Bhūmi-khaṇḍa · Chapter 5
Sourceशिवशर्मोवाच- तपसा दमशौचाभ्यांगुरुशुश्रूषया तथा । भक्त्याभावेन तुष्टोस्मि तवाद्य चसुपुत्रक १। त्यजामि वैकृतं रूपं मत्तः सुखमवाप्नुहि । एवमुक्वा सुतं विप्रो दर्शयामास तां तनुम् २। यथापूर्वं स्थितौ तौ तु तथा स दृष्टवान्गुरू । दीप्तिमंतौ महात्मानौ सूर्यबिंबोपमावुभौ ३। ननाम पादौ सद्भक्त्या उभयोस्तु महात्मनोः । ततः सुतं समामंत्र्य हर्षेण महतान्वितः ४। विष्णोः प्रसादाद्धर्मात्मा भार्यया सह केशवम् । जगाम निजपुण्यैश्च योगाभ्यासेन सत्तमः ५। प्रविष्टो वैष्णवं धाम स मुनिर्दुर्लभं पदम् । नत्वन्यैः प्राप्यते पुण्यैस्तपोभिर्मुक्तिदं पदम् ६। विष्णोस्तु चिंतनैर्न्यासध्यानज्ञानैः स्तवैस्तथा । न दानैस्तीर्थयात्राभिर्दृश्यते मधुसूदनः ७। समाधिज्ञानयोगेन दृश्यते परमं पदम् । महायोगैर्यथा विप्रः प्रविष्टो वैष्णवीं तनुम् ८। सूत उवाच- ततस्तत्र तपस्तेपे सोमशर्मा महाद्युतिः । अश्मलोष्टसमं मेने कांचनंभूषणं पुनः ९। जिताहारः स धर्मात्मा निद्रया परिवर्जितः । स सर्वान्विषयांस्त्यक्त्वा एकांतमपि सेवते १०। योगासनसमारूढो निराशो निःपरिग्रहः । तस्य वेला सुसंप्राप्ता मृत्युकालस्य वै तदा ११। आगता दानवा विप्रं सोमशर्माणमंतिके । मृत्युकाले तु संप्राप्ते प्राणयात्रा प्रवर्तिनः १२। शालिग्रामे महाक्षेत्रे ऋषीणां मानवर्द्धने । केचिद्वदंति वै दैत्याः केचिद्वदंति दानवाः १३। एवंविधो महाशब्दः कर्णरंध्रं गतस्तदा । तस्यैव विप्रवर्यस्य सुचिरात्सोमशर्मणः १४। ज्ञानध्यानविलग्नस्य प्रविष्टं दैत्यजं भयम् । तेन ध्यानेन तस्यापि दैत्यभीत्यैव वै तदा १५। सत्वरं चैव तत्प्राणा गतास्तस्य महात्मनः । दैत्यभयेन संयुक्तः स हि मृत्युवशं गतः १६। तस्माद्दैत्यगृहे जातो हिरण्यकशिपोः सुतः । देवासुरे महायुद्धे निहतश्चक्रपाणिना १७। युद्ध्यमानेन तेनापि प्रह्लादेन महात्मना । सुदृष्टं वासुदेवत्वं विश्वरूपसमन्वितम् १८। योगाभ्यासेन पूर्वेण ज्ञानमासीन्महात्मनः । सस्मार पूर्वकं सर्वं चरितं शिवशर्मणः १९। प्रागहं सोमशर्माख्यः प्रविष्टो दानवीं तनुम् । अस्मात्कायात्कदा पुण्यं केवलं धाम उत्तमम् २०। प्रयास्यामि महापुण्यैर्ज्ञानाख्यैर्मोक्षदायकम् । समरे म्रियमाणेन प्रह्लादेन महात्मना २१। एवं चिंता कृता पूर्वं श्रूयतां द्विजसत्तमाः । एवं तु च समाख्यातं सर्वसंदेहनाशनम् २२। सूत उवाच- प्रह्लादे निहते संख्ये देवदेवेन चक्रिणा । रुरुदे कमला सा तु हतपुत्रा च कामिनी २३। प्रह्लादस्य तु या माता हिरण्यकशिपोः प्रिया । प्रह्लादस्य महाशोकैर्दिवारात्रौ प्रशोचति २४। पतिव्रता महाभागा कमला नाम तत्प्रिया । रोदमानां दिवारात्रौ नारदस्तामुवाच ह २५। मा शुचस्त्वं महाभागे पुत्रार्थं पुण्यभागिनि । निहतो वासुदेवेन तव पुत्रः समेष्यति २६। भूयः स्वलक्षणोपेतस्त्वत्सुतश्च महामतिः । प्रह्लादेति च वै नाम पुनरस्य भविष्यति २७। विहीनश्चासुरैर्भावैर्देवत्वेन समन्वितः । इंद्रत्वे मोदते भद्रे सर्वदेवैर्नमस्कृतः २८। सुखीभवमहाभागेतेनपुत्रेणवैसदा । न प्रकाश्या त्वया देवि सुवार्तेयं च कस्यचित् २९। कर्त्तव्यमज्ञानभावैः सुगोप्यं कुरु त्वं सदा । एवमुक्त्वा गतो विप्रो नारदो मुनिसत्तमः ३०। कमलायाश्चोदरे तु जन्मा स्यानुत्तमं पुनः । प्रह्लादेति च वै नाम तस्याख्यानं महात्मनः ३१। बाल्यं भावं गतो विप्राः कृष्णमेव व्यचिंतयत् । नरसिंहप्रसादेन देवराजो भवेद्दिवि ३२। देवत्वं लभ्य चैवासावैंद्रं पदमनुत्तमम् । मोक्षं यास्यति ज्ञानात्मा वैष्णवं धाम चोत्तमम् ३३। असंख्याता महाभागाः सृष्टेर्भावा ह्यनेकशः । मोह एवं न कर्त्तव्यो ज्ञानवद्भिर्महात्मभिः ३४। एतद्वः सर्वमाख्यातं यथापृष्टं द्विजोत्तमाः । अन्यं पृच्छ महाभाग संदेहं ते भिनद्म्यहम् ३५। विजयं देवतानां तु दानवानां महत्क्षयम् । कृतं हि देवदेवेन स्थापितं भुवनत्रयम् ३६। ऋषय ऊचुः- इन्द्रत्वं कस्य संजातं देवानां शब्दधारकम् । केन दत्तं त्वमाचक्ष्व विस्तराद्द्विजसत्तम ३७। सूत उवाच- विस्तरेण प्रवक्ष्यामि इन्द्रत्वे येन सत्तमः । प्राप्त एष महाभागो यथा पुण्यतमेन च ३८। हतेषु तेषु दैत्येषु समस्तेषुमहाहवे । अतिनष्टेषु पापेषु गोविंदेन महात्मना ३९। ततो देवाः सगंधर्वा नागा विद्याधरास्तथा । संप्रोचुर्माधवं सर्वे बद्धप्रांजलयस्ततः ४०। भगवन्देवदेवेश हृषीकेश नमोस्तु ते । विज्ञापयामहे त्वां वै तत्सर्वमवधार्यताम् ४१। शास्ता गोप्ता च पुण्यात्मा अस्माकं कुरु केशव । राजानं पुण्यधर्माणं त्वमिंद्रं लोकशासनम् ४२। त्रैलोक्यस्य प्रजा देव यमाश्रित्य सुखं लभेत् । वासुदेव उवाच- मम लोके महाभागा वैष्णवेन समन्वितः ४३। तेजसा ब्राह्मणश्रेष्ठश्चिरकालं निवासितः । तस्य कालः प्रपूर्णश्च मम लोके महात्मनः ४४। वसतस्तस्य विप्रस्य मद्भक्तस्य सुरोत्तमाः । तेजसा वैष्णवेनैव भवतां पालको हि सः ४५। भविष्यति स धर्मात्मा स च धर्मानुरंजकः । पालको धारकश्चैव स च ब्राह्मणसत्तमः ४६। भविष्यति स धर्मात्मा भवतां त्राणकारणात् । अदित्यास्तनयश्चैव सुव्रताख्यो महामनाः ४७। महाबलो महावीर्यः स व इंद्रो भविष्यति । सूत उवाच- एवं वरान्स देवेशो दत्वा देवेभ्य उत्तमम् ४८। देवा विजयिनः सर्वे विष्णुना सह सत्तमाः । कश्यपं पितरं दृष्टुं मातरं च ततो गताः ४९। प्रणेमुस्ते महात्मान उभावेतौ सुखासनौ । ऊचुः प्रांजलयः सर्वे हर्षेण महतान्विताः ५०। युवयोश्च प्रसादेन देवत्वं हि गता वयम् । हर्षेण महताविष्टो देवान्वाक्यमुवाच सः ५१। कश्यप उवाच- यूयं वै सत्यधर्मेण वर्तमानाः सदैव हि । आवयोश्च प्रसादेन तपसश्च प्रभावतः ५२। प्राप्तवंतो भवंतस्तु देवत्वं चाक्षयं पदम् । वरमेव ददाम्येषां बहुप्रीतिसमन्विताः ५३। अमरा निर्जराश्चैव अक्षयाश्च भविष्यथ । सर्वकामसमृद्धार्थाः सर्वसिद्धिसमन्विताः ५४। देवा नागाश्च गंधर्वा मत्प्रसादान्महासुराः । विष्णुरुवाच- वरं वरय भद्रं ते देवमातर्यशस्विनि ५५। मनसा चेप्सितं सर्वं तत्ते दद्मि सुनिश्चितम् । अदितिरुवाच- पूर्वं पुत्रवती भूता प्रसादात्तव माधव ५६। अमरा निर्जराः सर्वे अक्षयाः पुण्यवत्सलाः । अमी पुत्रा मया लब्धाः श्रूयतां मधुसूदन ५७। सुतरां त्वं च गोविंद सर्वकामसमृद्धिदः । मम गर्भे वसंश्चैव भवांश्च मम नंदनः ५८। त्वया पुत्रेण नित्यं च यथा नंदामि केशव । एवं महोदयं नाथ पूरयस्व मनोरथम् ५९। वासुदेव उवाच- भवत्या देवकार्यार्थं गंतव्यं मानुषीं तनुम् । तदाहं तव गर्भे वै वासं यास्यामि निश्चितम् ६०। युगे द्वादशके प्राप्ते भूभारहरणाय वै । जमदग्निसुतो देवि रामो नाम द्विजोत्तमः ६१। प्रतापतेजसायुक्तः सर्वक्षत्रवधाय च । तव पुत्रो भविष्यामि सर्वशस्त्रभृतां वरः ६२। सप्तविंशतिके प्राप्ते त्रेताख्ये तु तथा युगे । रामो नाम भविष्यामि तव पुत्रः पतिव्रते ६३। पुनः पुत्रो भविष्यामि तवैव शृणु पुण्यधेः । अष्टाविंशतिके प्राप्ते द्वापरांते युगे तदा ६४। सर्वदैत्यविनाशार्थे भूभारहरणाय च । वासुदेवाख्यस्ते पुत्रो भविष्यामि न संशयः ६५। इदानीं कुरु कल्याणि मद्वाक्यं धर्मसंयुतम् । सर्वलक्षणसंपन्नं सत्यधर्मसमन्वितम् ६६। सर्वज्ञं सर्वदे देवि पुत्रमुत्पाद्य सुंदरम् । इंद्रत्वं तस्य दास्यामि इंद्रः सोपि भविष्यति ६७। एवं संभाषितं श्रुत्वा महाहर्षसमन्विता । देवदेवप्रसादेन इंद्रः पुत्रो भविष्यति ६८। एवमस्तु महाभाग तव वाक्यं करोम्यहम् । ततस्ता देवताः सर्वा जग्मुः स्वस्थानमेव हि ६९। हरिणा सह ते सर्वे निरातंका मुदान्विताः । सूत उवाच- अदितिः कश्यपं प्राह ऋतुं प्राप्य मनस्विनी ७०। भगवन्दीयतां पुत्रः सुरेंद्रपदभोजकः । चिंतयित्वा क्षणं विप्रस्तामुवाच मनस्विनीम् ७१। एवमस्तु महाभागे तव पुत्रो भविष्यति । त्रैलोक्यस्यापि कर्ता स यज्ञभोक्ता स एव च ७२। तस्याः शिरसि सन्यस्य स्वहस्तं च द्विजोत्तमः । तपश्चचार तेजस्वी सत्यधर्मसमन्वितः ७३। सुव्रतो नाम तेजस्वी विष्णुलोके वसेत्सदा । तस्य पुण्यक्षये जाते विष्णुलोकाद्द्विजोत्तमाः ७४। पतनं कर्मवशतस्ततस्तस्य द्विजोत्तमाः । पुण्यगर्भं गतो विप्र अदित्यास्तु महातपाः ७५। इंद्रत्वं भोक्तुकामार्थं सत्यपुण्येन कर्मणा । गर्भं दधार सा देवी पुण्येन तपसा किल ७६। तपस्तेपे निरालस्या वनवासं गता सती। दिव्यं वर्षशतं यातं तपंत्यां देवमातरि ७७। तपंत्यथ तपस्तीव्रं दुष्करं देवतासुरैः । ततः सा तपसा तेन तेजसा च प्रभान्विता ७८। सूर्यतेजः प्रतीकाशा द्वितीय इव भास्करः । शुशुभे सा यथा दीप्ता परमं ध्यानमास्थिता ७९। रूपेणाधिकतां याता तपसस्तेजसा तदा । तपोध्यानपरा सा च वायुभक्षा तपस्विनी ८०। अधिकं शुशुभे देवी दक्षस्य तनया तदा । सिद्धाश्च ऋषयः सर्वे देवाश्चापि महौजसः ८१। स्तुवंति तां महाभागां रक्षंति च सुतत्पराः । पूर्णे वर्षशते तस्या विष्णुस्तत्र समागतः ८२। तामुवाच महाभागामदितिं तपसान्विताम् । देवि गर्भः सुसंपूर्णः सूतिकालः प्रवर्तते ८३। तवैव तपसा पुष्टस्तेजसा च प्रवर्द्धितः । अद्यैव