Skip to main content

Kriyāyogasāra-khaṇḍa · Chapter 10

Chapter 10

Unit 677 of 693Kriyāyogasāra-khaṇḍa · Chapter 10Kriyāyogasāra-khaṇḍa · Chapter 101 source entries

Kriyāyogasāra-khaṇḍa · Chapter 10

Source

जैमिनिरुवाच- माहात्म्यमेतद्गङ्गायास्त्वत्प्रसादाच्छ्रुतं मया । इदानीं श्रोतुमिच्छामि विष्णुपूजाफलं गुरो १। व्यास उवाच- शृणु लक्ष्मीपतेर्वत्स सपर्या फलमुत्तमम् । यच्छ्रुत्वा मानवाः सर्वे लभंते ज्ञानमुत्तमम् २। विप्र द्वादशमासेषु माघादिषु सनातनः । पूजितव्यो विधानैर्यैः शृणु तानि वदाम्यहम् ३। माघेमासि समायाते सर्वमासोत्तमे शुभे । आमिषं मैथुनं चैव त्याजयेद्वैष्णवोत्तमः ४। प्रातःस्नायी भवेन्नित्यं तैलान्यपि च वर्जयेत् । द्विर्भोजनं परान्नं च माघेमासि परित्यजेत् ५। प्रातः शुक्लांबरधरः कृतपंच महाध्वरः । सपर्यामारभेद्विष्णोः स्थिरचित्तो हि मानवः ६। ईषदुष्णजलैः शुद्धैः स्नापयेद्विष्णुमव्ययम् । अतिश्लथैश्चंदनैश्च विष्णोरङ्गानि लेपयेत् ७। पूजयेज्जगदीशस्य देवदेवस्य चक्रिणः । प्रक्षालितानि पात्राणि जलहीनानि कारयेत् ८। स्नापयित्वा जगन्नाथमीषदुष्णेन वारिणा । प्रोक्षितव्यं तच्छरीरं दिव्यवस्त्रेण यत्नतः ९। सलिलैरीषदुष्णैश्च प्रस्नापयति केशवम् । माघेमासि द्विजश्रेष्ठ फलं तस्य मयोच्यते १०। विमुक्तः पातकैः सर्वैर्जन्मजन्मांतरार्जितैः । इह भुंक्ते सुखं सर्वं शेषे याति हरेर्गृहम् ११। यत्नात्प्रक्षाल्य पात्राणि कृत्वाशुद्धानिवारिभिः । यः पूजयेज्जगन्नाथं तस्य पुण्यं निशामय १२। इह भुक्त्वाखिलान्कामान्सर्वव्याधिविवर्जितः । अंते युगसहस्राणि तिष्ठेत्केशवमंदिरम् १३। प्रभाते विश्वसंध्यायां पुरतश्चक्रपाणिनः । ज्वलंतं स्थापयेद्वह्निं निर्द्धूमं वैष्णवो जनः १४। शीतस्य वारणार्थाय सायंप्रातश्च वैष्णवः । माघे विष्ण्वग्रतो वह्निं ज्वालयेत्तत्फलंशृणु १५। इह भुक्त्वाखिलान्कामान्पुत्रपौत्रसमन्वितः । अंते विष्णुपुरं याति दैवतैरपि दुर्ल्लभम् १६। यथैवात्मा तथा विष्णुः संदेहोनात्र विद्यते । स्वपंतं देवदेवेशं पर्यंकोपरि केशवम् १७। आत्मनः कुरुते मर्त्यो यथा शीतनिवारणम् । क्षीरेण स्नापयेद्यस्तु माघे मासि जनार्दनम् । तस्मै देवोत्तमो विष्णुः संतुष्टो न ददाति किम् १८। तथा शीतक्षयं कुर्याद्दिव्यवस्त्रेण चक्रिणः १९। यः पूजयेत्सकृन्माघे स्नापयित्वा चतुर्भुजम् । नालिकेरोदकैर्दुग्धैः फलं तस्य वदाम्यहम् २०। नरकाब्धौ मज्जमानान्दुस्तरे स्वेन कर्मणा । उद्धृत्य कोटिपुरुषान्स याति चक्रिणः पदम् २१। माघे मासे च शुक्लायां पंचम्यां द्विजसत्तम । एकादश्यां च पंचम्यां हरिपूजा विशेषतः २२। दातव्यो देवदेवाय सपद्माय मुरारये । पायसो धूपसहितो माघेमासि दिने दिने २३। सधूपपायसं यस्तु माघे यच्छति चक्रिणे । तस्य पुण्यफलं वच्मि शृणु वैष्णव