Skip to main content

Sṛṣṭi-khaṇḍa · Chapter 77

Chapter 77

Unit 77 of 693Sṛṣṭi-khaṇḍa · Chapter 77Sṛṣṭi-khaṇḍa · Chapter 771 source entries

Sṛṣṭi-khaṇḍa · Chapter 77

Source

वैशंपायन उवाच- प्रभवत्ययमाकाशे नित्यं द्विजवर प्रभो। कोऽयं को वा प्रभावोस्य कुत्र जातो घृणीश्वरः१। किं करोति हि कार्यं वै यतो रश्मिमयो भृशम्। देवैर्मुनिवरैस्सिद्धैश्चारणैर्दैत्यराक्षसैः२। निखिलैर्मानुषैः पूज्यः सदैव ब्राह्मणादिभिः। व्यास उवाच-। परमं ब्रह्मणस्तेजो ब्रह्मदेहाद्विनिस्सृतम्३। साक्षाद्ब्रह्ममयं विद्धि धर्मकामार्थमोक्षदम्। मयूखैर्निर्मलैः कूटमतिचंडं सुदुःसहम्४। दृष्ट्वा प्रदुद्रुवुर्लोकाः करैश्चंडैः प्रपीडिताः। ततश्च सागराः सर्वे वरनद्यो नदादयः५। शुष्यंति जंतवस्तत्र म्रियंते चातुरा जनाः। अथ शक्रादयो देवा ब्रह्माणं समुपागताः६। इममर्थं तदा प्रोचुर्देवांश्च विधिरब्रवीत्। आदिर्ब्रह्मतनोर्देवाः सत्त्वगो जनकः प्रभुः७। अयं रजोमयः साक्षात्सुधांशुस्तनुमध्यगः। एताभ्यां पालिता लोकास्त्रैलोक्ये सचराचराः८। दिव्योपपादका देवा ये वात्रैव जरायुजाः। अंडजाः स्वेदजाश्चैव ये वात्रैवोद्भिज्जादयः९। सूर्यस्यास्य प्रभावं तु वक्तुमेव न शक्नुमः। अनेन रक्षिता लोका जनिताः पालिता ध्रुवम्१०। अस्यैव सदृशो नास्ति सर्वेषां परिरक्षणात्। यं च दृष्ट्वाप्युषःकाले पापराशिः प्रलीयते११। तमाराध्य जना मोक्षं साधयंति द्विजातयः। संध्योपासनकाले तु विप्रा ब्रह्मविदः किल१२। उद्बाहवो भवंत्येव ते च देवप्रपूजिताः। अस्यैव मंडलस्थां च देवीं संध्यास्वरूपिणीं१३। समुपास्य द्विजास्सर्वे लभंते स्वर्गमोक्षकौ। धरायां पतितोच्छिष्टाः पूतास्ते चास्य रश्मिभिः१४। संध्योपासनमात्रेण कल्मषात्पूततां व्रजेत्। दृष्ट्वा चांडालकं गोघ्नं पतितं कुष्ठसंगतम्१५। महापातकसंकीर्णमुपपातकसंवृतम्। पश्यंति ये नरास्सूरं ते पूता गुरुकिल्बिषात्१६। अस्योपासनमात्रेण सर्वरोगात्प्रमुच्यते। नांधत्वं न च दारिद्र्यं दुःखं न च शोच्यताम्१७। लभते च इहामुत्र समुपास्य विरोचनम्। अदृष्टा नैव लोकैश्च देवा हरिहरादयः१८। ध्यानरूपप्रगम्यास्ते दृष्टो देवो ह्ययं स्मृतः। देवा ऊचुः। अस्तु प्रसादनाराध्यश्चास्तूपासनपूजनम्१९। अस्यैव दर्शनं ब्रह्मन्प्रलयानलसंमितम्। सर्वे नरादयस्सत्वा मृतावस्थां गता भुवि२०। अस्य तेजःप्रभावेण प्रणष्टास्सागरादयः। न समर्था वयं सोढुं कथमन्ये पृथग्जनाः२१। तस्मात्तवप्रसादाच्च पूजयामो यथा रविम्। यजंति च नरा भक्त्या तदुपायो विधीयताम्२२। देवानां वचनं श्रुत्वा गतो ब्रह्मखगेश्वरम्। गत्वा स्तोतुं समारेभे सर्वलोकहिताय वै२३। देवत्वं सर्वलोकस्य चक्षुर्भूतो निरामयः। ब्रह्मरूपधरः साक्षाद्दुष्प्रेक्ष्यः प्रलयानलः२४। सर्वदेवस्थितस्त्वं हि सदा वायुसखस्तनौ। अन्नादिपाचनं त्वत्तो जीवनं च भवेद्ध्रुवम्२५। उत्पत्तिप्रलयौ देव त्वमेको भुवनेश्वरः। त्वदृते सर्वलोकानां दिनैकं नास्ति जीवनम्२६। प्रभुस्त्वं सर्वलोकानां त्राता