Uttara-khaṇḍa · Chapter 38
Sourceमहादेव उवाच- एकस्मिन्समये पुत्र गतोऽहं विष्णुसन्निधौ । तत्र पृष्टं मया पूर्वं माहात्म्यं द्वादशीभवम् १। नारद उवाच कीदृशी स्यान्महादेव महाद्वादशिका परा । तस्या व्रते फलं कीदृग्वद सर्वेश्वर प्रभो २। शिव उवाच- इयमेकादशी ब्रह्मन्महापुण्यफलप्रदा । ऋक्षयोगैश्च संयुक्ता कर्त्तव्या मुनिसत्तमैः ३। जया च विजया चैव जयंती पापनाशिनी । सर्वपापहराश्चैताः कर्त्तव्याः फलकांक्षिभिः ४। एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसुः । नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः ५। तामुपोष्य नरः पापान्मुच्यते नात्र संशयः । यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् ६। विजया सा समाख्याता तिथीनामुत्तमा तिथिः । सहस्रगुणितं दानं यस्यां वै विप्र भोजनम् ७। होमस्तथोपवासश्च सहस्राधिफलप्रदः । यदा च शुक्लद्वादश्यां प्राजापत्यं हि जायते ८। जयंती नाम सा प्रोक्ता सर्वपापहरा तिथिः । सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ९। प्रक्षालयति गोविंदस्तस्यामभ्यर्चितो ध्रुवम् । यदा वै शुक्लद्वादश्यां पुष्यं भवति कर्हिचित् १०। तदा तु सा महापुण्या भविता पापनाशिनी । यो ददाति तिलप्रस्थं नित्यं संवत्सरं प्रति ११। उपवासं च यस्तस्यां करोत्येतत्समं स्मृतम् । तस्यां जगत्पतिर्देवस्तुष्टः सर्वेश्वरो हरिः १२। प्रत्यक्षतां प्रयात्येव तत्रानंतफलं स्मृतम् । सगरेण ककुत्स्थेन नहुषेण च साधितः १३। तस्यामाराधितः कृष्णो दत्तवानखिलं भुवि । वाचिकान्मानसाद्वापि कायजाच्च विशेषतः १४। सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः । तामेकां समुपोष्याथ पुण्यनक्षत्रसंयुताम् १५। एकादशीसहस्रस्य फलं प्राप्नोति मानवः । स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् १६। यत्तस्यां क्रियते किंचित्तदक्षयफलं स्मृतम् । तस्मादेषा प्रकर्तव्या यत्नेन फलकांक्षिभिः १७। पंचमेनाश्वमेधेन यदि स्नातो युधिष्ठिरः । पर्यपृच्छत धर्मात्मा कृष्णं यदुकुलोद्वहम् १८। युधिष्ठिर उवाच- उपवासस्य नक्तस्य त्वेकभुक्तस्य मे प्रभो । किं पुण्यं किं फलं तस्य ब्रूहि सर्वं जनार्दन १९। श्रीभगवानुवाच- हेमंते चैव संप्राप्ते मासे मार्गे च शोभने । कृष्णपक्षे च या पार्थ द्वादशी तामुपोषयेत् । दशम्यां चैकभक्तश्च शुद्धचित्तो दृढव्रतः २०। नक्तं चैव तथा ज्ञात्वा दशम्यां नियतः सदा । दिवसस्याष्टमे भागे मंदीभूते दिवाकरे २१। नक्तं च तद्विजानीयान्न नक्तं निशिभोजनम् । नक्षत्रदर्शनान्नक्तं गृहस्थस्य विधीयते २२। यतेर्दिनाष्टमे भागे रात्रौ तस्य निषेधनम् । ततः प्रभातसमये कृत्वा च नियमं व्रती २३। मध्याह्ने च तथा पार्थ स्नानं शुचिः समाचरेत् । अधमं कूपके स्नानं वाप्यां स्नानं च मध्यमम् २४। तडागे चोत्तमं स्नानं नद्यां स्नानं ततः परम् । पीड्यंते जंतवो यत्र जलमध्ये व्यवस्थिते २५। तत्र स्नाने कृते पार्थ पापं पुण्यं समं भवेत् । गृहे चैवोत्तमं स्नानं जलं चैव विशोधयेत् २६। तस्मात्तु पांडवश्रेष्ठ गृहे स्नानं समाचरेत् । अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे २७। मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् । क्रोधलोभौ परित्यज्य चैकचित्तो दृढव्रतः २८। नालापेतांत्यजं चैव तथा पाखंडिनो नरान् । मिथ्यावादरतांश्चैव तथा ब्राह्मणनिंदकान् २९। अन्यांश्चैव दुराचारानगम्यागमनेरतान् । परद्रव्यापहारांश्च परदाराभिगामिनः ३०। केशवं पूजयित्वा तु नैवेद्यं तत्र कारयेत् । दीपं दद्याद्गृहे तत्र भक्तियुक्तेन चेतसा ३१। तद्दिने वर्जयेत्पार्थ निद्रां चैव तु मैथुनम् । धर्मशास्त्रविनोदेन दिनं सर्वं निवारयेत् ३२। रात्रौ जागरणं कृत्वा भक्तियुक्तो नृपोत्तम । विप्रेभ्यो दक्षिणां दद्यात्प्रणिपत्य क्षमापयेत् ३३। यथा कृष्णा तथा शुक्ला विधिनैवं प्रकारयेत् । एकादशीं द्विजः पार्थ विभेदं नैव कारयेत् ३४। एवं हि कुरुते यस्तु शृणु तस्य हि यत्फलम् । शंखोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ३५। एकादश्युपवासस्य कलां नार्हति षोडशीम् । संक्रांतिषु चतुर्लक्षं यो ददाति नृपोत्तम ३६। एकादश्युपवासस्य कलां नार्हति षोडशीम् । प्रभासक्षेत्रे यत्पुण्यं ग्रहणे चंद्र सूर्ययोः ३७। तत्फलं जायते नूनमेकादश्युपवासिनः । केदारे चोदकं पीत्वा पुनर्जन्म न विद्यते ३८। तथा चैकादशी पार्थ गर्भवासक्षयंकरी । अश्वमेधस्य यज्ञस्य पृथिव्यां यत्फलं लभेत् ३९। तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः । तपस्विनो गृहे यस्य भुंजते च द्विजोत्तमाः ४०। तत्फलं जायते नूनमेकादश्युपवासिनः । गोसहस्रेण यत्पुण्यं दत्वा वेदांतपारगे ४१। तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः । येषां देहे त्रयो देवा ब्रह्मविष्णुमहेश्वराः ४२। वसंति तेषां ते तुल्या एकादश्युपवासिनः । ते नराः पुण्यकर्माणो ये भक्ता हरिपूजकाः ४३। एकादशीव्रतस्यापि पुण्यसंख्या न विद्यते । एतत्पुण्यं भवेत्तस्य यत्सुरैरपि दुर्ल्लभम् ४४। एतस्मादर्द्धपुण्यं तु प्राप्यते नक्तभोजनात् । नक्तस्यार्द्धं भवेत्पुण्यमेकभक्तेन देहिनाम् ४५। तावद्गर्जंति तीर्थानि दानानि नियमानि च । यावन्नोपोषयेज्जंतुर्वासरं विष्णुवल्लभम् ४६। तस्मात्त्वं पांडवश्रेष्ठ व्रतमेतत्समाचर । पुण्यसंख्यां न जानामि यत्त्वं पृच्छसि पांडव ४७। एतद्धि कथितं पार्थ यद्गोप्यं व्रतमुत्तमम् । एकादशीसमं नास्ति कृत्वा यज्ञसहस्रकम् ४८। युधिष्ठिर उवाच- उत्पन्ना सा कथं देव पुण्या चैकादशी तिथिः । कथं पवित्रा विश्वेऽस्मिन्कथं वै देवताप्रिया ४९। श्रीभगवानुवाच - पुरा कृतयुगे पार्थ मुरनामेति दानवः । अत्यद्भुतो महारौद्र सर्वदेवभयंकरः 6.38.