Skip to main content

Pātāla-khaṇḍa · Chapter 103

Chapter 103

Unit 398 of 693Pātāla-khaṇḍa · Chapter 103Pātāla-khaṇḍa · Chapter 1031 source entries

Pātāla-khaṇḍa · Chapter 103

Source

यम उवाच- एतन्माधवमासस्य समासात्किंचिदीरितम् । माहात्म्यं पूर्णिमायाश्च विशेषाद्द्विजसत्तम १। वैशाखमासे मधुसूदनस्य प्रियं य एनं पठतीतिहासम् । स याति कृष्णालयमाशुपूतः कल्पाननेकानिह मोदते च २। धन्यं यशस्यमायुष्यमिदं स्वस्त्ययनं महत् । स्वर्ग्यं श्रीदं सौमनस्यं प्रशस्यमघमर्षणम् ३। इदं माधवमासस्य माहात्म्यं माधवप्रियम् । चरित्रं भूपतेस्तस्य संवादं चावयोरपि ४। श्रुत्वा पठित्वा विधिवदनुमोद्य मनःप्रियम् । भवेद्भक्तिर्भगवति यया स्यात्पापसंक्षयः ५। अथ गच्छ महीदेव देवलोकाद्यथेच्छया । निपात्य भुवि वैदेहं रुदंत्यद्यापि बांधवाः ६। विलप्यमानैरपि बंधुभिस्तैर्न यावदग्नौ तव तच्छरीरम् । प्रक्षिप्यते हंत जवैर्न तावद्याहि स्वयं सुप्त इव प्रबुद्धः ७। ममप्रसादादिह पुण्ययोगः श्रुतो यथावत्तमिमं विधेहि । विधानतो वै समये समंते समागमोंऽते भविता सुरैश्च ८। सूत उवाच- इति देववचः श्रुत्वा नत्वा धर्माधिपं ततः । पुनः पपात स इह परितुष्टमना द्विजः ९। धर्मराजप्रसादेन ततस्तत्र महीतले । संसुप्तइव चोत्तस्थौ बंधुवर्गसमन्वितः १०। विधिमेनं द्विजो भूमौ वर्षेवर्षे च स स्वयम् । स्वयं च कारयामास माधवस्नापनं जनम् ११। यमब्राह्मणसंवादो मयायं परिकीर्तितः । तस्य माधवमासस्य पुण्यस्नानप्रसङ्गतः १२। वैशाखमासे सततं हरिप्रिये स्नानं विदध्याच्च ददाति भक्त्या । दानं च होमं सुकृतं तथा बुधो हरेःपदं तस्य नदुर्ल्लभं कदा १३। यःशृणोत्येकचित्तेनमाहात्म्यंमेषसूर्यजम् । सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् १४। ऋषय ऊचुः - सूतसूत महाप्राज्ञ त्वयाऽतिकरुणात्मना । वैशाखमासमाहात्म्यं कीर्तितं पापनाशनम् १५। नियमा मधुहन्तुर्ये माधवे कथितास्त्वया । पूजनं स्नानदानाद्यं श्रौतस्मार्तविधानतः १६। यथा च माधवो देवः प्रीयते पापनाशनः । अधुना श्रोतुमिच्छामो ध्यानं तस्य महात्मनः १७। कृष्णस्य भक्तवृन्दानां प्रियस्य भवतारणम् १८। सूत उवाच- शृणुध्वं मुनयः सर्वे कृष्णस्य जगदात्मनः । गोगोपगोपीप्राणस्य वृन्दावनचरस्य च १९। एकदा नारदः पृष्टो गौतमेन द्विजोत्तमाः । स तस्मै प्राह यद्ध्यानं तद्वक्ष्ये पापनाशनम् २०। नारद उवाच- सुमप्रकरसौरभोद्गलितमाध्विकाद्युल्लसत्सुशाखिनवपल्लवप्रकरनम्र शोभायुतम् । प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितं स्मरेत सततं शिवं शितमतिः सुवृन्दावनम् २१। विकाशि सुमनोरसास्वदनमंजुलैः संचरच्छिलीमुखमुखोद्गतैर्मुखरितान्तरं झंकृतैः । कपोतशुकसारिकापरभृतादिभिः पत्रिभिर्विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् २२। कलिन्ददुहितुश्च लल्लहरिविप्लुषां