Sṛṣṭi-khaṇḍa · Chapter 4
Sourceभीष्म उवाच। क्षीराब्धौ तु तथा लक्ष्मीः किलोत्पन्ना मया श्रुता। ख्यात्यां भृगोः समुत्पन्ना एतदाह कथं भवान्१। कथं च दक्षदुहिता देहं त्यक्तवती शुभा। मेनायां गर्भसंभूतिमुमाया जन्म एव च२। किमर्थं देवदेवेन पत्नी हैमवती कृता। विरोधं चाथ दक्षेण भगवांस्तु ब्रवीतु मे३। पुलस्त्य उवाच। इदं च शृणु भूपाल यत्पृष्टोहमिह त्वया। श्रीसंबंधो मयाप्येष श्रुत आसीत्पितामहात्४। अत्रिपुत्रस्तु दुर्वासाः परिभ्राम्यन्महीमिमाम्। विद्याधरीकरेमालां दृष्ट्वा सौगन्धिकीं शुभाम्५। याचयामास मे देहि जटाजूटे करोम्यहम्। इति विद्याधरी तेन पृष्टा सा ऋषिणा तथा६। ददौ तस्मै मुदायुक्ता तां मालां स तदा नृप। गृहीत्वा सुचिरं कालं शिरोमालां बबंध ह७। उन्मत्त प्रेतवद्विप्रः शोभमानोब्रवीदिदम्। इयं विद्याधरी कन्या पीनोन्नत पयोधरा८। शोभालंकारसौभाग्यैर्युक्ता दृष्टा ततो मनः। क्षोभमायाति मे चाद्य नाहं कामे विचक्षणः९। व्रजामि तावदन्यत्र सौभाग्यं स्वं प्रदर्शयन्। एवमुक्त्वा स राजेंद्र परिबभ्राम मेदिनीम्१०। ऐरावतं समारूढं राजानं त्रिदिवौकसाम्। त्रैलोक्याधिपतिं शक्रं भ्राजमानं शचीपतिम्११। तामात्मशिरसो मालां भ्रमदुन्मत्तषट्पदाम्। आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः१२। गृहीत्वा देवराजेन माला सा गजमूर्द्धनि। मुक्ता रराज सा माला कैलासे जाह्नवी यथा१३। मदांधकारिताक्षोसौ गंधाघ्राणेन वारणः। करेणादाय चिक्षेप तां मालां पृथिवीतले१४। ततश्चुक्रोध भगवान्दुर्वासा मुनिपुंगवः। राजेंद्रदेवराजानं क्रुद्धश्चेदमुवाच ह१५। ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोसि वासव। श्रियोधामस्रजं यस्मान्मद्दत्तान्नाभिनंदसि१६। त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति। मद्दत्ता भवता माला क्षिप्ता यस्मान्महीतले१७। तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति। यस्य संजातकोपस्य भयमेति चराचरम्१८। तं मां त्वमतिगर्वेण देवराजावमन्यसे। महेंद्रो वारणस्कंधादवतीर्य त्वरान्वितः१९। प्रसादयामास मुनिं दुर्वाससमकल्मषम्। प्रसाद्यमानः स तदा प्रणिपातपुरःसरम्२०। नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो। इत्युक्त्वा प्रययौ विप्रो देवराजोपि तं पुनः२१। आरुह्यैरावतं नागं प्रययावमरावतीम्। ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम्२२। न यज्ञाः संप्रवर्तंते न तपस्यंति तापसाः। न च दानानि दीयंते नष्टप्रायमभूज्जगत्२३। एवमत्यंतनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते। देवान्प्रतिबलोद्योगं चक्रुर्दैतेयदानवाः२४। विजितास्त्रिदशा दैत्यैरिंद्राद्याः शरणं ययुः। पितामहं महाभागं हुताशनपुरोगमाः२५। यथावत्कथिते देवैर्ब्रह्मा प्राह तथा सुरान्। क्षीरोदस्योत्तरं कूलं जगाम सहितः सुरैः२६। गत्वा जगाद भगवान्वासुदेवं पितामहः। उत्तिष्ठ विष्णो शीघ्रं त्वं देवतानां हितं कुरु२७। त्वया विना दानवैस्तु जिताः सर्वे पुनःपुनः। इत्युक्तः पुंडरीकाक्षः पुरुषः पुरुषोत्तमः२८। अपूर्वरूपसंस्थानान्दृष्ट्वा देवानुवाच ह। तेजसो भवतां देवाः करिष्याम्युपबृंहणम्२९। वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः। आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः३०। मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्। मथ्यताममृतं देवाः सहाये मय्यवस्थिते३१। सामपूर्वं च दैतेयांस्तत्र सम्भाष्य कर्मणि। समानफलभोक्तारो यूंय चात्र भविष्यथ३२। मथ्यमाने च तत्राब्धौ यत्समुत्पद्यतेऽमृतम्। तत्पानाद्बलिनो यूयममराः संभविष्यथ३३। तथैवाहं करिष्यामि यथा त्रिदशविद्विषः। न प्राप्स्यंत्यमृतं देवाः केवलं क्लेशभागिनः३४। इत्युक्ता देवदेवेन सर्व एव ततः सुराः। संधानमसुरैः कृत्वा यत्नवंतोऽमृतेभवन्३५। सर्वौषधीः समानीय देवदैतेयदानवाः। क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि३६। मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम्। ततो मथितुमारब्धा राजेंद्र तरसामृतम्३७। विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः। विष्णुना वासुकेर्द्दैत्याः पूर्वकाये निवेशिताः३८। ते तस्य प्राणवातेन वह्निना च हतत्त्विषः। निस्तेजसोऽसुराः सर्वे बभूवुरमरद्युते३९। तेनैव मुखनिःश्वासवायुनाथ बलाहकैः। पुच्छप्रदेशे वर्षद्भिस्तदा चाप्पयिताः सुराः४०। क्षीरोदमध्ये भगवान्ब्रह्मा ब्रह्मविदां वरः। महादेवो महातेजा विष्णुपृष्ठनिवासिनौ४१। बाहुभ्यां मंदरं गृह्य पद्मवत्स परंतपः। शृंखले च तदा कृत्वा गृहीत्वा मंदराचलम्४२। देवानां दानवानां च बलमध्ये व्यवस्थितः। क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः४३। अन्येन तेजसा देवानुपबृंहितवान्हरिः। मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः४४। हविर्धान्यभवत्पूर्वं सुरभिः सुरपूजिता। जग्मुर्मुदं तदा देवा दानवाश्च महामते४५। व्याक्षिप्तचेतसः सर्वे बभूवुस्तिमितेक्षणाः। किमेतदिति सिद्धानां दिवि चिंतयतां तदा४६। बभूव वारुणी देवी मदाघूर्णितलोचना। कृतावर्त्ता ततस्तस्मात्प्रस्खलंती पदे पदे४७। एकवस्त्रा मुक्तकेशी रक्तांतस्तब्धलोचना। अहं बलप्रदा देवी मां वा गृह्णन्तु दानवाः४८। अशुचिं वारुणीं मत्वा त्यक्तवंतस्तदा सुराः। जगृहुस्तां तदा दैत्या ग्रहणान्तेसुराभवत्४९। मंथने पारिजातोभूद्देव श्रीनंदनो द्रुमः। रूपौदार्य्यगुणोपेतास्ततश्चाप्सरसां गणाः५० 