Uttara-khaṇḍa · Chapter 151
Sourceमहादेव उवाच । अस्मात्तीर्थात्परं तीर्थं इंद्रग्राममिति स्मृतम् । यत्र स्नात्वा पुरा शक्रो विमुक्तो घोरकिल्बिषात् १। पार्वत्युवाच। केनेह कर्मणा शक्रः प्राप्तवान्घोरकिल्बिषम् । विपाप्मा च कथं सोऽभूदिति विस्तरतो वद २। महादेव उवाच। इंद्रः सुरेश्वरः पूर्वं नमुचिश्चासुरेश्वरः । अशस्त्रवधमन्योऽन्य समयं तौ प्रचक्रतुः ३। अथेंद्रस्तु नभोवाणीनिर्देशान्नमुचिं तदा । जघान फेनमादाय ब्रह्महत्या तदाऽभवत् ४। पप्रच्छ च गुरुं शक्रः पापनिर्नाशकारणम् । बृहस्पतेरथादेशात्साभ्रामत्युत्तरे तटे ५। अस्मिन्स्थाने समागत्य स्थानं चक्रे सुरेश्वरः । तस्येह स्नानमात्रेण गतपापस्य तत्क्षणात् ६। पूर्णेंदुधवलाकांतिः शरीरे समजायत । धवलेश्वरमीशानं स्थापयामास वृत्रहा ७। इंद्र नाम्ना च तल्लिंगं विश्रुतं पृथिवीतले । पूर्णिमास्यां तथा दर्शे संक्रांतौ ग्रहणे तथा ८। श्राद्धे कृते पितॄणां तु तृप्तिर्द्वादशवार्षिकी । धवलेश्वरमासाद्य यः कुर्याद्विप्रभोजनम् ९। एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत् । हिरण्यभूमिवासांसि दातव्यानि स्वशक्तितः १०। शुक्ला गौ ब्राह्मणे देया सवत्सा च पयस्विनी । अत्रागत्य तु यो विप्रो रुद्रजाप्यादिकं चरेत् ११। तत्कृतं कोटिगुणितं श्रीमहेशप्रसादतः । अत्र तीर्थे नरो यस्तु उपवासादिकं चरेत् १२। स एव सर्वकामाढ्यो भवत्येव न संशयः । बिल्वपत्रं समानीय यः पूजयति तं प्रभुम् १३। धर्ममर्थं च कामं च लभते मानवो भुवि । सोमवारे विशेषेण ये गच्छंति नरोत्तमाः १४। तेषां रोगं तथा दोषं शमयेद्धवलेश्वरः । रवौ वाऽथ विशेषेण अर्चनं कुरुते यदा १५। तेषां महिमा तु भो देवि न ज्ञातः कर्हिचिन्मया । दूर्वया चार्कपुष्पैर्वा कल्हारैः कमलैर्दलैः १६। पूजनं कुर्वते येऽत्र ते नराः पुण्यभागिनः । श्वेतार्कपुष्पमानीय धवलेशं प्रपूज्य तु १७। वांच्छितं लभते नित्यं धवलेशप्रसादतः । कृते वै नीलकंठस्तु सर्वेषां शंकरः सदा १८। त्रेतायुगे स विख्यातो हरो वै भगवान्प्रभुः । द्वापरे शर्वसंज्ञस्तु कलौ वै धवलेश्वरः १९। अत्रार्थे यत्पुरावृत्तं तच्छृणुष्व सुरेश्वरि । नंदिर्नाम पुरा वैश्य इंद्रग्रामे समावसत् २०। शिवध्यानपरो भूत्वा शिवपूजां चकार सः । नित्यं तपोवनस्थं हि लिंगं धवलसंज्ञकम् २१। उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः । नंदी लिंगार्चनरतो बभूवातिशयेन हि २२। यथाशास्त्रेण विधिना पुष्पार्चनपरोऽभवत् । एकदा मृगयालुब्धः किरातो भूतहिंसकः २३। पापी पापसमाचारश्चरन्साभ्रमती तटे । अनेक श्वापदाकीर्णे हन्यमानो मृगान्शरैः २४। एवं विचरमाणोऽसौ किरातो भूतहिंसकः । यदृच्छयागतस्तत्र यत्र लिंगं सुपूजितम् २५। धवलेश्वरविख्यातं अनेकाश्चर्यमंडितम् । दृष्टं सुपूजितं लिंगं नानापुष्पैः फलैस्तथा २६। एवं लिंगं समालिंग्य गतः साभ्रमतीतटे । तत्र पीत्वा पयः सोऽथ मुखं गंडूषपूरितम् २७। कृत्वा चैकेनहस्तेन मृगमांसं समुद्वहन् । करेणैकेन पूजार्थं बिल्वपत्राणि वै दधत् २८। शीघ्रमागत्य लिंगांते पदा पूजां समाहनत् । पुष्पाणि तानि सर्वाणि विधूतानि इतस्ततः २९। स्नापनं तस्य लिंगस्य कृतं गंडूषवारिणा । करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत् ३०। द्वितीयेन करेणैव मृगमांसं समर्पयत् । दंडप्रणामसंयुक्तः संकल्पं मनसाऽकरोत् ३१। अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः । त्वं मे स्वामी च भक्तोऽहं अद्यप्रभृति शंकर ३२। एवं नियमवान्भूत्वा किरातो गृहमागमत् । तथा प्रभातसमये देवायतनमागतः ३३। नंदी ददर्श तं सर्वं किरातेन च यत्कृतम् । अव्यवस्थं च तं दृंष्ट्वा अमेध्यं शिवसन्निधौ ३४। विधूतानि च सर्वाणि हिंसकेन दुरात्मना । चिंतायुक्तोभवन्नंदी जातं किं चित्रमद्य मे ३५। कथितानि च विघ्नानि शिवपूजारतस्य हि । उपस्थितानि तान्येव मम भाग्यविपर्ययात् ३६। एवं विमृश्य सुचिरं प्रक्षाल्य