वाहिभिर्विनिद्र सरसीरुहोदररजश्च योद्धूसरैः । प्रदीपित मनोभवव्रजविलासिनी वाससां विलोलनपरैर्निषेवितमनारतं मारुतैः २३। प्रवालनवपल्लवं मरकतच्छदं मौक्तिकप्रभाप्रकरकोरकं कमलरागनानाफलम् । स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं तदन्तरपिकल्पकाङ्घ्रिपमुदञ्चितं चिन्तयेत् २४। सुहेमशिखराचलेउदितभानुवद्भासुरामधोऽस्य कनकस्थलीममृतशीकरासारिणः । प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां स्मरेत्पुनरतन्द्रितो विगतषट्तरङ्गांबुधः २५। तद्रत्नकुट्टिमनिविष्टमहिष्ठयोगपीठेऽष्टपत्रमरुणं कमलं विचिन्त्य । उद्यद्विरोचनसरोचिरमुष्यमध्ये संचिन्तयेत्सुखनिविष्टमथोमुकुन्दम् २६। सुत्रामहेति दलिताञ्जनमेघपुञ्जप्रत्यग्रनीलजलजन्मसमानभासम् । सुस्निग्धनीलघनकुञ्चितकेशजालं राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् २७। रोलम्बलालितसुरद्रुमसूनुसंपद्युक्तं समुत्कचनवोत्पलकर्णपूरम् । लोलालिभिः स्फुरितभालतलप्रदीप्तगोरोचनातिलकमुज्ज्वलचिल्लिचापम् २८। आपूर्णशारदगताङ्क शशाङ्कबिम्बकान्ताननं कमलपत्रविशालनेत्रम् । रत्नस्फुरन्मकरकुण्डलरश्मिदीप्तगण्डस्थलीमुकुरमुन्नतचारुनासम् २९। सिन्दूरसुन्दरतराधरमिन्दुकुन्दमन्दारमन्दहसितद्युतिदीपिताशम् । वन्यप्रवालकुसुमप्रचयावकॢप्तग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ३०। मत्तभ्रमद्भ्रमरघुष्टविलम्बमानं संतानकप्रसरदामपरिष्कृतांसम् । हारावलीभगणराजितपीवरोरुव्योमस्थलीलसितकौस्तुभभानुमन्तम् ३१। श्रीवत्सलक्षणसुलक्षितमुन्नतांसमाजानुपीनपरिवृत्तसुजातबाहुम् । आबन्धुरोदरमुदारगभीरनाभिं भृङ्गाङ्गनानि करमंजुलरोमराजिम् ३२। नानामणिप्रघटिताङ्गदकङ्कणोर्मि ग्रैवेयसारसननूपुरतुन्दबन्धम् । दिव्याङ्गरागपरिपिञ्जरिताङ्गयष्टिमापीतवस्त्रपरिवीतनितम्बबिम्बम् ३३। चारूरुजानुमनुवृत्तमनोज्ञजङ्घं कान्तोन्नतप्रपदनिन्दित कूर्मकान्तिम् । माणिक्यदर्पणलसन्नखराजराजद्रक्ताङ्गुलिच्छदनुसुन्दरपादपद्मम् ३४। मत्स्याङ्कुशारिदरकेतुयवाब्जवज्रैः संलक्षितारुणकराङ्घ्रितलाभिरामम् । लावण्यसारसमुदायविनिर्मिताङ्गं सौन्दर्यनिन्दितमनोभव देहकान्तिम् ३५। आस्यारविन्दपरिपूरितवेणुरन्ध्रलोलत्कराङ्गुलिसमीरितदिव्यरागैः । शश्वद्भवैः कृतनिविष्टसमस्तजन्तुसंतानसंनतिमनन्तसुखाम्बुराशिम् ३६। गोभिर्मुखाम्बुजविलीनविलोचनाभिरूधोभरस्खलितमन्थरमन्दगाभिः । दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभिरालम्बिवालधिलताभिरथाभिवीतम् ३७। संप्रस्नुतस्तनविभूषणपूर्णनिश्चलास्याद्दृढक्षरितफेनिलदुग्धमुग्धैः । वेणुप्रवर्तितमनोहरमन्दगीतदत्तोच्चकर्णयुगलैरपितर्णकैश्च ३८। प्रत्यग्रशृङ्गमृदुमस्तकसंप्रहारसंरम्भभावनविलोलखुराग्रपातैः । आमेदुरैर्बहुलसास्नगलैरुदग्रपुच्छैश्च वत्सतरवत्सतरीनिकायैः ३९। हम्भारवक्षुभितदिग्वलयैर्महद्भिरध्युक्षभिः पृथुककुद्भरभारखिन्नैः । उत्तम्भितश्रुतिपुटीपरिपीतवंशध्वानामृतोद्धतविकासिविशालघोणैः ४०। गोपैः समानगुणशीलवयोविलासवेशैश्च मूर्छितकलस्वनवेणुवीणैः । मन्दोच्चतारपटुगानपरैर्विलोलदोर्वल्लरीललितलास्यविधानदक्षैः ४१। जङ्घान्तपीवरकटीरतटीनिबद्धव्यालोलकिङ्किणिघटारणितैरटद्भिः । मुग्धैस्तरक्षुनखकल्पितकान्तभूषैरव्यक्तमंजुवचनैः पृथुकैः परीतम् ४२। अथ सुललितगोपसुन्दरीणां पृथुकबरीषनितम्बमन्थराणाम् । गुरुकुचभरभंगुरावलग्नत्रिवलिविजृम्भितरोमराजिभाजाम् ४३। तदतिरुचिरचारुवेणुवाद्यामृतरसपल्लविताङ्गजाङ्घ्रिपस्य । मुकुलविमलरम्यरूढरोमोद्गमसमलंकृतगात्रवल्लरीणाम् ४४। तदतिरुचिर मन्दहासचन्द्रातपपरिजृम्भितरागवारिराशेः । तरलतरतरङ्गभङ्गविप्रुट्प्रकरघनश्रमबिन्दुसंततानाम् ४५। तदतिललितमन्दचिल्लिचापच्युतनिशितेक्षणमारबाणवृष्ट्या । दलितसकलमर्मविह्वलाङ्गप्रविसृतदुःसहवेपथुव्यथानाम् ४६। तदतिरुचिरवेषरूपशोभामृतरसपानविधानलालसानाम् । प्रणयसलिलपूरवाहिनीनामलसविलोलविलोचनाम्बुजानाम् ४७। विस्रंसत्कबरीकलापविगलत्फुल्लत्प्रसूनास्रवन् । माध्वीलम्पटचञ्चरीकघटयासंसेवितानां मुहुः । मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्युल्लस-। न्नीवीविश्लथमानचीनसिचयान्तार्चिर्नितम्बत्विषाम् ४८। स्खलितलसितपादाम्भोजमन्दाभिघातच्छुरितमणितुलाकोट्याकुलाशामुखानाम् । चलदधरदलानांकुड्मलापक्ष्मलाक्षि- द्वयसरसिरुहाणामुल्लसत्कुण्डलानाम् ४९। द्राघिष्ठश्वसनसमीरणाभितापप्रम्लानीभवदरुणौष्ठपल्लवानाम् । नानोपायनविलसत्कराम्बुजानामालीभिः सततनिषेवितं समन्तात् ५०। तासामायतलोलनीलनयनव्याकोशलीनाम्बुज- स्रग्भिः संपरिपूजिताखिलतनुं नानाविलासास्पदम् । तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादिनीं- बिभ्राणं प्रणयान्मदाक्षिमधुहृन्मालां मनोहारिणीम् ५१। गोपीगोपपशूनां बहिः स्मरेदग्रतोऽस्य गीर्वाणघटांवित्तार्थिनीं विरिञ्चित्रिनयनशतमन्युपूर्विकां स्तोत्रपराम् ५२। तद्वद्दक्षिणतो मुनिनिकरं दृढधर्मवाञ्छया समाम्नायपरम् । योगीन्द्रानथ पृष्ठे मुमुक्षमाणान्समाधिना तु सनकाद्यान् ५३। सव्ये सकान्तानथ यक्षसिद्धगन्धर्वविद्याधरचारणांश्च । सकिन्नरानप्सरसश्च मुख्याः कामार्थिनीर्नर्तनगीतवाद्यैः ५४। शङ्खेन्दुकुन्दधवलं सकलागमज्ञं सौदामिनीततिपिशङ्गजटाकलापम् । तत्पादपङ्कजगताममलां च भक्तिं वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ५५। नानाविध श्रुतिगुणान्वितसप्तरागग्रामत्रयीगतमनोहरमूर्छनाभिः । संप्रीणयन्तमुदिताभिरपि प्रभक्त्या संचिन्तयन्नभसि मां द्रुहिणप्रसूतम् ५६। इति ध्यात्वाऽत्मानं पटुविशदधीर्नन्दतनयं नरो बुद्ध्यैवाऽर्घप्रभृतिभिरनिन्द्योपहृतिभिः । यजेद्भूयो भक्त्या स्ववपुषि बहिष्ठैश्च विभवैरिति प्रोक्तं सर्वं यदभिलषितं भूसुरवराः ५७। इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये त्र्युत्तरशततमोऽध्यायः १०३।

