Uttara-khaṇḍa · Chapter 216
Sourceनारद उवाच- अतो मधुवनाद्राजन्नयं बदरिकाश्रमः । एकादशधनुर्मात्रे भूभागे व्यवतिष्ठति १। अस्य तीर्थवरस्याहं महिमानं महद्भुतम् । वर्णयामि पुरस्तात्ते यं श्रुत्वा मुच्यते भयात् २। एकस्तु मगधे राजन्देवदासो हि नामतः । ब्राह्मणः सत्यवान्दांतः साक्षाद्धर्म इवापरः ३। निष्णातः सर्वविद्यासु बृहस्पतिरिवापरः । हरिसंतोषको भक्त्या प्रह्लाद इव दैत्यराट् ४। सस्त्रीकोऽपि स्मरं जेता पार्वत्याइव वल्लभः । सदाचारपरो नित्यं विश्वामित्रो मुनिर्यथा ५। मगधेशगृहे मान्यो द्रोणतत्कुरुवेश्मनि । दानशीलः सुपात्रेषु बलिर्दैत्याधिपो यथा ६। तस्यभार्योत्तमा नाम लक्ष्मीरिव गुणोत्तमा । पतिशुश्रूषणपरा यथाजनकनंदिनी ७। तस्यैकश्च सुतो राजन्नंगदो नाम बुद्धिमान् । एका पुत्री तु वलया नाम सल्लक्षमणान्विता ८। तयोर्ज्यायान्सुतः कन्या तस्माद्भूपकनीयसी । तयोर्यथाक्रमं चक्रे विवाहं स द्विजोत्तमः ९। विवाहिता तु सा कन्या ययौ श्वशुरवेश्मनि । शुभलक्षणसंपन्ना कालेन कियता नृप १०। अंगदस्तु महाबुद्धिर्गृहभारं बभार ह । पितृवत्सर्वशास्त्रज्ञो यौवनश्रीविभूषितः ११। एकदा स तु विप्रेंद्रः पुत्रं तं गृहकर्मणि । क्षमं विज्ञाय राजेंद्र निजभार्यामुवाच ह १२। देवदास उवाच । समाकर्णय मे साध्वि कालेऽस्मिन्नुचितं वचः । ततो यदुचितं भद्रे तदह्नाय विधीयताम् १३। एषा जरा समायाता शरीरं पातयिष्यति । अंगान्याकंपयंतीव वात्या पक्वफलं यथा १४। अक्ष्णामपि द्युतिं मंदां नूनमेषा करिष्यति । नक्षत्राणां सचंद्राणां प्रातर्वेलेव सुव्रते १५। स्खलितो पादयोर्मंदां गतिं प्रतिपदक्रमम् । करिष्यति जरा ह्येषा यथानिगडशृंखला १६। तस्मादेषा जरा यावन्न प्रौढा जायते शुभे । आत्मनस्तावदावाभ्यां करणीयं हि तं द्रुतम् १७। गृहपुत्रसुहृद्भ्रातृपितरो हि विनश्वराः । द्रव्यादिकं च सुभगे तेषु सज्जेत नो बुधः १८। अतोऽहं सर्वतीर्थेषु पयर्यटन्विजितेंद्रियः । वानप्रस्थेन विधिना वीक्षिष्ये हरिमीश्वरम् १९। ततः संन्यासमादाय क्वचित्तीर्थोत्तमे शुभे । प्रारब्धकर्मणामंते त्यक्ष्यामि स्वं कलेवरम् २०। एवं चेत्प्राणमुक्तः स्यान्मुक्तिः स्यान्नात्र संशयः । मम श्रीपतिपादाब्जसम्यक्स्थापितचेतसः २१। उत्तमोवाच- पुमान्वा स्त्रीजनो वापि को रमेत विनश्वरे । संसारे माधवं मुक्त्वा नित्याश्रममचेतनः २२। तस्मान्मामपि जीवेश त्वत्पादांबुजसेविनीम् । नीत्वा स्वसंगमे तावद्विश्वाब्धेराशु तारय २३। पुत्रोऽयमंगदः श्रीमान्गृहभारस्य धारणे । समर्थोऽभूत्स्नुषा चेयं कल्याणी तत्सहायिनी २४। पुत्रे समर्थे यो मूढः पुरुषः स्त्रीजनोऽथवा । न विरज्येत यो मूढो वंचितः श्रेयसा हि सः २५। नारद उवाच- एवमन्योन्यमामंत्र्य दंपती तौ रहस्तदा । पुत्रमाहूय कथयांचक्रतुस्त्विदमंगदम् २६। दंपत्यूचतुः- जरागमश्लथद्गात्रावावां विद्धि त्वमंगद । स्वश्रेयसे यतिष्यावः कुत्रचित्पुण्यभूतले २७। हरेराराधनं भक्त्या श्रेयः परममुच्यते । तदर्थमेव निष्कामा यतंते साधवो भुवि २८। विषयेषु न संसक्तिः समत्वं सर्वजंतुषु । येषां हर्षविवादौ च न जातु सुखदुःखयो २९। त एव साधवो लोके गोविंदपदसेविनः । तेषां दर्शनमात्रेण कृतार्थो जायते नरः ३०। तीर्थानि पर्यटन्धीरस्तद्दर्शनसमुत्सुकः । भाग्योदयेन केनापि तद्दर्शनमवाप्नुयात् ३१। तस्माद्भारं कुटुंबस्य भुजयोर्युगदीर्घयोः । आरोप्य नौ विसर्जस्व तीर्थयात्रार्थमंगद ३२। तीर्थयात्राप्रसंगेन कदाचित्साधुदर्शनम् । भवेद्यदि तदा पुत्र द्वयोर्नौ स्यात्कृतार्थता ३३। नारद उवाच- इत्युक्तः पितृभ्यां पुत्रः साधुवादमवादयत् । नारद उवाच- समस्तकुलनिस्तारो भवद्भ्यामयमीरितः ३४। आशु मामवजानीतं किं करोमि भवद्धितम् । अहमाज्ञाकरो नित्यं युवयोः पूज्यपादयोः ३५। पुण्यतीर्थेषु दानार्थं गृहीतं धनमुत्तमम् । नयतं मामपि प्रेष्यं सेवायै निजसंगमम् ३६। नारद उवाच- इत्युक्त्वा धनमादाय गत्वा क्रोशद्वयं तयोः । संगे गृहमगात्ताभ्यां कथंचित्संनिवर्तितः ३७। तौ गृहीत्वा धनं किचिद्विष्णुर्नौ संयतामिति । कंदमूलफलाहारौ तत्रोषित्वा दिनत्रयम् ३८। यदा तस्मात्प्रचलितौ दंपती जगतीपते । तदा मार्गे महान्कश्चित्सिद्धः संमीलितस्तयोः ३९। ताभ्यामुभाभ्यां शिरसा वंदितः स उपाविशत् । उपविष्टस्तदा ताभ्यामिति पृष्टः स सिद्धराट् ४०। को भवान्कुत आयातो किं चिकीर्षति तद्वद । सिद्ध उवाच- सिद्धोऽहं तापसश्रेष्ठ कल्पग्रामे गृहं मम ४१। इंद्रप्रस्थात्समायातो दृष्टं तत्र महाद्भुतम् । तत्रास्ति कपिलः सिद्धो नारायणसमो गुणैः ४२। तस्मादहं पठन्सांख्यं निवसामि