known as the lord of my life. (My) city is Dvāravatī by name. O employee, the lord of my life lives in that (city). O you having a jewelled staff in your hand, listen with curiosity. I have come from there. Now, to you, I shall tell the reason for my arrival.
18b-26. Formerly (i.e. in a former existence), your queen, born in a vaiśya family, was unhappy. One day, O employee, that unhappy lady quarrelled with her husband, and then tormented by her husband, she, weeping repeatedly, immediately went out of the house. Hearing her weeping, I approached her. I asked her all (her) account, and was properly told. Then I taught her the excellent vow. On my having taught the vow to her, she gladly practised the vow. O you doorkeeper, due to its propitiousness she became happy. Once she, born in a vaiśya family, died with her husband. Then lord Dharmarāja , who brings about the destruction of all, sent his fearful servants to bring the two (to his abode). The fierce messengers came (there) by Yama ’s order. They, with iron hammers in their hands exerted to go to Yama’s abode.
27-31. In the meanwhile, those messengers of Lakṣmī, who were Viṣṇu’s devotees, and who had held conches, discs and maces, came (there) to take them (to her abode). Seeing them like that, Yama’s messengers fled (away). (Then) the magnanimous, self-radiant messengers of Lakṣmī cut off the nooses and having put them in a chariot to which royal swans were yoked, they all suddenly went along the aerial path to Lakṣmī’s city. For so many thousands of kalpas the two lived in Lakṣmī’s city, as many times the excellent vow was practised by the vaiśya lady. To enjoy the remaining religious merit, the two are now born in a royal family. O you doorkeeper, the two, proud of the royal glory, have forgotten the vow. Therefore, to advise her and you also about the vow I have come (here).
The doorkeeper said :
32-33a. O old lady, in what manner is the vow practised? Practised in which month is the vow the best? Which is the deity that is worshipped? O mother, tell properly this to me who am asking you.
Kamalā (i.e. Lakṣmī) said :
33b-43a. O employee (i.e. O doorkeeper), when the month of Kārtika has passed and the month of Mārgaśīrṣa has arrived, in that month, on a day called Thursday, in the morning, a woman surrounded by those who practise the vow, should worship Lakṣmī along with Nārāyaṇa . O you employee, she should propitiate Lakṣmī with sweets (mixed) with sweetened milk, and (articles of) food mixed with candied sugar, and then should pray like this: “O Kamalā (i.e. Lakṣmī), you who are worshipped by the worlds and you who are dear to Viṣṇu; as you are unshakingly (devoted) to Kṛṣṇa (i.e.Viṣṇu), in the same way remain (firmly) in me. O goddess Lakṣmī, you who rule (everything), O sinless one, give me shelter.” Assuring Lakṣmī with many presents, she should please her. She should worship the goddess with great festivity by reciting sacred texts. O employee, then giving the remains of the articles of food to the deity, to the best brāhmaṇa, she should (distribute it among) herself, her husband, sons and other servants. O beautiful lady, listen to the speciality of the second Thursday: She should propitiate Lakṣmī with auspicious fried articles of wheat baked in earthen pots and variegated powders. She should devoutly (worship) Lakṣmī. On the third (Thursday) she should offer present of boiled rice mixed with candied sugar. On the fourth (Thursday) she should carefully and joyfully worship goddess Lakṣmī with excellent śyāmāka and śāli (rice), O you having a jewelled staff in your hand. Then to please goddess Lakṣmī, she should please brāhmaṇas with (i.e. by giving them) money, cloth, ornaments, various articles of food and fruits.
The doorkeeper said :
43b-47a. O old lady, stay here only; informing the queen (of your arrival) I shall take you (to her). O best one, do not be angry.
Saying so, that beautiful lady went to the queen. O brāhmaṇa, that doorkeeper, having put her joined palms on her head told all that Lakṣmī had said from the beginning to the end to queen Suratacandrikā. Having heard the words of the doorkeeper queen Suratacandrikā went near the brāhmaṇa lady, and the beautiful lady proudly spoke to her.
The queen said :
47b-48a. O old brāhmaṇa lady, to advise what have you come here? Tell it to me quickly, as you please and giving up fear.
The brāhmaṇa lady said :
48b-50a. Seeing your immorality I desire to go quickly. O wicked one, what shall I tell you, since today, on the day of (i.e. sacred to) Lakṣmī, O you cāṇḍālā, you are not observing that vow very difficult to have? I have seen that. Now, O proud one, who will (live) in your house?