yama uvāca- etanmādhavamāsasya samāsātkiṃcidīritam | māhātmyaṃ pūrṇimāyāśca viśeṣāddvijasattama 1| vaiśākhamāse madhusūdanasya priyaṃ ya enaṃ paṭhatītihāsam | sa yāti kṛṣṇālayamāśupūtaḥ kalpānanekāniha modate ca 2| dhanyaṃ yaśasyamāyuṣyamidaṃ svastyayanaṃ mahat | svargyaṃ śrīdaṃ saumanasyaṃ praśasyamaghamarṣaṇam 3| idaṃ mādhavamāsasya māhātmyaṃ mādhavapriyam | caritraṃ bhūpatestasya saṃvādaṃ cāvayorapi 4| śrutvā paṭhitvā vidhivadanumodya manaḥpriyam | bhavedbhaktirbhagavati yayā syātpāpasaṃkṣayaḥ 5| atha gaccha mahīdeva devalokādyathecchayā | nipātya bhuvi vaidehaṃ rudaṃtyadyāpi bāṃdhavāḥ 6| vilapyamānairapi baṃdhubhistairna yāvadagnau tava taccharīram | prakṣipyate haṃta javairna tāvadyāhi svayaṃ supta iva prabuddhaḥ 7| mamaprasādādiha puṇyayogaḥ śruto yathāvattamimaṃ vidhehi | vidhānato vai samaye samaṃte samāgamoṃ'te bhavitā suraiśca 8| sūta uvāca- iti devavacaḥ śrutvā natvā dharmādhipaṃ tataḥ | punaḥ papāta sa iha parituṣṭamanā dvijaḥ 9| dharmarājaprasādena tatastatra mahītale | saṃsuptaiva cottasthau baṃdhuvargasamanvitaḥ 10| vidhimenaṃ dvijo bhūmau varṣevarṣe ca sa svayam | svayaṃ ca kārayāmāsa mādhavasnāpanaṃ janam 11| yamabrāhmaṇasaṃvādo mayāyaṃ parikīrtitaḥ | tasya mādhavamāsasya puṇyasnānaprasaṅgataḥ 12| vaiśākhamāse satataṃ haripriye snānaṃ vidadhyācca dadāti bhaktyā | dānaṃ ca homaṃ sukṛtaṃ tathā budho hareḥpadaṃ tasya nadurllabhaṃ kadā 13| yaḥśṛṇotyekacittenamāhātmyaṃmeṣasūryajam | sarvapāpavinirmukto yāti viṣṇoḥ paraṃ padam 14| ṛṣaya ūcuḥ - sūtasūta mahāprājña tvayā'tikaruṇātmanā | vaiśākhamāsamāhātmyaṃ kīrtitaṃ pāpanāśanam 15| niyamā madhuhanturye mādhave kathitāstvayā | pūjanaṃ snānadānādyaṃ śrautasmārtavidhānataḥ 16| yathā ca mādhavo devaḥ prīyate pāpanāśanaḥ | adhunā śrotumicchāmo dhyānaṃ tasya mahātmanaḥ 17| kṛṣṇasya bhaktavṛndānāṃ priyasya bhavatāraṇam 18| sūta uvāca- śṛṇudhvaṃ munayaḥ sarve kṛṣṇasya jagadātmanaḥ | gogopagopīprāṇasya vṛndāvanacarasya ca 19| ekadā nāradaḥ pṛṣṭo gautamena dvijottamāḥ | sa tasmai prāha yaddhyānaṃ tadvakṣye pāpanāśanam 20| nārada uvāca- sumaprakarasaurabhodgalitamādhvikādyullasatsuśākhinavapallavaprakaranamra śobhāyutam | praphullanavamañjarīlalitavallarīveṣṭitaṃ smareta satataṃ śivaṃ śitamatiḥ suvṛndāvanam 21| vikāśi sumanorasāsvadanamaṃjulaiḥ saṃcaracchilīmukhamukhodgatairmukharitāntaraṃ jhaṃkṛtaiḥ | kapotaśukasārikāparabhṛtādibhiḥ patribhirvirāṇitamitastato bhujagaśatrunṛtyākulam 22| kalindaduhituśca lallaharivipluṣāṃ vāhibhirvinidra sarasīruhodararajaśca yoddhūsaraiḥ | pradīpita manobhavavrajavilāsinī vāsasāṃ vilolanaparairniṣevitamanārataṃ mārutaiḥ 23| pravālanavapallavaṃ marakatacchadaṃ mauktikaprabhāprakarakorakaṃ kamalarāganānāphalam | sthaviṣṭhamakhilartubhiḥ satatasevitaṃ kāmadaṃ tadantarapikalpakāṅghripamudañcitaṃ cintayet 24| suhemaśikharācaleuditabhānuvadbhāsurāmadho'sya kanakasthalīmamṛtaśīkarāsāriṇaḥ | pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaretpunaratandrito vigataṣaṭtaraṅgāṃbudhaḥ 25| tadratnakuṭṭimaniviṣṭamahiṣṭhayogapīṭhe'ṣṭapatramaruṇaṃ kamalaṃ vicintya | udyadvirocanasarociramuṣyamadhye saṃcintayetsukhaniviṣṭamathomukundam 26| sutrāmaheti dalitāñjanameghapuñjapratyagranīlajalajanmasamānabhāsam | susnigdhanīlaghanakuñcitakeśajālaṃ rājanmanojñaśitikaṇṭhaśikhaṇḍacūḍam 27| rolambalālitasuradrumasūnusaṃpadyuktaṃ samutkacanavotpalakarṇapūram | lolālibhiḥ sphuritabhālatalapradīptagorocanātilakamujjvalacillicāpam 28| āpūrṇaśāradagatāṅka śaśāṅkabimbakāntānanaṃ kamalapatraviśālanetram | ratnasphuranmakarakuṇḍalaraśmidīptagaṇḍasthalīmukuramunnatacārunāsam 29| sindūrasundaratarādharamindukundamandāramandahasitadyutidīpitāśam | vanyapravālakusumapracayāvakḷptagraiveyakojjvalamanoharakambukaṇṭham 30| mattabhramadbhramaraghuṣṭavilambamānaṃ saṃtānakaprasaradāmapariṣkṛtāṃsam | hārāvalībhagaṇarājitapīvaroruvyomasthalīlasitakaustubhabhānumantam 31| śrīvatsalakṣaṇasulakṣitamunnatāṃsamājānupīnaparivṛttasujātabāhum | ābandhurodaramudāragabhīranābhiṃ bhṛṅgāṅganāni karamaṃjularomarājim 32| nānāmaṇipraghaṭitāṅgadakaṅkaṇormi graiveyasārasananūpuratundabandham | divyāṅgarāgaparipiñjaritāṅgayaṣṭimāpītavastraparivītanitambabimbam 33| cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadanindita kūrmakāntim | māṇikyadarpaṇalasannakharājarājadraktāṅgulicchadanusundarapādapadmam 34| matsyāṅkuśāridaraketuyavābjavajraiḥ saṃlakṣitāruṇakarāṅghritalābhirāmam | lāvaṇyasārasamudāyavinirmitāṅgaṃ saundaryaninditamanobhava dehakāntim 35| āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ | śaśvadbhavaiḥ kṛtaniviṣṭasamastajantusaṃtānasaṃnatimanantasukhāmburāśim 36| gobhirmukhāmbujavilīnavilocanābhirūdhobharaskhalitamantharamandagābhiḥ | dantāgradaṣṭapariśiṣṭatṛṇāṅkurābhirālambivāladhilatābhirathābhivītam 37| saṃprasnutastanavibhūṣaṇapūrṇaniścalāsyāddṛḍhakṣaritapheniladugdhamugdhaiḥ | veṇupravartitamanoharamandagītadattoccakarṇayugalairapitarṇakaiśca 38| pratyagraśṛṅgamṛdumastakasaṃprahārasaṃrambhabhāvanavilolakhurāgrapātaiḥ | āmedurairbahulasāsnagalairudagrapucchaiśca vatsataravatsatarīnikāyaiḥ 39| hambhāravakṣubhitadigvalayairmahadbhiradhyukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ | uttambhitaśrutipuṭīparipītavaṃśadhvānāmṛtoddhatavikāsiviśālaghoṇaiḥ 40| gopaiḥ samānaguṇaśīlavayovilāsaveśaiśca mūrchitakalasvanaveṇuvīṇaiḥ | mandoccatārapaṭugānaparairviloladorvallarīlalitalāsyavidhānadakṣaiḥ 41| jaṅghāntapīvarakaṭīrataṭīnibaddhavyālolakiṅkiṇighaṭāraṇitairaṭadbhiḥ | mugdhaistarakṣunakhakalpitakāntabhūṣairavyaktamaṃjuvacanaiḥ pṛthukaiḥ parītam 42| atha sulalitagopasundarīṇāṃ pṛthukabarīṣanitambamantharāṇām | gurukucabharabhaṃgurāvalagnatrivalivijṛmbhitaromarājibhājām 43| tadatiruciracāruveṇuvādyāmṛtarasapallavitāṅgajāṅghripasya | mukulavimalaramyarūḍharomodgamasamalaṃkṛtagātravallarīṇām 44| tadatirucira mandahāsacandrātapaparijṛmbhitarāgavārirāśeḥ | taralatarataraṅgabhaṅgavipruṭprakaraghanaśramabindusaṃtatānām 45| tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā | dalitasakalamarmavihvalāṅgapravisṛtaduḥsahavepathuvyathānām 46| tadatiruciraveṣarūpaśobhāmṛtarasapānavidhānalālasānām | praṇayasalilapūravāhinīnāmalasavilolavilocanāmbujānām 47| visraṃsatkabarīkalāpavigalatphullatprasūnāsravan | mādhvīlampaṭacañcarīkaghaṭayāsaṃsevitānāṃ muhuḥ | māronmādamadaskhalanmṛdugirāmālolakāñcyullasa-| nnīvīviślathamānacīnasicayāntārcirnitambatviṣām 48| skhalitalasitapādāmbhojamandābhighātacchuritamaṇitulākoṭyākulāśāmukhānām | caladadharadalānāṃkuḍmalāpakṣmalākṣi- dvayasarasiruhāṇāmullasatkuṇḍalānām 49| drāghiṣṭhaśvasanasamīraṇābhitāpapramlānībhavadaruṇauṣṭhapallavānām | nānopāyanavilasatkarāmbujānāmālībhiḥ satataniṣevitaṃ samantāt 50| tāsāmāyatalolanīlanayanavyākośalīnāmbuja- sragbhiḥ saṃparipūjitākhilatanuṃ nānāvilāsāspadam | tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ- bibhrāṇaṃ praṇayānmadākṣimadhuhṛnmālāṃ manohāriṇīm 51| gopīgopapaśūnāṃ bahiḥ smaredagrato'sya gīrvāṇaghaṭāṃvittārthinīṃ viriñcitrinayanaśatamanyupūrvikāṃ stotraparām 52| tadvaddakṣiṇato muninikaraṃ dṛḍhadharmavāñchayā samāmnāyaparam | yogīndrānatha pṛṣṭhe mumukṣamāṇānsamādhinā tu sanakādyān 53| savye sakāntānatha yakṣasiddhagandharvavidyādharacāraṇāṃśca | sakinnarānapsarasaśca mukhyāḥ kāmārthinīrnartanagītavādyaiḥ 54| śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāminītatipiśaṅgajaṭākalāpam | tatpādapaṅkajagatāmamalāṃ ca bhaktiṃ vāñchantamujjhitatarānyasamastasaṅgam 55| nānāvidha śrutiguṇānvitasaptarāgagrāmatrayīgatamanoharamūrchanābhiḥ | saṃprīṇayantamuditābhirapi prabhaktyā saṃcintayannabhasi māṃ druhiṇaprasūtam 56| iti dhyātvā'tmānaṃ paṭuviśadadhīrnandatanayaṃ naro buddhyaivā'rghaprabhṛtibhiranindyopahṛtibhiḥ | yajedbhūyo bhaktyā svavapuṣi bahiṣṭhaiśca vibhavairiti proktaṃ sarvaṃ yadabhilaṣitaṃ bhūsuravarāḥ 57| iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāhātmye tryuttaraśatatamo'dhyāyaḥ 103|