तदाश्रमे । एकदा मद्गुरुः श्रीमान्स्वाश्रमात्कपिलो ययौ ४३। बदर्याख्यं महापुण्यं स्नातुं स यमुनाजले । तत्रैकोरण्यमहिषस्तृषार्तो यमुनाजले ४४। प्रविष्टो जलमापीय पूर्वजन्मस्वमस्मरत् । स्मृत्वा स पूर्वकर्माणि महिषोऽरण्यसंभवः ४५। जलान्निसृत्य तरसा ववंदे कपिलं गुरुम् । उवाच नरवाचा च मयि शृण्वति तापसः । यत्तत्ते कथयाम्यद्य शृणु त्वं परमाद्भुतम् ४६। महिष उवाच- भोभो विष्णुकलाभूत सिद्धानां कपिलेश्वर । किं नामेदं महातीर्थं नताय कथयस्व मे ४७। अस्य तीर्थवरस्यांबुस्पर्शाद्वै पूर्वजन्मनि । जाता मम महाभाग पापस्यापि च कर्मणः ४८। सिद्ध उवाच- एवमाकर्ण्य तद्वाक्यं महिषस्य महामुनिः । जानन्नपि च तद्वृत्तं विहस्येदमुवाच ह ४९। कपिल उवाच- भवान्महिषशार्दूल क आसीत्पूर्वजन्मनि । तत्र किं कृतवान्कर्म योनिं येनाप माहिषीम् ५०। महिष उवाच- शृणुष्व मुनिशार्दूल वृत्तं वै पूर्वजन्मनः । अहमासं पुरा राजा कलिंगाधिपतिर्बली ५१। स्वां परां नैव जानामि योषितं काममोहितः । वणिजां साधुवृत्तीनां धनहर्ता निरेनसाम् ५२। निशीथे नगरे राजन् गतभीः पर्यटाम्यहम् । सुंदरीभिः परस्त्रीभिः क्रीडितुं रतिलीलया ५३। यद्गृहे सुंदरीं नारीं पश्यामि स्मरमोहितः । वसामि निशि तत्राहं क्षेत्रे मध्ये गजो यथा ५४। क्रीडित्वा तत्र निःशंकं धनं हृत्वा च तद्गृहात् । स्वगृहं पुनरायामि कियद्भिर्वासरैरहम् ५५। उपविष्टः सभामध्ये दिवा द्वौ पुरबालकौ । अनार्यबाहुयुद्धेन योधयामि निजाग्रतः ५६। नियोधयति यो बालस्तं मत्वा धनिनं बलात् । गृह्णामि तत्पितुर्वित्तं स्वल्पं वा भूरि वा मुने ५७। यः पराजयते तत्र कातरत्वान्महामुने । नायमर्हः पुरे स्थातुं ममेति विनिहन्मि तम् ५८। एवमप्यद्यमारेभे वर्त्तमाने महीपतौ । पौरा नगरमुत्सृज्य प्रययुर्विषयांतरम् ५९। एकदा मुनिशार्दूलो दुर्वासा पर्यटन्महीम् । पुरे मम समायातो दुर्वासा रुद्रसंभवः ६०। मिलित्वा नागराः सर्वे तदाजग्मुस्तदंतिके । प्रणिपत्येदमाहुस्तं स्वदुःखज्ञापकं वचः ६१। पौरा ऊचुः आत्रेय मुनिशार्दूल कृपां कुरु कृपानिधे । अधर्मनिरतं भूपमेनं धर्मेण योजय ६२। भाग्योदयेन केनापि भवानस्माकमागतः । उद्वेलाद्भूपदुःखाब्धेरस्मांस्तारय पोतवत् ६३। धनं लोभयतातेन हृतं नो मुनिपुंगव । दूषिताश्च स्त्रियः साध्व्यः सकामेन निरेनसा ६४। दशवत्सरदेशीया बहवः शिशवो हताः । अगण्य वैगुण्यनिधिरेष भूपो महामुने ६५। महिष उवाच- एवमाकर्ण्य पौराणां वचः स मुनिरत्रिजः । दंड्योयमिति संचित्य सभास्थं मामथा ययौ ६६। दृष्ट्वा हि तं समायांतमवधूतं दिगंबरम् । आवारयमहं भृत्यैर्नेत्ययं दर्शनोचितः ६७। रेणुना सर्वलिप्तांगो महिषाकृतिरेव वै । वार्यतामिति पार्श्वस्थान्बहुशोऽहं समादिशम् ६८। ततस्ते तरसा भृत्यास्तं वारयितुमभ्यगुः । हुंकारेणैव तान्सर्वान्स चक्रे भस्मसान्मुनिः ६९। यज्ञाश्वं रक्षतः स्वस्य पितुस्त्वमिव सागरात् । सर्वशस्तानहं भृत्यान्भस्मीभूतांस्तु तेजसा ७०। आलक्ष्य सहसोत्थाय गृहमावेष्टुमुद्यतः । रेरे पापेति संबोध्य ततो मां मुनिसत्तमः ७१। शशापेति महारण्ये महिषो भव सांप्रतम् । तेनाहमिति शप्तो वै मुक्त्वा राजतनुं तदा ७२। मरुदेशे महारण्ये जातोऽहं महिषो मुने । चिरकालमहं तत्र न्यवसं मुनिपुंगवः ७३। अत्रागतस्तु केनाहं पुण्येन तदपि शृणु । वापीकूपसरस्यस्तु बहबः कारिता मया ७४। सहकारादिवृक्षाणामारोपो विहितः पथि । पुण्येनानेन मे देव पातो न नरकेऽभवत् ७५। तीर्थस्य च मया प्राप्तो ह्यमुष्यजलसंगमः । एतत्ते कथितं सर्वं पूर्वजन्मशुभाशुभम् ७६। येन तीर्थं मया प्राप्तमेतद्योनिश्च माहिषी । अस्यतीर्थवरस्यांबुस्पर्शाज्जातिस्मरोभवम् । कथमस्या असद्योनेर्मुक्तिः स्यात्तन्मुने वद ७७। कपिल उवाच- एतत्तीर्थं महापुण्यं बदर्याख्यं रमापतेः । अत्र स्नाहि द्रुतं कामं स्वचित्तस्थं हि लप्स्यसे ७८। सिद्ध उवाच- एतच्छ्रुत्वा वचस्तस्य महिषस्य महामुने । तत्र तीर्थे वरे स्नातुं प्राविशत्स्वर्गवांछया ७९। स्नात्वा स्वर्गेच्छया तस्मिन्जलात्तटमुपागते । तत्क्षणं गजमारूह्य शक्रः स्वर्गात्समाययौ ८०। इंद्र उवाच- हे कलिंगपते नैजं देहं जहि हि माहिषम् । प्रतिलभ्य वपुर्दिव्यं सममायाहि मे दिवम् । त्वया स्वर्गेच्छया स्नातं प्राप्तं तत्ते सुरास्पदम् ८१। सिद्ध उवाच- इत्युक्तः स तदा तेन त्यक्त्वा देहं तु माहिषम् । दिव्यं वपुः समासाद्य गजराजं समारुहत् ८२। गजराजं समारुह्य स्थित्वा च गगने क्षणम् । प्रणम्य शिरसा देवं तुष्टाव कपिलं मुनिम् ८३। कलिङ्ग उवाच । नमस्ते परमेशान केवलज्ञानहेतवे । सेतवे वेदविद्यानां रिपवे तद्विरोधिनाम् ८४। त्वत्तः प्रवृत्तिः सांख्यस्य जाता तत्वावबोधिनी । देहिनां मायया ग्रस्त चेतसामपि ते विभो ८५। ये वेदविहितं त्यक्त्वा वर्तंते स्वेच्छया मुने । तान्दंडयसि दंड्यांस्त्वं मज्जयंस्तिर्यगादिषु ८६। इंद्रादयो लोकपालाः सर्वे त्वदधिकारिणः । त्वदिच्छामनुवर्तंते भीता दंडकृतो हि ते ८७। त्रयीधर्मविरोद्धारः पूर्वदेवा युगे युगे । अवतीर्य विनाशाय कृता सर्वात्मना त्वया ८८। ये ये त्वया हता नाथ चक्रिणा त्रिदशारयः । ते ते तमोमयीं हित्वा तनुं वैकुंठमभ्यगुः ८९। आज्ञापय जगन्नाथ गंतु मां त्रिदशालयम् । अनुगृह्णीष्व शक्रं च नमंतं वीक्षणामृतैः ९०। प्रसादात्तव देवेश बदर्याख्यस्य च प्रभो । तीर्थस्य स्वतनुं हित्वा तामसीं सात्विकीं गतः ९१। इंद्रेण सह नागेंद्रमारुह्य त्रिदशालयम् । गच्छामि स्वेच्छया नाथ कृपातस्ते कृपानिधेः ९२। सिद्ध उवाच- इत्यभिष्टूय देवेशं कपिलं स कलिंगपः । नमस्कृत्य च तत्पादौ जगाम त्रिदशालयम् ९३। एतन्मयाद्भुतं विप्र दृष्टं बदरिकाश्रमे । गुरुं शुश्रूषमाणेन पापस्यापि विमोक्षणम् ९४। नातः परं त्रिलोक्यां तु तीर्थं सर्वार्थदायकम् । याहि तत्रैव सस्त्रीकः परं श्रेयो यदीच्छसि ९५। अहं यामि समानेतुं बदर्याख्यं गृहान्द्विज । वृद्धं स्वकीय पितरं निस्पृहं मोक्षकामुकम् ९६। नारद उवाच- इति तीर्थवरस्यास्य बदर्याख्यस्य भूपते । महिमानं समुत्कीर्त्य स सिद्धः स्वगृहं ययौ ९७। अथ कालेन कियता स द्विजः सह भार्यया । तीर्थानपर्यटन्धीरः इंद्रप्रस्थेभ्यगादहम् ९८। तेनैव वपुषा राजन्नीतवांस्तौ निजालयम् । ससिद्धोऽपि स्वपितरं गृहादानीय सत्वरः ९९। तत्रैव स्नापयामास तत्तीर्थे मोक्षकामुकम् । सोऽपि श्रीवासुदेवेन वृद्धः सिद्धपिता तदा १००। ततो नीतो निजगृहं वृंदारकविवंदितः । इंद्रप्रस्थांतरगतमिदं सद्बदर्याख्यमीशः स्नानाद्दद्यादखिलजनिता मानसेष्टं पदार्थम् । माहात्म्यं ते नृपनतिमते वर्णितं तस्य पूतं यच्छ्रुत्वा वै पतति न जनो मातृगर्भे कदाचित् १०१। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये बदरिकाश्रमवर्णनंनाम षोडशाधिकद्विशततमोऽध्यायः२१६।
nārada uvāca- ato madhuvanādrājannayaṃ badarikāśramaḥ | ekādaśadhanurmātre bhūbhāge vyavatiṣṭhati 1| asya tīrthavarasyāhaṃ mahimānaṃ mahadbhutam | varṇayāmi purastātte yaṃ śrutvā mucyate bhayāt 2| ekastu magadhe rājandevadāso hi nāmataḥ | brāhmaṇaḥ satyavāndāṃtaḥ sākṣāddharma ivāparaḥ 3| niṣṇātaḥ sarvavidyāsu bṛhaspatirivāparaḥ | harisaṃtoṣako bhaktyā prahlāda iva daityarāṭ 4| sastrīko'pi smaraṃ jetā pārvatyāiva vallabhaḥ | sadācāraparo nityaṃ viśvāmitro muniryathā 5| magadheśagṛhe mānyo droṇatatkuruveśmani | dānaśīlaḥ supātreṣu balirdaityādhipo yathā 6| tasyabhāryottamā nāma lakṣmīriva guṇottamā | patiśuśrūṣaṇaparā yathājanakanaṃdinī 7| tasyaikaśca suto rājannaṃgado nāma buddhimān | ekā putrī tu valayā nāma sallakṣamaṇānvitā 8| tayorjyāyānsutaḥ kanyā tasmādbhūpakanīyasī | tayoryathākramaṃ cakre vivāhaṃ sa dvijottamaḥ 9| vivāhitā tu sā kanyā yayau śvaśuraveśmani | śubhalakṣaṇasaṃpannā kālena kiyatā nṛpa 10| aṃgadastu mahābuddhirgṛhabhāraṃ babhāra ha | pitṛvatsarvaśāstrajño yauvanaśrīvibhūṣitaḥ 11| ekadā sa tu vipreṃdraḥ putraṃ taṃ gṛhakarmaṇi | kṣamaṃ vijñāya rājeṃdra nijabhāryāmuvāca ha 12| devadāsa uvāca | samākarṇaya me sādhvi kāle'sminnucitaṃ vacaḥ | tato yaducitaṃ bhadre tadahnāya vidhīyatām 13| eṣā jarā samāyātā śarīraṃ pātayiṣyati | aṃgānyākaṃpayaṃtīva vātyā pakvaphalaṃ yathā 14| akṣṇāmapi dyutiṃ maṃdāṃ nūnameṣā kariṣyati | nakṣatrāṇāṃ sacaṃdrāṇāṃ prātarveleva suvrate 15| skhalito pādayormaṃdāṃ gatiṃ pratipadakramam | kariṣyati jarā hyeṣā yathānigaḍaśṛṃkhalā 16| tasmādeṣā jarā yāvanna prauḍhā jāyate śubhe | ātmanastāvadāvābhyāṃ karaṇīyaṃ hi taṃ drutam 17| gṛhaputrasuhṛdbhrātṛpitaro hi vinaśvarāḥ | dravyādikaṃ ca subhage teṣu sajjeta no budhaḥ 18| ato'haṃ sarvatīrtheṣu payaryaṭanvijiteṃdriyaḥ | vānaprasthena vidhinā vīkṣiṣye harimīśvaram 19| tataḥ saṃnyāsamādāya kvacittīrthottame śubhe | prārabdhakarmaṇāmaṃte tyakṣyāmi svaṃ kalevaram 20| evaṃ cetprāṇamuktaḥ syānmuktiḥ syānnātra saṃśayaḥ | mama śrīpatipādābjasamyaksthāpitacetasaḥ 