५०। इंद्रोऽपि निर्जितस्तेन सर्वदेवास्तथा नृप । महासुरेण तेनैव मृत्युना च दुरात्मना ५१। स्वर्गान्निराकृतास्तेन विचरंति महीतले । सशंका भयभीताश्च सर्वे गत्वा महेश्वरम् ५२। इंद्रेण कथितं सर्वमीश्वरस्यापि चाग्रतः । स्वर्गलोकपरिभ्रष्टा विचरंति महीतले ५३। मर्त्येषु संस्थिता देवा न शोभंते महेश्वर । उपायं ब्रूहि मे देव ह्यमरा यांति कां गतिम् ५४। महादेव उवाच- देवराजसुरश्रेष्ठयत्रास्तेगरुडध्वजः । शरण्यश्च जगन्नाथः परित्राता परायणः ५५। तत्र गच्छ सुरश्रेष्ठ स वो रक्षां विधास्यति । ईश्वरस्य वचः श्रुत्वा देवराजो महामतिः ५६ । त्रिदशैः सहितो यत्र गतस्तत्र युधिष्ठिर । जलमध्ये प्रसुप्तं तं दृष्ट्वा देवं गदाधरम् ५७। कृतांजलिपुटो भूत्वा इंद्रः स्तोत्रमुदीरयत् ५८। इंद्र उवाच- ॐनमो देवदेवेश देवदानववंदित । दैत्यारे पुंडरीकाक्ष त्राहि नो मधुसूदन ५९। सुराः सर्वे समायाता भयभीताश्च दानवात् । शरणं त्वां जगन्नाथ त्राहि मां भक्तवत्सल ६०। त्राहि नो देवदेवेश त्राहि त्राहि जनार्दन । त्राहि वै पुंडरीकाक्ष दानवानां विनाशक ६१। त्वत्समीपं गताः सर्वे त्वमेव शरणं प्रभो । चशरणागतानां देवानां सहायं कुरु वै प्रभो ६२। त्वं पतिस्त्वं मतिर्देव त्वं कर्ता त्वं च कारणम् । त्वं माता सर्वलोकानां त्वमेव जगतः पिता ६३। भगवन्देवदेवेश शरणागतवत्सल । शरणं तव चायाता भयभीताश्च देवताः ६४। देवता निर्जिताः सर्वाः स्वर्गभ्रष्टाः कृताः प्रभो । अत्युग्रेण हि दैत्येन मुरनाम्ना महौजसा । इंद्रस्य वचनं श्रुत्वा विष्णुर्वचनमब्रवीत् ६५। श्रीभगवानुवाच- कीदृशो दानवः शक्र किं रूपं कीदृशं बलम् । क्व स्थानं तस्य दुष्टस्य किं वीर्यं कः पराक्रमः । किं वरं तस्य दुष्टस्य ममाख्याहि महामते ६६। इंद्र उवाच- पूर्वं बभूव देवेश ब्रह्मवंशसमुद्भवः । तालजंघस्तु नाम्ना च अत्युग्रोऽपि महासुरः ६७। तस्य पुत्रो हि विख्यातो मुरनामेति दानवः । अत्युत्कटो महावीर्यो देवतानां भयंकरः ६८। पुरी चंद्रावती नाम्ना तत्र स्थाने वसत्यसौ । निर्जिता देवताः सर्वा स्वर्गात्तेन विवासिताः ६९। इंद्रोऽन्यो रोपितस्तेन वातश्चैव हुताशनः । चंद्रसूर्यो कृतौ चान्यौ वायुर्वरुण एव च ७०। सर्वमात्मकृतं तेन सत्यं सत्यं जनार्दन । देवलोकः कृतस्तेन सर्वस्थानविवर्जितः ७१। तस्य तद्वचनं श्रुत्वा कोपमानो जनार्दनः । हनिष्ये दानवं दुष्टं देवतानां भयंकरम् ७२। त्रिदशैः सहितो देवो गतश्चंद्रावतीं पुरीम् । दृष्टो देवैस्तु दैत्येंद्रो गर्जमानः पुनः पुनः ७३। तेन सर्वे जिता देव गताश्चैव दिशो दश । हरिं निरीक्ष्य प्रोवाच तिष्ठतिष्ठेति दानवः ७४। भगवानब्रवीत्तं च क्रोधसंरक्तलोचनः । श्रीभगवानुवाच- रे दानव दुराचार मम बाहुं निरीक्षय ७५। ततस्ते सम्मुखाः सर्वे विष्णुना दुष्टदानवाः । हता बाणैः पुनर्दिव्यैर्जाताश्च भयविह्वलाः ७६। चक्रं मुक्तं च कृष्णेन दैत्यसैन्येषु पांडव । तेनच्छिन्नास्तु शतशो बहवो निधनं गताः ७७। एकोपि दानवस्तत्र युध्यमानो मुहुर्मुहुः । नष्टाः सर्वे सुरास्तेन निर्जितो मधुसूदनः ७८। निर्जितं तेन दैत्येन बाहुयुद्धमजायत । बाहुयुद्धं कृतं तेन दिव्यं वर्षसहस्रकम् ७९। विष्णुश्चिंतां प्रपन्नश्च नष्टाः सर्वाश्च देवताः । विष्णुश्च निर्जितस्तेन गतो बदरिकाश्रमम् ८०। गुहा सिंहावती नाम तत्र सुप्तो जनार्दनः । योजनद्वादशवती एकद्वारा च पांडव ८१। तस्यां विष्टः प्रसुप्तश्च दानवो हंतुमुद्यतः । महायुद्धेन तेनैव श्रांतोऽसौ योगमायया ८२। दानवः पृष्ठतो लग्नो प्रविष्टः स तदा गुहाम् । प्रसुप्तं तत्र मां दृष्ट्वा दानवो हर्षमागतः ८३। इत्थं मां निर्जितं मत्वा प्रविष्टं शंकया हरिम् । निःसंदेहं हनिष्यामि दानवानां भयंकरम् ८४। निर्गता कन्यका तत्र विष्णुदेहाद्युधिष्ठिर । रूपवती सुसौभाग्या दिव्यप्रहरणायुधा ८५। तस्य तेजोंऽशसंभूता महाबलपराक्रमा । दृष्टा सा दानवेंद्रेण मुरनाम्ना धनंजय ८६। युद्धं समाहितं तेन स्त्रिया चैव प्रयाचितम् । कन्यका युध्यते तत्र सर्वयुद्धविशारदा ८७। हुंकारैर्भस्मसाज्जातो मुर नामा महासुरः । निहते दानवे तस्मिंस्तत्र देवस्त्वबुध्यत ८८। पतितं दानवं दृष्ट्वा ततो विस्मयमागतः । केनायं च हतो रौद्रो ह्यत्युग्रो मम शात्रवः ८९। अत्युग्रं च कृतं कर्म मम कारुण्यतः कृतम् । कन्योवाच- तेन देवाश्च गंधर्वा सयक्षोरगराक्षसाः ९०। इंद्राद्याः सकला जित्वा स्वर्गाच्चैव निराकृताः । हरिः सुप्तो मया दृष्टो मुरः पृष्ठे समागतः ९१। संहरिष्यति त्रैलोक्यं सुप्ते चैव जर्नादने । तस्यास्तद्वचनं श्रुत्वा विष्णुर्वचनमब्रवीत् ९२। अहं च निर्जितो येन कथं सोऽपि त्वया जितः । एकादश्युवाच- त्वत्प्रसादाच्च भो स्वामिन्महादैत्यो मया हतः ९३। श्रीभगवानुवाच- आनंदं त्रिषु लोकेषु मुनयो देवता गताः । ब्रूहि त्वं च मया भद्रे यत्ते मनसि रोचते । ददामि च न संदेहो यत्सुरैरपि दुर्ल्लभम् ९४। एकादश्युवाच- यदि तुष्टोऽसि मे देव सत्यमुक्तं जनार्दन । वरमेकं तु वांच्छामि हृदये च जगत्पते ९५। प्रार्थयामि च देवेश ईप्सितं च मया प्रभो । यदि सत्यं जगन्नाथ तिस्रो वाचो ददासि मे ९६। श्रीभगवानुवाच- सत्यं सत्यं मया प्रोक्तं अवश्यं तव सुव्रते । तिस्रो वाचो मया दत्ता न चावाक्यं भवेदिह ९७। एकादश्युवाच- त्रिभुवनेषु च देवेश चतुर्युगेषु सांप्रतम् । त्रिषु लोकेषु सर्वत्र तादृशं कुरु मे प्रभो ९८। सर्वतीर्थप्रधानं हि सर्वविघ्नविनाशिनी । सर्वसिद्धिकरी देवी त्वत्प्रसादाद्भवाम्यहम् ९९। मामुपोष्यंति ये भक्त्या तव भक्त्या जनार्दन । सर्वसिद्धिर्भवेत्तेषां यदि तुष्टोऽसि मे प्रभो 6.38.