English translation

Yama said :

1-8. O best brāhmaṇa , I have narrated in brief some importance of the month of Vaiśākha , especially of the full-moon day. He who recites this account dear to Viṣṇu in the month of Vaiśākha, getting purified quickly goes to Viṣṇu’s abode and gets delighted (there) for many kalpas . This (description of the) greatness of the month of Vaiśākha, the life of the king and our dialogue are blessed, give fame, long life, are a great means of securing prosperity, lead to heaven, give prosperity, delight, are praiseworthy and destroy sins. Having heard and recited it duly, and delighting the one dear to the mind, there would be (i.e. take place) devotion, due to which there would be the destruction of sins. O brāhmaṇa go, as you desire, from the world of gods. Your kinsmen, having dropped (i.e. put) your body on the ground, are still weeping. Go, as it were, you have just got up from the sleep, before your body is quickly thrown (i.e. put) into fire by your kinsmen that are weeping. By my favour you have heard this path of religious merit. Do it properly. By doing it, you will be united with gods at the (proper) time.

Sūta said :

9-12. The brāhmaṇa, having heard these words of the god, and having saluted the lord of Dharma (i.e. Yama ), and with his mind pleased, again fell down on the ground due to the favour of Yama from there; and being attended by his kinsmen, he got up as if he had been asleep. The brāhmaṇa himself performed this rite on the earth year after year, and made men bath in the month of Vaiśākha. On the occasion of the meritorious bath in the month of Vaiśākha, I have told you this dialogue between Yama and the brāhmaṇa.

13-14. To him, the wise one, who would bathe in the month of Vaiśākha, dear to Viṣṇu, and gives gifts, (performs) sacrifices and good deeds with great devotion, the place of Viṣṇu is not difficult to get. He who with a concentrated mind listens to this greatness, due to the Sun’s being in Aries, goes, being freed from all sins, to the highest place of Viṣṇu.