21| uttamovāca- pumānvā strījano vāpi ko rameta vinaśvare | saṃsāre mādhavaṃ muktvā nityāśramamacetanaḥ 22| tasmānmāmapi jīveśa tvatpādāṃbujasevinīm | nītvā svasaṃgame tāvadviśvābdherāśu tāraya 23| putro'yamaṃgadaḥ śrīmāngṛhabhārasya dhāraṇe | samartho'bhūtsnuṣā ceyaṃ kalyāṇī tatsahāyinī 24| putre samarthe yo mūḍhaḥ puruṣaḥ strījano'thavā | na virajyeta yo mūḍho vaṃcitaḥ śreyasā hi saḥ 25| nārada uvāca- evamanyonyamāmaṃtrya daṃpatī tau rahastadā | putramāhūya kathayāṃcakratustvidamaṃgadam 26| daṃpatyūcatuḥ- jarāgamaślathadgātrāvāvāṃ viddhi tvamaṃgada | svaśreyase yatiṣyāvaḥ kutracitpuṇyabhūtale 27| harerārādhanaṃ bhaktyā śreyaḥ paramamucyate | tadarthameva niṣkāmā yataṃte sādhavo bhuvi 28| viṣayeṣu na saṃsaktiḥ samatvaṃ sarvajaṃtuṣu | yeṣāṃ harṣavivādau ca na jātu sukhaduḥkhayo 29| ta eva sādhavo loke goviṃdapadasevinaḥ | teṣāṃ darśanamātreṇa kṛtārtho jāyate naraḥ 30| tīrthāni paryaṭandhīrastaddarśanasamutsukaḥ | bhāgyodayena kenāpi taddarśanamavāpnuyāt 31| tasmādbhāraṃ kuṭuṃbasya bhujayoryugadīrghayoḥ | āropya nau visarjasva tīrthayātrārthamaṃgada 32| tīrthayātrāprasaṃgena kadācitsādhudarśanam | bhavedyadi tadā putra dvayornau syātkṛtārthatā 33| nārada uvāca- ityuktaḥ pitṛbhyāṃ putraḥ sādhuvādamavādayat | nārada uvāca- samastakulanistāro bhavadbhyāmayamīritaḥ 34| āśu māmavajānītaṃ kiṃ karomi bhavaddhitam | ahamājñākaro nityaṃ yuvayoḥ pūjyapādayoḥ 35| puṇyatīrtheṣu dānārthaṃ gṛhītaṃ dhanamuttamam | nayataṃ māmapi preṣyaṃ sevāyai nijasaṃgamam 36| nārada uvāca- ityuktvā dhanamādāya gatvā krośadvayaṃ tayoḥ | saṃge gṛhamagāttābhyāṃ kathaṃcitsaṃnivartitaḥ 37| tau gṛhītvā dhanaṃ kicidviṣṇurnau saṃyatāmiti | kaṃdamūlaphalāhārau tatroṣitvā dinatrayam 38| yadā tasmātpracalitau daṃpatī jagatīpate | tadā mārge mahānkaścitsiddhaḥ saṃmīlitastayoḥ 39| tābhyāmubhābhyāṃ śirasā vaṃditaḥ sa upāviśat | upaviṣṭastadā tābhyāmiti pṛṣṭaḥ sa siddharāṭ 40| ko bhavānkuta āyāto kiṃ cikīrṣati tadvada | siddha uvāca- siddho'haṃ tāpasaśreṣṭha kalpagrāme gṛhaṃ mama 41| iṃdraprasthātsamāyāto dṛṣṭaṃ tatra mahādbhutam | tatrāsti kapilaḥ siddho nārāyaṇasamo guṇaiḥ 42| tasmādahaṃ paṭhansāṃkhyaṃ nivasāmi tadāśrame | ekadā madguruḥ śrīmānsvāśramātkapilo yayau 43| badaryākhyaṃ mahāpuṇyaṃ snātuṃ sa yamunājale | tatraikoraṇyamahiṣastṛṣārto yamunājale 44| praviṣṭo jalamāpīya pūrvajanmasvamasmarat | smṛtvā sa pūrvakarmāṇi mahiṣo'raṇyasaṃbhavaḥ 45| jalānnisṛtya tarasā vavaṃde kapilaṃ gurum | uvāca naravācā ca mayi śṛṇvati tāpasaḥ | yattatte kathayāmyadya śṛṇu tvaṃ paramādbhutam 46| mahiṣa uvāca- bhobho viṣṇukalābhūta siddhānāṃ kapileśvara | kiṃ nāmedaṃ mahātīrthaṃ natāya kathayasva me 47| asya tīrthavarasyāṃbusparśādvai pūrvajanmani | jātā mama mahābhāga pāpasyāpi ca karmaṇaḥ 48| siddha uvāca- evamākarṇya tadvākyaṃ mahiṣasya mahāmuniḥ | jānannapi ca tadvṛttaṃ vihasyedamuvāca ha 49| kapila uvāca- bhavānmahiṣaśārdūla ka āsītpūrvajanmani | tatra kiṃ kṛtavānkarma yoniṃ yenāpa māhiṣīm 50| mahiṣa uvāca- śṛṇuṣva muniśārdūla vṛttaṃ vai pūrvajanmanaḥ | ahamāsaṃ purā rājā kaliṃgādhipatirbalī 51| svāṃ parāṃ naiva jānāmi yoṣitaṃ kāmamohitaḥ | vaṇijāṃ sādhuvṛttīnāṃ dhanahartā nirenasām 52| niśīthe nagare rājan gatabhīḥ paryaṭāmyaham | suṃdarībhiḥ parastrībhiḥ krīḍituṃ ratilīlayā 53| yadgṛhe suṃdarīṃ nārīṃ paśyāmi smaramohitaḥ | vasāmi niśi tatrāhaṃ kṣetre madhye gajo yathā 54| krīḍitvā tatra niḥśaṃkaṃ dhanaṃ hṛtvā ca tadgṛhāt | svagṛhaṃ punarāyāmi kiyadbhirvāsarairaham 55| upaviṣṭaḥ sabhāmadhye divā dvau purabālakau | anāryabāhuyuddhena yodhayāmi nijāgrataḥ 56| niyodhayati yo bālastaṃ matvā dhaninaṃ balāt | gṛhṇāmi tatpiturvittaṃ svalpaṃ vā bhūri vā mune 57| yaḥ parājayate tatra kātaratvānmahāmune | nāyamarhaḥ pure sthātuṃ mameti vinihanmi tam 58| evamapyadyamārebhe varttamāne