Skip to main content

Svarga-khaṇḍa · Chapter 27

Chapter 27

Unit 234 of 693Svarga-khaṇḍa · Chapter 27Svarga-khaṇḍa · Chapter 271 source entries

Svarga-khaṇḍa · Chapter 27

Source

नारद उवाच-। ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् । कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् १। ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् । तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः २। ब्राह्मणस्तु विशुद्धात्मा गच्छेत परमां गतिम् । ततो गच्छेन्नरव्याघ्र सोमतीर्थमनुत्तमम् ३। तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् । सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ४। यत्र मंकणकः सिद्धो ब्रह्मर्षिर्लोकविश्रुतः । पुरा मंकणको राजन्कुशाग्रेणेति विश्रुतम् ५। क्षतः किल करे राजन्तस्य शाकरसोऽस्रवत् । स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः ६। ननर्त किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः । ततस्तस्मिन्प्रनृत्ते वै स्थावरं जंगमं च यत् ७। प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् । ब्रह्मादिभिस्ततो देवैर्ऋषिभिश्च तपोधनैः ८। विज्ञप्तो वै ऋषेरर्थे महादेवो नराधिप । नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ९। ततो देवो मुनिं दृष्ट्वा हर्षाविष्टेन चेतसा । नृत्यंतमब्रवीच्चैनं स्थिराणां हितकाम्यया १०। अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् । हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव ११। ऋषिरुवाच-। तपस्विनो धर्म्मपथस्थितस्य द्विजसत्तम । किं न पश्यसि मे ब्रह्मन्क्षताच्छाकरसं सृतम् १२। यं दृष्ट्वा संप्रनृत्तोऽहं हर्षेण महता वृतः । तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम् १३। अहं तु विस्मयं विप्र न गच्छामीह पश्य माम् । एवमुक्त्वा नरश्रेष्ठ महादेवेन वै तदा १४। अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितोऽनघ । तस्य भस्मक्षताद्राजन्निःसृतं हिमसंनिभम् १५। यं दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः । नान्यं देवादहं मन्ये रुद्रात्परतरं महत् १६। सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् । त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् १७। त्वामेव भगवन्सर्वे प्रविशंति युगक्षये । देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया १८। त्वयि सर्वेश दृश्यंते सुराः शक्रादयोऽनघ । सर्वस्त्वमसि लोकानां कर्ता कारयितान्वहम् १९। त्वत्प्रसादात्सुराः सर्वे मोदंतीहाकुतोभयाः । एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् २०। त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै । ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् २१। तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा । आश्रमे चेह वत्स्यामि त्वया सार्द्धं महामुने २२। सप्तसारस्वते स्नात्वा अर्चयिष्यंति ये तु माम् । न तेषां दुर्लभं किंचिदिह लोके परत्र वा २३। गच्छेत्सारस्वतं चापि लोकं नास्त्यत्र संशयः । एवमुक्त्वा महादेवस्तत्रैवांतरधीयत २४। ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् । यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः २५। कार्तिकेयश्च भगवांस्त्रिसंध्यां किल भारत । सान्निध्यमकरोत्तत्र भार्गवप्रियकाम्यया २६। कपालमोचनं तीर्थं सर्वपापप्रणाशनम् । तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते २७। अग्नितीर्थं ततो गच्छेत्स्नात्वा च भरतर्षभ । अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् २८। विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम । तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते २९। ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः । तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ३०। पुनात्या सप्तमं चैव कुलं नास्त्यत्र संशयः । ततो गच्छेत राजेंद्र तीर्थं त्रैलोक्यविश्रुतम् ३१। पृथूदकमिति ख्यातं कार्तिकेयस्य व्नृप । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ३२। अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा । यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना ३३। तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत । अश्वमेधफलं चापि लभते स्वर्गमेव च ३४। पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् । सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ३५। उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् । पृथूदके जप्यपरो नैव संसरणं लभेत् ३६। गीतं सनत्कुमारेण व्यासेन च महात्मना । वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् ३७। पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम । एतन्मेध्यं पवित्रं च पावनं च न संशयः ३८। तत्र स्नात्वा दिवं यांति अपि पापकृतो जनाः । पृथूदके नरश्रेष्ठमाहुरेवं मनीषिणः ३९। मधुस्रवं च तत्रैव तीर्थं भरतसत्तम । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ४०। ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् । सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम् ४१। त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया । अग्निष्टोमातिरात्राभ्यां फलं चैव समश्नुते ४२। पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः । अवकीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ४३। विप्राणामनुकंपार्थं दर्भिणा निर्मितं पुरा । व्रतोपनयनाभ्यां चाप्युपवासेन वा द्विजः ४४। क्रियामंत्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः । क्रियामंत्रविहीनोऽपि तत्र स्नात्वा नरर्षभ ४५। चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातनम् । समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा ४६। तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात् । फलानि गोसहस्राणां चतुर्णां विंदते च सः ४७। ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् । साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ४८। उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् । दानं वाप्युपवासो वा सहस्रगुणितो भवेत् ४९। ततो गच्छेत राजेंद्र रेणुकातीर्थमुत्तमम् । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ५०। सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् । विमोचन उपस्पृश्य जितमन्युर्जितेंद्रियः ५१। प्रतिग्रहकृतैः पापैः सर्वैः संपरिमुच्यते । ततः पंचवटं गत्वा ब्रह्मचारी जितेंद्रियः ५२। पुण्येन महता युक्तः स्वर्गलोके महीयते । यत्र योगीश्वरः स्थाणुः स्वयमेव वृषध्वजः ५३। तमर्चयित्वा देवेशं गमनादेव सिध्यति । तैजसं वारुणं तीर्थं दीप्यते स्वेन तेजसा ५४। यत्र ब्रह्मादिभिर्देवैर्ऋषिभिश्च तपोधनैः । सैनापत्ये च देवानामभिषिक्तो गुहस्तदा ५५। तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह । कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेंद्रियः ५६। सर्वपापविशुद्धात्मा रुद्रलोकं प्रपद्यते । स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः ५७। अग्निष्टोममवाप्नोति ब्रह्मलोकं च गच्छति । ततो गच्छेदनरकं तीर्थसेवी नराधिप ५८। तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् । तत्र ब्रह्मा स्वयं नित्यं देवैस्सह महीयते ५९। अध्यास्ते पुरुषव्याघ्र नारायणपरागमैः । सान्निध्यं चैव राजेंद्र रुद्रवेद्यां कुरुद्वह ६०। अभिगम्य तु तां देवीं न दुर्गतिमवाप्नुयात् । तत्रैव च महाराज विश्वेश्वरमुमापतिम् ६१। अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः । नारायणं चाभिगम्य पद्मनाभमरिंदम ६२। शोभमानो महाराज विष्णुलोकं प्रपद्यते । तीर्थेषु सर्वदेवानां स्नातमात्रो नराधिप ६३। सर्वदुःखपरित्यक्तो द्योतते शिववत्सदा । ततस्त्वस्थिपुरं गच्छेत्तीर्थसेवी नराधिप ६४। पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः । अग्निष्टोमस्य यज्ञस्य फलमाप्नोति भारत ६५। गंगाह्रदश्च तत्रैव कूपश्च भरतर्षभ । तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीयते ६६। तत्र स्नात्वा नरो राजन्ब्रह्मलोके प्रपद्यते । आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ६७। गतिं परामवाप्नोति कुलं चैव समुद्धरेत् । ततः स्थाणुवटं गछेत्त्रिषुलोकेषु विश्रुतम् ६८। तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् । बदरीणां वनं गच्छेद्वसिष्ठस्याश्रमं ततः ६९। बदरी भक्ष्यते यत्र त्रिरात्रोपोषितो नरः । सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः ७०। त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप । इंद्रमार्गं समासाद्य तीर्थसेवी नराधिप ७१। अहोरात्रोपवासेन स्वर्गलोके महीयते । एकरात्रं समासाद्य एकरात्रोषितो नरः ७२। नियतः सत्यवादी च ब्रह्मलोके महीयते । तथा गछेच्च राजेंद्र तीर्थं त्रैलोक्यविश्रुतम् ७३। आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः । तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् ७४। आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् । सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह ७५। सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः । ततो गच्छेत धर्मज्ञ दधीचस्य नराधिप ७६। तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् । यत्र सारस्वतो यातः सिद्धिं स तपसोनिधिः ७७। तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् । सारस्वतीं मतिं चैव लभते नात्र संशयः ७८। ततः कन्याश्रमं गत्वा नियतो ब्रह्मचर्यया । त्रिरात्रमुषितो राजन्नुपवासपरायणः ७९। लभेत्कन्याशतं दिव्यं बह्मलोकं च गच्छति । ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि ८०। यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः । मासि मासि समेष्यंति पुण्येन महतान्विताः ८१। सन्निहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे । अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ८२। पृथिव्यां यानि तीर्थानि अंतरिक्षचराणि च । उदपानाश्च विप्राश्च पुण्यान्यायतनानि च ८३। निःसंशयममावास्यां समेष्यंति नराधिप । मासिमासि नरव्याघ्र सन्निहित्यां जनेश्वर ८४। तीर्थसन्नयनादेव सन्निहिती भुवि विश्रुता । तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते ८५। अमावास्यां तथा चैव राहुग्रस्ते दिवाकरे । यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु ८६। अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् । स्नात एव तदाप्नोति श्राद्धं कृत्वा च मानवः ८७। यत्किंचिद्दुष्कृतं कर्म्म स्त्रिया वा पुरुषस्य वा । स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ८८। पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति । अभिवाद्य ततो नाम्ना द्वारपालं मचक्रुकम् ८९। गंगाह्रदश्च तत्रैव तीर्थं भरतसत्तम । तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः ९०। राजसूयाश्वमेधाभ्यां फलं विंदति मानवः । पृथिव्यां नैमिषं पुण्यमंतरिक्षे च पुष्करम् ९१। त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते । पांसवोऽपि कुरुक्षेत्रे वायुनाति समीरिताः ९२। अपि दुष्कृतकर्म्माणं नयंति परमां गतिम् । दक्षिणेन सरस्वत्यामुत्तरेण सरस्वतीम् ९३। ये वसंति कुरुक्षेत्रे ते वसंति त्रिविष्टपे । कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ९४। अप्येकां वाचमुत्मृज्य स्वर्गलोके महीयते । ब्रह्मवेद्यां कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ९५। तस्मिन्वसंति ये राजन्न ते शोच्याः कथंचन । तरंडकारंडकयोर्यदंतरं रामह्रदानां च मचक्रुकस्य च । एतत्कुरुक्षेत्र समंतपंचकं पितामहस्योत्तर वेदिरुच्यते ९६। इति श्रीपाद्मेमहापुराणे स्वर्गखंडे सप्तविंशोऽध्यायः २७ । । ।