गर्भमेतं त्वं मुंच मुंच यशस्विनि ८४। एवमाभाष्य देवेशः स जगाम स्वकं गृहम् । असूत पुत्रं सा देवी काले प्राप्ते महोदये ८५। सा पुत्रं दीप्तिसंयुक्तं द्वितीयमिव भास्करम् । सुभगं चारुसर्वांगं सर्वलक्षणसंयुतम् ८६। चतुर्बाहुं महाकायं लोकपालं सुरेश्वरम् । तेजोज्वालासमाकीर्णं चक्रपद्मसुहस्तकम् ८७। चंद्रबिंबानुकारेण वदनेन महामतिः । राजमानं महाप्राज्ञं तेजसा वैष्णवेन च ८८। अन्यैश्च लक्षणैर्दिव्यैर्दिव्यभावैरलंकृतम् । सर्वलक्षणसंपूर्णं चंद्रास्यं कमलेक्षणम् ८९। आजग्मुस्ते त्रयो देवा ऋषयो वेदपारगाः । गंधर्वाश्च ततो नागाः सिद्धाविद्याधरास्तथा ९०। ऋषयः सप्त ते दिव्याः पूर्वापरमहौजसः । अन्ये च मुनयः पुण्याः पुण्यमंगलदायिनः ९१। आजग्मुस्ते महात्मानो हर्षनिर्भरमानसाः । तस्मिञ्जाते महाभागे भगवंतो महौजसि ९२। आजग्मुर्देवताः सर्वे पर्वतास्तु तपस्विनः । क्षीराद्याः सागराः सर्वे नद्यश्चैव तथामलाः ९३। प्रीतिमंतस्ततः सर्वे ये चान्ये हि चराचराः । मंगलैस्तु महोत्साहं चक्रुः सर्वे सुरेश्वराः ९४। ननृतुश्चाप्सराः संघा गंधर्वा ललितं जगुः । वेदमंत्रैस्ततो देवा ब्राह्मणा वेदपारगाः ९५। स्तुवंति तं महात्मानं सुतं वै कश्यपस्य च । ब्रह्मा विष्णुश्च रुद्रश्च वेदाश्चैव समागताः ९६। सांगोपांगैश्च संयुक्तास्तस्मिञ्जाते महौजसि । त्रैलोक्ये यानि सत्वानि पुण्ययुक्तानि सत्तम ९७। समागतानि तत्रैव तस्मिञ्जाते महौजसि । मंगलं चक्रिरे सर्वे गीतपुण्यैर्महोत्सवैः ९८। हर्षेण निर्भराः सर्वे पूजयंतो महौजसः । ब्रह्माद्याश्च त्रयो देवाः कश्यपोथ बृहस्पतिः ९९। चक्रिरे नामकर्माणि तस्यैव हि महात्मनः । वसुदत्तेति विख्यातो वसुदेति पुनस्तव १००। आखंडलेति तन्नाम मरुत्वान्नाम ते पुनः । मघवांश्च बिडौजास्त्वं पाकशासन इत्यपि १०१। शक्रश्चैव हि विख्यात इंद्रश्चैवेति ते सुतः । इत्येतानि च नामानि तस्यैव च महात्मनः १०२। चक्रुश्च देवताः सर्वाः संतुष्टा हृष्टमानसाः । स्नानं तु कारयामासुः संस्काराणि महासुरः १०३। विश्वकर्माणमाहूय ददुराभरणानि च । तानि पुण्यानि दिव्यानि तस्मै ते तु महात्मने १०४। जाते तस्मिन्महाभागे देवराजे महात्मनि । एवं मुदं ततः प्रापुः सर्वे देवा महौजसः १०५। पुण्ये तिथौ तथा ऋक्षे सुमुहूर्ते महात्मभिः । इंद्रत्वे स्थापितो देवैरभिषिक्तः सुमंगलैः १०६। प्राप्तमैंद्रपदं तेन प्रसादात्तस्य चक्रिणः । तपश्चकार तेजस्वी वसुदत्तः सुरेश्वरः १०७। उग्रेण तेजसा युक्तो वज्रपाशांकुशायुधः १०८। सूत उवाच- उग्रं समस्तं तपसः प्रभावं विलोक्य शुक्रो निजगाद गाथाम् । लोकेषु कोन्यो न भविष्यतीति यथा हि चायं च सुदर्शनीयः १०९। विष्णोः प्रसादान्न परो महात्मा संप्राप्तमैश्वर्यमिहैव दिव्यम् ११०। अनेन तुल्यो न भविष्यतीति लोकेषु चान्यस्तपसोग्रवीर्यः १११। इति श्रीपद्मपुराणे भूमिखंडे देवासुरे इंद्राभिषेकोनाम पंचमोऽध्यायः ५।
śivaśarmovāca- tapasā damaśaucābhyāṃguruśuśrūṣayā tathā | bhaktyābhāvena tuṣṭosmi tavādya casuputraka 1| tyajāmi vaikṛtaṃ rūpaṃ mattaḥ sukhamavāpnuhi | evamukvā sutaṃ vipro darśayāmāsa tāṃ tanum 2| yathāpūrvaṃ sthitau tau tu tathā sa dṛṣṭavāngurū | dīptimaṃtau mahātmānau sūryabiṃbopamāvubhau 3| nanāma pādau sadbhaktyā ubhayostu mahātmanoḥ | tataḥ sutaṃ samāmaṃtrya harṣeṇa mahatānvitaḥ 4| viṣṇoḥ prasādāddharmātmā bhāryayā saha keśavam | jagāma nijapuṇyaiśca yogābhyāsena sattamaḥ 5| praviṣṭo vaiṣṇavaṃ dhāma sa munirdurlabhaṃ padam | natvanyaiḥ prāpyate puṇyaistapobhirmuktidaṃ padam 6| viṣṇostu ciṃtanairnyāsadhyānajñānaiḥ stavaistathā | na dānaistīrthayātrābhirdṛśyate madhusūdanaḥ 7| samādhijñānayogena dṛśyate paramaṃ padam | mahāyogairyathā vipraḥ praviṣṭo vaiṣṇavīṃ tanum 8| sūta uvāca- tatastatra tapastepe somaśarmā mahādyutiḥ | aśmaloṣṭasamaṃ mene kāṃcanaṃbhūṣaṇaṃ punaḥ 9| jitāhāraḥ sa dharmātmā nidrayā parivarjitaḥ | sa sarvānviṣayāṃstyaktvā ekāṃtamapi sevate 10| yogāsanasamārūḍho nirāśo niḥparigrahaḥ | tasya velā susaṃprāptā mṛtyukālasya vai tadā 11| āgatā dānavā vipraṃ somaśarmāṇamaṃtike | mṛtyukāle tu saṃprāpte prāṇayātrā pravartinaḥ 12| śāligrāme mahākṣetre ṛṣīṇāṃ mānavarddhane | kecidvadaṃti vai daityāḥ kecidvadaṃti dānavāḥ 