गोप्ता पिता प्रसूः। चराचराणां सर्वेषां त्वत्प्रसादाद्धृतं जगत्२७। देवेषु त्वत्समो नास्ति भगवंस्त्वखिलेषु च। सर्वत्र तेऽस्ति सद्भावस्त्वयैव धारितं जगत्२८। रूपगंधादिकारी त्वं रसानां स्वादुता त्वया। एवं विश्वेश्वरः सूरो निखिलस्थितिकारकः२९। तीर्थानां पुण्यक्षेत्राणां मखानां जगतः प्रभो। त्वमेकः प्रयतो हेतुस्सर्वसाक्षी गुणाकरः३०। सर्वज्ञः सर्वकर्ता च हर्ता पाता सदोत्सुकः। ध्वांतपंकामयघ्नश्च दारिद्र्यदुःखनाशनः३१। प्रेत्येह च परो बंधुः सर्वज्ञः सर्वलोचनः। त्वदृते सर्वलोकानामुपकारी न विद्यते३२। आदित्य उवाच-। पितामह महाप्राज्ञ विश्वेंद्र विश्वभावक। ब्रूहि शीघ्रं परं यत्ते करिष्यामि मतं विधे३३। ब्रह्मोवाच-। मयूखस्त्वतिचंडश्च लोकानामतिदुःसहः। यथैव मृदुतामेति तथा कुरु सुरेश्वर३४। आदित्य उवाच-। किरणाः कोटिकोटिर्मे लोकनाशकराः पराः। न चाभीष्टकरा लोके प्रयोगाच्छिन्धि तान्प्रभो३५। ततो विरिंचिना तूर्णं रविवाक्यवशाद्ध्रुवं। आहूय विश्वकर्माणं कृत्वा वज्रमयीं भ्रमि३६। चिच्छेद च रवेर्भानून्प्रलयानलसन्निभान्। तैरेव रचितं तत्र विष्णोश्चक्रं सुदर्शनम्३७। अमोघं यमदंडं च शूलं पशुपतेस्तथा। कालस्य च परः खड्गश्शक्तिर्गुरुप्रमोदिनी३८। चंडिकायाः परं शस्त्रं विचित्रं शूलकं तथा। चक्रे ब्रह्माज्ञया शीघ्रं तेनैव विश्वकर्मणा३९। सहस्रकिरणं शिष्टमन्यच्चैव प्रशातितम्। अजनोपायभावेन पुनश्च कश्यपान्मुने४०। अदितेर्गर्भसंजात आदित्य इति वै स्मृतः। अयं चरति विश्वांते मेरुशृंगं भ्रमत्यपि४१। सदोर्ध्वं दिनरात्रं च धरण्या लक्षयोजने। ग्रहाश्चंद्रादयस्तत्र चरंति विधिनोदिताः४२। सूरः संचरते मासान्द्वादशद्वादशात्मकः। संक्रमादस्य संक्रांतिः सर्वैरेव प्रतीयते४३। तासु यद्वा फलं ब्रूमो लोकानां निखिलं मुने। धनुर्मिथुनमीनेषु कन्यायां षडशीतयः४४। वृषवृश्चिककुंभेषु सिंहे विष्णुपदी स्मृता। तर्पणं चाक्षयं विद्धि दानं देवार्चनं तथा४५। षडशीतिसहस्राणि षडशीतौ फलं भवेत्। विष्णुपद्यां तु लक्षं तु अयने कोटिकोटकं४६। विष्णुपद्यां तु यद्दानमक्षयं परिकीर्तितं। दातुर्वदामि सान्निध्यं सदा जन्मनिजन्मनि४७। शीते तूलपटीदानान्न दुःखं जायते तनौ। तुलादाने तल्पदाने द्वयोरेवाक्षयं फलं४८। सर्वोपकरणां शय्यां यो ददाति विमत्सरः। वर्णमुख्याय विप्राय स राजपदवीं लभेत्४९। तथैवाग्निं जलं दत्वा नदीतीरे पथिप्रगे। दत्वा च तैलतांबूलमूर्व्या अधिपतिर्भवेत्५० 1.77.50 सत्यभावाद्द्विजं नत्वा धनी चाक्षयतां व्रजेत्। माघे मास्यसिते पक्षे पंचदश्यामहर्मुखे५१। पितॄंस्तिलजलैरेव तर्पयित्वाक्षयो दिवि। सुलक्षणां च गां दत्वा हेमशृंगां मणिप्रभाम्५२। रौप्यखुरप्रदेशां च तथा कांस्यसुदोहनाम्। एतां दत्वा द्विजाग्र्याय सार्वभौमो भवेन्नृपः५३। दत्वान्नाभरणं राजा मंडलेशो धनीश्वरः। तिलधेनुं तु यो दद्यात्सर्वोपस्करणान्विताम्५४। सप्तजन्मार्जितात्पापान्मुक्तो नाकेऽक्षयो भवेत्। भोज्यान्नं ब्राह्मणे दत्वा अक्षयं स्वर्गमश्नुते५५। धान्यं