शिवमंदिरम् । यथागतेन मार्गेण नंदी स्वगृहमागमत् ३७। ततो नंदिनमालक्ष्य पुरोधा गतमानसम् । अब्रवीद्वचनं तं तु कस्मात्त्वं गतमानसः ३८। पुरोहितं प्रति तदा नंदी वचनमब्रवीत् । अद्य दृष्टं मया विप्र अमेध्यं शिवसन्निधौ ३९। केनेदं कारितं तत्र न जानामीह किंचन । ततः पुरोधा वचनं नंदिनं चाब्रवीत्तथा ४०। येन विस्खलितं तत्र पुष्पादीनां प्रपूजनम् । सोऽपि मूढो न संदेहः कार्याकार्येषु मंदधीः ४१। तस्माच्चिंता न कर्तव्या त्वया पुनरपि प्रभो । प्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम् ४२। निरीक्षणार्थं दुष्टस्य तस्य दंडंकरोम्यहम् । एतच्छ्रुत्वा तु वचनं नंदी तस्य पुरोधसः ४३। आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा । तस्यां रात्र्यां व्यतीतायां आहूय च पुरोधसम् ४४। गतः शिवालयं नंदी समंतेन महात्मना । प्रक्षाल्य पूजनं कृत्वा नानारत्नपरिच्छदम् ४५। पंचोपचारसंयुक्तं कृत्वा वै ब्राह्मणैः सह । एवं यामद्वयं जातं स्तूयमानस्य नंदिनः ४६। आयातोऽसौ महाकालस्तथारूपो महाबलः । कालरूपो महारौद्रो धनुष्पाणिः प्रतापवान् ४७। तं दृष्ट्वा भयसंत्रस्तो नंदी तत्र न्यलीयत । पुरोधाश्चैव सहसा भयभीतस्तदाभवत् ४८। किरातेन कृतं तत्र यथापूर्वमविस्खलन् । तां पूजां स पदाहृत्य बिल्वपत्रं समर्पयत् ४९। नैवेद्येन पलेनैव किरातः शिवमार्चयत् । दंडवत्पतितो भूमौ उत्थाय स्वगृहं गतः 6.151.५०। तं दृष्ट्वा महदाश्चर्यं चिंतयामास वै चिरम् । पुरोधसा तदा नंदी सह व्याकुलचेतसा ५१। तेन पृष्टास्तदा विप्राः कथ्यतां च यथातथम् । संप्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ५२। ऊचुः सर्वे तदा विप्रा नंदिनं जातशंकितम् । ईशविघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ५३। तस्मादानय लिंगं त्वं स्वगृहे वैश्यसत्तम । तथेति मत्वाऽसौ नंदी शिवस्योत्पाटनं महत् ५४। कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यथाविधि । सुवर्णपीठिकां कृत्वा नवरंभासुशोभिताम् ५५। उपाहारैरनेकैश्च पूजयामास वै तदा । अथापरेद्युरायातः किरातः शिवमंदिरम् ५६। यावद्विलोकयामास लिंगमैशं न दृष्टवान् । मौनं विहाय सहसा साक्रोशमिदमब्रवीत् ५७। हे शंभो क्व गतोऽसि त्वं दर्शयात्मानमद्य वै । यदि नो दर्शनं हेयं त्यक्ष्याम्यद्य कलेवरम् ५८। हे शंभो हे जगन्नाथ त्रिपुरांतक शंकर । हेरुद्र हे महादेव दर्शयात्मानमात्मना ५९। एवं साक्षेपमधुरैर्वाक्यैः क्षिप्त्वा सदाशिवम् । किरातोऽसौ क्षुरिकया धीरो वै जठरं स्वकम् ६०। बिभेद्याशु ततो बाहुमासाद्योच्चै रुषाब्रवीत् । हे शंभो दर्शयात्मानं कुतो मां त्यज्य यास्यसि ६१। इति क्षिप्त्वा ततोंत्राणि मांसमुद्धृत्य सर्वतः । तस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत् ६२। स्वच्छं च हृदयं कृत्वा साभ्रमत्यां निमज्जतु । तथैव जलमानीय बिल्वपत्रं त्वरान्वितः ६३। पूजयित्वा यथान्यायं दंडवत्पतितो भुवि । यदा ध्यानस्थितस्तत्र किरातः शिवसन्निधौ ६४। प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितः । कर्पूरगौरो द्युतिमान्कपर्दी चंद्रशेखरः ६५। तं गृहीत्वा करे रुद्रः उवाच परिसांत्वयन् । भो भो वीर महाप्राज्ञ मद्भक्तोऽसि महामते ६६। वरं वृणीष्व भो भक्त यत्ते मनसि वर्त्तते । एवमुक्तः स रुद्रेण महाकालो मुदान्वितः ६७। पपात दंडवद्भूमौ भक्त्या परमया युतः । ततो रुद्रं बभाषेदं न वरं प्रार्थयाम्यहम् ६८। अहं दासोऽस्मि ते रुद्र त्वं मे स्वामी न संशयः । एतत्श्लाघ्यतमं लोके देहि जन्मनि जन्मनि ६९। त्वं माता च पिता त्वं च त्वं बंधुश्च सखा च मे । त्वं गुरुस्त्वं महामंत्रो मंत्रैर्वेद्योऽसि सर्वदा ७०। निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः । ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च ७१। तदा डमरुनादेन नादितं भुवनत्रयम् । भेरीभांकारशब्देन शंखानां निनदेन च ७२। तदा दुंदुभयो नेदुः पटहाश्च सहस्रशः । नंदी तं नादमाकर्ण्य विस्मयात्त्वरितो ययौ ७३। तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः । किरातो हि तथा दृष्टो नंदिना च तदा भृशम् ७४। उवाच प्रसृतो वाक्यं स नंदी विस्मयान्वितः । किरातं स्तोतुकामोऽसौ परमेन समाधिना ७५। इहानीतस्त्वया शंभुस्त्वं भक्तोऽसि परंतपः । त्वद्भक्तोऽहमिह प्राप्तो मां निवेदय शंकरे ७६। तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः । नंदिनं च करे गृह्य शंकरं समुपागतः ७७। प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत् । ब्रूहि कोऽसौ त्वयानीतो गणानामिह सन्निधौ ७८। किरात उवाच। त्वद्भक्तोऽसौ तदा देव तव पूजारतो ह्यसौ । प्रत्यहं रत्नमाणिक्यपुष्पैश्चौच्चावचैरिह ७९। जीवितेन धनेनापि पूजितोऽसि न संशयः । तस्माच्चानीहि भो स्वामिन्नंदिनं भक्तवत्सल ८०। महादेव उवाच। जानाम्यहं महाभाग नंदिनं वैश्यवर्त्तनम् । त्वं मे भक्तः सखा चेति महाकाल महामते ८१। उपाधिरहिता ये च ये निष्कपटमानसाः । ते प्रियास्ते च मे भक्तास्ते विशिष्टा नरोत्तमाः । तावुभौ स्वीकृतौ तेन पार्षदत्वेन शंभुना ८२। ततो विमानानि बहुनि तत्र समागतान्येव महाप्रभाणि । किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण ८३। कैलासलोकमापन्नौ विमानैर्वेगवत्तरैः । सारूप्यमेव संप्राप्तो ईश्वरस्य महात्मनः ८४। नीराजितौ गिरिजया पुत्रवत्तौ गणावुभौ ८५। उवाचेदं ततो देवी प्रहस्य गजगामिनी । यथा त्वं हि महादेव तथा चेतौ न संशयः ८६। सारूप्येण च गत्या च हास्यभावैः सुपूजितैः । देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च ८७। सद्यः पराङ्मुखौ भूत्वा शंकरस्य च पश्यतः । ऊचतुस्त्वरया युक्तौ गणौ रुद्रस्य पश्यतः ८८। उभावप्यनुकंप्यौ च भवता हि त्रिलोचन । तव द्वारिस्थितौ नित्यं भवावस्ते नमो नमः ८९। तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः । उवाच परया भक्त्या भवतोरस्तु वांछितम् ९०। ततः प्रभृति द्वावेतौ द्वारपालौ बभूवतुः । शिवद्वारि स्थितौ देवि मध्याह्ने शिवदर्शिनौ ९१। एको नंदी महाकालो द्वावेतौ शिववल्लभौ । ये पापिनोप्यधर्मिष्ठा अंधा मूकाश्च पंगवाः ९२। कुलहीना दुरात्मानः श्वपचाद्या हि मानवाः । यादृशास्तादृशाश्चान्ये आराध्य धवलेश्वरम् ९३। गतास्तेऽपि गमिष्यंति नात्र कार्या विचराणा । अत्र स्नानं च दानं च सांनिध्यं शंकरस्य च ९४। साभ्रमत्यां कृतस्नाना धवलेश्वरपूजकाः । ते रुद्रलोकं गच्छंति नात्र कार्या विचारणा ९५। अत्र स्नानं च दानं च ये कुर्वंति नरोत्तमाः । धर्मार्थकामभोगाश्च भुक्त्वा यांति हरालयम् ९६। चंद्र सर्योपरागे च पितुः सांवत्सरे दिने । यत्फलं लभते मर्त्यस्तत्फलं प्राप्नुयाद्ध्रुवम् ९७। स्वर्गात्कामदुघा देवि नित्यमायाति सर्वथा । आगत्य तं शिवं देवं समभ्यर्च्य यथा तथा ९८। सा गच्छति सुरश्रेष्ठे स्वर्गं प्रति न संशयः । तेन दुग्धाभियोगेन लिंगं तद्धवलीकृतम् ९९। धवलेश्वरं नाम ततः संजातं भुवि सर्वदा । जंतवोऽत्र सदा देवि म्रियंते कालनोदिताः । ते ते शिवपदं यांति यावच्चंद्रदिवाकरौ 6.151.१००। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे धवलेश्वरमाहात्म्यंनामैकपंचाशदधिकशततमोऽध्यायः १५१।
mahādeva uvāca | asmāttīrthātparaṃ tīrthaṃ iṃdragrāmamiti smṛtam | yatra snātvā purā śakro vimukto ghorakilbiṣāt 1| pārvatyuvāca| keneha karmaṇā śakraḥ prāptavānghorakilbiṣam | vipāpmā ca kathaṃ so'bhūditi vistarato vada 2| mahādeva uvāca| iṃdraḥ sureśvaraḥ pūrvaṃ namuciścāsureśvaraḥ | aśastravadhamanyo'nya samayaṃ tau pracakratuḥ 3| atheṃdrastu nabhovāṇīnirdeśānnamuciṃ tadā | jaghāna phenamādāya brahmahatyā tadā'bhavat 4| papraccha ca guruṃ śakraḥ pāpanirnāśakāraṇam | bṛhaspaterathādeśātsābhrāmatyuttare taṭe 5| asminsthāne samāgatya sthānaṃ cakre sureśvaraḥ | tasyeha snānamātreṇa gatapāpasya tatkṣaṇāt 6| pūrṇeṃdudhavalākāṃtiḥ śarīre samajāyata | dhavaleśvaramīśānaṃ sthāpayāmāsa vṛtrahā 7| iṃdra nāmnā ca talliṃgaṃ viśrutaṃ pṛthivītale | pūrṇimāsyāṃ tathā darśe saṃkrāṃtau grahaṇe tathā 8| śrāddhe kṛte pitṝṇāṃ tu tṛptirdvādaśavārṣikī | dhavaleśvaramāsādya yaḥ kuryādviprabhojanam 9| ekasminbhojite vipre sahasraṃ bhojitaṃ bhavet | hiraṇyabhūmivāsāṃsi dātavyāni svaśaktitaḥ 10| śuklā gau brāhmaṇe deyā savatsā ca payasvinī | atrāgatya tu yo vipro rudrajāpyādikaṃ caret 11| tatkṛtaṃ koṭiguṇitaṃ śrīmaheśaprasādataḥ | atra tīrthe naro yastu upavāsādikaṃ caret 12| sa eva sarvakāmāḍhyo bhavatyeva na saṃśayaḥ | bilvapatraṃ samānīya yaḥ pūjayati taṃ prabhum 13| dharmamarthaṃ ca kāmaṃ ca labhate mānavo bhuvi | somavāre viśeṣeṇa ye gacchaṃti narottamāḥ 14| teṣāṃ rogaṃ tathā doṣaṃ śamayeddhavaleśvaraḥ | ravau vā'tha viśeṣeṇa arcanaṃ kurute yadā 15| teṣāṃ mahimā tu bho devi na jñātaḥ karhicinmayā | dūrvayā cārkapuṣpairvā kalhāraiḥ kamalairdalaiḥ 16| pūjanaṃ kurvate ye'tra te narāḥ puṇyabhāginaḥ | śvetārkapuṣpamānīya dhavaleśaṃ prapūjya tu 17| vāṃcchitaṃ labhate nityaṃ dhavaleśaprasādataḥ | kṛte vai nīlakaṃṭhastu sarveṣāṃ śaṃkaraḥ sadā 18| tretāyuge sa vikhyāto haro vai bhagavānprabhuḥ | dvāpare śarvasaṃjñastu kalau vai dhavaleśvaraḥ 19| atrārthe yatpurāvṛttaṃ tacchṛṇuṣva sureśvari | naṃdirnāma purā vaiśya iṃdragrāme samāvasat 20| śivadhyānaparo bhūtvā śivapūjāṃ cakāra saḥ | nityaṃ tapovanasthaṃ hi liṃgaṃ dhavalasaṃjñakam 21| uṣasyuṣasi cotthāya pratyahaṃ śivavallabhaḥ | naṃdī liṃgārcanarato babhūvātiśayena hi 22| yathāśāstreṇa vidhinā puṣpārcanaparo'bhavat | ekadā mṛgayālubdhaḥ kirāto bhūtahiṃsakaḥ 23| pāpī pāpasamācāraścaransābhramatī taṭe | aneka śvāpadākīrṇe hanyamāno mṛgānśaraiḥ 24| evaṃ vicaramāṇo'sau kirāto bhūtahiṃsakaḥ | yadṛcchayāgatastatra yatra liṃgaṃ supūjitam 25| dhavaleśvaravikhyātaṃ anekāścaryamaṃḍitam | dṛṣṭaṃ supūjitaṃ liṃgaṃ nānāpuṣpaiḥ phalaistathā 26| evaṃ liṃgaṃ samāliṃgya gataḥ sābhramatītaṭe | tatra pītvā payaḥ so'tha mukhaṃ gaṃḍūṣapūritam 27| kṛtvā caikenahastena mṛgamāṃsaṃ samudvahan | kareṇaikena pūjārthaṃ bilvapatrāṇi vai dadhat 28| śīghramāgatya liṃgāṃte padā pūjāṃ samāhanat | puṣpāṇi tāni sarvāṇi vidhūtāni itastataḥ 29| snāpanaṃ tasya liṃgasya kṛtaṃ gaṃḍūṣavāriṇā | kareṇaikena pūjārthaṃ bilvapatrāṇi so'rpayat 30| dvitīyena kareṇaiva mṛgamāṃsaṃ samarpayat | daṃḍapraṇāmasaṃyuktaḥ saṃkalpaṃ manasā'karot 31| adyaprabhṛti pūjāṃ vai kariṣyāmi prayatnataḥ | tvaṃ me svāmī ca bhakto'haṃ adyaprabhṛti śaṃkara 32| evaṃ niyamavānbhūtvā kirāto gṛhamāgamat | tathā prabhātasamaye devāyatanamāgataḥ 33| naṃdī dadarśa taṃ sarvaṃ kirātena ca yatkṛtam | avyavasthaṃ ca taṃ dṛṃṣṭvā amedhyaṃ śivasannidhau 34| vidhūtāni ca sarvāṇi hiṃsakena durātmanā | ciṃtāyuktobhavannaṃdī jātaṃ kiṃ citramadya me 35| kathitāni ca vighnāni śivapūjāratasya hi | upasthitāni tānyeva mama bhāgyaviparyayāt 36| evaṃ vimṛśya suciraṃ prakṣālya śivamaṃdiram | yathāgatena mārgeṇa naṃdī svagṛhamāgamat 37| tato naṃdinamālakṣya purodhā gatamānasam | abravīdvacanaṃ taṃ tu kasmāttvaṃ gatamānasaḥ 38| purohitaṃ prati tadā naṃdī vacanamabravīt | adya dṛṣṭaṃ mayā vipra amedhyaṃ śivasannidhau 39| kenedaṃ kāritaṃ tatra