13| evaṃvidho mahāśabdaḥ karṇaraṃdhraṃ gatastadā | tasyaiva vipravaryasya sucirātsomaśarmaṇaḥ 14| jñānadhyānavilagnasya praviṣṭaṃ daityajaṃ bhayam | tena dhyānena tasyāpi daityabhītyaiva vai tadā 15| satvaraṃ caiva tatprāṇā gatāstasya mahātmanaḥ | daityabhayena saṃyuktaḥ sa hi mṛtyuvaśaṃ gataḥ 16| tasmāddaityagṛhe jāto hiraṇyakaśipoḥ sutaḥ | devāsure mahāyuddhe nihataścakrapāṇinā 17| yuddhyamānena tenāpi prahlādena mahātmanā | sudṛṣṭaṃ vāsudevatvaṃ viśvarūpasamanvitam 18| yogābhyāsena pūrveṇa jñānamāsīnmahātmanaḥ | sasmāra pūrvakaṃ sarvaṃ caritaṃ śivaśarmaṇaḥ 19| prāgahaṃ somaśarmākhyaḥ praviṣṭo dānavīṃ tanum | asmātkāyātkadā puṇyaṃ kevalaṃ dhāma uttamam 20| prayāsyāmi mahāpuṇyairjñānākhyairmokṣadāyakam | samare mriyamāṇena prahlādena mahātmanā 21| evaṃ ciṃtā kṛtā pūrvaṃ śrūyatāṃ dvijasattamāḥ | evaṃ tu ca samākhyātaṃ sarvasaṃdehanāśanam 22| sūta uvāca- prahlāde nihate saṃkhye devadevena cakriṇā | rurude kamalā sā tu hataputrā ca kāminī 23| prahlādasya tu yā mātā hiraṇyakaśipoḥ priyā | prahlādasya mahāśokairdivārātrau praśocati 24| pativratā mahābhāgā kamalā nāma tatpriyā | rodamānāṃ divārātrau nāradastāmuvāca ha 25| mā śucastvaṃ mahābhāge putrārthaṃ puṇyabhāgini | nihato vāsudevena tava putraḥ sameṣyati 26| bhūyaḥ svalakṣaṇopetastvatsutaśca mahāmatiḥ | prahlādeti ca vai nāma punarasya bhaviṣyati 27| vihīnaścāsurairbhāvairdevatvena samanvitaḥ | iṃdratve modate bhadre sarvadevairnamaskṛtaḥ 28| sukhībhavamahābhāgetenaputreṇavaisadā | na prakāśyā tvayā devi suvārteyaṃ ca kasyacit 29| karttavyamajñānabhāvaiḥ sugopyaṃ kuru tvaṃ sadā | evamuktvā gato vipro nārado munisattamaḥ 30| kamalāyāścodare tu janmā syānuttamaṃ punaḥ | prahlādeti ca vai nāma tasyākhyānaṃ mahātmanaḥ 31| bālyaṃ bhāvaṃ gato viprāḥ kṛṣṇameva vyaciṃtayat | narasiṃhaprasādena devarājo bhaveddivi 32| devatvaṃ labhya caivāsāvaiṃdraṃ padamanuttamam | mokṣaṃ yāsyati jñānātmā vaiṣṇavaṃ dhāma cottamam 33| asaṃkhyātā mahābhāgāḥ sṛṣṭerbhāvā hyanekaśaḥ | moha evaṃ na karttavyo jñānavadbhirmahātmabhiḥ 34| etadvaḥ sarvamākhyātaṃ yathāpṛṣṭaṃ dvijottamāḥ | anyaṃ pṛccha mahābhāga saṃdehaṃ te bhinadmyaham 35| vijayaṃ devatānāṃ tu dānavānāṃ mahatkṣayam | kṛtaṃ hi devadevena sthāpitaṃ bhuvanatrayam 36| ṛṣaya ūcuḥ- indratvaṃ kasya saṃjātaṃ devānāṃ śabdadhārakam | kena dattaṃ tvamācakṣva vistarāddvijasattama 37| sūta uvāca- vistareṇa pravakṣyāmi indratve yena sattamaḥ | prāpta eṣa mahābhāgo yathā puṇyatamena ca 38| hateṣu teṣu daityeṣu samasteṣumahāhave | atinaṣṭeṣu pāpeṣu goviṃdena mahātmanā 39| tato devāḥ sagaṃdharvā nāgā vidyādharāstathā | saṃprocurmādhavaṃ sarve baddhaprāṃjalayastataḥ 40| bhagavandevadeveśa hṛṣīkeśa namostu te | vijñāpayāmahe tvāṃ vai tatsarvamavadhāryatām 41| śāstā goptā ca puṇyātmā asmākaṃ kuru keśava | rājānaṃ puṇyadharmāṇaṃ tvamiṃdraṃ lokaśāsanam 42| trailokyasya prajā deva yamāśritya sukhaṃ labhet | vāsudeva uvāca- mama loke mahābhāgā vaiṣṇavena samanvitaḥ 43| tejasā brāhmaṇaśreṣṭhaścirakālaṃ nivāsitaḥ | tasya kālaḥ prapūrṇaśca mama loke mahātmanaḥ 44| vasatastasya viprasya madbhaktasya surottamāḥ | tejasā vaiṣṇavenaiva bhavatāṃ pālako hi saḥ 45| bhaviṣyati sa dharmātmā sa ca dharmānuraṃjakaḥ | pālako dhārakaścaiva sa ca brāhmaṇasattamaḥ 46| bhaviṣyati sa dharmātmā bhavatāṃ trāṇakāraṇāt | adityāstanayaścaiva suvratākhyo mahāmanāḥ 47| mahābalo mahāvīryaḥ sa va iṃdro bhaviṣyati | sūta uvāca- evaṃ varānsa deveśo datvā devebhya uttamam 48| devā vijayinaḥ sarve viṣṇunā saha sattamāḥ | kaśyapaṃ pitaraṃ dṛṣṭuṃ mātaraṃ ca tato gatāḥ 49| praṇemuste mahātmāna ubhāvetau sukhāsanau | ūcuḥ prāṃjalayaḥ sarve harṣeṇa mahatānvitāḥ 50| yuvayośca prasādena devatvaṃ hi gatā vayam | harṣeṇa mahatāviṣṭo