The sages said :

15-18. O Sūta , O very wise Sūta, you, of a very kind heart, have told (us) the greatness of the month of Vaiśākha which destroys sins. You have (also) told us the restraints which are to be observed, and also the worship, bath (to be done and) gifts (to be given) according to the statements in the sacred texts and the codes of law, so also (you have told us) how Viṣṇu, who destroys sins, is pleased. Now we desire to hear about the meditation that liberates one from the worldly existence, of the magnanimous Kṛṣṇa dear to his hosts of devotees.

Sūta said :

19-20. O sages, all of you (now) listen to (the account) of Kṛṣṇa, the soul of the world, the life of the cows, the cowherds and the cowherdesses, and moving in Vṛndāvana . O brāhmaṇas , once Gautama asked Nārada (about this). I shall tell you about that meditation which he had told him.

Nārada said :

21-25. A man of sharp intellect should always remember the excellent Vṛndāvana which appears forth with the fragrant honey dropping from the host of flowers; which is endowed with beauty, being bent due to the mass of new sprouts of good trees; which is surrounded by creepers charming with blossoming fresh sprouts; which is auspicious. He should think of the desire-yielding tree in it, which (tree) was resounding with the hummings of the wandering bees, which were coming out from their mouths and which were sweet due to their enjoying the honey of the blooming flowers; and also resounding with the birds like pigeons, parrots, sārikās and cuckoos; which was full of (the peacocks) the enemies of serpents, dancing here and there; which was constantly served by breezes carrying the drops from the tossing waves of ( Yamunā ) the daughter of Kalinda , which (breezes) were dusty due to the mass of pollen from the interiors of full-blown lotuses, which were intent upon tossing about the garments of the women from Vraja with their feeling ofsex inflamed; which had shoots and new sprouts, the leaves of which were like emeralds, the buds of which were like the mass of the lustre of pearls, which had many fruits of the colour of lotuses; which was the greatest; which was always served by all the seasons; which gave the desired objects. A cautious, wise man should remember a golden ground which is bright like the sun risen on the mountain with bright golden peaks; which has lustrous jewelled floor; which is shining with the pollen of flowers: which has six parts under it (i.e. the tree) having a shower of the drops of nectar.