1.4.50। षष्टिकोट्यस्तदा जातास्सामान्या देव दानवैः। सर्वास्ताः कृतपूर्वास्तु सामान्याः पुण्यकर्मणा५१। ततः शीतांशुरभवद्देवानां प्रीतिदायकः। ययाचे शंकरो देवो जटाभूषणकृन्मम५२। भविष्यति न संदेहो गृहीतोयं मया शशी। अनुमेने च तं ब्रह्मा भूषणाय हरस्य तु५३। ततो विषं समुत्पन्नं कालकूटं भयावहं। तेन चैवार्दितास्सर्वे दानवाः सह दैवतैः५४। महादेवेन तत्पीतं विषं गृह्य यदृच्छया। तस्य पानान्नीलकंठस्तदा जातो महेश्वरः५५। पीतावशेषं नागास्तु क्षीराब्धेस्तु समुत्थितम्। ततो धन्वंतरिर्जातः श्वेतांबरधरः स्वयम्५६। बिभ्रत्कमंडलुं पूर्णममृतस्य समुत्थितः। ततः स्वस्थमनस्कास्ते वैद्यराजस्य दर्शनात्५७। ततश्चाश्वः समुत्पन्नो नागश्चैरावतस्तथा। तत स्फुरत्कांतीमतिविकासि कमलेस्थिता५८। श्रीर्द्देवी पयसस्तस्मादुत्थिता धृतपंकजा। तां तुष्टवुर्मुदायुक्ताः श्रीसूक्तेन महर्षयः५९। विश्वावसुमुखास्तस्या गंधर्वाः पुरतो जगुः। घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः६०। गंगाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे। दिग्गजा हेमपात्रस्थमादाय विमलं जलम्६१। स्नापयांचक्रिरे देवीं सर्वलोकमहेश्वरीम्। क्षीरोदस्तु स्वयं तस्यै मालामम्लानपंकजाम्६२। ददौ विभूषणान्यंगे विश्वकर्मा चकार ह। दिव्यमाल्यांबरधरां स्नातां भूषणभूषिताम्६३। इंद्राद्याश्चामरगणा विद्याधरमहोरगाः। दानवाश्च महादैत्या राक्षसाः सह गुह्यकैः६४। कन्यामभिलषन्ति स्म ततो ब्रह्मा उवाच ह। वासुदेव त्वमेवैनां मया दत्तां गृहाण वै६५। देवाश्च दानवाश्चैव प्रतिषिद्धा मया त्विह। तुष्टोहं भवतस्तावदलौल्येनेह कर्मणा६६। सा तु श्रीर्ब्रह्मणा प्रोक्ता देवि गछस्व केशवं। मया दत्तं पतिं प्राप्य मोदस्व शाश्वतीः समाः६७। पश्यतां सर्वदेवानां गता वक्षस्थलं हरेः। ततो वक्षस्थलं प्राप्य देवं वचनमब्रवीत्६८। नाहं त्याज्या सदा देव सदैवादेशकारिणी। वक्षस्थले निवत्स्यामि सर्वस्य जगतः प्रिय६९। ततोवलोकिता देवा विष्णुवक्षस्थलस्थया। लक्ष्म्या राजेंद्र सहसा परां निर्वृतिमागताः७०। उद्वेगं च परं जग्मुर्द्दैत्या विष्णुपराङ्मुखाः। त्यक्तास्तु दानवा लक्ष्म्या विप्रचित्तिपुरोगमाः७१। ततस्ते जगृहुर्दैत्या धन्वंतरिकरस्थितम्। अमृतं तन्महावीर्य्या दैत्याः पापसमन्विताः७२। मायया लोभयित्वा तु विष्णुः स्त्रीरूपसंश्रयः। आगत्य दानवान्प्राह दीयतां मे कमंडलुः७३। युष्माकं वशगा भूत्वा स्थास्यामि भवतां गृहे। तां दृष्ट्वा रूपसंपन्नां नारीं त्रैलोक्यसुंदरीम्७४। प्रार्थयानास्सुवपुषं लोभोपहतचेतसः। दत्त्वामृतं तदा तस्यै ततोपश्यन्त तेग्रतः७५। दानवेभ्यस्तदादाय देवेभ्यः प्रददेमृतं। ततः पपुः सुरगणाः शक्राद्यास्तत्तदामृतम्७६। उद्यतायुधनिस्त्रिंशा दैत्यास्तांस्ते समभ्ययुः। पीतेमृते च बलिभिर्जिता दैत्यचमूस्ततः७७। वध्यमाना दिशो भेजुः पातालं विविशुश्च ते। ततो देवा मुदायुक्ताः शंखचक्रगदाधरम्७८। प्रणिपत्य यथापूर्वं प्रययुस्ते त्रिविष्टपम्। ततःप्रभृति ते भीष्म स्त्रीलोला दानवाभवन्७९। अपध्यातास्तु कृष्णेन गतास्ते तु रसातलम्। ततः सूर्यः प्रसन्नाभः प्रययौ स्वेन वर्त्मना८०। जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्हुताशनः। धर्मे च सर्वभूतानां तदा मतिरजायत८१। श्रियायुक्तं च त्रैलोक्यं विष्णुना प्रतिपालितं। देवास्तु ते तदा प्रोक्ता ब्रह्मणा लोकधारिणा८२। भवतां रक्षणार्थाय मया विष्णुर्नियोजितः। उमापतिश्च देवेशो योगक्षेमं करिष्यतः८३। उपास्यमानौ सततं युष्मत्क्षेमकरौ यतः। ततः क्षेम्यौ सदा चैतौ भविष्येते वरप्रदौ८४। एवमुक्त्वा तु भगवान्जगाम गतिमात्मनः। अदर्शनं गते देवे सर्वलोकपितामहे८५। देवलोकं गते शक्रे स्वं लोकं हरिशंकरौ। प्राप्तौ तु तत्क्षणाद्देवौ स्थानं कैलासमेव च८६। ततस्तु देवराजेन पालितं भुवनत्रयम्। एवं लक्ष्मीर्महाभागा उत्पन्ना क्षीरसागरात्८७। पुनः ख्यात्यां समुत्पन्ना भृगोरेषा सनातनी। श्रिया सह समुत्पन्ना भृगुणा च महर्षिणा८८। स्वनाम्ना नगरी चैव कृता पूर्वं सरित्तटे। नर्मदायां महाराज ब्रह्मणा चानुमोदिता८९। लक्ष्मीः पुरं स्वपित्रे स्वं सह कुञ्चिकयाऽप्य च। आगता देवलोकं साऽयाचतागत्य वै पुनः९०। लोभान्न दत्तं तु पुरं प्रार्थयाना यदा पुनः। भृगोः सकाशान्नावाप तदा चैवाह केशवम्९१। परिभूता तु पित्राहं गृहीतं नगरं मम। तस्य हस्तात्त्वमाक्षिप्य पुरं तच्चानय स्वयम्९२। तं गत्वा पुंडरीकाक्षो देवश्चक्रगदाधरः। भृगुं सानुनयं प्राह कन्यायै पुरमर्पय९३। कुञ्चिकातालिके चोभे दीयेतां च प्रसादतः। भृगुस्तं कुपितः प्राह नार्पयिष्याम्यहं पुरम्९४। न लक्ष्म्यास्तत्पुरं देव मया चेदं स्वयं कृतम्। भगवन्नैव दास्यामि त्यजाक्षेपं तु केशव९५। तं प्राह देवो भूयोपि लक्ष्म्यास्तत्पुरमर्पय। सर्वथा तु त्वया त्याज्यं वचनान्मे महामुने९६। ततः कोपसमाविष्टो भृगुरप्याह केशवम्। पक्षपातेन मां साधो भार्याया बाधसेधुना९७। नृलोके दशजन्मानि लप्स्यसे मधुसूदन। भार्यायास्ते वियोगेन दुःखान्यनुभविष्यसि९८। एवं शापं ददौ तस्मै भृगुः परमकोपनः। विष्णुना च पुनस्तस्य दत्तः शापो महात्मना९९। न चापत्यकृतां प्रीतिं प्राप्स्यसे मुनिपुंगव। शापं दत्त्वा ऋषेस्तस्य ब्रह्मलोकं जगाम ह१०० 1.4.100। पद्मजन्मानमाहेदं दृष्ट्वा देवस्तु केशवः। भगवंस्तव पुत्रोसौ भृगुः परमकोपनः१०१। निष्कारणं च तेनाहं शप्तो जन्मानि मानुषे। लप्स्यसे दशधा त्वं हि ततो दुःखान्यनेकशः१०२। भार्यावियोगजा पीडा