वस्त्रं तथा भृत्यं गृहपीठादिकं च यत्। यो ददाति द्विजाग्र्याय तं च लक्ष्मीर्न मुंचति५६। यत्किंचिद्दीयते दानं स्वल्पं वा यदि वा बहु। अक्षयं परलोकेषु युगाद्यासु तथैव च५७। यद्वा देवार्चनं स्तोत्रं धर्माख्यानप्रतिश्रवः। पुनाति सर्वपापेभ्यो दिवि पूज्यो भवत्यसौ५८। तृतीया माघमासस्य सिता मन्वंतरा स्मृता। तस्यां यद्दीयते दानं सर्वमक्षयमुच्यते५९। धनं भोग्यं तथा राज्यं नाकं कल्पांतरस्थितम्। तस्माद्दानं सतां पूजा प्रेत्यानंतफलप्रदा६०। मन्वंतरा तु माघे स्यात्सप्तमी या शितीतरा। तिथिः पुण्यतमा प्रोक्ता पुराणैरभिरक्षिता६१। माघमासे सिते पक्षे सप्तमी कोटिभास्करा। तामुपोष्य नरः पुण्यां मुच्यते नात्र संशयः६२। सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी। अरुणोदयवेलायां तस्यां स्नानं महाफलम्६३। यच्च तत्र कृतं पापं मया सप्तसु जन्मसु। तन्मे रोगं च शोकं च भास्करी हंतु सप्तमी६४। जननी सर्वभूतानां सप्तमी सप्तसप्तिके। सप्तम्यामुदिते देवि नमस्ते रविमंडले६५। अर्कपत्रं यवाः पुष्पं सुगंधं बदरीफलम्। तत्पत्रे ताम्रपात्रे वा युक्तमानीय तण्डुलम्६६। यज्ञसूत्रं ससिंदूरं दत्वा चार्घं सुशोभनम्। सर्वपापं क्षयं याति सप्तजन्मकृतं च यत्६७। नरकैः पीड्यते तावद्रोगैः पापैश्च दुःखदैः। हविष्यं भोजयेदन्नं शुद्धमातपतंडुलैः६८। वर्जयेच्च शिलाघृष्टं शृंगबेरं तु शाककम्। कोरदूषकपत्रं च रंभाच्छागीघृतं तथा६९। केशकीटादिकं वर्ज्यमुष्णोदस्नानमेव च। अल्पबीजादिकं सर्वं व्रते सूरस्य वर्जयेत्७०। अन्यच्च नाचरेत्तत्र धर्मचिंतां विना व्रती। सौरव्रतं महापुण्यं पुराणैरभिनंदितम्७१। वर्षकोटिसहस्राणि वर्षकोटिशतानि च। आदित्यस्य समं भोग्यं लभते दिवि शाश्वतम्७२। एवं स्वर्गक्षयादेव राजा भूमौ महाधनी। मर्त्यलोके पुराभ्यासात्करोति भास्करव्रतम्७३। तथा स्वयं सुखं भोग्यं लभते दिवि शाश्वतम्। आरोग्यं संपदं जन्मी भास्करस्य प्रसादतः७४। रविवारे भवेद्या च सप्तमी माघशुक्लके। महाजयेति विख्याता अन्यत्र विजया स्मृता७५। विजया कोटिलक्षं स्यादनंतं स्यान्महाजया। तत्रैकेन व्रतेनैव मुच्यते जन्मबंधनात्७६। अश्वरत्नं सुवर्णं च रक्तवस्त्रं च धान्यकम्। ददाति भास्कर प्रीत्या स्वर्ग मर्त्यपतिः क्रमात्७७। एषां भेदं प्रवक्ष्यमि शृणु विप्र यथार्थवत्। उत्तमाभरणैर्युक्तं सद्वाहं यो ददाति ह७८। समुद्रैस्सप्तभिर्जुष्टां भूमिमेत्यारिवर्जिताम्। लभेद्भवांतरे मर्त्यमेकेनैकाधिपो भवेत्७९। अश्वहीनं च पत्रांगं वृषभैर्वाप्यलंकृतम्। हेममाषं द्विमाषं वा दक्षिणा विहिता बुधैः८०। रत्नभांडं महार्थं च हैमैरेव कृतं च यत्। स्वर्णं वा केवलं दत्वा त्रिविष्टपधनेश्वरः८१। रक्तवस्त्रं च धान्यं च शक्तितो यः प्रयच्छति। स्वर्गोर्व्योरीशतामेति न तं लक्ष्मीर्विमुंचति८२। अरोगी सुप्रसन्नात्मा दस्युजेता प्रतापवान्। यावत्प्रभासते भानुस्तावत्पूज्यतमो हि सः८३। माघादौ द्वादशींमायां सप्तमीं कारयेत्स तु। इहाभीष्टफलं भुक्त्वा सुरैश्चैव