26-51. Thinking of the eight-petalled tawny lotus on the greatest seat for abstract meditation, arranged on that jewelled floor, and bright like the sun, one should think of Mukunda (i.e. Kṛṣṇa) seated comfortably in it; (of Mukunda) (who was) like the mass of clouds of split up collyrium; and who was bright like a fresh blue lotus; whose mass of hair was very glossy, dark, dense and curved; whose crest of the peacocks’ tails was bright and charming; who was endowed with the flowers of the divine tree fondled by bees; whose ear ornament was a blooming fresh lotus; who had a bright mark of yellow pigment on the base of the forehead bright with unsteady bees; who had the bright cilli -bow; whose face was charming like the autumnal complete orb of the moon without spot; whose eyes were large like petal s of lotuses; whose mirror-like cheeks were brightened with jewelled and bright ear-rings of the shape of crocodiles; whose nose was raised and charming; whose lips were more beautiful than red lead; who had brightened the quarters with his gentle smile resembling the moon, the kunda and the mandāra (flowers); whose charming conch-like neck was bright due to the neck-ornament accomplished with the mass of excellent sprouts and flowers; whose shoulders were adorned with spreading garland of santānaka flowers from which were hanging the intoxicated noisy bees; who was shining with the sun in the form of the Kaustubha gem glittering in the sky in the form of his large bosom shining with a series of garlands; whose raised shoulders were well-marked with the auspicious curl of hair on his bosom; whose hands reaching his knees were large and round; who had a little wavy belly; whose hair (on his belly) resembled a swarm of female bees; who had put on armlets, a line of bracelets, a neck-ornament, a girdle, and anklets fashioned with various jewels; whose slim body was tinged with yellow divine fragrant unguents; who had put on a yellowish garment round his round hips; whose thighs and knees were lovely; whose shanks were round and beautiful; who had censured the lustre of the tortoise by means of the lovely and raised foreparts of his feet; whose lotus-like feet were beautiful, shining like mirrors of emeralds, bright with excellent nails and having the sheaths of red toes; who was charming as his reddish palms and soles were marked with (signs like those of) fish, goads, cupid’s flags, barley-corns, lotuses and diamond-pins; whose body was fashioned with the mass of the essence of beauty; who had censured the beauty of Cupid’s body with his loveliness; who made the continuous line of the subdued beings salute him due to the constantly produced divine musical orders discharged by the fingers of his hands moving to and fro over the holes of the flute filled with (the breath from) his lotus-like mouth; who was surrounded by cows whose eyes merged in his lotus-like face, that were stumbling, dull and walking slowly due to the burden of their udders, that had in their mouths sprouts of grass left after they were bitten with the tips of their teeth, and whose creeper-like tails were hanging; who was surrounded by calves maddened with the foamy milk dropping from their steady mouths full of their mothers’ udders—the ornaments—from which milk was oozing, and with their pairs of ears raised due to the charming, gentle song, sent out by the flute; who was also surrounded by male and female calves with unsteady plantings of the foreparts of their hoofs-unsteady due to the feeling of confusion as a result of gentle strokes of the new horns on their heads; who was surrounded by large oxen who had disturbed the quarters with their bellowing, weary due to the burden of their humps, and having drunk the nectar of the sound of the flute by the steady cavities of their ears, and with their spreading and large noses raised; who was also surrounded by cowherds who were of similar qualities, character, age, sports and dresses, who were made violent by the sweet-sounding flutes and lutes, who were engaged in singing slowly, and with a high and loud tone, who were delighted in lovely dancing accompanied by singing and instrumental music, due to their unsteady creeper-like arms, whose groups of moving bells tied to the cavities of their fat loins and inside their shanks, were sounding, who were roaming, who were maddened, who had made charming ornaments out of the nails of hyenas; who was surrounded by children who were speaking indistinctly but sweetly; and who was all round served by the rows of the very charming, beautiful cowherdesses whose braids were big and who walked slowly due to (large) hips, who had a line of hair manifested on the three folds, fragile due to the burden of the heavy breasts, whose body-creepers of that tree of Cupid blossomed by the nectar of the musical instruments like the extremely sweet and lovely flute were adorned with horripilation charming like buds that had shot forth, who continuously had the drops of fatigue resembling the spray on unsteady ripples of that ocean of sexual feeling increased by the laughter, who had unbearable affliction along with tremor spreading over their distressed bodies, all the vital parts of which were crushed by shower of Cupid in the form of his sharp glances from the extremely lovely and gentle bows of cilli (i.e. his eyes), who longed for drinking the nectar of the beauty of his very lovely dress and form, who were the rivers flooded with the water of love, whose lotus-like eyes were gentle and unsteady, who were repeatedly served by a swarm of bees greedy of the honey dripping from the full-blown flowers dropping from their beautiful braids, whose words were faltering and soft due to intoxication caused by intense passion of love, whose buttocks appeared beautiful due to the lustre of the ends of the silken garments which were getting loose due to their knots being untied by the unsteady girdles, who had filled the quarters with anklets inlaid with jewels, due to gentle plantings of their stumbling and charming lotus-like pairs of eyes which were broad and had beautiful eye-lashes, whose ear-rings were bright, whose sprout like reddish lips were fading due to the torment caused by wind of the longest breath (i.e. sigh), whose lotus-like hands were shining with many presents.

52-56. A man should remember him (i.e. Kṛṣṇa) whose entire body was worshipped by the wreaths of the lotuses hidden in the sheaths of their long, unsteady, blue eyes; who has a body which is the abode of sports, which tastes the honey from the lotus-like faces of those innocent ones, which through love has the row of bees in the form of the damsels of bewitching eyes, which is beautiful; a man should remember outside (the group) of the cowherdesses, the cowherds and the beasts, the host of divinities, desiring riches, and Jed by Brahmā , Śiva and Indra , and intent on praising him. (A man should remember) on his right side, a host of sages, bent upon (following) the tradition due to their strong desire for religious merit; behind him, (a man should remember) the chief meditating saints like Sanaka , desiring salvation through abstract meditation; (he should remember) on his left, yakṣas , siddhas , gandharvas , vidyādharas and cāraṇas with their beloveds and with kinnaras , so also the chiefs of celestial nymphs desiring (the fulfilment of) their desires through dancing, singing and sounds of musical instruments, who are white like a conch, the moon and the kunda (flower), who know all the Vedas , whose matted hair is tawny, like streaks of lightning, and remembering me (i.e. Nārada), Brahmā’s son who desires spotless devotion to his feet, who has given up the company of any one else, who pleases (the lord) with charming modulations in the seven musical orders and the three gamuts endowed with qualities of various notes, should devoutly think of him.

57. The man, of a sharp and clear intellect, having thus meditated upon the son of Nanda , should again deliberately and devoutly worship him in his own body and outside with splendour. O best brāhmaṇas, I have told you all that was desired by you.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 43985, revision 333751 (2022-03-16T02:36:56Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365415.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.