बलपौरुषनाशिनी। त्यत्क्वा चाहमिमं लोकं शयिष्ये च महोदधौ१०३। देवकार्येषु सर्वेषु पुनश्चावाहनं क्रियाः। तथा ब्रुवंतं तं देवं ब्रह्मा लोकगुरुस्तदा१०४। प्रसादनार्थं विष्णोस्तु स्तुतिमेतां चकार ह। त्वया सृष्टं जगदिदं पद्मं नाभौ विनिःसृतम्। तत्र चाहं समुत्पन्नस्तव वश्यश्च केशव१०५। त्वं त्राता सर्वलोकानां स्रष्टा त्वं जगतः प्रभो। त्रैलोक्यं न त्वया त्याज्यमेष एव वरो मम१०६। दशजन्ममनुष्येषु लोकानां हितकाम्यया। स्वयं कर्त्ता न ते शक्तः शापदानाय कोपि वा१०७। कोयं भृगुः कथं तेन शक्यं शप्तुं जनार्दन। मानयस्व सदा विप्रान्ब्राह्मणास्ते तनुस्स्वयम्१०८। योगनिद्रामुपास्व त्वं क्षीराब्धौ स्वपि हीश्वर। कार्यकाले पुनस्त्वां तु बोधयिष्यामि माधव१०९। भगवन्नेष तावत्तु त्वच्छक्त्या चोपबृंहितः। सर्वकार्यकरः शक्रस्तवैवांशेन शत्रुहा११०। त्रैलोक्यं पालयन्नेव त्वदाज्ञां स करिष्यति। एवं स्तुतस्तदा विष्णुर्ब्रह्माणमिदमुक्तवान्१११। सर्वमेतत्करिष्यामि यन्मां ज्ञापयसे प्रभो। अदर्शनं गतो देवो ब्रह्मा तं नाभिजज्ञिवान्११२। गते देवे तदा विष्णौ ब्रह्मा लोकपितामहः। भूयश्चकार वै सृष्टिं लोकानां प्रभवः प्रभुः११३। तं दृष्ट्वा नारदः प्राह वाक्यं वाक्यविदां वरः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। सर्वव्यापी भुवः स्पर्शादध्यतिष्ठद्दशांगुलम्११४। यद्भूतं यच्च वै भाव्यं सर्वमेव भवान्यतः। ततो विश्वमिदं तात त्वत्तो भूतं भविष्यति११५। त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा। ऋचस्त्वत्तोथ सामानि त्वत्त एवाभिजज्ञिरे११६। त्वत्तो यज्ञास्त्वजायंत त्वत्तो श्वाश्चैव दंतिनः। गावस्त्वत्तः समुद्भूताः त्वत्तो जातावयोमृगाः११७। त्वन्मुखाद्ब्राह्मणा जातास्त्वत्तः क्षत्रमजायत। वैश्यास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः११८। अक्ष्णोः सूर्योनिलः श्रोत्राच्चंद्रमा मनसस्तव। प्राणोंतः सुषिराज्जातो मुखादग्निरजायत११९। नाभितो गगनं द्यौश्च शिरसः समवर्त्तत। दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदम्१२०। न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः। ससर्ज्ज विश्वमखिलं बीजभूते तथा त्वयि१२१। बीजांकुरसमुद्भूतो न्यग्रोधः समुपस्थितः। विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत्१२२। यथा हि कदली नान्या त्वक्पत्रेभ्योऽभिदृश्यते। एवं विश्वमिदं नान्यत्त्वत्स्थमीश्वर दृश्यते१२३। ह्लादिनी त्वयि शक्तिस्सा त्वय्येका सहभाविनी। ह्लादतापकरीमिश्रा त्वयि नो गुणवर्जिते१२४। पृथग्भूतैकभूताय सर्वभूताय ते नमः। व्यक्तं प्रधानं पुरुषो विराट्सम्राट्तथा भवान्१२५। सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक्। सर्वं त्वत्तः समुद्भूतं नमः सर्वात्मने ततः१२६। सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः। कथयामि ततः किं ते सर्वं वेत्सि हृदिस्थितं१२७। यो मे मनोरथो देव सफलः स त्वया कृतः। तप्तं सुतप्तं सफलं यद्दृष्टोसि जगत्पते१२८। ब्रह्मोवाच। तपसस्तत्फलं पुत्र यद्दृष्टोहं त्वयाधुना। मद्दर्शनं हि विफलं नारदेह न जायते१२९। वरं वरय तस्मात्त्वं यथाभिमतमात्मनः। सर्वं संपद्यते तात मयि दृष्टिपथं गते१३०। नारद उवाच। भगवन्सर्वभूतेश सर्वस्यास्ते भवान्हृदि। किमज्ञातं तव स्वामिन्मनसा यन्मयेप्सितम्१३१। कृता त्वया यथा सृष्टिर्मया दृष्टा तथा विभो। तेन मे कौतुकं जातं दृष्ट्वा देवर्षिदानवान्१३२। पुलस्त्य उवाच। नारदस्य पिता तुष्टो ब्रह्मा देवो दिवस्पतिः। नारदाय वरं प्रादादृषीणामुत्तमो भवान्१३३। भविता मत्प्रसादेन कलिकेलिकथाप्रियः। गतिश्च तेऽप्रतिहता दिवि भूमौ रसातले१३४। यज्ञोपवीतसूत्रेण योगपट्टावलंबिका। छत्रिका च तथा वीणा अलंकाराय तेनघ१३५। विष्णोः समीपे रुद्रस्य तथा शक्रस्य नारद। द्वीपेषु पार्थिवानां तु सदा प्रीतिं च लप्स्यसे१३६। वर्णानां तु भवान्शास्तावरोदत्तोमयातव। तिष्ठ पुत्र यथाकामं सेव्यमानः सुरैर्द्दिवि१३७।
bhīṣma uvāca| kṣīrābdhau tu tathā lakṣmīḥ kilotpannā mayā śrutā| khyātyāṃ bhṛgoḥ samutpannā etadāha kathaṃ bhavān1| kathaṃ ca dakṣaduhitā dehaṃ tyaktavatī śubhā| menāyāṃ garbhasaṃbhūtimumāyā janma eva ca2| kimarthaṃ devadevena patnī haimavatī kṛtā| virodhaṃ cātha dakṣeṇa bhagavāṃstu bravītu me3| pulastya uvāca| idaṃ ca śṛṇu bhūpāla yatpṛṣṭohamiha tvayā| śrīsaṃbaṃdho mayāpyeṣa śruta āsītpitāmahāt4| atriputrastu durvāsāḥ paribhrāmyanmahīmimām| vidyādharīkaremālāṃ dṛṣṭvā saugandhikīṃ śubhām5| yācayāmāsa me dehi jaṭājūṭe karomyaham| iti vidyādharī tena pṛṣṭā sā ṛṣiṇā tathā6| dadau tasmai mudāyuktā tāṃ mālāṃ sa tadā nṛpa| gṛhītvā suciraṃ kālaṃ śiromālāṃ babaṃdha ha7| unmatta pretavadvipraḥ śobhamānobravīdidam| iyaṃ vidyādharī kanyā pīnonnata payodharā8| śobhālaṃkārasaubhāgyairyuktā dṛṣṭā tato manaḥ| kṣobhamāyāti me cādya nāhaṃ kāme vicakṣaṇaḥ9| vrajāmi tāvadanyatra saubhāgyaṃ svaṃ pradarśayan| evamuktvā sa rājeṃdra paribabhrāma medinīm10| airāvataṃ samārūḍhaṃ rājānaṃ tridivaukasām| trailokyādhipatiṃ śakraṃ bhrājamānaṃ śacīpatim11| tāmātmaśiraso mālāṃ bhramadunmattaṣaṭpadām| ādāyāmararājāya cikṣeponmattavanmuniḥ12| gṛhītvā devarājena mālā sā gajamūrddhani| muktā rarāja sā mālā