mahīpatau | paurā nagaramutsṛjya prayayurviṣayāṃtaram 59| ekadā muniśārdūlo durvāsā paryaṭanmahīm | pure mama samāyāto durvāsā rudrasaṃbhavaḥ 60| militvā nāgarāḥ sarve tadājagmustadaṃtike | praṇipatyedamāhustaṃ svaduḥkhajñāpakaṃ vacaḥ 61| paurā ūcuḥ ātreya muniśārdūla kṛpāṃ kuru kṛpānidhe | adharmanirataṃ bhūpamenaṃ dharmeṇa yojaya 62| bhāgyodayena kenāpi bhavānasmākamāgataḥ | udvelādbhūpaduḥkhābdherasmāṃstāraya potavat 63| dhanaṃ lobhayatātena hṛtaṃ no munipuṃgava | dūṣitāśca striyaḥ sādhvyaḥ sakāmena nirenasā 64| daśavatsaradeśīyā bahavaḥ śiśavo hatāḥ | agaṇya vaiguṇyanidhireṣa bhūpo mahāmune 65| mahiṣa uvāca- evamākarṇya paurāṇāṃ vacaḥ sa muniratrijaḥ | daṃḍyoyamiti saṃcitya sabhāsthaṃ māmathā yayau 66| dṛṣṭvā hi taṃ samāyāṃtamavadhūtaṃ digaṃbaram | āvārayamahaṃ bhṛtyairnetyayaṃ darśanocitaḥ 67| reṇunā sarvaliptāṃgo mahiṣākṛtireva vai | vāryatāmiti pārśvasthānbahuśo'haṃ samādiśam 68| tataste tarasā bhṛtyāstaṃ vārayitumabhyaguḥ | huṃkāreṇaiva tānsarvānsa cakre bhasmasānmuniḥ 69| yajñāśvaṃ rakṣataḥ svasya pitustvamiva sāgarāt | sarvaśastānahaṃ bhṛtyānbhasmībhūtāṃstu tejasā 70| ālakṣya sahasotthāya gṛhamāveṣṭumudyataḥ | rere pāpeti saṃbodhya tato māṃ munisattamaḥ 71| śaśāpeti mahāraṇye mahiṣo bhava sāṃpratam | tenāhamiti śapto vai muktvā rājatanuṃ tadā 72| marudeśe mahāraṇye jāto'haṃ mahiṣo mune | cirakālamahaṃ tatra nyavasaṃ munipuṃgavaḥ 73| atrāgatastu kenāhaṃ puṇyena tadapi śṛṇu | vāpīkūpasarasyastu bahabaḥ kāritā mayā 74| sahakārādivṛkṣāṇāmāropo vihitaḥ pathi | puṇyenānena me deva pāto na narake'bhavat 75| tīrthasya ca mayā prāpto hyamuṣyajalasaṃgamaḥ | etatte kathitaṃ sarvaṃ pūrvajanmaśubhāśubham 76| yena tīrthaṃ mayā prāptametadyoniśca māhiṣī | asyatīrthavarasyāṃbusparśājjātismarobhavam | kathamasyā asadyonermuktiḥ syāttanmune vada 77| kapila uvāca- etattīrthaṃ mahāpuṇyaṃ badaryākhyaṃ ramāpateḥ | atra snāhi drutaṃ kāmaṃ svacittasthaṃ hi lapsyase 78| siddha uvāca- etacchrutvā vacastasya mahiṣasya mahāmune | tatra tīrthe vare snātuṃ prāviśatsvargavāṃchayā 79| snātvā svargecchayā tasminjalāttaṭamupāgate | tatkṣaṇaṃ gajamārūhya śakraḥ svargātsamāyayau 80| iṃdra uvāca- he kaliṃgapate naijaṃ dehaṃ jahi hi māhiṣam | pratilabhya vapurdivyaṃ samamāyāhi me divam | tvayā svargecchayā snātaṃ prāptaṃ tatte surāspadam 81| siddha uvāca- ityuktaḥ sa tadā tena tyaktvā dehaṃ tu māhiṣam | divyaṃ vapuḥ samāsādya gajarājaṃ samāruhat 82| gajarājaṃ samāruhya sthitvā ca gagane kṣaṇam | praṇamya śirasā devaṃ tuṣṭāva kapilaṃ munim 83| kaliṅga uvāca | namaste parameśāna kevalajñānahetave | setave vedavidyānāṃ ripave tadvirodhinām 84| tvattaḥ pravṛttiḥ sāṃkhyasya jātā tatvāvabodhinī | dehināṃ māyayā grasta cetasāmapi te vibho 85| ye vedavihitaṃ tyaktvā vartaṃte svecchayā mune | tāndaṃḍayasi daṃḍyāṃstvaṃ majjayaṃstiryagādiṣu 86| iṃdrādayo lokapālāḥ sarve tvadadhikāriṇaḥ | tvadicchāmanuvartaṃte bhītā daṃḍakṛto hi te 87| trayīdharmaviroddhāraḥ pūrvadevā yuge yuge | avatīrya vināśāya kṛtā sarvātmanā tvayā 88| ye ye tvayā hatā nātha cakriṇā tridaśārayaḥ | te te tamomayīṃ hitvā tanuṃ vaikuṃṭhamabhyaguḥ 89| ājñāpaya jagannātha gaṃtu māṃ tridaśālayam | anugṛhṇīṣva śakraṃ ca namaṃtaṃ vīkṣaṇāmṛtaiḥ 90| prasādāttava deveśa badaryākhyasya ca prabho | tīrthasya svatanuṃ hitvā tāmasīṃ sātvikīṃ gataḥ 91| iṃdreṇa saha nāgeṃdramāruhya tridaśālayam | gacchāmi svecchayā nātha kṛpātaste kṛpānidheḥ 92| siddha uvāca- ityabhiṣṭūya deveśaṃ kapilaṃ sa kaliṃgapaḥ | namaskṛtya ca tatpādau jagāma tridaśālayam 93| etanmayādbhutaṃ vipra dṛṣṭaṃ badarikāśrame | guruṃ śuśrūṣamāṇena pāpasyāpi vimokṣaṇam 94| nātaḥ paraṃ trilokyāṃ tu tīrthaṃ sarvārthadāyakam | yāhi tatraiva sastrīkaḥ paraṃ śreyo yadīcchasi 95| ahaṃ yāmi samānetuṃ badaryākhyaṃ gṛhāndvija | vṛddhaṃ svakīya pitaraṃ nispṛhaṃ mokṣakāmukam 96| nārada uvāca- iti tīrthavarasyāsya badaryākhyasya bhūpate | mahimānaṃ samutkīrtya sa siddhaḥ svagṛhaṃ yayau 97| atha kālena kiyatā sa dvijaḥ saha bhāryayā | tīrthānaparyaṭandhīraḥ iṃdraprasthebhyagādaham 98| tenaiva vapuṣā rājannītavāṃstau nijālayam | sasiddho'pi svapitaraṃ gṛhādānīya satvaraḥ 99| tatraiva snāpayāmāsa tattīrthe mokṣakāmukam | so'pi śrīvāsudevena vṛddhaḥ siddhapitā tadā 100| tato nīto nijagṛhaṃ vṛṃdārakavivaṃditaḥ | iṃdraprasthāṃtaragatamidaṃ sadbadaryākhyamīśaḥ snānāddadyādakhilajanitā mānaseṣṭaṃ padārtham | māhātmyaṃ te nṛpanatimate varṇitaṃ tasya pūtaṃ yacchrutvā vai patati na jano mātṛgarbhe kadācit 101| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye badarikāśramavarṇanaṃnāma ṣoḍaśādhikadviśatatamo'dhyāyaḥ216|
English translation
Nārada said :
1-12. O king, this Badarikāśrama is situated in the region of just eleven dhanus (i.e. forty-four hastas ) from this Madhuvana . To you I shall describe the wonderful greatness of this excellent holy place. One listening to it is free from fear. O king, there was in Magadha a truthful, restrained brāhmaṇa named Devadāsa , who was, as it were, another Dharma . Proficient in all lores he was, as it were, another Bṛhaspati . Like Prahlāda , the king of demons, he pleased Viṣṇu . Though he had a wife, he had conquered, like Śiva , Cupid. Like the sage Viśvāmitra he was always engaged in good acts. He was honoured in the house of Magadha’s lord, as Droṇa in Kuru ’s house. Like Bali , lord of demons, he was disposed to giving gifts to worthy recipients. His wife by name Uttamā was excellent with virtues like Lakṣmī . She was engaged in serving her husband like Janaka ’s daughter ( Sītā ). He had one intelligent son named Aṅgada ; and he had one daughter Valayā by name, having excellent marks. Of them the son was elder, the daughter was younger, O king. The best brāhmaṇa got them married in due course. O king, that daughter, endowed with auspicious marks, who was married, went to her father-in-law’s house after some time. The very intelligent Aṅgada who knew all holy texts and who was adorned with the splendour of youth, bore the burden (i.e. the responsibility) of the household. Once that best brāhmaṇa, seeing his son to be capable of managing the duties, said to his wife, O best king:
Devadāsa said :
13-21. O good lady, listen to my words proper for this time; (and) then quickly do what is fit, O good one. This old age has come. Causing the limbs to tremble as a storm causes to tremble a ripe fruit, it will cause the body to fall. O you of a good vow, it will also make dull the brightness of the eyes, as the morning time makes dull the brightness of the stars along with the moon. Like an iron fetter this old age will lessen the speed of the stumbling feet at every step. Therefore, O auspicious one, as long as this old age does not become advanced, we should quickly do what is good to us. O fortunate one, a house, sons, friends, brothers, parents are perishable. So also is wealth etc. A wise man is not attached to them. Therefore, I, with my senses controlled, will wander, in the manner of an anchorite, about all holy places and will see Viṣṇu. Then, O auspicious one, taking to renunciation at an excellent holy place, I shall cast my body at the end of the fructification of my karmas . If thus I would be free from life, salvation would be (possible) for me who have properly placed my mind at the lotus-like feet of Lakṣmī’s lord.
Uttamā said :
22-25. What man or woman (except one) having no sense would take delight in the perishable mundane existence, leaving Viṣṇu (i.e. and leave Viṣṇu), the perpetual abode? Therefore, O lord of my life, take me, serving your lotus-like feet with you, and quickly lift me up from the ocean of the worldly existence. This (our) glorious son Aṅgada has become capable of sustaining the burden of the household. This auspicious daughter-in-law will help him. That foolish man or woman, who, when his or her son is capable (of looking after the household), would not be detached, is deprived of bliss.
Nārada said :
26. Having thus talked to each other, that couple called their son Aṅgada on the same day and told him:
The couple said :
27-33. O Aṅgada, know us to have our limbs drooping due to the appearance of old age. At some holy place we shall strive for our spiritual good. Devoutly worshipping Viṣṇu is said to be the highest good. For that only the desireless good people strive on the earth. They who have no attachment for objects of senses, who look equally upon all beings, who are neither delighted nor dejected due to pleasure or pain, are alone the good men, serving the feet of Viṣṇu. By merely seeing them a man is blessed. A wise man, eager to see him (i.e. Viṣṇu), and wandering about the holy places, would see him by good luck. Therefore, O Aṅgada, having placed on your two long arms the burden of (maintaining) the family, allow us to go on a pilgrimage. O son, if, in course of our pilgrimage, we may see a good man, then we would be blessed.
Nārada said :
34-36. Thus addressed by the parents, the son spoke good words: “You have told this to be the emancipation of the entire family. Quickly order me what beneficial thing to you I should do. I always obey the orders of you whose feet are respectable (to me). Take with you the excellent wealth stored by you for giving gifts at holy places. So also take me with you as a servant to serve you.”
Nārada said :
37-4la. Speaking like this, and taking money (with him) he went with them for a couple of krośas ; and somehow sent back by them, he came home. They took some money with them, and thinking, ‘May Viṣṇu come to us’ lived there for three days, eating bulbs, roots and fruits. O king, when the couple set off from that place, they met a siddha on their way. Saluted by both of them with their heads (bent down) he sat down. When the chief of siddhas was seated, they asked him thus: “Tell (us) who you are, wherefrom you have come, what you desire to do”.
The siddha said :
41b-46. O best ascetic, I am a siddha. My house is at Kalpagrāma. I have come from Indraprastha . There I saw a great wonder. There is the siddha Kapila resembling Viṣṇu in merits. Learning Sāṃkhya from him I lived in his hermitage. Once my celebrated teacher, Kapila, went from his hermitage to the very holy (place) called Badarī , to bathe in the water of Yamunā . There one wild buffalo, oppressed by thirst, entered the water of Yamunā, and having drunk it, recollected his former existence. The wild buffalo, having recollected his past deeds, quickly came out of the water and saluted (my) teacher, Kapila; and when I was listening, the buffalo spoke with a human voice, which I (shall) tell you today. Listen to it, (which is) very wonderful.
The buffalo said :
47-48. O you Kapila, O you who are a portion of Viṣṇu, O you lord of the siddhas, tell me who have bowed to you, what the name of this great holy place is. Due to the touch of the water of this excellent holy place, I got (the recollection) of my deeds in the past existence, O illustrious one.
The siddha said :
49. Having heard these words of the buffalo, the great sage, though he knew his account, laughed and said these words:
Kapila said :
50. O best of buffaloes, who were you in your former existence? What deed did you do then, due to which you obtained (i.e. were born in) the stock of the buffalo?