१००। उपवासं च नक्तं च एकभक्तं करोति च । तस्य वित्तं च धर्मं च मोक्षं वै देहि माधव १०१। विष्णुरुवाच-। यत्त्वं वदसि कल्याणि तत्सर्वं च भविष्यति । सर्वान्मनोरथान्भद्रे दास्यसि त्वं च नान्यथा १०२। मम भक्ताश्च ये लोके ये च भक्तास्तु कार्त्तिके । चतुर्युगेषु विख्यातास्त्रिषु लोकेषु वै प्रभो १०३। त्वां च शक्तिमहं मन्ये एकादशीव्रतस्थिताः । मम पूजां करिष्यंति मोक्षगास्ते न संशयः १०४। तृतीया चाष्टमी चैव नवमी च चतुर्दशी । एकादशी विशेषेण तिथिरेषा हरिप्रिया । सर्वतीर्थाधिकं पुण्यं सत्यं सत्यं न संशयः १०५। इदं दत्त्वा वरं तस्यै तिस्रो वाचो न संशयः । हृष्टा पुष्टा च संजाता एकादशीमहाव्रता १०६। शत्रुं हंसि परां तस्य ददासि परमां गतिम् । त्वं हंसि सर्वविघ्नानि सर्वसिद्धिवरप्रदा १०७। उभयोः पक्षयोः पार्थ तुल्या एकादशी शुभा । न शुक्ला नैव कृष्णा च विभेदं नैव कारयेत् १०८। विभेदो नैव कर्त्तव्यः समस्तव्रतकारिभिः । दिवा वा यदि वा रात्रौ शृणोति भक्तितत्परः १०९। तिथिरेका भवेत्सर्वा पक्षयोरुभयोरपि । उभयैकादशी स्वल्पा ह्यंते चैव त्रयोदशी ११०। मध्ये तु द्वादशी पूर्णा त्रिस्पृशा सा हरिप्रिया । एकामुपोषयेत्तां वै सहस्रैकादशीफलम् १११। सहस्रगुणितं ह्येवं द्वादश्यां पारणे कृते । अष्टम्येकादशी षष्ठी तृतीया च चतुर्दशी ११२। पूर्वविद्धा न कर्तव्या परविद्धामुपोषयेत् । एकादशी ह्यहोरात्रं प्रभाते घटिका भवेत् ११३। सा तिथिः परिहर्तव्या उपोष्या द्वादशीयुता । एवंविधा मया प्रोक्ता पक्षयोरुभयोरपि ११४। एकादश्यां प्रकुर्वीत ह्युपवासं न संशयः । ते यांति वैष्णवं स्थानं यत्रास्ते गरुडध्वजः ११५। धन्यास्ते मानवा लोके विष्णुभक्तिपरायणाः । एकादश्याश्च माहात्म्यं सर्वकालेषु यः पठेत् ११६। गोसहस्रफलं सोऽपि पुण्यं प्राप्नोति मानवः । दिवा वा यदि वा रात्रौ ये वै शृण्वंति भक्तितः ११७। ब्रह्महत्यादिपापेभ्यो मुच्यंते नात्र संशयः । विष्णुधर्मसमं नास्ति गीतार्थं च नृपोत्तम । एकादशीसमं नास्ति व्रतं पापप्रणाशनम् ११८। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे एकादश्युत्पत्ति मुरवधोनामाष्टत्रिंशोऽध्यायः३८।
mahādeva uvāca- ekasminsamaye putra gato'haṃ viṣṇusannidhau | tatra pṛṣṭaṃ mayā pūrvaṃ māhātmyaṃ dvādaśībhavam 1| nārada uvāca kīdṛśī syānmahādeva mahādvādaśikā parā | tasyā vrate phalaṃ kīdṛgvada sarveśvara prabho 2| śiva uvāca- iyamekādaśī brahmanmahāpuṇyaphalapradā | ṛkṣayogaiśca saṃyuktā karttavyā munisattamaiḥ 3| jayā ca vijayā caiva jayaṃtī pāpanāśinī | sarvapāpaharāścaitāḥ karttavyāḥ phalakāṃkṣibhiḥ 4| ekādaśyāṃ yadā ṛkṣaṃ śuklapakṣe punarvasuḥ | nāmnā sā ca jayā khyātā tithīnāmuttamā tithiḥ 5| tāmupoṣya naraḥ pāpānmucyate nātra saṃśayaḥ | yadā ca śukladvādaśyāṃ nakṣatraṃ śravaṇaṃ bhavet 6| vijayā sā samākhyātā tithīnāmuttamā tithiḥ | sahasraguṇitaṃ dānaṃ yasyāṃ vai vipra bhojanam 7| homastathopavāsaśca sahasrādhiphalapradaḥ | yadā ca śukladvādaśyāṃ prājāpatyaṃ hi jāyate 8| jayaṃtī nāma sā proktā sarvapāpaharā tithiḥ | saptajanmakṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu 9| prakṣālayati goviṃdastasyāmabhyarcito dhruvam | yadā vai śukladvādaśyāṃ puṣyaṃ bhavati karhicit 10| tadā tu sā mahāpuṇyā bhavitā pāpanāśinī | yo dadāti tilaprasthaṃ nityaṃ saṃvatsaraṃ prati 11| upavāsaṃ ca yastasyāṃ karotyetatsamaṃ smṛtam | tasyāṃ jagatpatirdevastuṣṭaḥ sarveśvaro hariḥ 12| pratyakṣatāṃ prayātyeva tatrānaṃtaphalaṃ smṛtam | sagareṇa kakutsthena nahuṣeṇa ca sādhitaḥ 13| tasyāmārādhitaḥ kṛṣṇo dattavānakhilaṃ bhuvi | vācikānmānasādvāpi kāyajācca viśeṣataḥ 14| saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ | tāmekāṃ samupoṣyātha puṇyanakṣatrasaṃyutām 15| ekādaśīsahasrasya phalaṃ prāpnoti mānavaḥ | snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam 16| yattasyāṃ kriyate kiṃcittadakṣayaphalaṃ smṛtam | tasmādeṣā prakartavyā yatnena phalakāṃkṣibhiḥ 17| paṃcamenāśvamedhena yadi snāto yudhiṣṭhiraḥ | paryapṛcchata dharmātmā kṛṣṇaṃ yadukulodvaham 18| yudhiṣṭhira uvāca- upavāsasya naktasya tvekabhuktasya me prabho | kiṃ puṇyaṃ kiṃ phalaṃ tasya brūhi sarvaṃ janārdana 