na jānāmīha kiṃcana | tataḥ purodhā vacanaṃ naṃdinaṃ cābravīttathā 40| yena viskhalitaṃ tatra puṣpādīnāṃ prapūjanam | so'pi mūḍho na saṃdehaḥ kāryākāryeṣu maṃdadhīḥ 41| tasmācciṃtā na kartavyā tvayā punarapi prabho | prabhāte ca mayā sārddhaṃ gamyatāṃ tacchivālayam 42| nirīkṣaṇārthaṃ duṣṭasya tasya daṃḍaṃkaromyaham | etacchrutvā tu vacanaṃ naṃdī tasya purodhasaḥ 43| āsthitaḥ svagṛhe naktaṃ dūyamānena cetasā | tasyāṃ rātryāṃ vyatītāyāṃ āhūya ca purodhasam 44| gataḥ śivālayaṃ naṃdī samaṃtena mahātmanā | prakṣālya pūjanaṃ kṛtvā nānāratnaparicchadam 45| paṃcopacārasaṃyuktaṃ kṛtvā vai brāhmaṇaiḥ saha | evaṃ yāmadvayaṃ jātaṃ stūyamānasya naṃdinaḥ 46| āyāto'sau mahākālastathārūpo mahābalaḥ | kālarūpo mahāraudro dhanuṣpāṇiḥ pratāpavān 47| taṃ dṛṣṭvā bhayasaṃtrasto naṃdī tatra nyalīyata | purodhāścaiva sahasā bhayabhītastadābhavat 48| kirātena kṛtaṃ tatra yathāpūrvamaviskhalan | tāṃ pūjāṃ sa padāhṛtya bilvapatraṃ samarpayat 49| naivedyena palenaiva kirātaḥ śivamārcayat | daṃḍavatpatito bhūmau utthāya svagṛhaṃ gataḥ 6.151.50| taṃ dṛṣṭvā mahadāścaryaṃ ciṃtayāmāsa vai ciram | purodhasā tadā naṃdī saha vyākulacetasā 51| tena pṛṣṭāstadā viprāḥ kathyatāṃ ca yathātatham | saṃpradhārya tataḥ sarve militvā dharmaśāstrataḥ 52| ūcuḥ sarve tadā viprā naṃdinaṃ jātaśaṃkitam | īśavighnaṃ samutpannaṃ durnivāryaṃ surairapi 53| tasmādānaya liṃgaṃ tvaṃ svagṛhe vaiśyasattama | tatheti matvā'sau naṃdī śivasyotpāṭanaṃ mahat 54| kṛtvā svagṛhamānīya pratiṣṭhāpya yathāvidhi | suvarṇapīṭhikāṃ kṛtvā navaraṃbhāsuśobhitām 55| upāhārairanekaiśca pūjayāmāsa vai tadā | athāparedyurāyātaḥ kirātaḥ śivamaṃdiram 56| yāvadvilokayāmāsa liṃgamaiśaṃ na dṛṣṭavān | maunaṃ vihāya sahasā sākrośamidamabravīt 57| he śaṃbho kva gato'si tvaṃ darśayātmānamadya vai | yadi no darśanaṃ heyaṃ tyakṣyāmyadya kalevaram 58| he śaṃbho he jagannātha tripurāṃtaka śaṃkara | herudra he mahādeva darśayātmānamātmanā 59| evaṃ sākṣepamadhurairvākyaiḥ kṣiptvā sadāśivam | kirāto'sau kṣurikayā dhīro vai jaṭharaṃ svakam 60| bibhedyāśu tato bāhumāsādyoccai ruṣābravīt | he śaṃbho darśayātmānaṃ kuto māṃ tyajya yāsyasi 61| iti kṣiptvā tatoṃtrāṇi māṃsamuddhṛtya sarvataḥ | tasmingarte kareṇaiva kirātaḥ sahasākṣipat 62| svacchaṃ ca hṛdayaṃ kṛtvā sābhramatyāṃ nimajjatu | tathaiva jalamānīya bilvapatraṃ tvarānvitaḥ 63| pūjayitvā yathānyāyaṃ daṃḍavatpatito bhuvi | yadā dhyānasthitastatra kirātaḥ śivasannidhau 64| prādurbhūtastadā rudraḥ pramathaiḥ parivāritaḥ | karpūragauro dyutimānkapardī caṃdraśekharaḥ 65| taṃ gṛhītvā kare rudraḥ uvāca parisāṃtvayan | bho bho vīra mahāprājña madbhakto'si mahāmate 66| varaṃ vṛṇīṣva bho bhakta yatte manasi varttate | evamuktaḥ sa rudreṇa mahākālo mudānvitaḥ 67| papāta daṃḍavadbhūmau bhaktyā paramayā yutaḥ | tato rudraṃ babhāṣedaṃ na varaṃ prārthayāmyaham 68| ahaṃ dāso'smi te rudra tvaṃ me svāmī na saṃśayaḥ | etatślāghyatamaṃ loke dehi janmani janmani 69| tvaṃ mātā ca pitā tvaṃ ca tvaṃ baṃdhuśca sakhā ca me | tvaṃ gurustvaṃ mahāmaṃtro maṃtrairvedyo'si sarvadā 70| niṣkāmaṃ vākyamākarṇya kirātasya tadā bhavaḥ | dadau pārṣadamukhyatvaṃ dvārapālatvameva ca 71| tadā ḍamarunādena nāditaṃ bhuvanatrayam | bherībhāṃkāraśabdena śaṃkhānāṃ ninadena ca 72| tadā duṃdubhayo neduḥ paṭahāśca sahasraśaḥ | naṃdī taṃ nādamākarṇya vismayāttvarito yayau 73| tapovanaṃ yatra śivaḥ sthitaḥ pramathasaṃvṛtaḥ | kirāto hi tathā dṛṣṭo naṃdinā ca tadā bhṛśam 74| uvāca prasṛto vākyaṃ sa naṃdī vismayānvitaḥ | kirātaṃ stotukāmo'sau paramena samādhinā 75| ihānītastvayā śaṃbhustvaṃ bhakto'si paraṃtapaḥ | tvadbhakto'hamiha prāpto māṃ nivedaya śaṃkare 76| tacchrutvā vacanaṃ tasya kirātastvarayānvitaḥ | naṃdinaṃ ca kare gṛhya śaṃkaraṃ samupāgataḥ 77| prahasya bhagavānrudraḥ kirātaṃ vākyamabravīt | brūhi ko'sau tvayānīto gaṇānāmiha sannidhau 78| kirāta uvāca| tvadbhakto'sau tadā deva tava pūjārato hyasau | pratyahaṃ ratnamāṇikyapuṣpaiścauccāvacairiha 79| jīvitena dhanenāpi pūjito'si na saṃśayaḥ | tasmāccānīhi bho svāminnaṃdinaṃ bhaktavatsala 80| mahādeva uvāca| jānāmyahaṃ mahābhāga naṃdinaṃ vaiśyavarttanam | tvaṃ me bhaktaḥ sakhā ceti mahākāla mahāmate 81| upādhirahitā ye ca ye niṣkapaṭamānasāḥ | te priyāste ca me bhaktāste viśiṣṭā narottamāḥ | tāvubhau svīkṛtau tena pārṣadatvena śaṃbhunā 82| tato vimānāni bahuni tatra samāgatānyeva mahāprabhāṇi | kirātavaryeṇa sa vaiśyavarya uddhāritastena mahāprabheṇa 83| kailāsalokamāpannau vimānairvegavattaraiḥ | sārūpyameva saṃprāpto īśvarasya mahātmanaḥ 84| nīrājitau girijayā putravattau gaṇāvubhau 85| uvācedaṃ tato devī prahasya gajagāminī | yathā tvaṃ hi mahādeva tathā cetau na saṃśayaḥ 86| sārūpyeṇa ca gatyā ca hāsyabhāvaiḥ supūjitaiḥ | devyāstadvacanaṃ śrutvā kirāto vaiśya eva ca 87| sadyaḥ parāṅmukhau bhūtvā śaṃkarasya ca paśyataḥ | ūcatustvarayā yuktau gaṇau rudrasya paśyataḥ 88| ubhāvapyanukaṃpyau ca bhavatā hi trilocana | tava dvāristhitau nityaṃ bhavāvaste namo namaḥ 89| tayorbhāvaṃ sa bhagavānviditvā prahasanbhavaḥ | uvāca parayā bhaktyā bhavatorastu vāṃchitam 90| tataḥ prabhṛti dvāvetau dvārapālau babhūvatuḥ | śivadvāri sthitau devi madhyāhne śivadarśinau 91| eko naṃdī mahākālo dvāvetau śivavallabhau | ye pāpinopyadharmiṣṭhā aṃdhā mūkāśca paṃgavāḥ 92| kulahīnā durātmānaḥ śvapacādyā hi mānavāḥ | yādṛśāstādṛśāścānye ārādhya dhavaleśvaram 93| gatāste'pi gamiṣyaṃti nātra kāryā vicarāṇā | atra snānaṃ ca dānaṃ ca sāṃnidhyaṃ śaṃkarasya ca 94| sābhramatyāṃ kṛtasnānā dhavaleśvarapūjakāḥ | te rudralokaṃ gacchaṃti nātra kāryā vicāraṇā 95| atra snānaṃ ca dānaṃ ca ye kurvaṃti narottamāḥ | dharmārthakāmabhogāśca bhuktvā yāṃti harālayam 96| caṃdra saryoparāge ca pituḥ sāṃvatsare dine | yatphalaṃ labhate martyastatphalaṃ prāpnuyāddhruvam 97| svargātkāmadughā devi nityamāyāti sarvathā | āgatya taṃ śivaṃ devaṃ samabhyarcya yathā tathā 98| sā gacchati suraśreṣṭhe svargaṃ prati na saṃśayaḥ | tena dugdhābhiyogena liṃgaṃ taddhavalīkṛtam 99| dhavaleśvaraṃ nāma tataḥ saṃjātaṃ bhuvi sarvadā | jaṃtavo'tra sadā devi mriyaṃte kālanoditāḥ | te te śivapadaṃ yāṃti yāvaccaṃdradivākarau 6.151.100| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ uttarakhaṃḍe umāmaheśvarasaṃvāde dhavaleśvaramāhātmyaṃnāmaikapaṃcāśadadhikaśatatamo'dhyāyaḥ 151|
English translation
Mahādeva said :
1. A holy place superior to this is known as Indragrāma, having bathed where formerly Indra became free from a terrible sin.
Pārvatī said :
2. Due to which act did Indra acquire that terrible sin? How did he become free from that sin? Tell it (to me) in detail.