प्रपूज्यते८४। अर्काङ्गसप्तमी व्रतं कृत्वा च विधिवद्बुधः। पापात्पूत इहाभीष्टं संप्राप्य मुक्तिमाप्नुयात्८५। लक्षणं च प्रवक्ष्यामि मासि मासि च यो विधिः। व्रतस्यास्य प्रसादाच्च सुराणामर्चितो दिवि८६। शुक्लपक्षे रविदिने प्रवृत्ते चोत्तरायणे। पुंनामधेयनक्षत्रे गृह्णीयात्सप्तमीव्रतम्८७। हस्तो मैत्रं तथा पुष्यः श्रवो मृग पुनर्वसु। पुंनामधेय नक्षत्राण्येतान्याहुर्मनीषिणः८८। पंचम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम्। सप्तम्यामुपवासं च अष्टम्यां पारणं भवेत्८९। अर्काग्रं शुचिगोमयं सुमरिचं तोयं फलं चाश्नुते । मूलं नक्तमुपोषणं च विधिवत्कृत्वैकभक्तं तथा। क्षीरं वाप्यशनं घृताक्तमिति च प्रोक्ताः क्रमेणामुना। कृत्वा वासरसप्तमीं दिनकृतः प्राप्नोत्यभीष्टं फलं९०। अर्काग्रं ग्रामात्पूर्वोत्तरदिग्गतार्कविटपस्य शाखाग्रस्थितं। विशिष्टं सूक्ष्मपत्रद्वयं सतोयं दन्तैरस्पृष्टं पातव्यं। शुचिगोमयं भूमावपतितं मद्याङ्गुष्ठाभ्यां पलमात्रं दन्तैरस्पृष्टं सतोयं पातव्यम्। सुमरिचमव्रणमपुरातनं स्थूलमवशुष्कमेकं दन्तैरस्पृष्टं सतोयं पातव्यम्। तोयं ब्रह्मपित्रङ्गुलीमूलप्रसरं पातव्यम्फलं खर्जूरनारिकेलानामन्यतमं दंतैरस्पृष्टं पातव्यं घृताक्तमिति चाहारं मयूरडिंभपरिमाणं। घृतमपि तत्परिमाणम्९१। आत्मनो द्विगुणां छायां यदा कुर्वीत भास्करः। तदा नक्तं विजानीयान्न नक्तं निशिभोजनं९२। प्रथमं पूजयेद्देवं फलपुष्पादिमंत्रकैः। अन्नदानं ततः कुर्याद्विध्युक्तपरिमाणकं९३। ततो ध्यानम्-। सर्वलक्षणसंपूर्णं सर्वाभरणभूषितं। द्विभुजं रक्तवर्णं च रक्तपंकजधृत्करं९४। तेजोबिंबं बहुजलमध्यस्थं सपरिच्छदं। पद्मासनगतं देवं रक्तगंधानुलेपनं९५। आदित्यं चिंतयेद्देवं पूजाकाले विशेषतः। अथ मंत्रश्चायं-। भास्कराय विद्महे सहस्ररश्मये धीमहि तन्नः सूर्यः प्रचोदयात्९६। जप्य एष परः प्रोक्तःसप्तम्यां विजयावहः। करवीरैः करंजैश्च रक्तकुंकुमसन्निभैः९७। पश्चाच्च पारणा कार्या तथाष्टम्यां विशेषतः। अष्टम्यामेव कर्तव्यं नवम्यां नैव पारणं९८। व्रते फलं न चाप्नोति नवम्यां पारणे कृते। पारणं त्वपराह्णे तु कटुतिक्ताम्लवर्जितं९९। तंडुलं शोधयेद्यत्नात्तृणबीजादिकं त्यजेत्। मुद्ग माष तिलादीनि घृतं च परिवर्जयेत्१०० 1.77.100 ब्राह्मणान्भोजयेद्भक्त्या शक्तः क्षीरादिहव्यकैः। यथाशक्त्यन्नपानैश्च व्यंजनैश्च निरामिषैः१०१। विप्राय दक्षिणां दद्याद्विभज्य चानुरूपतः। इमामनंतफलदां यः कुर्यात्सप्तमीं नरः१०२। सर्वपापप्रशमनीं धनपुत्रविवर्धनीम्। मासि मासि द्विजश्रेष्ठ व्रतं कृत्वार्कतुष्टये१०३। यः कुर्यात्पारणं भक्त्या सूर्यलोकं स गच्छति। कल्पकोटिं वसेत्स्वर्गे ततो याति परां गतिं१०४। इदमेव परं गुह्यं भाषितं शंभुना पुरा। श्रवणात्सततं तस्य व्रतस्य परिपालनात्। श्रावयेद्वापि लोकस्य फलं तुल्यं प्रकीर्तितं१०५। इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे अर्काङ्गसप्तमीव्रतंनाम। सप्तसप्ततितमोऽध्यायः७७।

vaiśaṃpāyana uvāca- prabhavatyayamākāśe nityaṃ dvijavara prabho| ko'yaṃ ko vā prabhāvosya kutra jāto ghṛṇīśvaraḥ1| kiṃ karoti hi kāryaṃ vai yato raśmimayo bhṛśam| devairmunivaraissiddhaiścāraṇairdaityarākṣasaiḥ2| nikhilairmānuṣaiḥ pūjyaḥ sadaiva brāhmaṇādibhiḥ| vyāsa uvāca-| paramaṃ brahmaṇastejo brahmadehādvinissṛtam3| sākṣādbrahmamayaṃ viddhi dharmakāmārthamokṣadam| mayūkhairnirmalaiḥ kūṭamaticaṃḍaṃ suduḥsaham4| dṛṣṭvā pradudruvurlokāḥ karaiścaṃḍaiḥ prapīḍitāḥ| tataśca sāgarāḥ sarve varanadyo nadādayaḥ5| śuṣyaṃti jaṃtavastatra mriyaṃte cāturā janāḥ| atha śakrādayo devā brahmāṇaṃ samupāgatāḥ6| imamarthaṃ tadā procurdevāṃśca vidhirabravīt| ādirbrahmatanordevāḥ sattvago janakaḥ prabhuḥ7| ayaṃ rajomayaḥ sākṣātsudhāṃśustanumadhyagaḥ| etābhyāṃ pālitā lokāstrailokye sacarācarāḥ8| divyopapādakā devā ye vātraiva jarāyujāḥ| aṃḍajāḥ svedajāścaiva ye vātraivodbhijjādayaḥ9| sūryasyāsya prabhāvaṃ tu vaktumeva na śaknumaḥ| anena rakṣitā lokā janitāḥ pālitā dhruvam10| asyaiva sadṛśo nāsti sarveṣāṃ parirakṣaṇāt| yaṃ ca dṛṣṭvāpyuṣaḥkāle pāparāśiḥ pralīyate11| tamārādhya janā mokṣaṃ sādhayaṃti dvijātayaḥ| saṃdhyopāsanakāle tu viprā brahmavidaḥ kila12| udbāhavo bhavaṃtyeva te ca devaprapūjitāḥ| asyaiva maṃḍalasthāṃ ca devīṃ saṃdhyāsvarūpiṇīṃ13| samupāsya dvijāssarve labhaṃte svargamokṣakau| dharāyāṃ patitocchiṣṭāḥ pūtāste cāsya raśmibhiḥ14| saṃdhyopāsanamātreṇa kalmaṣātpūtatāṃ vrajet| dṛṣṭvā cāṃḍālakaṃ goghnaṃ patitaṃ kuṣṭhasaṃgatam15| mahāpātakasaṃkīrṇamupapātakasaṃvṛtam| paśyaṃti ye narāssūraṃ te pūtā gurukilbiṣāt16| asyopāsanamātreṇa sarvarogātpramucyate| nāṃdhatvaṃ na ca dāridryaṃ duḥkhaṃ na ca śocyatām17| labhate ca ihāmutra samupāsya virocanam| adṛṣṭā naiva lokaiśca devā hariharādayaḥ18| dhyānarūpapragamyāste dṛṣṭo devo hyayaṃ smṛtaḥ| devā ūcuḥ| astu prasādanārādhyaścāstūpāsanapūjanam19| asyaiva darśanaṃ brahmanpralayānalasaṃmitam| sarve narādayassatvā mṛtāvasthāṃ gatā bhuvi20| asya tejaḥprabhāveṇa praṇaṣṭāssāgarādayaḥ| na samarthā vayaṃ soḍhuṃ kathamanye pṛthagjanāḥ21| tasmāttavaprasādācca pūjayāmo yathā ravim| yajaṃti ca narā bhaktyā tadupāyo vidhīyatām22| devānāṃ vacanaṃ śrutvā gato brahmakhageśvaram| gatvā stotuṃ samārebhe sarvalokahitāya vai23| devatvaṃ sarvalokasya cakṣurbhūto nirāmayaḥ| brahmarūpadharaḥ sākṣādduṣprekṣyaḥ pralayānalaḥ24| sarvadevasthitastvaṃ hi sadā vāyusakhastanau| annādipācanaṃ tvatto jīvanaṃ ca bhaveddhruvam25| utpattipralayau deva tvameko bhuvaneśvaraḥ| tvadṛte sarvalokānāṃ dinaikaṃ nāsti jīvanam26| prabhustvaṃ sarvalokānāṃ trātā goptā pitā prasūḥ| carācarāṇāṃ sarveṣāṃ tvatprasādāddhṛtaṃ jagat27| deveṣu tvatsamo nāsti bhagavaṃstvakhileṣu ca| sarvatra te'sti sadbhāvastvayaiva dhāritaṃ jagat28| rūpagaṃdhādikārī tvaṃ rasānāṃ svādutā tvayā| evaṃ viśveśvaraḥ sūro nikhilasthitikārakaḥ29| tīrthānāṃ puṇyakṣetrāṇāṃ makhānāṃ jagataḥ prabho| tvamekaḥ prayato hetussarvasākṣī guṇākaraḥ30| sarvajñaḥ sarvakartā ca hartā pātā sadotsukaḥ| dhvāṃtapaṃkāmayaghnaśca dāridryaduḥkhanāśanaḥ31| pretyeha ca paro baṃdhuḥ sarvajñaḥ sarvalocanaḥ| tvadṛte sarvalokānāmupakārī na vidyate32| āditya uvāca-| pitāmaha mahāprājña viśveṃdra viśvabhāvaka| brūhi śīghraṃ paraṃ yatte kariṣyāmi mataṃ vidhe33| brahmovāca-| mayūkhastvaticaṃḍaśca lokānāmatiduḥsahaḥ| yathaiva mṛdutāmeti tathā kuru sureśvara34| āditya uvāca-| kiraṇāḥ koṭikoṭirme lokanāśakarāḥ parāḥ| na cābhīṣṭakarā loke prayogācchindhi tānprabho35| tato viriṃcinā tūrṇaṃ ravivākyavaśāddhruvaṃ| āhūya viśvakarmāṇaṃ kṛtvā vajramayīṃ bhrami36| ciccheda ca raverbhānūnpralayānalasannibhān| taireva racitaṃ tatra viṣṇoścakraṃ sudarśanam37| amoghaṃ yamadaṃḍaṃ ca śūlaṃ paśupatestathā| kālasya ca paraḥ khaḍgaśśaktirgurupramodinī38| caṃḍikāyāḥ paraṃ śastraṃ vicitraṃ śūlakaṃ tathā| cakre brahmājñayā śīghraṃ tenaiva viśvakarmaṇā39| sahasrakiraṇaṃ śiṣṭamanyaccaiva praśātitam| ajanopāyabhāvena punaśca kaśyapānmune40| aditergarbhasaṃjāta āditya iti vai smṛtaḥ| ayaṃ carati viśvāṃte meruśṛṃgaṃ bhramatyapi41| sadordhvaṃ dinarātraṃ ca dharaṇyā lakṣayojane| grahāścaṃdrādayastatra caraṃti vidhinoditāḥ42| sūraḥ saṃcarate māsāndvādaśadvādaśātmakaḥ| saṃkramādasya saṃkrāṃtiḥ sarvaireva pratīyate43| tāsu yadvā phalaṃ brūmo lokānāṃ nikhilaṃ mune| dhanurmithunamīneṣu kanyāyāṃ ṣaḍaśītayaḥ44| vṛṣavṛścikakuṃbheṣu siṃhe viṣṇupadī smṛtā| tarpaṇaṃ cākṣayaṃ viddhi dānaṃ devārcanaṃ tathā45| ṣaḍaśītisahasrāṇi ṣaḍaśītau phalaṃ bhavet| viṣṇupadyāṃ tu lakṣaṃ tu ayane koṭikoṭakaṃ46| viṣṇupadyāṃ tu yaddānamakṣayaṃ parikīrtitaṃ| dāturvadāmi sānnidhyaṃ sadā janmanijanmani47| śīte tūlapaṭīdānānna duḥkhaṃ jāyate tanau| tulādāne talpadāne dvayorevākṣayaṃ phalaṃ48| sarvopakaraṇāṃ śayyāṃ yo dadāti vimatsaraḥ| varṇamukhyāya viprāya sa rājapadavīṃ labhet49| tathaivāgniṃ jalaṃ datvā nadītīre pathiprage| datvā ca tailatāṃbūlamūrvyā adhipatirbhavet50 1.77.50 satyabhāvāddvijaṃ natvā dhanī cākṣayatāṃ vrajet| māghe māsyasite pakṣe paṃcadaśyāmaharmukhe51| pitṝṃstilajalaireva tarpayitvākṣayo divi| sulakṣaṇāṃ ca gāṃ datvā hemaśṛṃgāṃ maṇiprabhām52| raupyakhurapradeśāṃ ca tathā kāṃsyasudohanām| etāṃ datvā dvijāgryāya sārvabhaumo bhavennṛpaḥ53| datvānnābharaṇaṃ rājā maṃḍaleśo dhanīśvaraḥ| tiladhenuṃ tu yo dadyātsarvopaskaraṇānvitām54| saptajanmārjitātpāpānmukto nāke'kṣayo bhavet| bhojyānnaṃ brāhmaṇe datvā akṣayaṃ svargamaśnute55| dhānyaṃ vastraṃ tathā bhṛtyaṃ gṛhapīṭhādikaṃ ca yat| yo dadāti dvijāgryāya taṃ ca lakṣmīrna muṃcati56| yatkiṃciddīyate dānaṃ svalpaṃ vā yadi vā bahu| akṣayaṃ paralokeṣu yugādyāsu tathaiva ca57| yadvā devārcanaṃ stotraṃ dharmākhyānapratiśravaḥ| punāti sarvapāpebhyo divi pūjyo bhavatyasau58| tṛtīyā māghamāsasya sitā manvaṃtarā smṛtā| tasyāṃ yaddīyate dānaṃ sarvamakṣayamucyate59| dhanaṃ bhogyaṃ tathā rājyaṃ nākaṃ kalpāṃtarasthitam| tasmāddānaṃ satāṃ pūjā pretyānaṃtaphalapradā60| manvaṃtarā tu māghe syātsaptamī yā śitītarā| tithiḥ puṇyatamā proktā purāṇairabhirakṣitā61| māghamāse site pakṣe saptamī koṭibhāskarā| tāmupoṣya naraḥ puṇyāṃ mucyate nātra saṃśayaḥ62| sūryagrahaṇatulyā hi śuklā māghasya saptamī| aruṇodayavelāyāṃ tasyāṃ snānaṃ mahāphalam63| yacca tatra kṛtaṃ pāpaṃ mayā saptasu janmasu| tanme rogaṃ ca śokaṃ ca bhāskarī haṃtu saptamī64| jananī sarvabhūtānāṃ saptamī saptasaptike| saptamyāmudite devi namaste ravimaṃḍale65| arkapatraṃ yavāḥ puṣpaṃ sugaṃdhaṃ badarīphalam| tatpatre tāmrapātre vā yuktamānīya taṇḍulam66| yajñasūtraṃ sasiṃdūraṃ datvā cārghaṃ suśobhanam| sarvapāpaṃ kṣayaṃ yāti saptajanmakṛtaṃ ca yat67| narakaiḥ pīḍyate tāvadrogaiḥ pāpaiśca duḥkhadaiḥ| haviṣyaṃ bhojayedannaṃ śuddhamātapataṃḍulaiḥ68| varjayecca śilāghṛṣṭaṃ śṛṃgaberaṃ tu śākakam| koradūṣakapatraṃ ca raṃbhācchāgīghṛtaṃ tathā69| keśakīṭādikaṃ varjyamuṣṇodasnānameva ca| alpabījādikaṃ sarvaṃ vrate sūrasya varjayet70| anyacca nācarettatra dharmaciṃtāṃ vinā vratī| sauravrataṃ mahāpuṇyaṃ purāṇairabhinaṃditam71| varṣakoṭisahasrāṇi varṣakoṭiśatāni ca| ādityasya samaṃ bhogyaṃ labhate divi śāśvatam72| evaṃ svargakṣayādeva rājā bhūmau mahādhanī| martyaloke purābhyāsātkaroti bhāskaravratam73| tathā svayaṃ sukhaṃ bhogyaṃ labhate divi śāśvatam| ārogyaṃ saṃpadaṃ janmī bhāskarasya prasādataḥ74| ravivāre bhavedyā ca saptamī māghaśuklake| mahājayeti vikhyātā anyatra vijayā smṛtā75| vijayā koṭilakṣaṃ syādanaṃtaṃ syānmahājayā| tatraikena vratenaiva mucyate janmabaṃdhanāt76| aśvaratnaṃ suvarṇaṃ ca raktavastraṃ ca dhānyakam| dadāti bhāskara prītyā svarga martyapatiḥ kramāt77| eṣāṃ bhedaṃ pravakṣyami śṛṇu vipra yathārthavat| uttamābharaṇairyuktaṃ sadvāhaṃ yo dadāti ha78| samudraissaptabhirjuṣṭāṃ bhūmimetyārivarjitām| labhedbhavāṃtare martyamekenaikādhipo bhavet79| aśvahīnaṃ ca patrāṃgaṃ vṛṣabhairvāpyalaṃkṛtam| hemamāṣaṃ dvimāṣaṃ vā dakṣiṇā vihitā budhaiḥ80| ratnabhāṃḍaṃ mahārthaṃ ca haimaireva kṛtaṃ ca yat| svarṇaṃ vā kevalaṃ datvā triviṣṭapadhaneśvaraḥ81| raktavastraṃ ca dhānyaṃ ca śaktito yaḥ prayacchati| svargorvyorīśatāmeti na taṃ lakṣmīrvimuṃcati82| arogī suprasannātmā dasyujetā pratāpavān| yāvatprabhāsate bhānustāvatpūjyatamo hi saḥ83| māghādau dvādaśīṃmāyāṃ saptamīṃ kārayetsa tu| ihābhīṣṭaphalaṃ bhuktvā suraiścaiva prapūjyate84| arkāṅgasaptamī vrataṃ kṛtvā ca vidhivadbudhaḥ| pāpātpūta ihābhīṣṭaṃ saṃprāpya muktimāpnuyāt85| lakṣaṇaṃ ca pravakṣyāmi māsi māsi ca yo vidhiḥ| vratasyāsya prasādācca surāṇāmarcito divi86| śuklapakṣe ravidine pravṛtte cottarāyaṇe| puṃnāmadheyanakṣatre gṛhṇīyātsaptamīvratam87| hasto maitraṃ tathā puṣyaḥ śravo mṛga punarvasu| puṃnāmadheya nakṣatrāṇyetānyāhurmanīṣiṇaḥ88| paṃcamyāmekabhaktaṃ tu ṣaṣṭhyāṃ naktaṃ prakīrtitam| saptamyāmupavāsaṃ ca aṣṭamyāṃ pāraṇaṃ bhavet89| arkāgraṃ śucigomayaṃ sumaricaṃ toyaṃ phalaṃ cāśnute | mūlaṃ naktamupoṣaṇaṃ ca vidhivatkṛtvaikabhaktaṃ tathā| kṣīraṃ vāpyaśanaṃ ghṛtāktamiti ca proktāḥ krameṇāmunā| kṛtvā vāsarasaptamīṃ dinakṛtaḥ prāpnotyabhīṣṭaṃ phalaṃ90| arkāgraṃ grāmātpūrvottaradiggatārkaviṭapasya śākhāgrasthitaṃ| viśiṣṭaṃ sūkṣmapatradvayaṃ satoyaṃ dantairaspṛṣṭaṃ pātavyaṃ| śucigomayaṃ bhūmāvapatitaṃ madyāṅguṣṭhābhyāṃ palamātraṃ dantairaspṛṣṭaṃ satoyaṃ pātavyam| sumaricamavraṇamapurātanaṃ sthūlamavaśuṣkamekaṃ dantairaspṛṣṭaṃ satoyaṃ pātavyam| toyaṃ brahmapitraṅgulīmūlaprasaraṃ pātavyamphalaṃ kharjūranārikelānāmanyatamaṃ daṃtairaspṛṣṭaṃ pātavyaṃ ghṛtāktamiti cāhāraṃ mayūraḍiṃbhaparimāṇaṃ| ghṛtamapi tatparimāṇam91| ātmano dviguṇāṃ chāyāṃ yadā kurvīta bhāskaraḥ| tadā naktaṃ vijānīyānna naktaṃ niśibhojanaṃ92| prathamaṃ pūjayeddevaṃ phalapuṣpādimaṃtrakaiḥ| annadānaṃ tataḥ kuryādvidhyuktaparimāṇakaṃ93| tato dhyānam-| sarvalakṣaṇasaṃpūrṇaṃ sarvābharaṇabhūṣitaṃ| dvibhujaṃ raktavarṇaṃ ca raktapaṃkajadhṛtkaraṃ94| tejobiṃbaṃ bahujalamadhyasthaṃ saparicchadaṃ| padmāsanagataṃ devaṃ raktagaṃdhānulepanaṃ95| ādityaṃ ciṃtayeddevaṃ pūjākāle viśeṣataḥ| atha maṃtraścāyaṃ-| bhāskarāya vidmahe sahasraraśmaye dhīmahi tannaḥ sūryaḥ pracodayāt96| japya eṣa paraḥ proktaḥsaptamyāṃ vijayāvahaḥ| karavīraiḥ karaṃjaiśca raktakuṃkumasannibhaiḥ97| paścācca pāraṇā kāryā tathāṣṭamyāṃ viśeṣataḥ| aṣṭamyāmeva kartavyaṃ navamyāṃ naiva pāraṇaṃ98| vrate phalaṃ na cāpnoti navamyāṃ pāraṇe kṛte| pāraṇaṃ tvaparāhṇe tu kaṭutiktāmlavarjitaṃ99| taṃḍulaṃ śodhayedyatnāttṛṇabījādikaṃ tyajet| mudga māṣa tilādīni ghṛtaṃ ca parivarjayet100 1.77.100 brāhmaṇānbhojayedbhaktyā śaktaḥ kṣīrādihavyakaiḥ| yathāśaktyannapānaiśca vyaṃjanaiśca nirāmiṣaiḥ101| viprāya dakṣiṇāṃ dadyādvibhajya cānurūpataḥ| imāmanaṃtaphaladāṃ yaḥ kuryātsaptamīṃ naraḥ102| sarvapāpapraśamanīṃ dhanaputravivardhanīm| māsi māsi dvijaśreṣṭha vrataṃ kṛtvārkatuṣṭaye103| yaḥ kuryātpāraṇaṃ bhaktyā sūryalokaṃ sa gacchati| kalpakoṭiṃ vasetsvarge tato yāti parāṃ gatiṃ104| idameva paraṃ guhyaṃ bhāṣitaṃ śaṃbhunā purā| śravaṇātsatataṃ tasya vratasya paripālanāt| śrāvayedvāpi lokasya phalaṃ tulyaṃ prakīrtitaṃ105| iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe arkāṅgasaptamīvrataṃnāma| saptasaptatitamo'dhyāyaḥ77|