19| śrībhagavānuvāca- hemaṃte caiva saṃprāpte māse mārge ca śobhane | kṛṣṇapakṣe ca yā pārtha dvādaśī tāmupoṣayet | daśamyāṃ caikabhaktaśca śuddhacitto dṛḍhavrataḥ 20| naktaṃ caiva tathā jñātvā daśamyāṃ niyataḥ sadā | divasasyāṣṭame bhāge maṃdībhūte divākare 21| naktaṃ ca tadvijānīyānna naktaṃ niśibhojanam | nakṣatradarśanānnaktaṃ gṛhasthasya vidhīyate 22| yaterdināṣṭame bhāge rātrau tasya niṣedhanam | tataḥ prabhātasamaye kṛtvā ca niyamaṃ vratī 23| madhyāhne ca tathā pārtha snānaṃ śuciḥ samācaret | adhamaṃ kūpake snānaṃ vāpyāṃ snānaṃ ca madhyamam 24| taḍāge cottamaṃ snānaṃ nadyāṃ snānaṃ tataḥ param | pīḍyaṃte jaṃtavo yatra jalamadhye vyavasthite 25| tatra snāne kṛte pārtha pāpaṃ puṇyaṃ samaṃ bhavet | gṛhe caivottamaṃ snānaṃ jalaṃ caiva viśodhayet 26| tasmāttu pāṃḍavaśreṣṭha gṛhe snānaṃ samācaret | aśvakrāṃte rathakrāṃte viṣṇukrāṃte vasuṃdhare 27| mṛttike hara me pāpaṃ yanmayā pūrvasaṃcitam | krodhalobhau parityajya caikacitto dṛḍhavrataḥ 28| nālāpetāṃtyajaṃ caiva tathā pākhaṃḍino narān | mithyāvādaratāṃścaiva tathā brāhmaṇaniṃdakān 29| anyāṃścaiva durācārānagamyāgamaneratān | paradravyāpahārāṃśca paradārābhigāminaḥ 30| keśavaṃ pūjayitvā tu naivedyaṃ tatra kārayet | dīpaṃ dadyādgṛhe tatra bhaktiyuktena cetasā 31| taddine varjayetpārtha nidrāṃ caiva tu maithunam | dharmaśāstravinodena dinaṃ sarvaṃ nivārayet 32| rātrau jāgaraṇaṃ kṛtvā bhaktiyukto nṛpottama | viprebhyo dakṣiṇāṃ dadyātpraṇipatya kṣamāpayet 33| yathā kṛṣṇā tathā śuklā vidhinaivaṃ prakārayet | ekādaśīṃ dvijaḥ pārtha vibhedaṃ naiva kārayet 34| evaṃ hi kurute yastu śṛṇu tasya hi yatphalam | śaṃkhoddhāre naraḥ snātvā dṛṣṭvā devaṃ gadādharam 35| ekādaśyupavāsasya kalāṃ nārhati ṣoḍaśīm | saṃkrāṃtiṣu caturlakṣaṃ yo dadāti nṛpottama 36| ekādaśyupavāsasya kalāṃ nārhati ṣoḍaśīm | prabhāsakṣetre yatpuṇyaṃ grahaṇe caṃdra sūryayoḥ 37| tatphalaṃ jāyate nūnamekādaśyupavāsinaḥ | kedāre codakaṃ pītvā punarjanma na vidyate 38| tathā caikādaśī pārtha garbhavāsakṣayaṃkarī | aśvamedhasya yajñasya pṛthivyāṃ yatphalaṃ labhet 39| tasmācchataguṇaṃ puṇyamekādaśyupavāsinaḥ | tapasvino gṛhe yasya bhuṃjate ca dvijottamāḥ 40| tatphalaṃ jāyate nūnamekādaśyupavāsinaḥ | gosahasreṇa yatpuṇyaṃ datvā vedāṃtapārage 41| tasmācchataguṇaṃ puṇyamekādaśyupavāsinaḥ | yeṣāṃ dehe trayo devā brahmaviṣṇumaheśvarāḥ 42| vasaṃti teṣāṃ te tulyā ekādaśyupavāsinaḥ | te narāḥ puṇyakarmāṇo ye bhaktā haripūjakāḥ 43| ekādaśīvratasyāpi puṇyasaṃkhyā na vidyate | etatpuṇyaṃ bhavettasya yatsurairapi durllabham 44| etasmādarddhapuṇyaṃ tu prāpyate naktabhojanāt | naktasyārddhaṃ bhavetpuṇyamekabhaktena dehinām 45| tāvadgarjaṃti tīrthāni dānāni niyamāni ca | yāvannopoṣayejjaṃturvāsaraṃ viṣṇuvallabham 46| tasmāttvaṃ pāṃḍavaśreṣṭha vratametatsamācara | puṇyasaṃkhyāṃ na jānāmi yattvaṃ pṛcchasi pāṃḍava 47| etaddhi kathitaṃ pārtha yadgopyaṃ vratamuttamam | ekādaśīsamaṃ nāsti kṛtvā yajñasahasrakam 48| yudhiṣṭhira uvāca- utpannā sā kathaṃ deva puṇyā caikādaśī tithiḥ | kathaṃ pavitrā viśve'sminkathaṃ vai devatāpriyā 49| śrībhagavānuvāca - purā kṛtayuge pārtha muranāmeti dānavaḥ | atyadbhuto mahāraudra sarvadevabhayaṃkaraḥ 6.38.50| iṃdro'pi nirjitastena sarvadevāstathā nṛpa | mahāsureṇa tenaiva mṛtyunā ca durātmanā 51| svargānnirākṛtāstena vicaraṃti mahītale | saśaṃkā bhayabhītāśca sarve gatvā maheśvaram 52| iṃdreṇa kathitaṃ sarvamīśvarasyāpi cāgrataḥ | svargalokaparibhraṣṭā vicaraṃti mahītale 53| martyeṣu saṃsthitā devā na śobhaṃte maheśvara | upāyaṃ brūhi me deva hyamarā yāṃti kāṃ gatim 54| mahādeva uvāca- devarājasuraśreṣṭhayatrāstegaruḍadhvajaḥ | śaraṇyaśca jagannāthaḥ paritrātā parāyaṇaḥ 55| tatra gaccha suraśreṣṭha sa vo rakṣāṃ vidhāsyati | īśvarasya vacaḥ śrutvā devarājo mahāmatiḥ 56 | tridaśaiḥ sahito yatra gatastatra yudhiṣṭhira | jalamadhye prasuptaṃ taṃ dṛṣṭvā devaṃ gadādharam 57| kṛtāṃjalipuṭo bhūtvā iṃdraḥ stotramudīrayat 58| iṃdra uvāca- oṃnamo devadeveśa devadānavavaṃdita | daityāre puṃḍarīkākṣa trāhi no madhusūdana 59| surāḥ sarve samāyātā bhayabhītāśca dānavāt | śaraṇaṃ tvāṃ jagannātha trāhi māṃ bhaktavatsala 60| trāhi no devadeveśa trāhi trāhi janārdana | trāhi vai puṃḍarīkākṣa dānavānāṃ vināśaka 61| tvatsamīpaṃ gatāḥ sarve tvameva śaraṇaṃ prabho | caśaraṇāgatānāṃ devānāṃ sahāyaṃ kuru vai prabho 62| tvaṃ patistvaṃ matirdeva tvaṃ kartā tvaṃ ca kāraṇam | tvaṃ mātā sarvalokānāṃ tvameva jagataḥ pitā 63| bhagavandevadeveśa śaraṇāgatavatsala | śaraṇaṃ tava cāyātā bhayabhītāśca devatāḥ 64| devatā nirjitāḥ sarvāḥ svargabhraṣṭāḥ kṛtāḥ prabho | atyugreṇa hi daityena muranāmnā mahaujasā | iṃdrasya vacanaṃ śrutvā viṣṇurvacanamabravīt 65| śrībhagavānuvāca- kīdṛśo dānavaḥ śakra kiṃ rūpaṃ kīdṛśaṃ balam | kva sthānaṃ tasya duṣṭasya kiṃ vīryaṃ kaḥ parākramaḥ | kiṃ varaṃ tasya duṣṭasya mamākhyāhi mahāmate 66| iṃdra uvāca- pūrvaṃ babhūva deveśa brahmavaṃśasamudbhavaḥ | tālajaṃghastu nāmnā ca atyugro'pi mahāsuraḥ 67| tasya putro hi vikhyāto muranāmeti dānavaḥ | atyutkaṭo mahāvīryo devatānāṃ bhayaṃkaraḥ 68| purī caṃdrāvatī nāmnā tatra sthāne vasatyasau | nirjitā devatāḥ sarvā svargāttena vivāsitāḥ 69| iṃdro'nyo ropitastena vātaścaiva hutāśanaḥ | caṃdrasūryo kṛtau cānyau vāyurvaruṇa eva ca 70| sarvamātmakṛtaṃ tena satyaṃ satyaṃ janārdana | devalokaḥ kṛtastena sarvasthānavivarjitaḥ 71| tasya tadvacanaṃ śrutvā kopamāno janārdanaḥ | haniṣye dānavaṃ duṣṭaṃ devatānāṃ bhayaṃkaram 72| tridaśaiḥ sahito devo gataścaṃdrāvatīṃ purīm | dṛṣṭo devaistu daityeṃdro garjamānaḥ punaḥ punaḥ 73| tena sarve jitā deva gatāścaiva diśo daśa | hariṃ nirīkṣya provāca tiṣṭhatiṣṭheti dānavaḥ 74| bhagavānabravīttaṃ ca krodhasaṃraktalocanaḥ | śrībhagavānuvāca- re dānava durācāra mama bāhuṃ nirīkṣaya 75| tataste sammukhāḥ sarve viṣṇunā duṣṭadānavāḥ | hatā bāṇaiḥ punardivyairjātāśca bhayavihvalāḥ 76| cakraṃ muktaṃ ca kṛṣṇena daityasainyeṣu pāṃḍava | tenacchinnāstu śataśo bahavo nidhanaṃ gatāḥ 77| ekopi dānavastatra yudhyamāno muhurmuhuḥ | naṣṭāḥ sarve surāstena nirjito madhusūdanaḥ 78| nirjitaṃ tena daityena bāhuyuddhamajāyata | bāhuyuddhaṃ kṛtaṃ tena divyaṃ varṣasahasrakam 79| viṣṇuściṃtāṃ prapannaśca naṣṭāḥ sarvāśca devatāḥ | viṣṇuśca nirjitastena gato badarikāśramam 80| guhā siṃhāvatī nāma tatra supto janārdanaḥ | yojanadvādaśavatī ekadvārā ca pāṃḍava 81| tasyāṃ viṣṭaḥ prasuptaśca dānavo haṃtumudyataḥ | mahāyuddhena tenaiva śrāṃto'sau yogamāyayā 82| dānavaḥ pṛṣṭhato lagno praviṣṭaḥ sa tadā guhām | prasuptaṃ tatra māṃ dṛṣṭvā dānavo harṣamāgataḥ 83| itthaṃ māṃ nirjitaṃ matvā praviṣṭaṃ śaṃkayā harim | niḥsaṃdehaṃ haniṣyāmi dānavānāṃ bhayaṃkaram 84| nirgatā kanyakā tatra viṣṇudehādyudhiṣṭhira | rūpavatī susaubhāgyā divyapraharaṇāyudhā 85| tasya tejoṃ'śasaṃbhūtā mahābalaparākramā | dṛṣṭā sā dānaveṃdreṇa muranāmnā dhanaṃjaya 86| yuddhaṃ samāhitaṃ tena striyā caiva prayācitam | kanyakā yudhyate tatra sarvayuddhaviśāradā 87| huṃkārairbhasmasājjāto mura nāmā mahāsuraḥ | nihate dānave tasmiṃstatra devastvabudhyata 88| patitaṃ dānavaṃ dṛṣṭvā tato vismayamāgataḥ | kenāyaṃ ca hato raudro hyatyugro mama śātravaḥ 89| atyugraṃ ca kṛtaṃ karma mama kāruṇyataḥ kṛtam | kanyovāca- tena devāśca gaṃdharvā sayakṣoragarākṣasāḥ 90| iṃdrādyāḥ sakalā jitvā svargāccaiva nirākṛtāḥ | hariḥ supto mayā dṛṣṭo muraḥ pṛṣṭhe samāgataḥ 91| saṃhariṣyati trailokyaṃ supte caiva jarnādane | tasyāstadvacanaṃ śrutvā viṣṇurvacanamabravīt 92| ahaṃ ca nirjito yena kathaṃ so'pi tvayā jitaḥ | ekādaśyuvāca- tvatprasādācca bho svāminmahādaityo mayā hataḥ 93| śrībhagavānuvāca- ānaṃdaṃ triṣu lokeṣu munayo devatā gatāḥ | brūhi tvaṃ ca mayā bhadre yatte manasi rocate | dadāmi ca na saṃdeho yatsurairapi durllabham 94| ekādaśyuvāca- yadi tuṣṭo'si me deva satyamuktaṃ janārdana | varamekaṃ tu vāṃcchāmi hṛdaye ca jagatpate 95| prārthayāmi ca deveśa īpsitaṃ ca mayā prabho | yadi satyaṃ jagannātha tisro vāco dadāsi me 96| śrībhagavānuvāca- satyaṃ satyaṃ mayā proktaṃ avaśyaṃ tava suvrate | tisro vāco mayā dattā na cāvākyaṃ bhavediha 97| ekādaśyuvāca- tribhuvaneṣu ca deveśa caturyugeṣu sāṃpratam | triṣu lokeṣu sarvatra tādṛśaṃ kuru me prabho 98| sarvatīrthapradhānaṃ hi sarvavighnavināśinī | sarvasiddhikarī devī tvatprasādādbhavāmyaham 99| māmupoṣyaṃti ye bhaktyā tava bhaktyā janārdana | sarvasiddhirbhavetteṣāṃ yadi tuṣṭo'si me prabho 6.38.100| upavāsaṃ ca naktaṃ ca ekabhaktaṃ karoti ca | tasya vittaṃ ca dharmaṃ ca mokṣaṃ vai dehi mādhava 101| viṣṇuruvāca-| yattvaṃ vadasi kalyāṇi tatsarvaṃ ca bhaviṣyati | sarvānmanorathānbhadre dāsyasi tvaṃ ca nānyathā 102| mama bhaktāśca ye loke ye ca bhaktāstu kārttike | caturyugeṣu vikhyātāstriṣu lokeṣu vai prabho 103| tvāṃ ca śaktimahaṃ manye ekādaśīvratasthitāḥ | mama pūjāṃ kariṣyaṃti mokṣagāste na saṃśayaḥ 104| tṛtīyā cāṣṭamī caiva navamī ca caturdaśī | ekādaśī viśeṣeṇa tithireṣā haripriyā | sarvatīrthādhikaṃ puṇyaṃ satyaṃ satyaṃ na saṃśayaḥ 105| idaṃ dattvā varaṃ tasyai tisro vāco na saṃśayaḥ | hṛṣṭā puṣṭā ca saṃjātā ekādaśīmahāvratā 106| śatruṃ haṃsi parāṃ tasya dadāsi paramāṃ gatim | tvaṃ haṃsi sarvavighnāni sarvasiddhivarapradā 107| ubhayoḥ pakṣayoḥ pārtha tulyā ekādaśī śubhā | na śuklā naiva kṛṣṇā ca vibhedaṃ naiva kārayet 108| vibhedo naiva karttavyaḥ samastavratakāribhiḥ | divā vā yadi vā rātrau śṛṇoti bhaktitatparaḥ 109| tithirekā bhavetsarvā pakṣayorubhayorapi | ubhayaikādaśī svalpā hyaṃte caiva trayodaśī 110| madhye tu dvādaśī pūrṇā trispṛśā sā haripriyā | ekāmupoṣayettāṃ vai sahasraikādaśīphalam 111| sahasraguṇitaṃ hyevaṃ dvādaśyāṃ pāraṇe kṛte | aṣṭamyekādaśī ṣaṣṭhī tṛtīyā ca caturdaśī 112| pūrvaviddhā na kartavyā paraviddhāmupoṣayet | ekādaśī hyahorātraṃ prabhāte ghaṭikā bhavet 113| sā tithiḥ parihartavyā upoṣyā dvādaśīyutā | evaṃvidhā mayā proktā pakṣayorubhayorapi 114| ekādaśyāṃ prakurvīta hyupavāsaṃ na saṃśayaḥ | te yāṃti vaiṣṇavaṃ sthānaṃ yatrāste garuḍadhvajaḥ 115| dhanyāste mānavā loke viṣṇubhaktiparāyaṇāḥ | ekādaśyāśca māhātmyaṃ sarvakāleṣu yaḥ paṭhet 116| gosahasraphalaṃ so'pi puṇyaṃ prāpnoti mānavaḥ | divā vā yadi vā rātrau ye vai śṛṇvaṃti bhaktitaḥ 117| brahmahatyādipāpebhyo mucyaṃte nātra saṃśayaḥ | viṣṇudharmasamaṃ nāsti gītārthaṃ ca nṛpottama | ekādaśīsamaṃ nāsti vrataṃ pāpapraṇāśanam 118| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde ekādaśyutpatti muravadhonāmāṣṭatriṃśo'dhyāyaḥ38|
English translation
Mahādeva said :
1. O son, on one occasion I had gone into the proximity of (i.e. to) Viṣṇu . There I first asked (him) about the importance of Dvādaśī, having heard which all sages having enjoyed pleasures went to heaven.
Nārada said :
2. O Mahādeva , of what kind would be the great (vow of the) Mahādvādaśī ? O lord, O ruler of all, what kind of fruit (would one get) by observing it.
Śiva said :
3-17a. O brāhmaṇa , this Ekādaśī gives the fruit (in the form) of great religious merit. It should be observed by the best sages when it is in conjunction with (certain) constellations. Jayā , Vijayā , Jayantī and Pāpanāśinī —all these destroy sins. They should be observed by those who desire (certain) fruits. When, in the bright half (of the month), the star Punarvasu (i.e. the seventh lunar mansion) appears on the Ekādaśī day, that is called Jayā, and it is the best of days. Having observed a fast on that day a man is freed from a sin. There is no doubt about this. When, in the bright half (of the month), the star Śravaṇa (i.e. the twenty-second lunar mansion) appears on the Dvādaśī day, that is called Vijayā and it is the best of days. Gift given on that day becomes thousandfold (in religious merit); so also food given to brāhmaṇas (becomes like that). In the same way a sacrifice (performed) or a fast (observed on that day) gives more than a thousandfold fruit. When on the Dvādaśī in the bright half Rohiṇī (i.e. the fourth lunar mansion) appears, that is called Jayantī. That day removes also sins. Viṣṇu worshipped on that day certainly washes sins, small or great, committed during (previous) seven existences. When on the Dvādaśī in the bright half Puṣya (i.e. the eighth lunar mansion) appears, then that will be the very meritorious Pāpanāśinī. (The religious merit of him) who every day gives a prastha of sesamum-seeds (to a brāhmaṇa) for the (whole) year, and (the religious merit of him) who observes a fast on that day (i.e. on the Pāpanāśinī) are said to be equal. Viṣṇu, the lord of all, the lord of the world, being pleased, appears actually (i.e. in person) only, and endless fruit is said (to be obtained by him who observes a fast) on that (day). Viṣṇu who was won over and worshipped on that (day) by Sagara , Kakutstha and Nahuṣa , gave (them) everything on the earth. There is no doubt that he (who observes a fast on that day) is freed from the sin due to speech, mental sin or especially bodily sin committed during the seven (previous) existences. A man having fasted on that (Pāpanāśinī) alone, which is joined with the star Puṣya, obtains the fruit of (having fasted on) a thousand Ekādaśīs . Whatever like a bath, (giving a) gift, muttering (of hymns), a sacrifice, self-study, worship of a deity, is done on that day is said to give an inexhaustible fruit.