The buffalo said :
51-61. O best sage, listen to the account of my former existence. Formerly I was a king, the mighty chief of Kaliṅga . Deluded by passion I did not know (i.e. discriminate between) my wife and that of another. I took away the wealth of sinless merchants of good conduct. O king(?), I, being fearless, wandered at night in the city to dally with beautiful wives of others. I, deluded by Cupid, at night lived in that house in which I saw a beautiful woman, as an elephant lives in a field. Sporting there fearlessly, and snatching wealth from that house, I returned to my house after a few days. By day I seated in my assembly made two city-lads fight a base duel in front of me. Regarding the boy who put down (the other boy) as rich, I forcibly took the wealth, little or much, of his father. Saying, “This one due to his cowardice is not fit to live in my city”, I killed him who was defeated, O sage. The citizens seeing the king to have begun behaving like this, abandoned the city, and went to another country. Durvāsas , the great sage born of Rudra , while roaming over the earth once came to my city. Then all citizens, gathering together approached him. Saluting him, they spoke to him these words acquainting him with their misery:
The citizens said :
62-71. O son of Atri , O best sage, O treasure of pity, favour us. Turn to piety this king, engrossed in doing unrighteous deeds. Due to the dawn of our good fortune you have come (here). Rescue us like a raft from this ocean of misery due to the king who is transgressing its limits. O best sage, the greedy one took away our wealth. The passionate one spoilt chaste and innocent ladies. Many children aged about ten years were killed by him. O great sage, this king is the store of innumerable faults.
The buffalo said :
Having heard these words of the citizens, that sage, the son of Atri, thinking, ‘He must be punished’, came to my assembly. Seeing the naked sage coming, I stopped him through my servants, saying, “He is not fit to be seen.” I many times ordered my servants: “Stop him whose figure is like that of a buffalo, with his entire body smeared with dust.” Then the servants quickly went tv stop him. Just by means of a ‘hum’ sound the sage reduced all of them to ash, as you did Sagara ’s sons, protecting the sacrificial horse of their father. Seeing the servants to be completely reduced to ash, I quickly got up and was about to enter my house. The best sage, addressing me as “O sinner”, cursed me:
72-77. “Now become a buffalo in a great forest.” Thus cursed by him, I gave up the royal body; I became a buffalo in a great forest in the Maru country, O sage. O best sage, I lived there for a long time. Hear due to which religious merit I have come here. I had got constructed many reservoirs of water, wells, and tanks . I had (also) planted many mango trees on (the sides of) the path. O god, due to that religious merit, I did not fall into a hell. And I got the contact of the water of this holy place. I have thus told you about the righteous and unrighteous deeds in my former birth, due to which I reached this holy place, and due to which I had reached the buffalo’s stock. Due to the touch of the water of this excellent place, I remembered my former existence. O sage, tell me how I shall be free from this miserable stock.
Kapila said :
78. This holy place of Lakṣmī’s lord called Badarī is very meritorious. Bathe here, you will quickly obtain what is in your mind.
The siddha said :
79-80. O great sage, having heard these words of the king, he, desiring heaven, entered (the water of) the holy place to bathe. When, having bathed there with a desire (to go) to heaven, he came to the bank from the water, Indra came therejust at that moment from heaven.
Indra said :
81. O lord of Kaliṅga, give up your body of the buffalo. Receiving a divine body come to my heaven. You bathed (here) with a desire to (reach) heaven; you have secured that abode of gods.
The siddha said :
82-83. Thus addressed by him, he then abandoned his body of buffalo, and securing a divine body, he mounted upon the lord of elephants. Having mounted upon the lord of elephants, and remaining in the air for a moment, and saluting the god with his head bent down, he praised the sage Kapila.
The Kaliṅga-king said :
84-92. O highest lord, salutation to you, the cause of absolute knowledge, the bridge to all Vedic sciences, and an enemy of those who oppose them. The flow of the sāṃkhya (principles) causing the knowledge of the absolute truth among the human beings whose minds are overpowered by illusion, is due to you, O lord. O sage, you punish and throw into stocks of lower animals those who give up what is laid down in the Vedas and behave as they like. All regents of quarters like Indra are under your control. Afraid of you, the chastiser, they do what you desire. You, the soul of all, caused the gods to incarnate in each former yuga to destroy those opposing the practices laid down in the three Vedas. O lord, those enemies of gods who were killed by you, gave up their sorrowful bodies and reached Viṣṇu’s heaven. O lord of the world, order me to go to heaven. Also favour Indra, with your nectar-like glances, who is bowing to you. O lord of gods, by the favour of you and (the holy place) called Badarī, I have given up my miserable body, and have got a virtuous body. O you treasure of grace, by your favour, I am, after moulting upon the lord of elephants, going to heaven willingly.
The siddha said :
93-96. Thus praising Kapila, the lord of gods, and saluting his feet, the Kaliṅga-king went to heaven. O brāhmaṇa, I, attending upon my preceptor, saw this wonder and also liberation from sin at Badarikāśrama. In the three worlds there is no better holy place giving all (desired) objects. If you desire the highest good, go there with your wife. O brāhmaṇa, to take my old father desiring salvation (and) having no other yearning to Badarī, I am going home.
Nārada said :
97-101. O king, after having narrated the greatness of this excellent holy place called Badarī, the siddha went home. Then after some time that brāhmaṇa (Devadāsa) along with his wife, visiting (various) holy places, reached Indraprastha where the two were taken to his own abode by him (i.e. Vāsudeva ) (appearing) in his own body ( corrupt reading ). The siddha also, having quickly brought his father from his house, bathed him, desiring salvation, there only at that excellent holy place. The old father of that siddha, saluted by gods, was also taken to his own abode by Śrī Viṣṇu. This (holy place) called Badarī, is in Indraprastha. The lord would give all the objects desired by the minds of those bathing here. O king of a modest mind, I have described to you its holy greatness. Having heard it, a man will never fall into a mother’s womb (i.e. he will bever be reborn).
Complete chapter-aligned witnesses. Sanskrit Wikisource page 44989, revision 336629 (2022-04-25T13:57:07Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365800.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.