nārada uvāca-| tato gaccheta dharmajña kanyātīrthamanuttamam | kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet 1| tato gacchennaravyāghra brahmaṇaḥ sthānamuttamam | tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ 2| brāhmaṇastu viśuddhātmā gaccheta paramāṃ gatim | tato gacchennaravyāghra somatīrthamanuttamam 3| tatra snātvā naro rājansomalokamavāpnuyāt | saptasārasvataṃ tīrthaṃ tato gacchennarādhipa 4| yatra maṃkaṇakaḥ siddho brahmarṣirlokaviśrutaḥ | purā maṃkaṇako rājankuśāgreṇeti viśrutam 5| kṣataḥ kila kare rājantasya śākaraso'sravat | sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ 6| nanarta kila viprarṣirvismayotphullalocanaḥ | tatastasminpranṛtte vai sthāvaraṃ jaṃgamaṃ ca yat 7| pranṛttamubhayaṃ vīra tejasā tasya mohitam | brahmādibhistato devairṛṣibhiśca tapodhanaiḥ 8| vijñapto vai ṛṣerarthe mahādevo narādhipa | nāyaṃ nṛtyedyathā deva tathā tvaṃ kartumarhasi 9| tato devo muniṃ dṛṣṭvā harṣāviṣṭena cetasā | nṛtyaṃtamabravīccainaṃ sthirāṇāṃ hitakāmyayā 10| aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān | harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava 11| ṛṣiruvāca-| tapasvino dharmmapathasthitasya dvijasattama | kiṃ na paśyasi me brahmankṣatācchākarasaṃ sṛtam 12| yaṃ dṛṣṭvā saṃpranṛtto'haṃ harṣeṇa mahatā vṛtaḥ | taṃ prahasyābravīddeva ṛṣiṃ rāgeṇa mohitam 13| ahaṃ tu vismayaṃ vipra na gacchāmīha paśya mām | evamuktvā naraśreṣṭha mahādevena vai tadā 14| aṃgulyagreṇa rājeṃdra svāṃguṣṭhastāḍito'nagha | tasya bhasmakṣatādrājanniḥsṛtaṃ himasaṃnibham 15| yaṃ dṛṣṭvā vrīḍito rājansa muniḥ pādayorgataḥ | nānyaṃ devādahaṃ manye rudrātparataraṃ mahat 16| surāsurasya jagato gatistvamasi śūladhṛk | tvayā sṛṣṭamidaṃ viśvaṃ trailokyaṃ sacarācaram 17| tvāmeva bhagavansarve praviśaṃti yugakṣaye | devairapi na śakyastvaṃ parijñātuṃ kuto mayā 18| tvayi sarveśa dṛśyaṃte surāḥ śakrādayo'nagha | sarvastvamasi lokānāṃ kartā kārayitānvaham 19| tvatprasādātsurāḥ sarve modaṃtīhākutobhayāḥ | evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato'bravīt 20| tvatprasādānmahādeva tapo me na kṣareta vai | tato devaḥ prahṛṣṭātmā brahmarṣimidamabravīt 21| tapaste varddhatāṃ vipra matprasādātsahasradhā | āśrame ceha vatsyāmi tvayā sārddhaṃ mahāmune 22| saptasārasvate snātvā arcayiṣyaṃti ye tu mām | na teṣāṃ durlabhaṃ kiṃcidiha loke paratra vā 23| gacchetsārasvataṃ cāpi lokaṃ nāstyatra saṃśayaḥ | evamuktvā mahādevastatraivāṃtaradhīyata 24| tatastvauśanasaṃ gacchettriṣu lokeṣu viśrutam | yatra brahmādayo devā ṛṣayaśca tapodhanāḥ 25| kārtikeyaśca bhagavāṃstrisaṃdhyāṃ kila bhārata | sānnidhyamakarottatra bhārgavapriyakāmyayā 26| kapālamocanaṃ tīrthaṃ sarvapāpapraṇāśanam | tatra snātvā naravyāghra sarvapāpaiḥ pramucyate 27| agnitīrthaṃ tato gacchetsnātvā ca bharatarṣabha | agnilokamavāpnoti kulaṃ caiva samuddharet 28| viśvāmitrasya tatraiva tīrthaṃ bharatasattama | tatra snātvā mahārāja brāhmaṇyamabhijāyate 29| brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ | tatra snātvā naravyāghra brahmalokaṃ prapadyate 30| punātyā saptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ | tato gaccheta rājeṃdra tīrthaṃ trailokyaviśrutam 31| pṛthūdakamiti khyātaṃ kārtikeyasya vnṛpa | tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ 32| ajñānājjñānato vāpi striyā vā puruṣeṇa vā | yatkiṃcidaśubhaṃ karma kṛtaṃ mānuṣabuddhinā 33| tatsarvaṃ naśyate tatra snātamātrasya bhārata | aśvamedhaphalaṃ cāpi labhate svargameva ca 34| puṇyamāhuḥ kurukṣetraṃ kurukṣetrātsarasvatīm | sarasvatyāśca tīrthāni tīrthebhyaśca pṛthūdakam 35| uttame sarvatīrthānāṃ yastyajedātmanastanum | pṛthūdake japyaparo naiva saṃsaraṇaṃ labhet 36| gītaṃ sanatkumāreṇa vyāsena ca mahātmanā | vede ca niyataṃ rājannabhigacchetpṛthūdakam 37| pṛthūdakātpuṇyatamaṃ nānyattīrthaṃ narottama | etanmedhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ 38| tatra snātvā divaṃ yāṃti api pāpakṛto janāḥ | pṛthūdake naraśreṣṭhamāhurevaṃ manīṣiṇaḥ 39| madhusravaṃ ca tatraiva tīrthaṃ bharatasattama | tatra snātvā naro rājangosahasraphalaṃ labhet 40| tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam | sarasvatyāruṇāyāśca saṃgamaṃ lokaviśrutam 41| trirātropoṣitaḥ snātvā mucyate brahmahatyayā | agniṣṭomātirātrābhyāṃ phalaṃ caiva samaśnute 42| punātyāsaptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ | avakīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha 43| viprāṇāmanukaṃpārthaṃ darbhiṇā nirmitaṃ purā | vratopanayanābhyāṃ cāpyupavāsena vā dvijaḥ 44| kriyāmaṃtraiśca saṃyukto brāhmaṇaḥ syānna saṃśayaḥ | kriyāmaṃtravihīno'pi tatra snātvā nararṣabha 45| cīrṇavrato bhavedvipro dṛṣṭametatpurātanam | samudrāścāpi catvāraḥ samānītāśca darbhiṇā 46| tatra snātvā naravyāghra na durgatimavāpnuyāt | phalāni gosahasrāṇāṃ caturṇāṃ viṃdate ca saḥ 47| tato gaccheta rājendra tīrthaṃ śatasahasrakam | sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute 48| ubhayorhi naraḥ snātvā gosahasraphalaṃ labhet | dānaṃ vāpyupavāso vā sahasraguṇito bhavet 49| tato gaccheta rājeṃdra reṇukātīrthamuttamam | tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ 50| sarvapāpaviśuddhātmā agniṣṭomaphalaṃ labhet | vimocana upaspṛśya jitamanyurjiteṃdriyaḥ 51| pratigrahakṛtaiḥ pāpaiḥ sarvaiḥ saṃparimucyate | tataḥ paṃcavaṭaṃ gatvā brahmacārī jiteṃdriyaḥ 52| puṇyena mahatā yuktaḥ svargaloke mahīyate | yatra yogīśvaraḥ sthāṇuḥ svayameva vṛṣadhvajaḥ 53| tamarcayitvā deveśaṃ gamanādeva sidhyati | taijasaṃ vāruṇaṃ tīrthaṃ dīpyate svena tejasā 54| yatra brahmādibhirdevairṛṣibhiśca tapodhanaiḥ | saināpatye ca devānāmabhiṣikto guhastadā 55| taijasasya tu pūrveṇa kurutīrthaṃ kurūdvaha | kurutīrthe naraḥ snātvā brahmacārī jiteṃdriyaḥ 56| sarvapāpaviśuddhātmā rudralokaṃ prapadyate | svargadvāraṃ tato gacchenniyato niyatāśanaḥ 57| agniṣṭomamavāpnoti brahmalokaṃ ca gacchati | tato gacchedanarakaṃ tīrthasevī narādhipa 58| tatra snātvā naro rājanna durgatimavāpnuyāt | tatra brahmā svayaṃ nityaṃ devaissaha mahīyate 59| adhyāste puruṣavyāghra nārāyaṇaparāgamaiḥ | sānnidhyaṃ caiva rājeṃdra rudravedyāṃ kurudvaha 60| abhigamya tu tāṃ devīṃ na durgatimavāpnuyāt | tatraiva ca mahārāja viśveśvaramumāpatim 61| abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ | nārāyaṇaṃ cābhigamya padmanābhamariṃdama 62| śobhamāno mahārāja viṣṇulokaṃ prapadyate | tīrtheṣu sarvadevānāṃ snātamātro narādhipa 63| sarvaduḥkhaparityakto dyotate śivavatsadā | tatastvasthipuraṃ gacchettīrthasevī narādhipa 64| pāvanaṃ tīrthamāsādya tarpayetpitṛdevatāḥ | agniṣṭomasya yajñasya phalamāpnoti bhārata 65| gaṃgāhradaśca tatraiva kūpaśca bharatarṣabha | tisraḥ koṭyastu tīrthānāṃ tasminkūpe mahīyate 66| tatra snātvā naro rājanbrahmaloke prapadyate | āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram 67| gatiṃ parāmavāpnoti kulaṃ caiva samuddharet | tataḥ sthāṇuvaṭaṃ gachettriṣulokeṣu viśrutam 68| tatra snātvā sthito rātriṃ rudralokamavāpnuyāt | badarīṇāṃ vanaṃ gacchedvasiṣṭhasyāśramaṃ tataḥ 69| badarī bhakṣyate yatra trirātropoṣito naraḥ | samyagdvādaśavarṣāṇi badarīṃ bhakṣayettu yaḥ 70| trirātropoṣitaścaiva bhavettulyo narādhipa | iṃdramārgaṃ samāsādya tīrthasevī narādhipa 71| ahorātropavāsena svargaloke mahīyate | ekarātraṃ samāsādya ekarātroṣito naraḥ 72| niyataḥ satyavādī ca brahmaloke mahīyate | tathā gachecca rājeṃdra tīrthaṃ trailokyaviśrutam 73| ādityasyāśramo yatra tejorāśermahātmanaḥ | tasmiṃstīrthe naraḥ snātvā pūjayitvā vibhāvasum 74| ādityalokaṃ vrajati kulaṃ caiva samuddharet | somatīrthe naraḥ snātvā tīrthasevī kurūdvaha 75| somalokamavāpnoti naro nāstyatra saṃśayaḥ | tato gaccheta dharmajña dadhīcasya narādhipa 76| tīrthaṃ puṇyatamaṃ rājanpāvanaṃ lokaviśrutam | yatra sārasvato yātaḥ siddhiṃ sa tapasonidhiḥ 77| tasmiṃstīrthe naraḥ snātvā vājapeyaphalaṃ labhet | sārasvatīṃ matiṃ caiva labhate nātra saṃśayaḥ 78| tataḥ kanyāśramaṃ gatvā niyato brahmacaryayā | trirātramuṣito rājannupavāsaparāyaṇaḥ 79| labhetkanyāśataṃ divyaṃ bahmalokaṃ ca gacchati | tato gaccheta dharmajña tīrthaṃ saṃnihitīmapi 80| yatra brahmādayo devā ṛṣayaśca tapodhanāḥ | māsi māsi sameṣyaṃti puṇyena mahatānvitāḥ 81| sannihityāmupaspṛśya rāhugraste divākare | aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam 82| pṛthivyāṃ yāni tīrthāni aṃtarikṣacarāṇi ca | udapānāśca viprāśca puṇyānyāyatanāni ca 83| niḥsaṃśayamamāvāsyāṃ sameṣyaṃti narādhipa | māsimāsi naravyāghra sannihityāṃ janeśvara 84| tīrthasannayanādeva sannihitī bhuvi viśrutā | tatra snātvā ca pītvā ca svargaloke mahīyate 85| amāvāsyāṃ tathā caiva rāhugraste divākare | yaḥ śrāddhaṃ kurute martyastasya puṇyaphalaṃ śṛṇu 86| aśvamedhasahasrasya samyagiṣṭasya yatphalam | snāta eva tadāpnoti śrāddhaṃ kṛtvā ca mānavaḥ 87| yatkiṃcidduṣkṛtaṃ karmma striyā vā puruṣasya vā | snātamātrasya tatsarvaṃ naśyate nātra saṃśayaḥ 88| padmavarṇena yānena brahmalokaṃ sa gacchati | abhivādya tato nāmnā dvārapālaṃ macakrukam 89| gaṃgāhradaśca tatraiva tīrthaṃ bharatasattama | tatra snāyīta dharmajña brahmacārī samāhitaḥ 90| rājasūyāśvamedhābhyāṃ phalaṃ viṃdati mānavaḥ | pṛthivyāṃ naimiṣaṃ puṇyamaṃtarikṣe ca puṣkaram 91| trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate | pāṃsavo'pi kurukṣetre vāyunāti samīritāḥ 92| api duṣkṛtakarmmāṇaṃ nayaṃti paramāṃ gatim | dakṣiṇena sarasvatyāmuttareṇa sarasvatīm 93| ye vasaṃti kurukṣetre te vasaṃti triviṣṭape | kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham 94| apyekāṃ vācamutmṛjya svargaloke mahīyate | brahmavedyāṃ kurukṣetraṃ puṇyaṃ brahmarṣisevitam 95| tasminvasaṃti ye rājanna te śocyāḥ kathaṃcana | taraṃḍakāraṃḍakayoryadaṃtaraṃ rāmahradānāṃ ca macakrukasya ca | etatkurukṣetra samaṃtapaṃcakaṃ pitāmahasyottara vedirucyate 96| iti śrīpādmemahāpurāṇe svargakhaṃḍe saptaviṃśo'dhyāyaḥ 27 | | |