17b-18. Therefore, those who desire the fruit (like salvation) should observe (a fast on) this (day) carefully. When Yudhiṣṭhira had the ablution after the fifth horse-sacrifice, he, the religious-minded one, asked Kṛṣṇa , the scion of the Yadu family:
Yudhiṣṭhira said :
19. O lord, O Janārdana , tell me all that, viz. what religious merit or what fruit (is obtained) by observing a fast on eating only at night or eating once (a day).
The lord said :
20-27a. In the cold season, when the auspicious month of Mārgaśīrṣa has come, a man should fast on that Dvādaśī which (comes) in the dark half, O son of Pṛthā (i.e. O son of Kuntī , O Yudhiṣṭhira). Knowing what ‘ nakta ’ is, a man, with a pure heart and of a firm vow, eating (only) once on the tenth, and being controlled, (should eat) during the eighth part of the day when the Sun is feeble (i.e. is setting). That should be known as ‘nakta’. ‘Nakta’ is not eating only at night. Nakta is enjoined for a householder before the stars appear (in the sky). The nakta for an ascetic is eating only in the eighth part of the day. Eating at night is prohibited for him. Then, O Yudhiṣṭhira, he who has taken the vow, should make the religious observance in the morning, so also in the mid-day, and being pure, should bathe. Bathing in a temporary well is the lowest; bathing in a well is of a middling quality. Bathing in a tank is excellent. Bathing in a river is still better. O Yudhiṣṭhira, the sin and the religious merit are equal when a bath is taken in the water where living beings are troubled. Bathing at home is excellent, and the water should purify (him). Therefore, O best (or eldest) of the Pāṇḍavas , a man should bathe in his house.
27b-32. (At that time he should pray:) ‘O you earth, that are stepped over by horses, gone over by chariots and by Viṣṇu, remove the sin that has been collected by me in (my) former (existence)’. He should give up anger and greed. He should think of one thing only, and be of a firm vow. He should not talk to a Śūdra , so also to heretics, so also to those given to lying, so also to those who censure brāhmaṇas, and to others of bad behaviour, to those who take away others’ wealth, and to those who are adulters. Having worshipped Viṣṇu, he should make articles of food offered; and with a devoted mind he should offer lights in the house. O Pārtha , on that day he should avoid sleep and sexual union. He should pass the entire day in recreation by means of sacred texts.
33-39. O best king, he, being full of devotion, should keep awake during the night, should give presents to brāhmaṇas, and should, after having saluted them, apologise to them. He should get observed (i.e. observe) the Ekādaśī (vow) during the bright half as during the dark half (of the month). He should not differentiate between (the two Ekādaśīs). Listen to the fruit of (i.e. obtained by) him who does like this. A man, after bathing at Śaṃkhoddhāra and after seeing (the image of) god Viṣṇu, does not deserve (i.e. obtain) even the sixteenth part (of the merit) of fasting on an Ekādaśī day. O best king, a man who gives four lakhs (of coins) on the days of the passage of the Sun from one Zodiacal sign to another, does not deserve (i.e. obtain) even the sixteenth part (of the merit) of fasting on an Ekādaśī day. Indeed he who observes a fast on an Ekādaśī day, gets the same fruit as the religious merit that is due to (the bath) during the lunar eclipse or the solar eclipse at the holy place Prabhāsa . Rebirth is not had by him after he has drunk water at Kedāra . In the same way, O Yudhiṣṭhira, it removes staying in a womb.
40-48. The religious merit that he who observes a fast on an Ekādaśī day gets, is a hundredfold more than the fruit that he would get from a horse-sacrifice on the earth. The religious merit of him who fasts on an Ekādaśī day is a hundred times more that the religious merit he would obtain by giving a thousand cows to (a brāhmaṇa) who has mastered the Vedas . Those who fast on the Ekādaśī day are equal to those in whose bodies live the three deities Brahma , Viṣṇu and Śiva . Those who are devotees (of Viṣṇu) and who worship Viṣṇu, are those who perform virtuous deeds. So also the religious merit of (i.e. due to) the vow of Ekādaśī cannot be counted. This would be its religious merit which is difficult to be obtained even by gods. Half the religious merit of this is obtained even through eating at night only. Men would have half the religious merit of this through eating once (a day). Sacred places, gifts, restraints roar till that time till a living being (i.e. a human being) would not fast on a day dear to Viṣṇu. Therefore, O best Pāṇḍava , observe this vow. O Pāṇḍava, I do not know the quantity of religious merit (about) which you are asking me. O Pāṇḍava, I have narrated to you the excellent vow, which should be kept secret. Even the performance of a thousand sacrifices is not equal to the Ekādaśī (vow).
Yudhiṣṭhira said :
49. O god, how has this auspicious Ekādaśī day come up? How is it pure in the universe and how is it dear to deities?
The lord said :
50-54. O Pārtha, formerly in the Kṛta -age there was a demon by name Mura . He was very wonderful, very fierce and caused fear to all gods. O king, even Indra , and so also other gods were vanquished by that death(-like), great, wicked demon. Driven out of the heaven they roamed on the earth. With uncertainty and full of fear, all of them went to the great god, and Indra told everything to the great lord (i.e. Śiva). (He said:) “O great god, the gods fallen from the heaven are roaming on the earth and they who are staying among the mortals, do not shine (at all). O god, tell me the remedy. What course do (i.e. should) the gods follow?”
Mahādeva said :
55-58. O You best among gods, O lord of gods, go there where he, the eagle-bannered (god), the lord of the world, the protector, and the best resort dwells. O best among gods, he will protect you.
O Yudhiṣṭhira, on having heard the words of the lord, the very intelligent king of the gods went there along with the gods. Seeing the god, the Disc-holder (i.e. Viṣṇu) sleeping in the water, Indra joined the palms of his hands, uttered (this hymn of praise):
Indra said :
59-65. Salutation to you, O lord of the gods, O you who are saluted by gods and demons, O you enemy of the demons, O you lotus-eyed one, O Madhusūdana , protect us. O lord of the world, all gods frightened by the demon (Mura) have come to seek your refuge. O you to whom your devotees are dear, protect me. O lord of gods, protect us; O Janārdana, protect us, protect us. O you lotus-eyed one, O you destroyer of the demons, protect us. We all have approached you. You alone are our refuge, O lord. O lord, help the gods who have sought your shelter. O god, you are the master; you are the intellect; you are the agent; you are the cause. You are the mother of all the people. You are the father of the world. O holy one, O lord of gods, O you who love those who seek your shelter; the deities that are frightened, have sought your refuge. O lord, all the deities have been vanquished. All of them have been expelled from heaven by the very fierce and very vigorous demon named Mura.
Hearing the words of Indra, Viṣṇu said (these words):
The lord said :
66. O Indra, of what kind is the demon? Of what form is he? Of what kind is his might? Where is the place of that wicked one? What is his strength? What is his valour? What is precious about him? O you very intelligent one, tell me (that).
Indra said :
67-75. O lord of gods, formerly there was a very fierce, great demon named Tālajaṅgha (who was) born in the family of Brahma. His son, the demon Mura, was well-known. He was very mighty, very powerful and fearful to gods. (There was) a city by name Candrāvatī . He lived in that place. He vanquished all gods, and expelled them from heaven. He installed another Indra (as the chief of gods), so also (another) Vāyu and (another) Agni . He fashioned other (i.e. new) Moon and Sun, so also Vāyu and Varuṇa . He took possession of everything. O Janārdana, (this is) the truth, (the only) truth. He made the world of gods bereft of all holy places.