जैमिने २४। अंते विष्णुपुरं गत्वा मन्वंतरचतुष्टयम् । भुंक्ते मनोरमान्भोगान्प्रसादाच्चक्रपाणिनः २५। पुनरागत्य धरणीं चक्रवर्ती नृपो भवेत् । भुंक्ते च भोगं सुचिरं मृतो याति हरेर्गृहम् २६। पंचम्यां वापि सप्तम्यामेकादश्यां च जैमिने । अशक्तो वैष्णवो दद्यात्परमान्नं मुरारये २७। कृष्णपक्षाद्दिवजश्रेष्ठ शुक्लपक्षे विशेषतः । शुक्लपक्षे तिथिष्वेषु दद्यादन्नं मुरारये २८। एकाहमपि यो माघे विष्णवे दैत्यजिष्णवे । सपूपंपायसं दद्यान्न तस्य दुर्ल्लभो हरिः २९। यत्किच्चिद्दिवजतुष्ट्यर्थं माघेमासि प्रदीयते । तदक्षयं भवेत्पुंसः कोऽपि नास्त्यत्र संशयः ३०। माघे मासि कृतं कर्म शुभं वाशुभमेव वा । तस्य नास्ति क्षयं विप्र मन्वंतरशतैरपि ३१। माघे चंपकपुष्पेण योऽर्चयेत्कमलापतिम् । स गच्छेत्परमं धाम विमुक्तः सर्वपातकैः ३२। यावंति स्वर्णपुष्पाणि दीयंते चक्रपाणये । तावद्युगसहस्राणि स्थीयते विष्णुमंदिरम् ३३। मेरुतुल्यसुवर्णानि दत्वा भवति यत्फलम् । एकेन स्वर्णपुष्पेण हरिं संपूज्य तत्फलम् ३४। सुवर्णपुष्पं विप्रेन्द्र सर्वदा केशवप्रियम् । माघेमासि विशेषेण पवित्रं केशवप्रियम् ३५। सुवर्णकुसुमैर्दिव्यैर्येन नाराधितो हरिः । रत्नैर्हीनः सुवर्णाद्यैः स भवेज्जन्मजन्मनि ३६। फलं चंपकपुष्पस्य ब्रवीम्यहं विशेषतः । आकर्णय द्विजश्रेष्ठ सेतिहासमनुत्तमम् ३७। सुवर्णो नाम भूपालो बलवान्सर्वशास्त्रवित् । आर्यावर्तेषु सर्वेषु बभूव विप्रवर्चसा ३८। राजश्रिया विद्यया च वयसा च स भूपतिः । अतिप्रमत्तो विप्रर्षे सदा पापरतोऽभवत् ३९। पाखंडमंत्रिणां वाक्यैर्विनादोषैरपि द्विज । धनलोभात्तेन राज्ञा दंड्यंते साधवो जनाः ४०। अन्यायोपार्जितं वित्तं गीतवाद्यादिभिर्वृतः । समस्तं नाशयामास यज्ञदानविवर्जितः ४१। न ज्ञातिपोषणं चक्रे न देवद्विजभोजनम् । न च याचकसंतुष्टिं सर्वदा पापमोहितः ४२। न चकारातिथेः पूजां सदा पापपरायणः । ययौ च मंदिरान्नित्यं स भूपः पापमंदिरः ४३। कृतानि तेन पापानि यान्यन्यान्यविवेकिनाम् । अपि वर्षशतैः शक्तः संख्यातुं जनितानि किम् ४४। एकदा स महीपालः कामेन परिमोहितः । जगाम वेश्यानिलयं निशीथे दुरिताशयः ४५। तमायांतं ततो दृष्ट्वा भूपालमुज्ज्वलाह्वया । सहसोत्थाय पर्यंके चक्रे तत्पादवंदनम् ४६। प्रक्षाल्य तत्पादयुगं भृंगारसलिलैश्च सा । मंचे निवेशयामास दोर्भ्यामालिङ्ग्य तं नृपम् ४७। तत्प्रेमामृतधाराभिः सिक्तोऽसौ पृथिवीपतिः । तस्मिन्नुवास पर्यंके तया सह कुतूहली ४८। ततः सा गणिका प्रीत्या हसंती नवयौवना । ददौ चंपकपुष्पाणां तस्मै भूमिभुजे स्वयम् ४९। पुष्पमाला पुष्पमेकं तस्माद्भूपति हस्ततः । पपात धरणीपृष्ठे गन्धव्याप्तदिगंतरम् ५० 7.10.50। तच्च्युतं कुसुमं दृष्ट्वा स राजाऽत्यतसंभ्रमात् । नमोनारायणायेति जगादोङ्कारपूर्वकम् ५१। नारायणायेति वाक्यात्सर्वाणि