kailāse jāhnavī yathā13| madāṃdhakāritākṣosau gaṃdhāghrāṇena vāraṇaḥ| kareṇādāya cikṣepa tāṃ mālāṃ pṛthivītale14| tataścukrodha bhagavāndurvāsā munipuṃgavaḥ| rājeṃdradevarājānaṃ kruddhaścedamuvāca ha15| aiśvaryamadaduṣṭātmannatistabdhosi vāsava| śriyodhāmasrajaṃ yasmānmaddattānnābhinaṃdasi16| trailokyaśrīrato mūḍha vināśamupayāsyati| maddattā bhavatā mālā kṣiptā yasmānmahītale17| tasmātpraṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati| yasya saṃjātakopasya bhayameti carācaram18| taṃ māṃ tvamatigarveṇa devarājāvamanyase| maheṃdro vāraṇaskaṃdhādavatīrya tvarānvitaḥ19| prasādayāmāsa muniṃ durvāsasamakalmaṣam| prasādyamānaḥ sa tadā praṇipātapuraḥsaram20| nāhaṃ kṣamiṣye bahunā kimuktena śatakrato| ityuktvā prayayau vipro devarājopi taṃ punaḥ21| āruhyairāvataṃ nāgaṃ prayayāvamarāvatīm| tataḥ prabhṛti niḥśrīkaṃ saśakraṃ bhuvanatrayam22| na yajñāḥ saṃpravartaṃte na tapasyaṃti tāpasāḥ| na ca dānāni dīyaṃte naṣṭaprāyamabhūjjagat23| evamatyaṃtaniḥśrīke trailokye sattvavarjite| devānpratibalodyogaṃ cakrurdaiteyadānavāḥ24| vijitāstridaśā daityairiṃdrādyāḥ śaraṇaṃ yayuḥ| pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ25| yathāvatkathite devairbrahmā prāha tathā surān| kṣīrodasyottaraṃ kūlaṃ jagāma sahitaḥ suraiḥ26| gatvā jagāda bhagavānvāsudevaṃ pitāmahaḥ| uttiṣṭha viṣṇo śīghraṃ tvaṃ devatānāṃ hitaṃ kuru27| tvayā vinā dānavaistu jitāḥ sarve punaḥpunaḥ| ityuktaḥ puṃḍarīkākṣaḥ puruṣaḥ puruṣottamaḥ28| apūrvarūpasaṃsthānāndṛṣṭvā devānuvāca ha| tejaso bhavatāṃ devāḥ kariṣyāmyupabṛṃhaṇam29| vadāmyahaṃ yatkriyatāṃ bhavadbhistadidaṃ surāḥ| ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ30| maṃthānaṃ maṃdaraṃ kṛtvā netraṃ kṛtvā ca vāsukim| mathyatāmamṛtaṃ devāḥ sahāye mayyavasthite31| sāmapūrvaṃ ca daiteyāṃstatra sambhāṣya karmaṇi| samānaphalabhoktāro yūṃya cātra bhaviṣyatha32| mathyamāne ca tatrābdhau yatsamutpadyate'mṛtam| tatpānādbalino yūyamamarāḥ saṃbhaviṣyatha33| tathaivāhaṃ kariṣyāmi yathā tridaśavidviṣaḥ| na prāpsyaṃtyamṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ34| ityuktā devadevena sarva eva tataḥ surāḥ| saṃdhānamasuraiḥ kṛtvā yatnavaṃto'mṛtebhavan35| sarvauṣadhīḥ samānīya devadaiteyadānavāḥ| kṣiptvā kṣīrābdhipayasi śaradabhrāmalatviṣi36| maṃthānaṃ maṃdaraṃ kṛtvā netraṃ kṛtvā ca vāsukim| tato mathitumārabdhā rājeṃdra tarasāmṛtam37| vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ| viṣṇunā vāsukerddaityāḥ pūrvakāye niveśitāḥ38| te tasya prāṇavātena vahninā ca hatattviṣaḥ| nistejaso'surāḥ sarve babhūvuramaradyute39| tenaiva mukhaniḥśvāsavāyunātha balāhakaiḥ| pucchapradeśe varṣadbhistadā cāppayitāḥ surāḥ40| kṣīrodamadhye bhagavānbrahmā brahmavidāṃ varaḥ| mahādevo mahātejā viṣṇupṛṣṭhanivāsinau41| bāhubhyāṃ maṃdaraṃ gṛhya padmavatsa paraṃtapaḥ| śṛṃkhale ca tadā kṛtvā gṛhītvā maṃdarācalam42| devānāṃ dānavānāṃ ca balamadhye vyavasthitaḥ| kṣīrodamadhye bhagavānkūrmarūpī svayaṃ hariḥ43| anyena tejasā devānupabṛṃhitavānhariḥ| mathyamāne tatastasminkṣīrābdhau devadānavaiḥ44| havirdhānyabhavatpūrvaṃ surabhiḥ surapūjitā| jagmurmudaṃ tadā devā dānavāśca mahāmate45| vyākṣiptacetasaḥ sarve babhūvustimitekṣaṇāḥ| kimetaditi siddhānāṃ divi ciṃtayatāṃ tadā46| babhūva vāruṇī devī madāghūrṇitalocanā| kṛtāvarttā tatastasmātpraskhalaṃtī pade pade47| ekavastrā muktakeśī raktāṃtastabdhalocanā| ahaṃ balapradā devī māṃ vā gṛhṇantu dānavāḥ48| aśuciṃ vāruṇīṃ matvā tyaktavaṃtastadā surāḥ| jagṛhustāṃ tadā daityā grahaṇāntesurābhavat49| maṃthane pārijātobhūddeva śrīnaṃdano drumaḥ| rūpaudāryyaguṇopetāstataścāpsarasāṃ gaṇāḥ50 1.4.50| ṣaṣṭikoṭyastadā jātāssāmānyā deva dānavaiḥ| sarvāstāḥ kṛtapūrvāstu sāmānyāḥ puṇyakarmaṇā51| tataḥ śītāṃśurabhavaddevānāṃ prītidāyakaḥ| yayāce śaṃkaro devo jaṭābhūṣaṇakṛnmama52| bhaviṣyati na saṃdeho gṛhītoyaṃ mayā śaśī| anumene ca taṃ brahmā bhūṣaṇāya harasya tu53| tato viṣaṃ samutpannaṃ kālakūṭaṃ bhayāvahaṃ| tena caivārditāssarve dānavāḥ saha daivataiḥ54| mahādevena tatpītaṃ viṣaṃ gṛhya yadṛcchayā| tasya pānānnīlakaṃṭhastadā jāto maheśvaraḥ55| pītāvaśeṣaṃ nāgāstu kṣīrābdhestu samutthitam| tato dhanvaṃtarirjātaḥ śvetāṃbaradharaḥ svayam56| bibhratkamaṃḍaluṃ pūrṇamamṛtasya samutthitaḥ| tataḥ svasthamanaskāste vaidyarājasya darśanāt57| tataścāśvaḥ samutpanno nāgaścairāvatastathā| tata sphuratkāṃtīmativikāsi kamalesthitā58| śrīrddevī payasastasmādutthitā dhṛtapaṃkajā| tāṃ tuṣṭavurmudāyuktāḥ śrīsūktena maharṣayaḥ59| viśvāvasumukhāstasyā gaṃdharvāḥ purato jaguḥ| ghṛtācīpramukhāstatra nanṛtuścāpsarogaṇāḥ60| gaṃgādyāḥ saritastoyaiḥ snānārthamupatasthire| diggajā hemapātrasthamādāya vimalaṃ jalam61| snāpayāṃcakrire devīṃ sarvalokamaheśvarīm| kṣīrodastu svayaṃ tasyai mālāmamlānapaṃkajām62| dadau vibhūṣaṇānyaṃge viśvakarmā cakāra ha| divyamālyāṃbaradharāṃ snātāṃ bhūṣaṇabhūṣitām63| iṃdrādyāścāmaragaṇā vidyādharamahoragāḥ| dānavāśca mahādaityā rākṣasāḥ saha guhyakaiḥ64| kanyāmabhilaṣanti sma tato brahmā uvāca ha| vāsudeva tvamevaināṃ mayā dattāṃ gṛhāṇa vai65| devāśca dānavāścaiva pratiṣiddhā mayā tviha| tuṣṭohaṃ bhavatastāvadalaulyeneha karmaṇā66| sā tu śrīrbrahmaṇā proktā devi gachasva keśavaṃ| mayā dattaṃ patiṃ prāpya modasva śāśvatīḥ samāḥ67| paśyatāṃ sarvadevānāṃ gatā vakṣasthalaṃ hareḥ| tato vakṣasthalaṃ prāpya devaṃ vacanamabravīt68| nāhaṃ tyājyā sadā deva sadaivādeśakāriṇī| vakṣasthale nivatsyāmi sarvasya jagataḥ priya69| tatovalokitā devā viṣṇuvakṣasthalasthayā| lakṣmyā rājeṃdra sahasā parāṃ nirvṛtimāgatāḥ70| udvegaṃ ca paraṃ jagmurddaityā viṣṇuparāṅmukhāḥ| tyaktāstu dānavā lakṣmyā vipracittipurogamāḥ71| tataste jagṛhurdaityā dhanvaṃtarikarasthitam| amṛtaṃ tanmahāvīryyā daityāḥ pāpasamanvitāḥ72| māyayā lobhayitvā tu viṣṇuḥ strīrūpasaṃśrayaḥ| āgatya dānavānprāha dīyatāṃ me kamaṃḍaluḥ73| yuṣmākaṃ vaśagā bhūtvā sthāsyāmi bhavatāṃ gṛhe| tāṃ dṛṣṭvā rūpasaṃpannāṃ nārīṃ trailokyasuṃdarīm74| prārthayānāssuvapuṣaṃ lobhopahatacetasaḥ| dattvāmṛtaṃ tadā tasyai tatopaśyanta tegrataḥ75| dānavebhyastadādāya devebhyaḥ pradademṛtaṃ| tataḥ papuḥ suragaṇāḥ śakrādyāstattadāmṛtam76| udyatāyudhanistriṃśā daityāstāṃste samabhyayuḥ| pītemṛte ca balibhirjitā daityacamūstataḥ77| vadhyamānā diśo bhejuḥ pātālaṃ viviśuśca te| tato devā mudāyuktāḥ śaṃkhacakragadādharam78| praṇipatya yathāpūrvaṃ prayayuste triviṣṭapam| tataḥprabhṛti te bhīṣma strīlolā dānavābhavan79| apadhyātāstu kṛṣṇena gatāste tu rasātalam| tataḥ sūryaḥ prasannābhaḥ prayayau svena vartmanā80| jajvāla bhagavāṃścoccaiścārudīptirhutāśanaḥ| dharme ca sarvabhūtānāṃ tadā matirajāyata81| śriyāyuktaṃ ca trailokyaṃ viṣṇunā pratipālitaṃ| devāstu te tadā proktā brahmaṇā lokadhāriṇā82| bhavatāṃ rakṣaṇārthāya mayā viṣṇurniyojitaḥ| umāpatiśca deveśo yogakṣemaṃ kariṣyataḥ83| upāsyamānau satataṃ yuṣmatkṣemakarau yataḥ| tataḥ kṣemyau sadā caitau bhaviṣyete varapradau84| evamuktvā tu bhagavānjagāma gatimātmanaḥ| adarśanaṃ gate deve sarvalokapitāmahe85| devalokaṃ gate śakre svaṃ lokaṃ hariśaṃkarau| prāptau tu tatkṣaṇāddevau sthānaṃ kailāsameva ca86| tatastu devarājena pālitaṃ bhuvanatrayam| evaṃ lakṣmīrmahābhāgā utpannā kṣīrasāgarāt87| punaḥ khyātyāṃ samutpannā bhṛgoreṣā sanātanī| śriyā saha samutpannā bhṛguṇā ca maharṣiṇā88| svanāmnā nagarī caiva kṛtā pūrvaṃ sarittaṭe| narmadāyāṃ mahārāja brahmaṇā cānumoditā89| lakṣmīḥ puraṃ svapitre svaṃ saha kuñcikayā'pya ca| āgatā devalokaṃ sā'yācatāgatya vai punaḥ90| lobhānna dattaṃ tu puraṃ prārthayānā yadā punaḥ| bhṛgoḥ sakāśānnāvāpa tadā caivāha keśavam91| paribhūtā tu pitrāhaṃ gṛhītaṃ nagaraṃ mama| tasya hastāttvamākṣipya puraṃ taccānaya svayam92| taṃ gatvā puṃḍarīkākṣo devaścakragadādharaḥ| bhṛguṃ sānunayaṃ prāha kanyāyai puramarpaya93| kuñcikātālike cobhe dīyetāṃ ca prasādataḥ| bhṛgustaṃ kupitaḥ prāha nārpayiṣyāmyahaṃ puram94| na lakṣmyāstatpuraṃ deva mayā cedaṃ svayaṃ kṛtam| bhagavannaiva dāsyāmi tyajākṣepaṃ tu keśava95| taṃ prāha devo bhūyopi lakṣmyāstatpuramarpaya| sarvathā tu tvayā tyājyaṃ vacanānme mahāmune96| tataḥ kopasamāviṣṭo bhṛgurapyāha keśavam| pakṣapātena māṃ sādho bhāryāyā bādhasedhunā97| nṛloke daśajanmāni lapsyase madhusūdana| bhāryāyāste viyogena duḥkhānyanubhaviṣyasi98| evaṃ śāpaṃ dadau tasmai bhṛguḥ paramakopanaḥ| viṣṇunā ca punastasya dattaḥ śāpo mahātmanā99| na cāpatyakṛtāṃ prītiṃ prāpsyase munipuṃgava| śāpaṃ dattvā ṛṣestasya brahmalokaṃ jagāma ha100 1.4.100| padmajanmānamāhedaṃ dṛṣṭvā devastu keśavaḥ| bhagavaṃstava putrosau bhṛguḥ paramakopanaḥ101| niṣkāraṇaṃ ca tenāhaṃ śapto janmāni mānuṣe| lapsyase daśadhā tvaṃ hi tato duḥkhānyanekaśaḥ102| bhāryāviyogajā pīḍā balapauruṣanāśinī| tyatkvā cāhamimaṃ lokaṃ śayiṣye ca mahodadhau103| devakāryeṣu sarveṣu punaścāvāhanaṃ kriyāḥ| tathā bruvaṃtaṃ taṃ devaṃ brahmā lokagurustadā104| prasādanārthaṃ viṣṇostu stutimetāṃ cakāra ha| tvayā sṛṣṭaṃ jagadidaṃ padmaṃ nābhau viniḥsṛtam| tatra cāhaṃ samutpannastava vaśyaśca keśava105| tvaṃ trātā sarvalokānāṃ sraṣṭā tvaṃ jagataḥ prabho| trailokyaṃ na tvayā tyājyameṣa eva varo mama106| daśajanmamanuṣyeṣu lokānāṃ hitakāmyayā| svayaṃ karttā na te śaktaḥ śāpadānāya kopi vā107| koyaṃ bhṛguḥ kathaṃ tena śakyaṃ śaptuṃ janārdana| mānayasva sadā viprānbrāhmaṇāste tanussvayam108| yoganidrāmupāsva tvaṃ kṣīrābdhau svapi hīśvara| kāryakāle punastvāṃ tu bodhayiṣyāmi mādhava109| bhagavanneṣa tāvattu tvacchaktyā copabṛṃhitaḥ| sarvakāryakaraḥ śakrastavaivāṃśena śatruhā110| trailokyaṃ pālayanneva tvadājñāṃ sa kariṣyati| evaṃ stutastadā viṣṇurbrahmāṇamidamuktavān111| sarvametatkariṣyāmi yanmāṃ jñāpayase prabho| adarśanaṃ gato devo brahmā taṃ nābhijajñivān112| gate deve tadā viṣṇau brahmā lokapitāmahaḥ| bhūyaścakāra vai sṛṣṭiṃ lokānāṃ prabhavaḥ prabhuḥ113| taṃ dṛṣṭvā nāradaḥ prāha vākyaṃ vākyavidāṃ varaḥ| sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt| sarvavyāpī bhuvaḥ sparśādadhyatiṣṭhaddaśāṃgulam114| yadbhūtaṃ yacca vai bhāvyaṃ sarvameva bhavānyataḥ| tato viśvamidaṃ tāta tvatto bhūtaṃ bhaviṣyati115| tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśurdvidhā| ṛcastvattotha sāmāni tvatta evābhijajñire116| tvatto yajñāstvajāyaṃta tvatto śvāścaiva daṃtinaḥ| gāvastvattaḥ samudbhūtāḥ tvatto jātāvayomṛgāḥ117| tvanmukhādbrāhmaṇā jātāstvattaḥ kṣatramajāyata| vaiśyāstavorujāḥ śūdrāstava padbhyāṃ samudgatāḥ118| akṣṇoḥ sūryonilaḥ śrotrāccaṃdramā manasastava| prāṇoṃtaḥ suṣirājjāto mukhādagnirajāyata119| nābhito gaganaṃ dyauśca śirasaḥ samavarttata| diśaḥ śrotrātkṣitiḥ padbhyāṃ tvattaḥ sarvamabhūdidam120| nyagrodhaḥ sumahānalpe yathā bīje vyavasthitaḥ| sasarjja viśvamakhilaṃ bījabhūte tathā tvayi121| bījāṃkurasamudbhūto nyagrodhaḥ samupasthitaḥ| vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat122| yathā hi kadalī nānyā tvakpatrebhyo'bhidṛśyate| evaṃ viśvamidaṃ nānyattvatsthamīśvara dṛśyate123| hlādinī tvayi śaktissā tvayyekā sahabhāvinī| hlādatāpakarīmiśrā tvayi no guṇavarjite124| pṛthagbhūtaikabhūtāya sarvabhūtāya te namaḥ| vyaktaṃ pradhānaṃ puruṣo virāṭsamrāṭtathā bhavān125| sarvasminsarvabhūtastvaṃ sarvaḥ sarvasvarūpadhṛk| sarvaṃ tvattaḥ samudbhūtaṃ namaḥ sarvātmane tataḥ126| sarvātmakosi sarveśa sarvabhūtasthito yataḥ| kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdisthitaṃ127| yo me manoratho deva saphalaḥ sa tvayā kṛtaḥ| taptaṃ sutaptaṃ saphalaṃ yaddṛṣṭosi jagatpate128| brahmovāca| tapasastatphalaṃ putra yaddṛṣṭohaṃ tvayādhunā| maddarśanaṃ hi viphalaṃ nāradeha na jāyate129| varaṃ varaya tasmāttvaṃ yathābhimatamātmanaḥ| sarvaṃ saṃpadyate tāta mayi dṛṣṭipathaṃ gate130| nārada uvāca| bhagavansarvabhūteśa sarvasyāste bhavānhṛdi| kimajñātaṃ tava svāminmanasā yanmayepsitam131| kṛtā tvayā yathā sṛṣṭirmayā dṛṣṭā tathā vibho| tena me kautukaṃ jātaṃ dṛṣṭvā devarṣidānavān132| pulastya uvāca| nāradasya pitā tuṣṭo brahmā devo divaspatiḥ| nāradāya varaṃ prādādṛṣīṇāmuttamo bhavān133| bhavitā matprasādena kalikelikathāpriyaḥ| gatiśca te'pratihatā divi bhūmau rasātale134| yajñopavītasūtreṇa yogapaṭṭāvalaṃbikā| chatrikā ca tathā vīṇā alaṃkārāya tenagha135| viṣṇoḥ samīpe rudrasya tathā śakrasya nārada| dvīpeṣu pārthivānāṃ tu sadā prītiṃ ca lapsyase136| varṇānāṃ tu bhavānśāstāvarodattomayātava| tiṣṭha putra yathākāmaṃ sevyamānaḥ surairddivi137|
English translation
Bhīṣma said :
1. I have heard that Lakṣmī was born in the white ocean. How did you say that she was born of Khyāti from Bhṛgu ?
2. How did the auspicious daughter of Dakṣa give up her body? And how was she conceived by Menā and born as Umā?
3. Why did the lord of lords take Himālaya ’s daughter as his wife? And why did he have hostility with Dakṣa? May the revered one tell this to me.
Pulastya said :
4. O king, listen to this (account) since you have now asked me. I have heard about this connection of Śrī (with Bhṛgu and Khyāti) from Brahmā .
5-10. Durvāsas , Atri ’s son, wandering over this earth, saw a fragant, auspicious, garland in the hand of a Vidyādhari. He solicited her for it (saying): ‘Give it to me. I shall place it in the mass of my matted hair’. Thus the Vidyādhari was asked by him. O king, being pleased, she then gave that garland to him. Taking it, he tied it to his head for a long time, and the brāhmaṇa looking like a mad ghost, said this:
‘I saw the Vidyādhari maiden, with stout, high breasts, and having charm due to brilliant ornaments; and then my mind gets perturbed today; and I am not skilled in sex. So exhibiting my good fortune, I shall go somewhere else’. O king, saying so, he wandered over the earth.
11-12. Taking from his own head that garland with intoxicating bees hovering over it, he threw it at the bright lord of gods, king of the three worlds, Śacī ’s husband, mounted upon Airāvata .