Hearing these words of him (i.e. of Indra), the angry Viṣṇu (said): “I shall kill the wicked demon, fearful to the gods.” Then the god, along with (other) gods went to the city of Candrāvatī. The gods saw the demon roaring repeatedly. He vanquished all gods. They went in the ten directions. Seeing Viṣṇu the demon said: “Wait, wait.” The lord, with his eyes red due to anger, said to him:
The lord said :
7 6-84. O demon, O you of a bad conduct, see (the power of) my arm.
Then all the wicked demons that were before him were struck by Viṣṇu with divine arrows. They were overcome with fear. O Pāṇḍava, Kṛṣṇa (i.e. Viṣṇu) discharged his disc against the forces of the demon. Hundreds (of demons) were cut off by it, and many died. Only one demon fought there repeatedly. He made all the gods flee and vanquished Viṣṇu. Then (of him who was) vanquished by the demon, a close fight with the demon took place. He fought that close fight for a thousand divine years. Viṣṇu became thoughtful. All gods had fled. Viṣṇu was vanquished. He went to Badarikāśrama . There was a cave named Siṃhavatī. Viṣṇu slept there (i.e. in it). O Pāṇḍava, it was twelve yojanas (in length) and had one door (only). He entered it and slept (there). The demon was bent on killing him. [1] He was tired due to that great battle, (and had slept there) through his divine power. The demon pursued him. [1] He then entered that cave. Seeing him (i.e. seeing Viṣṇu) asleep there, the demon was delighted. Thinking Viṣṇu to have been vanquished like this and to have been entered (i.e. overpowered) by fear, (he thought:) ‘I shall undoubtedly kill him, the cause of fear to the demons.’
85-90. O Yudhiṣthira, then a maiden came out of Viṣṇu’s body. She was beautiful, very auspicious, and had divine missiles and weapons. She, of a great might and valour, came up from a portion of his lustre. O Dhanañjaya , she was seen by that lord of demons, Mura by name. He directed a fight there. The maiden also had asked for it. The maiden skilled in all (kinds of) battle, fought there. The great demon by name Mura was reduced to ash due to (her) huṃkāra sound. When the demon was killed, the god (Viṣṇu) woke up. Seeing the demon fallen (dead) he was amazed: ‘who has killed this fierce and very cruel enemy of me? (That person) has done a very ferocious deed through compassion for me.’
The maiden said :
91-93a. He having conquered gods, gandharvas , yakṣas and goblins, so also Indra and others, expelled them from heaven. I saw Viṣṇu asleep, and Mura had pursued him. (I thought:) ‘He will destroy the three worlds when Viṣṇu is asleep.’
Hearing those words of her, Viṣṇu, spoke (these) words: “How is it that you vanquished him too who had defeated me?”
Ekādaśi said :
93b. O lord, due to your favour I killed the great demon.
The lord said :
94. In the three worlds sages and deities are delighted. O auspicious one, tell me what you like in your mind (i.e. what your mind likes). There is no doubt that I shall give it even if it is very difficult to be obtained by gods.
Ekādaśī said :
95-96. If O god, you are pleased, and if you have told the truth, O Janārdana, I desire one boon in (i.e. from) my heart, O lord of the world. O lord of gods, I shall ask for what is desired by me. O lord, O master of the world, if (your offer is) true, then give me three utterances (i.e. repeat your offer thrice).
The lord said :
97. O you of a good vow, I have certainly spoken the truth, I have made three utterances (i.e. I have repeated my promise three times). Now there would be no absence of promise (i.e. the promise will not be false).
Ekādaśī said :
98-101. O lord of gods, do for me what is proper in the three worlds, in the four ages and everywhere in the three worlds. Through your favour I shall be the chief of all sacred places, the destroyer of all difficulties, and one who brings about all (kinds of) well-being. If, O lord, you are pleased with me, then, may they who through devotion (for me) and devotion for you, fast on my day, have all (kinds) of well-being. O Viṣṇu, give wealth, righteousness and salvation to him who observes a fast or a nakta or who eats once a day (on the day sacred to me).
Viṣṇu said :
102-110. O auspicious one, all that you say will take place. O good one, you will grant all desires. (This will) not be otherwise. My devotees who in the world will observe the Ekādaśī vow and worship me in Kārtika will undoubtedly obtain salvation.
O lord, the Ekādaśī is famous in the four ages and the three worlds. I look upon you as a power. The third, the eighth, the ninth, the fourteenth, and especially this eleventh are dear to Viṣṇu. (A man who observes the Ekādaśī vow gets) religious merit more than (obtained) from all the sacred places. This is true, undoubtedly true. He gave this vow to her repeating it thrice. There was no doubt about it. The Ekādaśī of a great vow became glad and strong. ‘You will kill his (i.e. the observer's) enemy. You will give him the highest position. You, giving (all kinds of) welfare, will remove all difficulties. O Yudhiṣṭhira, the Ekādaśī of both the fortnights is equal (in merit) and is auspicious. A man should not differentiate between the bright and the dark (Ekādaśī of the bright half and that of the dark half). He should devoutly listen to (pious accounts) by day or at night. For both the fortnights the same day (i.e. Ekādaśī) would be the full (day). At the sunrise the Ekādaśī day is little (i.e. is in a small part). At the end of the vow is the Trayodaśī (i.e. the thirteenth day).
111-114a. In between (the two) there is the full Dvādaśī (i.e. the twelfth day). Thus that (Ekādaśī-vow) which touches (these) three (days) is dear to Viṣṇu. If a man fasts on one (Ekādaśi he would get the) fruit of (having observed) a thousand Ekādaśīs. This would be thousandfold if the fast is broken on Dvādaśī. Aṣṭamī , Ekādaśī, Ṣaṣṭhī , Tṛtīyā and Caturdaśī, mixed with the previous day, should not be observed (as fast days). A man should observe (a fast on any one of these) when mixed with the next day. If the Ekādaśī lasts for a day and night and would continue for a ghaṭikā in the (next) morning, that day should be avoided. That Ekādaśī, along with Dvādaśī, should be fasted on.
114b-118. Thus, I have told you about the Ekādaśī falling in both the fortnights. There is no doubt that a man should observe a fast on the Ekādaśī day. They (i.e. who observe this fast) go to the place of Viṣṇu where the eagle-bannered (god Viṣṇu) dwells. Those men who are absorbed in devotion for Viṣṇu are blessed in the world. That man who would at all times recite the importance of the Ekādaśī(-vow), obtains the religious merit which is the fruit (of the gift) of a thousand cows. There is no doubt that those who devoutly listen to it by day or at night are freed from the sins of killing a brāhmaṇa etc. O best king, the (exposition of) the significance of the Gīta is not equal to devotion to Viṣṇu. There is no other vow like that of the Ekādaśī, that destroys sins.
[1]: [1] : mām appears to be a wrong word here. It should have been tam .
Complete chapter-aligned witnesses. Sanskrit Wikisource page 14513, revision 336361 (2022-04-21T09:23:04Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365615.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.