पातकानि च । स्वर्णपुष्पप्रदानेन तस्य नष्टानि भूभुजः ५२। ग्रामीणा अथ सर्वेऽपि समागत्यातिदुर्जये । तस्यामेव निशायां तं जघ्नुर्वेश्यागृहे स्थितम् ५३। नेतुं तमथ भूपालं सर्वपातकिनां वरम् । किंकरान्प्रेषयामास क्रुद्धो वैवस्वतो भृशम् ५४। तेनाज्ञप्तास्ततो दूताः पाशमुद्गरपाणयः । अतिवेगात्समायाताः क्रोधसंरक्तलोचनाः ५५। उद्यमं चक्रिरे नेतुं यमदूताः स्वमालयम् । ततो नारायणप्रेष्याः शङ्खचक्रगदाधराः ५६। आयाता गरुडारूढास्तं नेतुं पृथिवीपतिम् । पाशे नियंत्रितं दृष्ट्वा तं भूपं विष्णुकिंकराः ५७। जघ्नुश्चक्रैर्गदाभिश्च यमदूतान्महाबलाः । समारोप्य रथे दिव्ये शंखान्दध्मुरनुत्तमान् ५८। तथा राजा रथारूढस्तुलसीमाल्यभूषितः । पीतकौशेयवासाश्च स्वर्णालंकारभूषितः ५९। स्तूयमानो मुनिगर्णैर्वेदवेदाङ्गपारगैः । विष्णुदूतैः परिवृतो हरेः सालोक्यमाययौ ६०। अथोत्थाय स्वयं विष्णुश्चतुर्भिर्दीर्घबाहुभिः । तमालिंगितवान्भूपं प्रोक्तवांश्च द्विजोत्तम ६१। श्रीभगवानुवाच- नृपते कुशलं ब्रूहि सर्वपुण्यात्मनां वर । किमस्ति साध्यं भवतस्तदाज्ञापय संप्रति ६२। नमोनारायणायेति वारैकमपि यो वदेत् । नित्यं तस्यानुपाल्योऽहं स मे भ्राता स मे पिता ६३। नारायणेति मन्नाम कदाचिद्यः स्मेरन्नरः । साधयाम्यखिलं तस्य पितुः पुत्र इवेप्सितम् ६४। भक्तोऽसि नृपतिश्रेष्ठ तस्मान्निजमनोरथम् । प्रकाशयाद्भुतं तात किं ते दास्यामि चाधुना ६५। राजोवाच- सर्वमेव दयासिन्धो त्वया दत्तं न संशयः । पापिनापि मया प्राप्तं तव स्थानं सुदुर्ल्लभम् ६६। तस्यानेन तु वाक्येन प्रसन्नः कमलापतिः । स्नेहान्निवेशयामास भूपालं तन्निशामय ६७। ततः सुवर्णालंकारैर्विश्वकर्मविनिर्मितैः । चकार मण्डलं तस्य स्वयमेव दयामया ६८। अथ नानाविधैर्भक्ष्यैर्दिव्यैरपि सुदुर्ल्लभैः । तोषितः स महीपालो विष्णुनाति सहिष्णुना ६९। एवं प्रतिदिनं तस्थौ स राजा विष्णुमंदिरम् । मन्वन्तरसहस्राणि नव वर्ष शतानि च ७०। प्रजानां पालनं चक्रे स राजा धर्मतत्परः । पूजयामास सततं भक्त्या परमया हरिः ७१। चारु चंपकपुष्पैश्च नैवेद्यैर्विविधैश्च सः । आयुःशेषे स भूपालो मरणं जाह्नवी जले ७२। समासाद्य ययौ मोक्षं प्रसादाच्चक्रपाणिनः । व्यास उवाच- विप्र चंपकपुष्पस्य प्रभावोऽयं प्रकीर्तितः ७३। चपंकैर्हरिमभ्यर्च्य मुक्ताः स्युः पापिनो जनाः । स्फुटचंपकपुष्पेण पूजितो भगवान्हरिः ७४। अचिरेणैव विप्रर्षे ददाति परमं पदम् । ये यजंति परात्मानमिच्छया वाप्यनिच्छया ७५। तेऽपि यांति परं धाम विमुक्ताः सर्वपातकैः ७६। हरौ प्रसन्ने दुरितानिकोऽपि यतः स राजा कृतपातकोऽपि । जगाम मोक्षं कृपयामुरारेर्विश्वार्णवं निम्नमिमं वितीर्य ७७। दिव्यैः सुगन्धैः कनकप्रसूनैर्नारायणं पद्मदलायताक्षम् । भक्त्या यजेद्यः परमादरेण मर्त्यो व्रजेत्तत्तु विहाय पापम् ७८।

jaiminiruvāca- māhātmyametadgaṅgāyāstvatprasādācchrutaṃ mayā | idānīṃ śrotumicchāmi viṣṇupūjāphalaṃ guro 1| vyāsa uvāca- śṛṇu lakṣmīpatervatsa saparyā phalamuttamam | yacchrutvā mānavāḥ sarve labhaṃte jñānamuttamam 2| vipra dvādaśamāseṣu māghādiṣu sanātanaḥ | pūjitavyo vidhānairyaiḥ śṛṇu tāni vadāmyaham 3| māghemāsi samāyāte sarvamāsottame śubhe | āmiṣaṃ maithunaṃ caiva tyājayedvaiṣṇavottamaḥ 4| prātaḥsnāyī bhavennityaṃ tailānyapi ca varjayet | dvirbhojanaṃ parānnaṃ ca māghemāsi parityajet 5| prātaḥ śuklāṃbaradharaḥ kṛtapaṃca mahādhvaraḥ | saparyāmārabhedviṣṇoḥ sthiracitto hi mānavaḥ 6| īṣaduṣṇajalaiḥ śuddhaiḥ snāpayedviṣṇumavyayam | atiślathaiścaṃdanaiśca viṣṇoraṅgāni lepayet 7| pūjayejjagadīśasya devadevasya cakriṇaḥ | prakṣālitāni pātrāṇi jalahīnāni kārayet 8| snāpayitvā jagannāthamīṣaduṣṇena vāriṇā | prokṣitavyaṃ taccharīraṃ divyavastreṇa yatnataḥ 9| salilairīṣaduṣṇaiśca prasnāpayati keśavam | māghemāsi dvijaśreṣṭha phalaṃ tasya mayocyate 10| vimuktaḥ pātakaiḥ sarvairjanmajanmāṃtarārjitaiḥ | iha bhuṃkte sukhaṃ sarvaṃ śeṣe yāti harergṛham 11| yatnātprakṣālya pātrāṇi kṛtvāśuddhānivāribhiḥ | yaḥ pūjayejjagannāthaṃ tasya puṇyaṃ niśāmaya 12| iha bhuktvākhilānkāmānsarvavyādhivivarjitaḥ | aṃte yugasahasrāṇi tiṣṭhetkeśavamaṃdiram 13| prabhāte viśvasaṃdhyāyāṃ purataścakrapāṇinaḥ | jvalaṃtaṃ sthāpayedvahniṃ nirddhūmaṃ vaiṣṇavo janaḥ 14| śītasya vāraṇārthāya sāyaṃprātaśca vaiṣṇavaḥ | māghe viṣṇvagrato vahniṃ jvālayettatphalaṃśṛṇu 15| iha bhuktvākhilānkāmānputrapautrasamanvitaḥ | aṃte viṣṇupuraṃ yāti daivatairapi durllabham 16| yathaivātmā tathā viṣṇuḥ saṃdehonātra vidyate | svapaṃtaṃ devadeveśaṃ paryaṃkopari keśavam 17| ātmanaḥ kurute martyo yathā śītanivāraṇam | kṣīreṇa snāpayedyastu māghe māsi janārdanam | tasmai devottamo viṣṇuḥ saṃtuṣṭo na dadāti kim 18| tathā śītakṣayaṃ kuryāddivyavastreṇa cakriṇaḥ 19| yaḥ pūjayetsakṛnmāghe snāpayitvā caturbhujam | nālikerodakairdugdhaiḥ phalaṃ tasya vadāmyaham 20| narakābdhau majjamānāndustare svena karmaṇā | uddhṛtya koṭipuruṣānsa yāti cakriṇaḥ padam 21| māghe māse ca śuklāyāṃ paṃcamyāṃ dvijasattama | ekādaśyāṃ ca paṃcamyāṃ haripūjā viśeṣataḥ 22| dātavyo devadevāya sapadmāya murāraye | pāyaso dhūpasahito māghemāsi dine dine 23| sadhūpapāyasaṃ yastu māghe yacchati cakriṇe | tasya puṇyaphalaṃ vacmi śṛṇu vaiṣṇava jaimine 24| aṃte viṣṇupuraṃ gatvā manvaṃtaracatuṣṭayam | bhuṃkte manoramānbhogānprasādāccakrapāṇinaḥ 25| punarāgatya dharaṇīṃ cakravartī nṛpo bhavet | bhuṃkte ca bhogaṃ suciraṃ mṛto yāti