English translation

Nārada said :

1-11. O you pious one, then a man should go to the excellent holy place (called) Kanyātīrtha . A man having bathed at Kanyā-tīrtha would obtain the fruit of Agniṣṭoma (sacrifice). Thence, O best among men, a man should go to the excellent place of Brahmā . Having bathed there a man of a low caste obtains brāhmaṇahood; and a brāhmaṇa , with his soul purified, would go to the highest position. Thence, O best among men, a man should go to the excellent Somatīrtha . Having bathed there, O king, a man would obtain (i.e., go to) Soma ’s world. Thence, O king, he should go to the holy place (called) Saptasārasvata where (lived) Maṅkaṇaka , a siddha , a brāhmaṇic sage, famous in the world. O king, it is heard that formerly Maṅkaṇaka was injured on his hand by the tip of Kuśa (i.e., darbha ). From it vegetable juice flowed. The brāhmaṇic sage of a great penance seeing that vegetable juice and being full of great joy and with his eyes dilated due to amazement, danced. Then, when he danced, all that was immovable and movable, both, being deluded by his lustre, danced. O king, gods like Brahmā, and also sages with penance as their wealth, requested Mahādeva (i.e., Śiva ) for the sake of the sage, “O god, please act in such a way that this (sage) would not dance.” Then the god seeing the sage dancing with his mind full of joy said, with a desire for the good of the deities, to the sage: “O pious, great sage, why are you dancing? O best sage, what is the cause of your joy today?”

The sage said :

12-24a. O best brāhmaṇa, O brahman , do you not see that from this wound incurred by me, an ascetic following the righteous path, vegetable juice has flowed, seeing which, I, full of great joy, have been dancing?

Laughing at the sage overwhelmed by emotion the god said: “O brāhmaṇa, I am not amazed. Look at me.” O best among men, having said so, Mahādeva, at that time, struck his thumb with the tip of his finger, O sinless one. From his wound ashes resembling snow came out. O king, seeing it, the sage, being ashamed, fell at (Śiva’s) feet. (The sage said:) “I do not think there is anything superior to god Rudra . O you trident-holder, you are the refuge of the world (consisting) of the gods and the demons. You have created this universe—the three worlds with the mobile and the immobile. At the end of the yuga all enter you only. Even gods cannot know you. How (then) can I? O you sinless one, in you are seen all gods like Indra . You always are the all-in-all and you fashion and get fashioned the worlds. Through your grace the gods, having no fear from anywhere, rejoice here.” Having praised Mahādeva like this, the sage bowed (before him) and said: “O Mahādeva, by your favour my penance does not perish.” Then the god, with his mind pleased, said to the brāhmaṇic sage: “O brāhmaṇa, by my grace may your penance grow thousandfold. O great sage, I shall stay with you in this hermitage. For those who have bathed at (the holy place called) Saptasārasvata, nothing will be difficult to be obtained in this or in the next world. They would go to the world of Sarasvatī . There is no doubt about this.”