13. Taking that garland, the king of gods, put it on the head of the elephant. There it shone like Ganges on Kailāsa .
14. The elephant, with his eyes blinded by intoxication, held the garland in his trunk for smelling its fragrance, and hurled it on the earth.
15-16. Then Durvāsas, the best of the sages, got angry; and, O king, being angry, said to the king of gods: ‘O you Indra , with your mind (turned) wicked due to the intoxication of splendour, you are very stiff, since you do not rejoice at the garland, the abode of wealth, given by me.
17-23. Since you threw the garland given by me on the earth, therefore, O fool, the prosperity of the world will perish. Therefore, these three worlds of you, with their wealth perished, will stand perished. O lord of gods, you have slighted me, of whom, when angered, the movable and the immovable are afraid’. Indra, hastily getting down from the elephant’s body, propitiated the sinless sage Durvāsas. Being pleased by (Indra’s) prostrations, the brāhmaṇa left, saying: ‘I won’t pardon you; what is the use of talking too much?’ The lord of gods also, mounted upon that elephant, and went to Amarāvatī . Since then these three worlds, along with Indra, were void of affluence. Sacrifices were not performed; ascetics did not practise penance; and gifts were not given; the world had almost perished.
24. When thus the three worlds had become void of affluence and deprived of energy, the Daityas (sons of Diti ) and Dānavas (sons of Danu ) started military operations against gods.
25-31. The Daityas defeated gods; and Indra and others led by Agni , took refuge with the illustrious Brahmā. Being correctly informed by gods, Brahmā likewise spoke to them. With them he went to the northern shore of the white ocean. Having gone there, the revered Brahmā said to Vāsudeva : “Quickly get up and do whatever is good for the gods. Without you, the gods (would be) repeatedly defeated by the Dānavas.” Viṣṇu , the supreme being, having eyes like lotuses, thus addressed, looking at the gods, in an unprecedented poise, said: “O gods, I shall nourish you with strength. I shall tell you what[?] should be done by you. Bringing all herbs (and putting themṣ into the Milky Ocean, and making Vāsuki the string of the churning rod, O gods, with me to help you, churn out, along with the Daityas, the nectar (from the ocean).”
32. Talking to the Daityas in an appeasing manner about that operation (of churning the ocean) (he said to them) “Here you will share the fruit equally.”
33-34. (To the gods he said): “O gods, by drinking the nectar which will come up when the ocean will be churned you will become strong. I shall, O gods, act in such a way that the enemies of gods will not obtain nectar (but will) merely suffer anguish.”
35. All those gods thus addressed by the lord of gods, entering into a league with the Asuras , exerted to get nectar.
36-37. Gods, Daityas and Dānavas, having collected all herbs threw them into the water of the ocean which was bright like spotless autumnal sky, and having made Mandara mountain the churning rod and Vāsuki, the string of the churning rod, O best king, they started churning (the ocean).
38. All the gods remained (on that side) where the tail (of Vāsuki) was. Viṣṇu put the Daityas (on the side of the) forepart of (the body of) Vāsuki.
39. O you, lustrous like a god, all the Asuras deprived of lustre by his (Vāsuki’s) breath and fire became powerless.
40. The gods became stout by the showering clouds produced by that breath on the region of (Vāsuki’s) tail.
41-49. In the ocean, revered Brahmā, best among the wise, and Mahādeva of great lustre, remained on the back of Viṣṇu. Brahmā, tormenter of the enemies, holding the Mandara (mountain) with both hands, and preparing a couple of chains for holding the Mandara (mountain) remained between the hosts of gods and demons (Dānavas). Viṣṇu himself, remaining in the ocean in the form of a tortoise, nourished the gods with unusual lustre. Then, when the Milky Ocean was being churned by gods and demons, first a fragrant receptacle of oblation honoured by gods, became (manifest). O highly intelligent one, the gods and the demons were then glad. Their minds were distracted and their eyes were motionless. While the Siddhas (semi-divine beings possessing eight supernatural powers) were thinking in heaven ‘What is this?’, the goddess Vāruṇi became (manifest). Her eyes were rolling about due to intoxication. Then turning round from there, and faltering at every step, and having only one garment (on her person), with hair let loose, with her eyes motionless, and their corners red (she said): “I am a goddess giving strength. The demons may take me”. Regarding Vāruṇī as impure, the gods let her go. Then the demons took her. She became wine after being taken (by them).
50-54. During the churning, Pārijāta , the wealth of gods, the tree in the paradise, appeared; then came up the hosts of sixty crores of celestial nymphs, (to be) common to gods and demons; and all of them were determined to be common (i.e. available) to the doer of a religious act. Then the moon, delighting the gods, came up. God Śaṅkara implored: “(This) moon will be undoubtedly the ornament of my matted hair; I have taken him’'. Brahmā agreed to his being the ornament of Hara . Then the deadly poison (came up). By it all gods and demons with (other) deities were afflicted.
55. Mahādeva took and drank that poison at his will. Due to drinking it Mahādeva had his throat turned dark blue.
56. The Nāgas drank the remaining poison that had come up from the White Ocean. Then Dhanvantari himself holding a white umbrella sprang up.
57. He came up holding a pitcher full of nectar. Then the gods became at ease at the sight of the lord of physicians.
58-59. Then the horse (viz. Uccaiḥśravas ) and the elephant Airāvata came up. Then goddess Śrī with throbbing lustre and seated upon a blooming lotus, and holding a lotus came from that water. The great sages joyfully praised her with the hymn (called) Śrī-sūkta .
60. Gandharvas led by Viśvāvasu sang before her and the hosts of celestial nymphs headed by Ghṛtācī danced there.
61-62. The rivers, Ganges and others, came there for (giving Lakṣmī) a bath with their water. The quarter-elephants bringing pure water in golden pots, bathed the goddess, the great ruler of all the worlds. The Milky Sea himself gave her a garland of unblooming lotuses. Viśvakarmā put ornaments on her body.
63-66. The hosts of gods like Indra, the Vidyādharas and great snakes, demons (Dānavas). great Daityas, Rākṣasas with Guhyakas , longed for that maiden, who had bathed, put on divine flowers and garments and was adorned with ornaments. Then Brahmā said: “O Vāsudeva, you alone accept her, offered by me to you. The gods and demons have been forbidden by me in this case (i.e. from seeking her hand). I am pleased with your steady performance.”
67. And the goddess was (thus) addressed by Brahmā: “O goddess, go to Keśava ; obtaining the bridegroom given by me, be happy for many years.”
68. When allgods were watching, she resorted to Hari ’s bosom. Then reaching the bosom she said (these) words to the god (Viṣṇu):
69. “O dear to all the world, I am not to be forsaken by you. Being always obedient to you I shall stay on your bosom.”
70-71. Then O best king, the gods seen by Lakṣmī, who had resorted to Viṣṇu’s bosom, suddenly became very glad, but the Daityas (demons) who were opposed to Viṣṇu, became extremely dejected. Lakṣmī shunned the Dānavas (demons) led by Vipracitti .
72. Then the very powerful Daityas, full of sin seized the nectar which was in the hands of Dhanvantari.
73-75. But Viṣṇu, taking a female form, and alluring the Dānavas with a trick, approaching them, said: “Give the pitcher to me; being obedient to you I shall stay in your house.” Seeing that beautiful lady, most lovely in the three worlds and of a charming body, they, with their minds overpowered by greed and longing for her, gave her that nectar and looked in front.
76. Taking that nectar from the Dānavas, Viṣṇu gave it to the gods. Then the hosts of gods led by Śakra drank that nectar.
77. With their weapons and swords raised, the Daityas attacked them. The army of Daityas was then vanquished by gods being mighty after having drunk the nectar.