harergṛham 26| paṃcamyāṃ vāpi saptamyāmekādaśyāṃ ca jaimine | aśakto vaiṣṇavo dadyātparamānnaṃ murāraye 27| kṛṣṇapakṣāddivajaśreṣṭha śuklapakṣe viśeṣataḥ | śuklapakṣe tithiṣveṣu dadyādannaṃ murāraye 28| ekāhamapi yo māghe viṣṇave daityajiṣṇave | sapūpaṃpāyasaṃ dadyānna tasya durllabho hariḥ 29| yatkicciddivajatuṣṭyarthaṃ māghemāsi pradīyate | tadakṣayaṃ bhavetpuṃsaḥ ko'pi nāstyatra saṃśayaḥ 30| māghe māsi kṛtaṃ karma śubhaṃ vāśubhameva vā | tasya nāsti kṣayaṃ vipra manvaṃtaraśatairapi 31| māghe caṃpakapuṣpeṇa yo'rcayetkamalāpatim | sa gacchetparamaṃ dhāma vimuktaḥ sarvapātakaiḥ 32| yāvaṃti svarṇapuṣpāṇi dīyaṃte cakrapāṇaye | tāvadyugasahasrāṇi sthīyate viṣṇumaṃdiram 33| merutulyasuvarṇāni datvā bhavati yatphalam | ekena svarṇapuṣpeṇa hariṃ saṃpūjya tatphalam 34| suvarṇapuṣpaṃ viprendra sarvadā keśavapriyam | māghemāsi viśeṣeṇa pavitraṃ keśavapriyam 35| suvarṇakusumairdivyairyena nārādhito hariḥ | ratnairhīnaḥ suvarṇādyaiḥ sa bhavejjanmajanmani 36| phalaṃ caṃpakapuṣpasya bravīmyahaṃ viśeṣataḥ | ākarṇaya dvijaśreṣṭha setihāsamanuttamam 37| suvarṇo nāma bhūpālo balavānsarvaśāstravit | āryāvarteṣu sarveṣu babhūva vipravarcasā 38| rājaśriyā vidyayā ca vayasā ca sa bhūpatiḥ | atipramatto viprarṣe sadā pāparato'bhavat 39| pākhaṃḍamaṃtriṇāṃ vākyairvinādoṣairapi dvija | dhanalobhāttena rājñā daṃḍyaṃte sādhavo janāḥ 40| anyāyopārjitaṃ vittaṃ gītavādyādibhirvṛtaḥ | samastaṃ nāśayāmāsa yajñadānavivarjitaḥ 41| na jñātipoṣaṇaṃ cakre na devadvijabhojanam | na ca yācakasaṃtuṣṭiṃ sarvadā pāpamohitaḥ 42| na cakārātitheḥ pūjāṃ sadā pāpaparāyaṇaḥ | yayau ca maṃdirānnityaṃ sa bhūpaḥ pāpamaṃdiraḥ 43| kṛtāni tena pāpāni yānyanyānyavivekinām | api varṣaśataiḥ śaktaḥ saṃkhyātuṃ janitāni kim 44| ekadā sa mahīpālaḥ kāmena parimohitaḥ | jagāma veśyānilayaṃ niśīthe duritāśayaḥ 45| tamāyāṃtaṃ tato dṛṣṭvā bhūpālamujjvalāhvayā | sahasotthāya paryaṃke cakre tatpādavaṃdanam 46| prakṣālya tatpādayugaṃ bhṛṃgārasalilaiśca sā | maṃce niveśayāmāsa dorbhyāmāliṅgya taṃ nṛpam 47| tatpremāmṛtadhārābhiḥ sikto'sau pṛthivīpatiḥ | tasminnuvāsa paryaṃke tayā saha kutūhalī 48| tataḥ sā gaṇikā prītyā hasaṃtī navayauvanā | dadau caṃpakapuṣpāṇāṃ tasmai bhūmibhuje svayam 49| puṣpamālā puṣpamekaṃ tasmādbhūpati hastataḥ | papāta dharaṇīpṛṣṭhe gandhavyāptadigaṃtaram 50 7.10.50| taccyutaṃ kusumaṃ dṛṣṭvā sa rājā'tyatasaṃbhramāt | namonārāyaṇāyeti jagādoṅkārapūrvakam 51| nārāyaṇāyeti vākyātsarvāṇi pātakāni ca | svarṇapuṣpapradānena tasya naṣṭāni bhūbhujaḥ 52| grāmīṇā atha sarve'pi