24b-3la. Having spoken like this Mahādeva disappeared there only. Thence (a man) should go to (the holy place called) Auśanasa well-known in the three worlds, where gods like Brahmā and sages with penance as their wealth (dwell), and where the revered Kārtikeya lived for doing good (to his devotees), O Bhārgava . (Then there is) the holy place called Kapālamocana which destroys all sins. O best of men, having bathed there a man is freed from all sins. Thence he should go to Agni-tīrtha . O best of Bharatas , having bathed there he obtains (i.e., goes to) Agni ’s world, and would liberate his family. O best among Bharatas, the tīrtha of (i.e., sacred to) Viśvāmitra is there only. O great king, having bathed there, he is born in a brāhmaṇa family. With a pure and controlled mind he should go to Brahmayoni . O best of men, having bathed there he goes to Brahmā’s heaven and undoubtedly purifies his family up to the seventh (descendant).

31b-40. Then, O lord of kings, he should go to the holy place well-known in the three worlds as Pṛthūdaka and said to be of (i.e., sacred to) Kārtikeya. Engaged in the worship of the deities and manes, he should bathe there. O descendant of Bharata , all the bad deeds done by a man or a woman knowingly or unknowingly through (limited) human intelligence, perish by just bathing there. He (or she) obtains the fruit of a horse sacrifice and heaven also. Kurukṣetra is said to be holy. Sarasvatī is said to be (holier) than Kurukṣetra. The holy places are superior to Sarasvatī. Pṛthūdaka is superior to the holy places. He who intent upon muttering (the names of the lord) casts his body at Pṛthutīrtha, the best of all holy places, would not have birth and rebirth. It is sung (praised) by Sanatkumara and by the noble Vyāsa also, and also, O king, it is ordained by the Veda (that a man) should go to Pṛthūdaka. O best of men, there is no auspicious place better than Pṛthūdaka. It is sacred, pure and purifying. There is no doubt about this. Even sinful persons go to heaven after having bathed there, i.e., at Pṛthūdaka. Thus the wise say, O best of men. Just there is a holy place (called) Madhusrava , O best of Bharatas. O king, having bathed there a man would obtain the fruit of (having given) a thousand cows.

41-47. Thence, O best among men, he should, according to the order, go to the place of (i.e., sacred to) the goddess, i.e. to the confluence of Sarasvatī and Aruṇā , which is well-known in the world. Having fasted (there) for three nights and having bathed (there), he is absolved of (the sin of) the murder of a brāhmaṇa. Also he sanctifies his family up to the seventh (member). There is no doubt about this. O you who perpetuate the Kuru -family, there only is a holy place called Avakīrṇa , which was formerly fashioned for the sake of brāhmaṇas by Darbhin. By (practising) vows (and undergoing) thread ceremony, fasting, a twice-born undoubtedly becomes a brāhmaṇa endowed with (i.e., knowing) rites and hymns. It is an ancient observation that a brāhmaṇa who is without any rite or (sacred) hymns would become a brāhmaṇa who has observed vows. Darbhin also brought together the four oceans. O best of men, having bathed there, a man would not have (i.e., meet with) misfortune; and he obtains the fruits of (having donated) four thousand cows.

48-49. Thence, O lord of kings, he should go to the holy place (called) Śatasahasraka . (A holy place called) Sahasraka is there only. (These) two holy places are well-known in the world. A man having bathed at (these) two (holy places) would obtain the fruit of (having given) a thousand cows. A gift (given here) or a fast (observed at these holy places) would be thousandfold (effective).

50-52a. From there, O lord of kings, he should go to the excellent (place called) Reṇukātīrtha . Engaged in worshipping manes and deities he should bathe there. With manes and deities he should bathe there. With his soul freed from all sins, he would obtain the fruit of an Agniṣṭoma sacrifice. With his anger subdued (i.e., not being excitable) and his senses controlled, he, having (i.e., he who has) bathed at (the holy place called) Vimocana , is completely free from sins born of receiving donations.

52b-58a. Thence, being chaste and with his senses controlled, he should go to Pañcavaṭa . Being endowed with great religious merit, he is honoured in heaven. Here, Sthāṇu (i.e., Śiva) the lord of the meditating saints having the bull for his banner, himself (resides). (Then) there is the holy place which is sacred to Varuṇa called Taijasa shining with its own lustre, where at that (i.e., old) time gods like Brahmā and others and sages with penance as their wealth, consecrated Guha (i.e., Kārtikeya) as the general (of the army of gods). O you perpetuating the Kuru family, to the east of Taijasa is Kurutīrtha . A chaste man who has controlled his senses, has his soul purified of all sins after bathing at Kurutīrtha. Being restrained and with his diet controlled he should thence go to Svargadvāra . He obtains (the fruit of) an Agniṣṭoma (sacrifice) and obtains (i.e., goes to) the world of Brahmā.

58b-62a. Thence, O lord of men, a pilgrim should go to the holy place (called) Anaraka . O king, having bathed there a man would not obtain (i.e., meet with) misfortune. Brahmā himself is always honoured there with gods. O best among men, with those whose origin is the highest Nārāyaṇa , he remains at the Rudravedī, O you who perpetuate the Kuru family. Having approached that goddess, he would not get (i.e., meet with) misfortune. Having gone to Mahādeva, the master of the world and the lord of Umā (who resides) there only, he is freed from all sins.