devānvākyamuvāca saḥ 51| kaśyapa uvāca- yūyaṃ vai satyadharmeṇa vartamānāḥ sadaiva hi | āvayośca prasādena tapasaśca prabhāvataḥ 52| prāptavaṃto bhavaṃtastu devatvaṃ cākṣayaṃ padam | varameva dadāmyeṣāṃ bahuprītisamanvitāḥ 53| amarā nirjarāścaiva akṣayāśca bhaviṣyatha | sarvakāmasamṛddhārthāḥ sarvasiddhisamanvitāḥ 54| devā nāgāśca gaṃdharvā matprasādānmahāsurāḥ | viṣṇuruvāca- varaṃ varaya bhadraṃ te devamātaryaśasvini 55| manasā cepsitaṃ sarvaṃ tatte dadmi suniścitam | aditiruvāca- pūrvaṃ putravatī bhūtā prasādāttava mādhava 56| amarā nirjarāḥ sarve akṣayāḥ puṇyavatsalāḥ | amī putrā mayā labdhāḥ śrūyatāṃ madhusūdana 57| sutarāṃ tvaṃ ca goviṃda sarvakāmasamṛddhidaḥ | mama garbhe vasaṃścaiva bhavāṃśca mama naṃdanaḥ 58| tvayā putreṇa nityaṃ ca yathā naṃdāmi keśava | evaṃ mahodayaṃ nātha pūrayasva manoratham 59| vāsudeva uvāca- bhavatyā devakāryārthaṃ gaṃtavyaṃ mānuṣīṃ tanum | tadāhaṃ tava garbhe vai vāsaṃ yāsyāmi niścitam 60| yuge dvādaśake prāpte bhūbhāraharaṇāya vai | jamadagnisuto devi rāmo nāma dvijottamaḥ 61| pratāpatejasāyuktaḥ sarvakṣatravadhāya ca | tava putro bhaviṣyāmi sarvaśastrabhṛtāṃ varaḥ 62| saptaviṃśatike prāpte tretākhye tu tathā yuge | rāmo nāma bhaviṣyāmi tava putraḥ pativrate 63| punaḥ putro bhaviṣyāmi tavaiva śṛṇu puṇyadheḥ | aṣṭāviṃśatike prāpte dvāparāṃte yuge tadā 64| sarvadaityavināśārthe bhūbhāraharaṇāya ca | vāsudevākhyaste putro bhaviṣyāmi na saṃśayaḥ 65| idānīṃ kuru kalyāṇi madvākyaṃ dharmasaṃyutam | sarvalakṣaṇasaṃpannaṃ satyadharmasamanvitam 66| sarvajñaṃ sarvade devi putramutpādya suṃdaram | iṃdratvaṃ tasya dāsyāmi iṃdraḥ sopi bhaviṣyati 67| evaṃ saṃbhāṣitaṃ śrutvā mahāharṣasamanvitā | devadevaprasādena iṃdraḥ putro bhaviṣyati 68| evamastu mahābhāga tava vākyaṃ karomyaham | tatastā devatāḥ sarvā jagmuḥ svasthānameva hi 69| hariṇā saha te sarve nirātaṃkā mudānvitāḥ | sūta uvāca- aditiḥ kaśyapaṃ prāha ṛtuṃ prāpya manasvinī 70| bhagavandīyatāṃ putraḥ sureṃdrapadabhojakaḥ | ciṃtayitvā kṣaṇaṃ viprastāmuvāca manasvinīm 71| evamastu mahābhāge tava putro bhaviṣyati | trailokyasyāpi kartā sa yajñabhoktā sa eva ca 72| tasyāḥ śirasi sanyasya svahastaṃ ca dvijottamaḥ | tapaścacāra tejasvī satyadharmasamanvitaḥ 73| suvrato nāma tejasvī viṣṇuloke vasetsadā | tasya puṇyakṣaye jāte viṣṇulokāddvijottamāḥ 74| patanaṃ karmavaśatastatastasya dvijottamāḥ | puṇyagarbhaṃ gato vipra adityāstu mahātapāḥ 75| iṃdratvaṃ bhoktukāmārthaṃ satyapuṇyena karmaṇā | garbhaṃ dadhāra sā devī puṇyena tapasā kila 76| tapastepe nirālasyā vanavāsaṃ gatā satī| divyaṃ varṣaśataṃ yātaṃ tapaṃtyāṃ devamātari 77| tapaṃtyatha tapastīvraṃ duṣkaraṃ devatāsuraiḥ | tataḥ sā tapasā tena tejasā ca prabhānvitā 78| sūryatejaḥ pratīkāśā dvitīya iva bhāskaraḥ | śuśubhe sā yathā dīptā paramaṃ dhyānamāsthitā 79| rūpeṇādhikatāṃ yātā tapasastejasā tadā | tapodhyānaparā sā ca vāyubhakṣā tapasvinī 80| adhikaṃ śuśubhe devī dakṣasya tanayā tadā | siddhāśca ṛṣayaḥ sarve devāścāpi mahaujasaḥ 81| stuvaṃti tāṃ mahābhāgāṃ rakṣaṃti ca sutatparāḥ | pūrṇe varṣaśate tasyā viṣṇustatra samāgataḥ 82| tāmuvāca mahābhāgāmaditiṃ tapasānvitām | devi garbhaḥ susaṃpūrṇaḥ sūtikālaḥ pravartate 83| tavaiva tapasā puṣṭastejasā ca pravarddhitaḥ | adyaiva garbhametaṃ tvaṃ muṃca muṃca yaśasvini 84| evamābhāṣya deveśaḥ sa jagāma svakaṃ gṛham | asūta putraṃ sā devī kāle prāpte mahodaye 85| sā putraṃ dīptisaṃyuktaṃ dvitīyamiva bhāskaram | subhagaṃ cārusarvāṃgaṃ sarvalakṣaṇasaṃyutam 86| caturbāhuṃ mahākāyaṃ lokapālaṃ sureśvaram | tejojvālāsamākīrṇaṃ cakrapadmasuhastakam 87| caṃdrabiṃbānukāreṇa vadanena mahāmatiḥ | rājamānaṃ mahāprājñaṃ tejasā vaiṣṇavena ca 88| anyaiśca lakṣaṇairdivyairdivyabhāvairalaṃkṛtam | sarvalakṣaṇasaṃpūrṇaṃ caṃdrāsyaṃ kamalekṣaṇam 89| ājagmuste trayo devā ṛṣayo vedapāragāḥ | gaṃdharvāśca tato nāgāḥ siddhāvidyādharāstathā 90| ṛṣayaḥ sapta te divyāḥ pūrvāparamahaujasaḥ | anye ca munayaḥ puṇyāḥ puṇyamaṃgaladāyinaḥ 91| ājagmuste mahātmāno harṣanirbharamānasāḥ | tasmiñjāte mahābhāge bhagavaṃto mahaujasi 92| ājagmurdevatāḥ sarve parvatāstu tapasvinaḥ | kṣīrādyāḥ sāgarāḥ sarve nadyaścaiva tathāmalāḥ 93| prītimaṃtastataḥ sarve ye cānye hi carācarāḥ | maṃgalaistu mahotsāhaṃ cakruḥ sarve sureśvarāḥ 94| nanṛtuścāpsarāḥ saṃghā gaṃdharvā lalitaṃ jaguḥ | vedamaṃtraistato devā brāhmaṇā vedapāragāḥ 95| stuvaṃti taṃ mahātmānaṃ sutaṃ vai kaśyapasya ca | brahmā viṣṇuśca rudraśca vedāścaiva samāgatāḥ 96| sāṃgopāṃgaiśca saṃyuktāstasmiñjāte mahaujasi | trailokye yāni satvāni puṇyayuktāni sattama 97| samāgatāni tatraiva tasmiñjāte mahaujasi | maṃgalaṃ cakrire sarve gītapuṇyairmahotsavaiḥ 98| harṣeṇa nirbharāḥ sarve pūjayaṃto mahaujasaḥ | brahmādyāśca trayo devāḥ kaśyapotha bṛhaspatiḥ 99| cakrire nāmakarmāṇi tasyaiva hi mahātmanaḥ | vasudatteti vikhyāto vasudeti punastava 100| ākhaṃḍaleti tannāma marutvānnāma te punaḥ | maghavāṃśca biḍaujāstvaṃ pākaśāsana ityapi 101| śakraścaiva hi vikhyāta iṃdraścaiveti te sutaḥ | ityetāni ca nāmāni tasyaiva ca mahātmanaḥ 102| cakruśca devatāḥ sarvāḥ saṃtuṣṭā hṛṣṭamānasāḥ | snānaṃ tu kārayāmāsuḥ saṃskārāṇi mahāsuraḥ 103| viśvakarmāṇamāhūya dadurābharaṇāni ca | tāni puṇyāni divyāni tasmai te tu mahātmane 104| jāte tasminmahābhāge devarāje mahātmani | evaṃ mudaṃ tataḥ prāpuḥ sarve devā mahaujasaḥ 105| puṇye tithau tathā ṛkṣe sumuhūrte mahātmabhiḥ | iṃdratve sthāpito devairabhiṣiktaḥ sumaṃgalaiḥ 106| prāptamaiṃdrapadaṃ tena prasādāttasya cakriṇaḥ | tapaścakāra tejasvī vasudattaḥ sureśvaraḥ 107| ugreṇa tejasā yukto vajrapāśāṃkuśāyudhaḥ 108| sūta uvāca- ugraṃ samastaṃ tapasaḥ prabhāvaṃ vilokya śukro nijagāda gāthām | lokeṣu konyo na bhaviṣyatīti yathā hi cāyaṃ ca sudarśanīyaḥ 109| viṣṇoḥ prasādānna paro mahātmā saṃprāptamaiśvaryamihaiva divyam 110| anena tulyo na bhaviṣyatīti lokeṣu cānyastapasogravīryaḥ 111| iti śrīpadmapurāṇe bhūmikhaṃḍe devāsure iṃdrābhiṣekonāma paṃcamo'dhyāyaḥ 5|
English translation
Śivaśarman said :
1. O good son, today I am pleased with your penance, restraint, purity, and with your service to the elders and your devotion and resolution.
2. I (shall) abandon this deformed body; obtain happiness from me.
Saying so to the son, he showed that (former) body.
3. He saw both the elders (i.e. his parents), who became as they were before, who were bright, who were magnanimous and who resembled the orb of the sun.
4-5. He devoutly saluted the feet of both the noble ones. Then full of great joy, he, the best one, took his leave of his son, and due to Viṣṇu ’s favour, his own religious merit and the practice of abstract meditation, the pious one went, with his wife, to Viṣṇu.
6-8. That sage entered Viṣṇu’s abode, a place difficult to be obtained. This place granting salvation is not obtained by means of other (kinds of) religious merit or penance, or by means of meditating upon Viṣṇu, or renunciation, or contemplation, or knowledge, or hynns of praise. Viṣṇu is not seen by means of gifts or pilgrimages. The highest place is seen (only) by resorting to concentration and knowledge, as the brāhmaṇa entered Viṣṇu’s body by means of deep and abstract meditation.
Sūta said :
9-10. Then that very lustrous Somaśarman practised penance there. He also looked upon gold and ornaments like a stone or a clod of clay. The righteous one had controlled his diet, he had given up sleep. Giving up all objects of senses he resorted to solitude.