samāgatyātidurjaye | tasyāmeva niśāyāṃ taṃ jaghnurveśyāgṛhe sthitam 53| netuṃ tamatha bhūpālaṃ sarvapātakināṃ varam | kiṃkarānpreṣayāmāsa kruddho vaivasvato bhṛśam 54| tenājñaptāstato dūtāḥ pāśamudgarapāṇayaḥ | ativegātsamāyātāḥ krodhasaṃraktalocanāḥ 55| udyamaṃ cakrire netuṃ yamadūtāḥ svamālayam | tato nārāyaṇapreṣyāḥ śaṅkhacakragadādharāḥ 56| āyātā garuḍārūḍhāstaṃ netuṃ pṛthivīpatim | pāśe niyaṃtritaṃ dṛṣṭvā taṃ bhūpaṃ viṣṇukiṃkarāḥ 57| jaghnuścakrairgadābhiśca yamadūtānmahābalāḥ | samāropya rathe divye śaṃkhāndadhmuranuttamān 58| tathā rājā rathārūḍhastulasīmālyabhūṣitaḥ | pītakauśeyavāsāśca svarṇālaṃkārabhūṣitaḥ 59| stūyamāno munigarṇairvedavedāṅgapāragaiḥ | viṣṇudūtaiḥ parivṛto hareḥ sālokyamāyayau 60| athotthāya svayaṃ viṣṇuścaturbhirdīrghabāhubhiḥ | tamāliṃgitavānbhūpaṃ proktavāṃśca dvijottama 61| śrībhagavānuvāca- nṛpate kuśalaṃ brūhi sarvapuṇyātmanāṃ vara | kimasti sādhyaṃ bhavatastadājñāpaya saṃprati 62| namonārāyaṇāyeti vāraikamapi yo vadet | nityaṃ tasyānupālyo'haṃ sa me bhrātā sa me pitā 63| nārāyaṇeti mannāma kadācidyaḥ smerannaraḥ | sādhayāmyakhilaṃ tasya pituḥ putra ivepsitam 64| bhakto'si nṛpatiśreṣṭha tasmānnijamanoratham | prakāśayādbhutaṃ tāta kiṃ te dāsyāmi cādhunā 65| rājovāca- sarvameva dayāsindho tvayā dattaṃ na saṃśayaḥ | pāpināpi mayā prāptaṃ tava sthānaṃ sudurllabham 66| tasyānena tu vākyena prasannaḥ kamalāpatiḥ | snehānniveśayāmāsa bhūpālaṃ tanniśāmaya 67| tataḥ suvarṇālaṃkārairviśvakarmavinirmitaiḥ | cakāra maṇḍalaṃ tasya svayameva dayāmayā 68| atha nānāvidhairbhakṣyairdivyairapi sudurllabhaiḥ | toṣitaḥ sa mahīpālo viṣṇunāti sahiṣṇunā 69| evaṃ pratidinaṃ tasthau sa rājā viṣṇumaṃdiram | manvantarasahasrāṇi nava varṣa śatāni ca 70| prajānāṃ pālanaṃ cakre sa rājā dharmatatparaḥ | pūjayāmāsa satataṃ bhaktyā paramayā hariḥ 71| cāru caṃpakapuṣpaiśca naivedyairvividhaiśca saḥ | āyuḥśeṣe sa bhūpālo maraṇaṃ jāhnavī jale 72| samāsādya yayau mokṣaṃ prasādāccakrapāṇinaḥ | vyāsa uvāca- vipra caṃpakapuṣpasya prabhāvo'yaṃ prakīrtitaḥ 73| capaṃkairharimabhyarcya muktāḥ syuḥ pāpino janāḥ | sphuṭacaṃpakapuṣpeṇa pūjito bhagavānhariḥ 74| acireṇaiva viprarṣe dadāti paramaṃ padam | ye yajaṃti parātmānamicchayā vāpyanicchayā 75| te'pi yāṃti paraṃ dhāma vimuktāḥ sarvapātakaiḥ 76| harau prasanne duritāniko'pi yataḥ sa rājā kṛtapātako'pi | jagāma mokṣaṃ kṛpayāmurārerviśvārṇavaṃ nimnamimaṃ vitīrya 77| divyaiḥ sugandhaiḥ kanakaprasūnairnārāyaṇaṃ padmadalāyatākṣam | bhaktyā yajedyaḥ paramādareṇa martyo vrajettattu vihāya pāpam 78|