Mahādeva said :
3-19. Formerly Indra, the lord of gods, and Namuci , the lord of demons, mutually agreed to kill each other without a weapon. Due to being ordered by a divine voice, Indra took foam and killed Namuci. Then it was the murder of a brāhmaṇa . Indra asked Bṛhaspati the means of destroying the sin. And by the order of Bṛhaspati the lord of gods came to this place on the northern bank of Sābhramatī, and fashioned (there) a (holy) place. Due to his having bathed here he became free from the sin instantly. On his body was produced lustre white like the full moon. The killer of Vṛtra (i.e. Indra) installed the (representation of) the god (called) Dhavaleśvara. The Phallus is well-known in the world after Indra. When a śrāddha is offered on a full-moon day, a new-moon day, saṃkrānti (day), at an eclipse, the dead ancestors are satisfied for twelve years. He who, having reached Dhavaleśvara, would feed brāhmaṇas , for him, having fed one brāhmaṇa a thousand brāhmaṇas would be fed. A man should give (to a brāhmaṇa) gold, land, garments according to his capacity. A white milch-cow with a calf should be given to a brāhmaṇa. The muttering (of the names of) Rudra etc.. which a brāhmaṇa would do after coming here, becomes a crore-fold (in merit) due to Śrī Maheśa ’s grace. A man who would observe a fast etc. at this holy place, certainly is endowed with all his desired objects. There is no doubt about this. A man who, having brought bilva -leaves, worships the lord, obtains on the earth religious merit, worldly objects and sensual pleasures. Dhavaleśvara will remove the disease and blemish of those best men who go (to this holy place) especially on a Monday. O goddess, I have not at all understood the greatness of those who especially offer worship to the lord on a Sunday. Those men who worship (the lord) here with a dūrvā , arka -flowers, white lotuses, (other) lotuses or petals, are meritorious. A man, having brought a flower of śvetārka and having worshipped Dhavaleśa, always gets his desired (object) by the grace of Dhavaleśa. In Kṛta (age) he was (called) Nīlakaṇṭha who always brought about the well-being (of his devotees). The revered lord was known as Hara in Tretā (age). In Dvāpara he was named Śarva , and Dhavaleśvara in Kali (age).
20-31. O chief goddess, listen to the old account in this regard. Formerly a vaiśya named Nandin lived in Indragrāma. Intent on meditating upon Śiva , he worshipped Śiva. There always stood in the penance grove, the Phallus called Dhavala . He to whom Śiva was dear, having got up everyday at dawn, was very much engrossed in worshipping Śiva. He was engaged in the worship (of the lord) with flowers according to the rite laid down in the holy texts. Once a greedy hunter, a killer of beings, a sinner of sinful acts, wandered on the bank of Sābhramatī, crowded with beasts of prey, and killed the deer with arrows. The hunter, the killer of beings, wandering like this, came, by chance, where the Phallus was well worshipped. He saw the Phallus—the well-known Dhavaleśvara, full of many wonders—well worshipped with many flowers and fruits. Having embraced the Phallus, he went to the bank of Sābhramatī. There he drank water and had his mouth full with water. With one hand he carried the flesh of deer, and in the other hand he carried bilva-leaves for worship. Quickly coming near the Phallus he struck with his foot the worship (offered by Nandin). All the flowers were scattered here and there. With the mouthful of water he bathed the Phallus. With one hand he offered the bilva-leaves for worship. With the other hand he offered the flesh of deer. With a salutation by prostrating himself he made a mental resolve.
32-48. ‘From today I shall carefully offer worship. O Śaṅkara , from today you are my master, and I am your devotee.’ Taking such a vow, the hunter came home. (When) in the morning Nandin came to the temple, he saw all that the hunter had done. Seeing those misplaced (i.e. scattered) and impure things near Śiva, (and seeing) all those (things) disturbed by the wicked one, Nandin was anxious (thinking) ‘what strange (thing) has today happened to me. Due to my ill-luck the obstacles that are told in the case of one who is engaged in Śiva-worship, have approached.’ Having thus thought for a long time and having washed the Śiva-temple Nandin went home along the same way as he had come. Seeing Nandin dispirited, his family-priest said (these) words to him: “Why are you despondent?” Then to the family-priest Nandin said (these) words: “O brāhmaṇa, today I saw impurity near Śiva. I do not know who has done it there”. Then the priest said (these) words to Nandin: “He who disturbed the worship of (i.e. offered with) flowers etc. is certainly a fool. He is dull-witted in what to do and what not. Therefore, O lord, you should not worry. In the morning go to the temple with me to catch the wicked one. I shall punish him.” Hearing these words of the priest, Nandin remained at home at night with a pained mind. When the night Passed, he called the family-priest, and with the noble one Nandin went to the Śiva-temple. Having washed (the Phallus) he worshipped it with brāhmaṇas, covering it with many jewels and doing the five ways of homage. When Nandin was eulogising like this two watches passed. He (hunter), Great Death of that form and very strong, came there. He was of the form of death, very fierce, brave with a bow in his hand. Seeing him, Nandin being frightened, hid there. The family-priest also then became suddenly scared.