78-79. Being killed (by gods) they turned to (different) quarters and entered the nether world. Then gods, being glad, saluting (Viṣṇu), the holder of the conch, disc, and mace, repaired, as before, to heaven. Since then, O Bhīṣma , the Dānavas have become eager for (the company of) ladies.
80-84. Mentally cursed by Kṛṣṇa (i.e. Viṣṇu) they went to the lower world. Then the Sun of pleasing lustre, moved along his path. Fire, of charming brilliance blazed aloft and all the beings entertained regard for righteousness and the three worlds endowed with Śrī were protected by Viṣṇu. Then the gods were addressed by Brahmā, preserver of the world:
“I have appointed Viṣṇu and the chief of gods, Lord of Umā, for your protection. And since they are propitious to you when waited upon, they will look after your welfare, and they, taking care of your well-being will grant you boons.”
85-86. Saying so the lord went his way. When the grand-sire of all the worlds vanished and when Indra went to heaven, that moment Viṣṇu and Śaṅkara reached Vainkuṇṭha and Kailāsa.
87. Then the king of gods protected the three worlds. Thus glorious Lakṣmī sprang up from the Milky Ocean.
88-90. O great king, this eternal one (i.e. Lakṣmī) was again born with great splendour to Khyāti from Bhṛgu. The great sage Bhṛgu first made his capital, named after her, on the bank of the river Narmadā , and was approved by Brahmā.
Having given her city along with its key to her father, she came to the divine world and coming back again asked her father to return it.
91. When she did not get back the city given to Bhṛgu from him through greed, though she asked for it, then she said to Viṣṇu:
92. “I have been humiliated by my father; he has taken my city. Snatching it from him, give it to me.”
93. The lord, with lotus-like eyes and holding the disc and mace, going to Bhṛgu spoke courteously to him:
94. “Give the city to your daughter. Be gracious; give to her both the key and the lock (of the city).” Being angry Bhṛgu said to him:
95. “I will not give her the city. O god, it is not Lakṣmī’s city. I myself have fashioned it. Sir, I will not give it. Stop censuring me.”
96. Again the lord said to him: “Give the city to Lakṣmī. By all means, O great sage, by my order you have to give it up.”
97-98. Then, overcome with anger, Bhṛgu too said to Keśava: “O good one, due to your partiality for your wife, you are now harassing me. O Madhusūdana , you will have ten births in the human world. You will experience many agonies by separation from your wife.”
99. Bhṛgu, extremely angry, thus cursed him. The noble Viṣṇu too, cursed him back.
100. “0 best sage, you will not get the affection of your children.” Having (thus) cursed the sage, he went to the world of Brahmā.
101-103. Seeing him (i.e. Brahmā), who was born from the lotus, Keśava said: “Sir, this your son Bhṛgu is very irascible. Without any reason he has cursed me: ‘You will have ten births in the human world (as a human being), and as a result of that (you will) (suffer from) miseries of many kinds, (and have) suffering due to the separation from your wife, which would destroy your might and valour.’ Leaving this world, I shall lie in the great ocean.
104-105. Invoke me for all divine missions”. In order to please Viṣṇu, who was speaking thus, Brahmā, the lord of the world of gods, thus praised him:”You created this world, and the lotus issued from (your) navel. I was born there, and am your servant, O Keśava.
106. O lord, you are the protector of all the worlds, and the creator of the universe. You should not leave the three worlds. This alone is my wish.
107. With the desire for the well-being of the worlds, you live for ten existences among human beings. You are the independent author. Nobody is capable of cursing you.
108. Who is this Bhṛgu? How is it possible for him to curse (you)? Always honour the brāhmaṇas ; the brāhmaṇas are your own body.
109. Resort to light sleep (i.e. Viṣṇu’s sleep at the end of a yuga ) O lord; lie in the Milky Ocean. At the time of performing a mission, I shall wake you up.
110-112. Sir, this Śakra, grown by your power and killer of enemies, doing all your deeds as your secondary incarnation, will protect the three worlds; he will obey your order”. Viṣṇu, thus praised, said to Brahmā: “I shall do all that you ask me (to do) O lord.” The lord (Viṣṇu) disappeared; Brahmā did not notice it.
113. When lord Viṣṇu had left, lord Brahmā, the grandsire of the worlds, the source of the worlds, again created the world.
114. Seeing that, Nārada ,the best among those conversant with speech, said (these) words: “The supreme being, with a thousand heads, a thousand eyes, a thousand feet, all-pervading, remained ten fingers above the touch of the earth.
115. Since you are whatever is past and whatever is future, therefore. O father, all this has come up from you, and will come up from you.
116. From you has come up Sacrifice with everything, such as the oblation, the ghee mixed with coagulated milk, and the beasts of two kinds. Ṛks and Sāmans have sprung up from you.
117. Sacrifices have come up from you, and also the elephants; cows have sprung up from you, and also birds and wild beasts.
118. From your mouth the brāhmaṇas came up; the kṣatriyas are born from you. The vaiśyas have been born from your thighs and the śūdras have come up from your feet.
119-121. From your eyes the sun came up; the wind has come from your ear; the moon (has sprung up) from your mind. Breath (has proceeded) from your internal cavity, and fire from your mouth. The sky came up from your navel, and the heaven from your head; quarters from your ear; the earth from your feet; all this has come up from you. As the great fig-tree (the Nyagrodha tree) remains well in a small seed, so all this has come up (from you) with you as the seed.
122. As the fig-tree rises from the seed and the sprout, and grows, in the same way the world rises and grows from you.
123. As the plantain tree and nothing else is beheld from the barks and leaves, similarly, O lord, all this is seen to be residing in you.
124. In you is the pleasing power; it alone has come up with you. In you, free from qualities, the mixed power causing joy and affliction does not exist.
125. Salutation to you, who have remained separately and unitedly, and you who are all the beings. You are the manifest, the (unmanifest) Pradhāna , your first progeny ( Virāṭa Puruṣa ) and the universal lord.
126. In everything you are the all-in-all; you are everything, and you take up all forms; everything has come up from you; salutation to you, the soul of all.
127. O lord of all, you are the soul of everything, since you are present in all beings; what shall I tell you, since you know everything that is in (our) mind.
128. O lord, you have fulfilled the desire which I had. My penance is well-practised, as I have seen you, O lord of the world.”
Brahmā said :.
129. Son, that is the fruit ofyour penance that you have seen me now. Here, O Nārada, seeing me would not be in vain.
130. Therefore, ask for a boon of your liking. Everything is accomplished, O son, when I am seen.
Nārada said :
131. O sire, O lord of all beings, you remain in the heart of everyone. Is, what is mentally desired by me, not known to you?
132. O lord, I have seen the creation of the world as done by you. Therefore, seeing the gods. sages and demons, curiosity has sprung up in me.
Pulastya said :
133-134. God Brahmā, the lord of heaven, father of Nārada, was pleased, and gave a boon to Nārada: “You are the best among the sages. Due to my favour you will be fond of jesting and promoting discords, and you will move freely in the heaven, on the earth and in the nether region.
135. O sinless one, your ornaments will be, along with the sacred thread, a cloth thrown over the back, and hanging down the knees, a small umbrella, and a lute.
136. You will always obtain affection in the presence of (i.e. from) Viṣṇu, Rudra , and Śakra, and in the regions of kings.
137. You will be the instructor of the castes. This is the boon I have granted you, O sinless one. Live in heaven at your sweet will with gods waiting upon you.”
Complete chapter-aligned witnesses. Sanskrit Wikisource page 32003, revision 334423 (2022-04-03T10:11:43Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364124.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.