English translation

Jaimini said :

1. O preceptor, through your grace I have heard this (description of the) greatness of Gaṅgā . Now, I desire to listen to the fruit of Viṣṇu ’s worship.

Vyāsa said :

2-3. O dear, listen to the excellent fruit of the worship of the lord of Lakṣmī , hearing whicḥ all men obtain excellent knowledge. O brāhmaṇa , listen to the rules according to which the Eternal One should be worshipped in the twelve months like Māgha . I shall (now) tell them.

4-8. When the auspicious month of Māgha, the best of all months, comes, the best devotee of Viṣṇu should give up (eating) flesh and coitus. He should everyday bathe in the morning; he should also avoid (the use of) oils; he should avoid taking food twice (a day) and also the food of others in the month of Māgha. A man, wearing a white garment, should, with a firm mind, begin worshipping Viṣṇu in the morning after having performed the five major sacrifices (viz. brahmayajña etc.). With lukewarm, pure water he should give bath to (the image of) the immutable Viṣṇu. He should besmear the parts of the body (of the image) of Viṣṇu with loose (i.e. soft) sandal. He should worship these of the lord of the world, the chief of gods, the Disc-holder. He should dry the vessels that are washed.

9-11. Having bathed (the image of) the lord of the world with lukewarm water, he should carefully dry his body with a divine garment. O best brāhmaṇa, I (shall) tell about the fruit which he who bathes (the image of) Viṣṇu with lukewarm water in the month of Māgha, gets. Freed from all sins committed in former existences, he enjoys all pleasure in this world, and (to enjoy) the remaining pleasure he goes to Viṣṇu’s abode.

12-14. Listen to the religious merit of (i.e. obtained by) him who, after having washed the vessels and having purified them with water, would worship the (image of) the lord of the world. Free from all diseases, he, enjoying all desired objects here (i.e. in this world), would finally dwell for thousands of yugas in Viṣṇu’s abode. In the morning and in the entire evening a devotee of Viṣṇu should place a smokeless, burning fire in front of (the image of) the Disc-holder (i.e. Viṣṇu).

15-19. Listen to the fruit of, i.e. obtained by, that devotee of Viṣṇu, who would burn fire in the morning and in the evening before (the image of) Viṣṇu in the month of Māgha to keep off cold. He, along with his sons and grandsons, enjoys all desired objects in this world, and in the end goes to Viṣṇu’s city, difficult to be reached even by deities. As is his soul (to him) so is Viṣṇu. There is no doubt about this. A man should keep away cold from (the imags of) Viṣṇu sleeping on the bed as he keeps away cold from himself. What does the best god, being pleased, not give to him who would bathe (the image of) Viṣṇu with milk during the month of Māgha? In the same way he

should remove the cold (of the image) of the Disc-holder with a divine garment.

20-26. I shall tell the fruit of (i.e. obtained by) him who would worship (the image of) Viṣṇu after bathing him (it) with cocoanut water and milk in the month of Magha . He, having lifted up a crore of men of his family sinking due to their own acts in the ocean of hell, difficult to cross, goes to the position of the Disc-holder (i.e. Viṣṇu). O best brāhmaṇa, especially during the worship of Viṣṇu on the fifth day of the bright half in the month of Māgha, so also on the Ekādaśī day and the fifth day [1] (in the dark fortnight) rice boiled in milk along with a lamp should be offered to Mura ’s enemy, the god of gods along with (his spouse) Lakṣmī. O Jaimini , O devotee of Viṣṇu, I shall tell you about the fruit of (i.e. obtained by) him who, everyday in the month of Māgha, offers rice boiled in milk along with incense to the Disc-holder (i.e. Viṣṇu). (Please) listen. Having at the end(of his life) gone to Viṣṇu’s city, he enjoys (there) charming pleasures for four periods of Manu due to the grace of the Disc-holder. Again having come to the earth he would be a sovereign emperor. (There) he enjoys pleasures for a very long time and when dead (i.e. after death) goes to Viṣṇu’s abode.

27-29. O Jaimini, a devotee of Viṣṇu, who is unable to give (rice boiled in milk) to the enemy of Mura on the fifth day, the seventh day or the eleventh day, should offer him best food. O best brāhmaṇa, the bright half is especially superior to the dark half. On the days (mentioned above) of the bright half one should give food to Viṣṇu. Viṣṇu is not difficult to be attained by him who would give rice boiled in milk along with cakes to Viṣṇu, the conqueror of demons, at least on one day in Māgha.

30-33. There is no doubt that whatever is offered by a man to please a brāhmaṇa in the month of Māgha, would be inexhaustible for him. O brāhmaṇa, there is no destruction of the (fruit of the) act, good or bad, done in the month of Māgha, even after hundreds of ages of Manu. He who would worship Viṣṇu with campaka flowers in the month of Māgha would, after being freed from all sins, go to the highest abode. He stays in Viṣṇu’s abode for as many thousand yugas as the number of campaka flowers offered to Viṣṇu by him.

34-37. That fruit which is (obtained) by giving gold equal (in weight) to Meru , is obtained by worshipping Viṣṇu with (only) one campaka flower. O best brāhmaṇa, a campaka flower is always dear to Viṣṇu. Especially in the month of Māgha it is pure and dear to Viṣṇu. He who has not worshipped Viṣṇu with divine campaka flowers, would be without gems, without gold etc. in every birth. I am specially telling you the fruit of (the offering of) a campaka flower. O best brāhmaṇa, listen to it, the excellent one, along with its history.

38-44. O brāhmaṇa, a king named Suvarṇa , knowing all holy texts, became powerful in the entire Āryāvarta [2] due to his vigour. O brāhmaṇa sage, he, mad with royal glory, knowledge and youth, was always engaged in sins. By the words of his heretic ministers, he, through his greed for money, punished the good (even) without their fault, O brāhmaṇa. He, without sacrifices and gifts (i.e. who did not perform sacrifices and give gifts), surrounded by music and musical instruments squandered all the wealth obtained unjustly. He, always deluded by sins, did not support his kinsmen, did not feed deities and brāhmaṇas , and did not gratify the suppliants. He, always attached to sins, never honoured a guest. That king, the abode of sins, everyday went (away) from a temple. Was anyone among the indiscriminate ones able to count, even for hundreds of years, the other sins which he had committed?