11-12a. He had taken to the posture suited to profound and abstract meditation, was desireless and had no possessions. Then the time of his death arrived. Demons came to that brāhmaṇa, Somaśarman.
12b-16. When the time of death of him who was living (like that) at the great sacred place, Śāligrāma, adding to the honour of sages arrived, some demons and goblins who knew thus (i.e. knew that his death was imminent), spoke. The great sound (of the words uttered by them) entered the cavity of the ears of Somaśarman, the best brāhmaṇa. Fear of the demons entered him, who had adhered to knowledge and meditation. Due to that meditation and the fear of the demons the life of the noble one quickly departed. Being full of the fear of the demons he died.
17-18. Therefore, he was born in the house of the demon ( Hiraṇyakaśipu ) as Hiraṇyakaśipu’s son. In the war between gods and demons he was killed by Viṣṇu. The noble Prahlāda , while fighting well saw (the form of) Vāsudeva , endowed with the universal form.
19. Due to his former practice of abstract meditation, the noble one had the knowledge (of his former birth, so) he recollected all the former life of Śivaśarman :
20-22. “Formerly, I whose name was Somaśarman, entered the body of a demon. When shall I, due to my great religious merit, called knowledge, reach, from (i.e. casting) this body, the absolute, pious, excellent, abode granting salvation?” The noble Prahlāda, thought like this when he died formerly; O best of brāhmaṇas , listen. I have thus told you everything that removes (your) doubts.
Sūta said :
23-25a. When Prahlāda was killed in the battle by the disc-holder (i.e. Viṣṇu), the lord of gods, that beautiful woman, Kamalā , whose son was killed, wept. She was the mother of Prahlāda and the beloved (wife) of Hiraṇyakaśipu. Due to the grief caused by Prahlāda’s death she, the loyal, glorious wife, (of Hiraṇyakaśipu), who was dear to lamented day and night.
25b. Nārada spoke to her, who was weeping day and night:
26-27a. “Do not grieve, O noble and meritorious one, for your son. Your son, the very intelligent one, who is killed by Viṣṇu, will come back endowed with his own (former) characteristics.
27b. He will again have his name as Prahlāda.
28-30a. He will be without the demonish thoughts, and will be endowed with godhead; he will be saluted by all gods and will enjoy the position of Indra , O good lady. O illustrious lady, always be happy with that son. (Please) do not reveal this good news to anyone. You should feign ignorance, and always keep this as a great secret.”
30b. Saying so, the brāhmaṇa, the best sage, Nārada, left.
31-33. He (i.e. Prahlāda) got an excellent birth in the womb of Kamalā (i.e. Prahlāda was born as the son of Kamalā). He was named Prahlāda; the account of that illustrous one (will be narrated by me). O brāhmaṇas, when he was a child, he thought of Kṛṣṇa (i.e. Viṣṇu) only. Due to the favour of Narasiṃha (i.e. Viṣṇu) he would be the king of gods in heaven. After having obtained godhead, he would also get the position of Indra; he, the all-wise, will attain salvation—Viṣṇu’s abode.
34. There are innumerable glorious individuals, there are many forms of creation. (So) the great-souled, wise ones should not commit errors.
35-36. O best brāhmaṇas, I have told you everything that you have asked. O glorious one (ones) you may ask anything else. I shall remove your doubt: (I shall tell you about) the victory of gods and the destruction of demons brought about by the lord of gods, and (about) how he re-established the three worlds.
The sages said :
37. Who got the position of Indra, which sustained the title of gods? O best of brāhmaṇas, tell (us) in detail, who gave (him) the position of Indra?
Sūta said :
38. I shall tell you in detail for which best merit the best one, the glorious one, obtained the position of Indra.
39-40. When all the demons were killed in the great war, and when the sinners were completely annihilated by the magnanimous Viṣṇu, gods along with Gandharvas , Nāgas , Vidyādharas , spoke, with their palms folded in obeisance, to Mādhava (Viṣṇu):
41. “O venerable one, O lord of gods, O Hṛṣīkeśa , our salutations to you. We are going to tell you something respectfully; (please) understand all that.
42-43a. O Keśava (i.e. Viṣṇu), make for (i.e. give) us a ruler, a protector, who is meritorious; (give us) a god, a king, viz. Indra, who is righteous and who would rule the worlds, and resorting to whom the beings in the three worlds would obtain happiness.”
Vāsudeua ( i.e . Viṣṇu) said :
43b. O you illustrious ones, the best brāhmaṇa, endowed with the Viṣṇuite lustre, lived in my heaven for a long time.
44-48a. O you best gods, the period of stay in my heaven of that brāhmaṇa, that magnanimous devotee of me, was over. Due to Viṣṇuite lustre in him the pious one will be your guardian; and he loves righteousness; he, the best pious brāhmaṇa, will be your king and supporter for protecting you. The large-hearted son of Aditi will be known as Suvrata . He, the very powerful and very brave one will be Indra.
Sūta said :
48b-49. In this way, the lord of gods, granted best boons to the gods; then all the victorious and best gods went with Viṣṇu to see their father, Kaśyapa , and their mother.
50. The magnanimous ones saluted both (the parents) seated comfortably. Full of great joy, and with the palms of their hands joined, they said:
51. “Due to your favour we have attained to godhead.” Full of great joy, he (i.e. Kaśyapa) spoke (these) words to the gods:
Kaśyapa said :
52a-55a. You have always been following the virtuous path. Due to our favour and the power of penance, you have attained to the position of gods which is inexhaustible. To these I (now) give a boon: Full of great love you—gods, nāgas, Gandharvas and great deities—will be immortal, will not be subject to old age, will be imperishable, will have all your desires satisfied, and will be endowed with all perfections.
Viṣṇu said :
55b-56a. Well-being to you, O successful mother of gods; ask for a boon. I shall certainly give you whatever is desired by your mind.
Aditi spoke :
56b-59. O Mādhava (i.e. Viṣṇu), due to your favour I had become a mother. I obtained these sons that are immortal, ageless, eternal, and righteous and affectionate, O Madhusūdana (i.e. Viṣṇu), (please) listen: O Govinda , you are one who fully satisfies all desires and gives prosperity. Remaining in my womb (you should be born as) my son, so that with you as my son I shall be delighted. O lord, thus satisfy my desire, leading to prosperity.