62b-68a. O you who subdue your enemies, the man having gone to Padmanābha Nārāyaṇa, shines, and goes to Viṣṇu ’s heaven. O lord of men, a man who has simply bathed at the places holy to all deities, gets free from all his miseries and always shines like Śiva. Thence, O king, a pilgrim should go to Asthipura. Having reached (that) purifying holy place, he should offer oblations to the manes and deities. O descendant of Bharata, he obtains the fruit of an Agniṣṭoma sacrifice. There is the (holy place called) Gaṅgāhrada , the pool, O best among the Bharatas. In that pool there are three crores of holy places. O king, a man bathing there is honoured and goes to Brahmā’s world. A man having bathed in the river and having worshipped the great god (i.e., Śiva), gets the highest position and would liberate his family also.

68b-69a. Thence be should go to Sthāṇuvaṭa , well-known in the three worlds. Having bathed there and having stayed there for a night, he would obtain (i.e., go to) Rudra’s world.

69b-73a. Then he should go to the grove of badarīs , and then to Vasiṣṭha ’s hermitage, where a man having fasted for three nights, eats badarī (fruits). A man who eats badarī (fruits) for twelve years and he who fasts for three nights are on par, O king. Having reached Indramārga , O king, a pilgrim is honoured in Brahmā’s heaven.

73b-76a. Thence, O lord of kings, a man should go to the holy place well-known in the three worlds, where there is the hermitage of Āditya (i.e., the Sun) who, the magnanimous one, is the mass of lustre. A man having bathed there and worshipped the Sun, goes to the Sun’s heaven, and would also liberate his family. O you who perpetuate the Kuru family, a man bathing at the Somatīrtha undoudtedly obtains (i.e., goes to) Soma’s world.

76b-80a. O you pious one, O king, a man should thence go to the auspicious, holy place of Dadhīci , which is purifying and which is well-known in the world, where Sarasvatī, the treasure of penance, obtained perfection. Having bathed at that holy place, a man would obtain the fruit of a Vājapeya sacrifice. There is no doubt that he also has a mind (to reach) goddess Sarasvatī. Being controlled and chaste and devoutly observing a fast he should go to Kanyāśrama , and having stayed there for three nights he would obtain a hundred daughters and he goes to Brahmā’s world.

80b-85. Thence, O pious one, he should go to the holy place (called) Sannihiti where gods like Brahmā and sages having penance as their treasure, endowed with great merit, gather every month. Having bathed at Sannihiti when the sun is eclipsed by Rāhu (i.e., on the day of solar eclipse), he thereby gets (the fruit of) a hundred horse sacrifices and desired objects eternally. O lord of men, whichever holy places there are on the earth or in the sky, and also wells and brāhmaṇas and auspicious abodes, all those, O king, undoubtedly will come (i.e., come) on the new moon day in every month to Sannihiti, O best among men. (The holy place) is well-known on the earth as Sannihiti because of the presence of holy places (there). Having bathed and drunk (water) there, a man is honoured in heaven.

86-89a. (Now) listen to the meritorious fruit of the Śrāddha that a man performs on a new moon day or when the sun is eclipsed by Rāhu. A man who has just bathed there and who performs a śrāddha (there) obtains the fruit of a thousand horse sacrifices properly performed. There is no doubt that whatever bad deed of (i.e., is done by) a woman or a man, all that perishes merely by bathing (there). He goes to Brahmā’s world in a car having lotus-like colour.

89b-91. Then with (the announcement of) his name he should (salute) Macakruka . O best of Bharatas, the pool of Gaṅgā is there only. O you pious one, a man being restrained and calm should bathe there. (Such) a man obtains the fruit of Rājasūya and Aśvamedha (sacrifices). On the earth Naimiṣa is holy and Puṣkara in the sky.

92-96. In the three worlds Kurukṣetra is distinguished. Even the particles of dust greatly shaken by wind take even a sinful person to the best position (i.e., salvation). Those who live in Kurukṣetra on the northern (bank) of Sarasvatī and to the south of (the holy place called) Sarasvatī, live in heaven. Even by just uttering these words: “I shall go to kurukṣetra; I shall stay at Kurukṣetra”, a man is honoured in heaven. O king, auspicious Kurukṣetra resorted to by brāhmaṇic sages, is at Brahmavedī. Those who live there, are not to be grieved over. The five on the boundary of Kurukṣetra—the distance between Taraṇḍa and Kāraṇḍaka, between the pools of (i.e., sacred to) Paraśurāma and Macakruka—are called the Uttaravedi of the Grandsire.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 14445, revision 334132 (2022-03-26T01:48:36Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365246.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.