45-52. Once that wicked-hearted king, deluded by lust, went to a prostitute’s house at night. Seeing the king coming, (the prostitute) named Ujjvalā , suddenly getting up from the bed saluted him. Having washed his pair of feet with water from a golden pitcher, she, embracing the king with her arms, seated him on the bed. That king, sprinkled with the streams of the nectar of her love, and being curious remained on that bed. Then that harlot who was quite young, herself gave, with a smile, campaka flowers to the king. A flower from the garland of flowers dropped on the ground from the hand of the king, and pervaded the atmosphere with its fragrance. Seeing the flower that had fallen down, the king, through great confusion said (the words) ‘ Namo Nārāyaṇāya (salutation to Nārāyaṇa )’ preceded by the syllable ‘ Oṃ ’. All the sins of the king perished due to (his having uttered) the word ‘Nārāyaṇa’ and due to the offering of the campaka flower.

53-58. All the villagers also gathered there and killed him that night in the prostitute’s invincible house. Yama , who was very angry, sent his servants to take the king, the greatest sinner (to his abode). The messengers ordered by him, with their eyes red due to anger and having nooses and mallets in their hands came the revery speedily. Yama’s messengers exerted to take him to their abode. Then Nārāyaṇa’s (i.e. Viṣṇu’s) servants holding conches, discs and maces, and mounted upon Garuḍa came to take the king (to Viṣṇu’s abode). Seeing the king bound by a noose, the very powerful servants of Viṣṇu struck Yama’s messengers with discs and maces. Putting him into a divine chariot, they blew excellent conches.

59-61. Then the king who had got in the chariot, who was adorned with tulasī (leaves and) flowers, who had put on yellow silken garments, who was adorned with golden ornaments, who was being praised by hosts of sages, masters of the Vedas and the Vedāṅgas , who was surrounded by Viṣṇu’s messengers, came to Viṣṇu’s world. Then, O best brāhmaṇa, Viṣṇu himself got up, embraced the king with his four long arms and said to him:

The lord said :

62-65. O king, O best among all meritorious souls, tell (me) about (your) welfare. Now let us know what still remains to be attained by you. I always look after him who would even once say: ‘Salutation to Nārāyaṇa.’ He is my brother; he is my father. I accomplish all the desired objects, like a father to his son, of the man who would sometime remember my name ‘Nārāyaṇa’. O best king, you are my devotee. Therefore, disclose your desire. What wonderful object shall I give you now?

The king said :

66-73a. O ocean of pity, you have undoubtedly given (me) everything. Even a sinner like me has reached your inaccessible place.

By these words of him Lakṣmī’s lord was pleased, and he affectionately made him sit. Listen to it (i.e. that account). He, full of pity, himself adorned him with golden ornaments fashioned by Viśvakarman . Viṣṇu, the extremely tolerant one, gratified the king with various kinds of eatables, very difficult to be had even by the divine ones. In this way the king lived in Viṣṇu’s abode everyday for thousands of Manu’s ages and nine hundred years. The righteous king protected his subjects. With great devotion he always worshipped Viṣṇu with charming campaka flowers and various kinds of offerings of eatables. When the span of his life was over the king died in the water of Gaṅgā and obtained liberation by the grace of Viṣṇu.

Vyāsa said :

73b-78. O brāhmaṇa, I have told you this efficacy of campaka flowers. Sinful persons have been liberated after worshipping Viṣṇu with campaka flowers. O brāhmaṇa sage, revered Viṣṇu, worshipped with a full-blown campaka flower gives the highest position in a short time. Those who worship the highest soul intentionally or even without an intention are freed from all sins, and they also go to the highest position. When Viṣṇu is pleased, nobody is a sinner, since that king, even though he had committed a sin, crossed this deep worldly ocean through Viṣṇu’s favour and attained liberation. That man who, abandoning sin, would, with devotion and great respect, worship Nārā -yaṇa (i.e. Viṣṇu), having large eyes like lotus-petals, with divine, fragrant campaka flowers would go (to Viṣṇu).

[1]: [1] : The reading should have been ‘ saptamyām ’ in place of ‘ pañcamyām ’, as it rightly occurs in line 27a below.

[2]: [2] : Āryāvarta: Abode of the noble or the excellent (Āryas). Name of the region extending from the eastern to the western sea, and bounded on the north and south by the Himālaya and the Vindhya respectively.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 25326, revision 336758 (2022-04-27T03:38:08Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365851.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.