Vāsudeva said :
60-65. For the mission of gods, you should go to (i.e. take up) a human form. Then I shall surely remain in your womb. O goddess, when the twelfth yuga comes, I shall, for removing the burden of the earth, and for killing all the kṣatriyas , be (born as) your son, viz. ( Paraśu ) Rāma , Jamadagni ’s son, the best of brāhmaṇas and endowed with valour and lustre, and best among all those who wield weapons. Similarly, when the twenty-seventh yuga called Tretā arrives, I shall be, O loyal wife, (born as) your son, named Rāma. O you of pious mind, when at the end of Dvāpara , the twentyeighth yuga arrives, I shall be undoubtedly (born as) your son, by name Vāsudeva (i.e. Kṛṣṇa), for the destruction of all demons and for removing the burden of the earth.
66a. O you auspicious one, now please do what I tell you.
66b-70a. O you goddess, who grant everything, having created an omniscient, handsome son, I shall give the position of Indra, (so that) he too will be Indra.
Having heard thus that due to the favour of the lord of lords the son will be Indra, she was full of great joy. (She said:) “O magnanimous one, let it be so; I shall do as you tell me.” Then all the deities, free from fear and full of joy, went to their own abodes.
Sūta said :
70b-7l. Having gone to Kaśyapa after she was in menstruation, the high-minded Aditi (said to him:) “O revered one, give me a son who will enjoy the position of Indra.” The brāhmaṇa (i.e. Kaśyapa), having thought for a moment, said to the high-minded lady:
72-82a. “O illustrious one, let it be so. You will have a son, who will be the creator of the three worlds and also enjoyer of the sacrifices.” Having put his hand on her head, the lustrous, best brāhmaṇa, who was endowed with truth and piety, practised penance. O best of brāhmaṇas, he (i.e. the son) would always live in the heaven of Viṣṇu. O best of brāhmaṇas, when his religious merit would be exhausted, be would, due to (the fruit of) his acts, fall from there; then he, of a great penance, would go to the womb of Aditi, with the desire to enjoy the position of Indra. Due to her truthful and meritorious deeds, and due to her religious merit and penance, the goddess conceived. Having gone to reside in a forest, she practised penance without laziness. A hundred divine years passed, when the mother of gods was (thus) practising penance. She practised penance difficult to be practised by gods and demons. She, bright with that penance and lustre, resembling the sun’s lustre and (looking) like another sun, resorted to meditation and shone brightly. Then due to the lustre ofher penance, she looked superior in her beauty (i.e. looked more beautiful). That goddess, Dakṣa ’s devout daughter, engrossed in penance and meditation, and feeding herself on air, shone more (i.e. looked more beautiful). All siddhas and sages, and gods of great prowess, closely intent (on looking after her), praised and protected the illustrious one.
82b-84. When a full hundred years were over, Viṣṇu came there. He said to that illustrious Aditi, endowed with penance: “O goddess, the foetus has fully developed; the time for delivery has come; the foetus is nourished by your penance and grown by your lustre. O you glorious one, today only you deliver the embryo.”
85-89. Speaking thus, the lord of the gods went to his own abode. When a very prosperous time arrived, the goddess delivered a son, who was lustrous, who was as it were another sun, who was pleasing, who was charming in all limbs, who was endowed with all (good) characteristics, who had four arms, whose body was huge, who was regent of a quarter, who was the lord of gods, who was covered with lustrous blazes, whose hands looked lovely on account of disc and lotus; who, the very intelligent one, shone with a face resembling the orb of the moon, who was very wise, who was adorned with the lustre of Viṣṇu, with other good characteristics and divine disposition, who was full of all (good) characteristics, whose face was like the moon, whose eyes resembled lotuses.
90-92a. The gods, the sages who had mastered the Vedas , Gandharvas, Nāgas, Vidyādharas, the seven sages, of inferior and superior prowess, came there. Other virtuous, magnanimous sages, giving merit and auspiciousness, with their minds full of joy also came there.
92b-94. When that glorious one of great prowess was born, all revered gods, all mountains, ascetics, milky and other oceans, unsullied rivers, all those that were affectionate and other mobile and immobile objects came there. All lords of gods happily celebrated (the occasion) with auspicious rites.
95-102a. The hosts of the celestial nymphs danced and the Gandharvas sang songs. Gods and sages who had mastered the Vedas praised the magnanimous son of Kaśyapa with Vedic hymns. When he of great prowess was born, Brahmā , Viṣṇu, Rudra and all the Vedas together with the Vedāṅgas and the Upāṅgas [1] came there. All the beings in the world that were endowed with religious merit came there only, when he of great prowess was born. With auspicious great festivals all of them performed sacred rites. The three gods led by Brahmā, as well as Kaśyapa and Bṛhaspati , of great prowess and full of joy and worshipping him, performed the naming ceremony of that magnanimous one. (They said:) “You will be known as Vasudatta ; you are also (named) Vasuda ; your names will be Ākhaṇḍala , and also Marutvān ; you will also be known as Maghavan , Biḍaujas , and Pākaśāsani.” (They said to Aditi:) “This your son will also be known as Śakra and Indra.”
102b-105. All the deities, pleased and delighted in mind, gave these names to that magnanimous one only. The great gods took bath and performed the purificatory rites. Having called Viśvakarman , they gave that magnanimous one propitious and divine ornaments. All the gods of great prowess were thus glad when that glorious, magnanimous king of gods was born.
106-108. On an auspicious day, at an auspicious time, the magnanimous gods consecrated him with auspicious rites and established him as Indra. By the favour of the disc-holder (i.e. Viṣṇu) he obtained the position of Indra. That Vasudatta, the lustrous lord of gods, practised penance. He was endowed with brilliant lustre, and had held weapons like the thunderbolt, the noose, and the goads.
Sūta said :
109. Seeing the great, entire power of penance, Śukra uttered a verse: “In the worlds, there will be none else as much handsome as this one.
110. This other great magnanimous one has obtained this divine grandeur by Viṣṇu’s favour.
111. None else, of a strong power due to penance will there be in the worlds, who can be compared with this one”.=
[1]: [1] : Sāṅgopāṅgaiḥ —With Aṅgas and Upāṅgas. The six Vedāṅgas are: (1) Śikṣā (Phonetics); (2) Kalpa (Rituals); (3) Vyākaraṇa (Grammar); (4) Nirukta (Etymology); (5) Chandas (Metrics); and (6) Jyotiṣa (Astronomy). The Upāṅgas are said to be: Purāṇa-nyāya-mīmāṃsā-dharma-śāstrāṇi.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 37656, revision 333739 (2022-03-16T02:07:29Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364212.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.