50b-52. Hearing these words of the brāhmaṇa lady, she (i.e. the queen) with her eyes red with anger struck the old brāhmaṇa lady. Then that old Kamalā (i.e. Lakṣmī) ran away crying. Then that girl Śyāmā , having penance as her wealth, who was playing, came near that brāhmaṇa lady on hearing her weeping.
Śyāmābālā said :
53-61. O old lady, tell me who caused you pain like this.
O best of brāhmaṇas, having heard her words, Kamalā, with her voice faltering due to grief, told her the entire account. Śyāmābālā, having heard from her that vow extremely difficult to have, practised it, as told in the sacred texts, with faith and devotion. When the first three days (i.e. Thursdays) were over, and the fourth (Thursday) arrived, her marriage rite was accomplished by the grace of Lakṣmī. The son named Mālādhara , of king Śrīsiddheśvara, having royal lustre, took her and went home. O brāhmaṇa, listen to the wonder (that took place) when she had gone. O brāhmaṇa, it was not known who had taken away the very many rich articles that were there in the house of the queen. She sat without wealth, without ideas and without food and clothes; and to ask (her daughter) for something, she sent her husband with someone to her daughter’s house. O brāhmaṇa, after some time he went with difficulty to the village of that Mālādhara, and reached the bank of a lake. Her maids had come there to take water from that (lake). Seeing him who was most unhappy, they, sympathising with him, said (to him).
The maids said :
62. Tell us all that—who you who have lost flesh and blood, whose body and hair are rough, are; wherefrom you have come.
The poor man said :
63-67. I am Śyāmābālā’s father. I have come from Saurāṣṭra city. O maids, tell this to Śyāmābālā.
Hearing those words of (i.e. uttered by) him, they who were full of curiosity, laughed after looking at one another’s face, and went to their city; and O brāhmaṇa, they told the entire account to Śyāmābālā. Hearing their words, she sent her servants. The beautiful lady gave her father flowers, oil, divine garments, sandal, betel-leaf and a horse. All the servants also went (to him) and having made him well-dressed, took him to Śyāmābālā’s house, resembling a palace.
68-71. Then Śyāmābālā also carefully fed her father who was most unhappy, with food of śāli (i.e. boiled rice) with ghee . When four days had passed, she gave him money concealed in a vessel, and sent him (back), O you whose wealth is your penance. Then after entering his house, he found that the money that was there in the vessel (had turned into) a heap of charcoals, and being extremely unhappy he wept. He who had come (back) to his (own) house, went out of it to go to his daughter’s house. She also went to the bank of that lake.
72-80. The chaste lady (i.e. Śyāmābālā) honoured her who was dearer to her than her own life, in the same way through affection for her mother. At this time Śyāmābālā thought of making her mother observe (the vow of) the excellent day of Lakṣmī. Her mother, having incurred the wrath of Lakṣmī, experienced poverty, and secretly ate what was left over by young ones of animals. Three days sacred to Lakṣmī passed, and on the fourth one she (i.e. Śyāmābālā) firmly made her observe (that vow). That queen Suratacandrikā came (back) to her city. She saw her house divine like that (i.e. as before) by the grace of Lakṣmī. O best of brāhmaṇas, Śyāmābālā on some occasion again went to the house of her mother with a desire to see her glory. Seeing Śyāmābālā from a distance, she became angry; and saying, “I shall not see her face”, she remained hidden. Going into the interior of the house, and taking salt (from there), she (i.e. Śyāmābālā) quietly came to her house resorted to by Lakṣmī. The king, her lord, asked the chaste lady whose husband was her god: “O dear one, tell me what you have brought.”
The wife said :
81-84. I have brought the essence of the kingdom; I shall show it to you at (the time of) the meal.
Saying so she cooked food without salt and gave food etc. to king Mālādhara. Then king Mālādhara eating the seasoned article without salt, became sad. Then she gave him (the salt) the essence of the kingdom. O brāhmaṇa, then the king’s mind was pleased and he took his meal. And (repeatedly) saying, ‘(You are) blessed, (you are) blessed,’ he praised the woman. One who does not observe this vow with great respect would become poor and luckless in existence after existence.
85-86. He who would listen to this with devotion, or would recite it attentively, would be freed from all sins, and would obtain (i.e. go to) Lakṣmī’s world. There is no doubt that for her who observes this vow without listening to its story, the fruit of the vow is lost.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 43527, revision 335799 (2022-04-15T08:43:17Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365295.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.