49-61. The hunter did there as before and without making any mistake he disturbed the worship with his foot and offered bilva-leaf. The hunter worshipped with the eatable of meat. Having fallen on the ground like a staff, he got up and went home. Seeing the great wonder, he (Nandin) thought for a long time along with the family-priest. Then he with his mind afflicted, asked the brāhmaṇas: “Tell the truth.” All the brāhmaṇas together thought and spoke, according to the holy texts, to Nandin who had a fear: “Danger to the lord has come up. It is difficult to be warded off even by gods. Therefore, O best vaiśya, take the Phallus to your house.” Agreeing to do so Nandin uprooted the great (Phallus) of Śiva, brought it to his house and installed it in the proper manner. He fashioned a golden seat, well-adorned with fresh plantain-trees. With many offerings he worshipped (it). The next day the hunter came to the Śiva-temple. When he looked (for the Phallus) he did not. see it. Breaking his silence he suddenly said these words with a wailing: “O Śambhu , where have you gone? Show yourself to me, today. If I do not get your sight I shall cast my despicable body today. O Śambhu, O Jagannātha , O Tripurāntaka , O Śaṅkara, O Rudra, O Mahādeva , show yourself (to me).” Having thus scolded Śiva with taunting (but) sweet words, the courageous hunter pierced, with a knife, his belly. Then having quickly pierced his arm he loudly and angrily said: “O Śambhu, show yourself(to me). Where will you go having abandoned me?”
62-70. With these words the hunter threw his intestines, and took out flesh from everywhere (i.e. every part of his body), and threw it suddenly with his hand into the pit (where the Phallus was). Having purified his heart, he plunged into Sābhramatī. Similarly having brought water and bilva-leaf, he quickly worshipped (the lord) properly, and fell on the ground like a staff. When the hunter remained in meditation near Śiva, then Rudra, surrounded by his attendants appeared there. He was fair like camphor, had braided and matted hair, and had the (crescent-moon) on his crest. Seizing him by his hand, and consoling him, Rudra said: “O brave one, O very wise one, O very intelligent one, you are my devotee. O devotee, ask for a boon which you have in your mind”. Thus addressed by Rudra the very fierce (hunter) was full of joy. With great devotion he fell like a staff - on the ground. Then he said to Rudra: “I do not ask for a boon. O Rudra, I am your servant, and you are my master. There is no doubt about this. Give this—the most praiseworthy (condition) in the world, in existence after existence. You are my mother, my father, my brother, my friend. You are my preceptor, a great hymn, always known through hymns.”
71-78. Having heard the words of the hunter without (i.e. expressing) any desire, Śiva made him the chief of his attendants and his doorkeeper. Then the three worlds were resonant with the sound of small drums, so also with the sound of kettle-drums and of conches. Large drums then sounded, so also hundreds of tabors sounded. Being amazed at hearing that sound Nandin quickly went to the penance-grove where Śiva was surrounded by his attendants. Then Nandin also saw the hunter, and the modest Nandi , full of amazement, said many words; he desired to praise the hunter with a great concentration: “You have brought here Śambhu; you are a devotee (of Śiva), and a tormentor of enemies. I who am your devotee, have come here. (Please) report me to Śaṅkara.” Having heard those words of him, the hunter quickly held his hand and (with him) approached Śaṅkara. Revered Rudra laughed and said (these) words to the hunter: “Tell me who this one is, whom you have brought near the attendants.”
The hunter said :
79-80. This is your devotee, so he is engaged in your worship. Everyday with gems, rubies and with diverse flowers, so also with his life and wealth you are undoubtedly worshipped. Therefore, O master, to whom your devotees are dear, know this to be Nandin.
Mahādeva said :
81-89. O you noble one, I know Nandin, living as a vaiśya. O very intelligent Mahākāla , you are my devotee and friend. Those best men who are not deceptive, whose mind is free from fraud—such distinguished devotees are dear to me.
Śambhu accepted the two as his attendants. Then there arrived many very bright aeroplanes. That very lustrous, excellent hunter emancipated the excellent vaiśya. The two reached Kailāsa -world in very speedy aeroplanes, and obtained absorption into the magnanimous god. Girijā (i.e. Pārvatī ) waved lights before the two attendants as before her sons, and the goddess with a stately elephant-like gait laughed and spoke: “O Mahādeva, there is no doubt that they are (dear to me) as you are. You are identical, have same gait, similar laughter and well honoured.” Hearing those words of the goddess, the hunter and the vaiśya also instantly turned away their faces, and in the presence of Śaṅkara the two attendants quickly spoke: “O Śiva, you should pity both of us. We shall always stand at your door. We repeatedly salute you.”
90-100. Lord Śiva, knowing their sincerity, spoke to them with great attachment: “May you get your desired object.” Since then the two have become doorkeepers (of Śiva). O goddess, they remain at Śiva’s door, and see him at mid-day. One is Nandin, (the other is the hunter) Mahākāla. The two are dear to Śiva. Those sinners, irreligious men, blind men, dumb men, crippled men, who are abandoned by their families, the wicked men, and men like cāṇḍālas , or men of whatever types, who have gone (back) after having worshipped Dhavaleśvara, will also go (to Śiva). No doubt should be raised in this case. A bath (taken) here, and a gift (given) here (lead to the) proximity of Śaṅkara. Those who have bathed in Sābhramatī and have worshipped Dhavaleśvara, go to Rudra’s heaven. No doubt should be raised in this case. Those best men who bathe and give gifts here, enjoy moral merit, worldly prosperity and sensual pleasures and go to Śiva’s abode. A man certainly obtains that fruit which he gets (by bathing etc.) on the day of the lunar or solar eclipse, and on the (death) anniversary day of his dead ancestor. The desire-yielding cow everyday comes there by all means. And having come (there) she Properly worships god Śiva. O best goddess, she undoubtedly goes to heaven. Due to the contact with that milk (of her), the Phallus is whitened. Since then its name has always come to be Dhavaleśvara. O goddess, the beings that die there being urged by Death, go to the position of Śiva (and stay there) as long as the moon and the sun (remain in the sky).
Complete chapter-aligned witnesses. Sanskrit Wikisource page 44885, revision 336575 (2022-04-25T00:33:25Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365730.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.