English translation

Vaiśampāyana said :

1-3a. O lord, O best of brāhmaṇas , who is the one that daily appears in the sky? Who is he? What is his power? Where is the lord of heat (i.e. the Sun) born? What function does he do, as he is very much full of rays? He is fit to be always worshipped by all gods, best sages, Siddhas , Cāraṇas , demons and evil spirits, as well as by human beings like brāhmaṇas and others.

Vyāsa said :

3b-4a. (He) is a great lustre of Brahman , and has come out from Brahman’s body. Know him to be actually full of Brahman and the giver of (the fruits of the four goals of human life viz.) righteousness, enjoyment, worldly prosperity and salvation.

4b-5a. He is a heap made of spotless rays, is very hot and extremely unbearable. Seeing him, people, tormented by his hot rays, fled away.

5b-6a. Then the oceans, the best small and big rivers etc. became dry; creatures and sick people died.

6b-7. Then gods like Indra and others approached Brahmā . They told him this thing and Brahmā said to the gods: “O gods, he, the lord, is the first creator of the rays of light (giving) vitality (and is born) from Brahman’s body.

8-10. He is actually full of great activity and has the Moon in his body. In the three worlds all the human race, along with the mobile and the immobile, and the gods effecting divine (things), all the viviparous, oviparous beings, insects and plants are protected by these two. We (i.e. I) cannot at all describe the power of this Sun. He has protected, created and nourished the worlds.

11. No one resembles him on account of his protecting all. Seeing whom (i.e. him) at the dawn, heap of sins is destroyed.

12-14a. The men of the brāhmaṇa caste and others obtain salvation after (i.e. by) propitaiating him. It is said that the brāhmaṇas, who, knowing the Vedas , have their arms raised at the time of offering the three daily prayers, are very much honoured by gods. All brāhmaṇas, after having worshipped the goddess of the form of Sandhyā , remaining in his disc, obtain heaven and salvation.

14b-16. (Even) the leavings of food fallen on the ground are purified by his rays. One would obtain purity from sin by merely offering the three daily prayers. Those men, who, after seeing a cāṇḍāla , or a killer of cows, or a fallen person, or one suffering from leprosy or full of great sins or covered with (i.e. who has committed) minor sins, see the Sun, are purified (i.e. free) from a great sin [1] .

17-19a. Merely by worshipping him one is free from all diseases. A man by worshipping the Sun never has blindness, poverty, misery or grief, here or in the next world. Gods like Viṣṇu , Śiva being invisible, are never seen in the world; they can be seen through meditation. This god is said to be one who is (always) seen.”

The gods said :

l9b-20. He may be pleased by propitiation; let there be waiting upon and worshippig him. (But) O Brahman, his very sight is like the fire at the time of the end of the world. All beings like men and others have been reduced to the state of death (i.e. are dead) on the earth.

21. Due to the power of his lustre, oceans and others have perished. (Even) we are unable to bear his (lustre), (then) how can other ordinary people bear it?

22. Therefore, through your favour (i.e. do favour to us and) tell us the means by which people would devotedly worship the Sun.

23. Hearing (these) words of the gods, Brahmā went to the Sun. Having gone to him, he started praising him for the good of all the worlds.

24. “O god, you are the untainted eye of all the world. You are actually of the form of Brahman. You are like the fire at the end of the world, who cannot be easily looked at.

25. You always remain in all gods; Vāyu is your friend; food etc. in the body is disgested due to you; and also one’s life would be (i.e. is) certainly due to you.

26. The creation and destruction (of the world) are due to you, O god; you alone are the lord of the world. Without you all the people would not live (even) for a day.

27. You are the lord, the saviour, the protector, the father and the mother of all the worlds including the mobile and the immobile. The world is sustained due to your favour.

28. O lord, among all gods, there is none like you. Everywhere you are present, the world is sustained by you alone.

29. You create form and smell; the sweetness in liquids is due to you. Thus the Sun, the lord of the universe, is the cause of the stability of everything.

30. O lord, you alone are the pious cause of all the auspicious sacred places and of sacrifices; you are the witness of all, and the mine of virtues.

31. You are omniscient; you are the cause of everything; you take away (everything); you are the protector (of everything); you are always striving. You destroy darkness, sins and diseases; and you remove poverty and misery.

32. You are a great relative in the next and this world; you are omniscient and see everything. Except you there is none who helps all the worlds.”

The Sun said :

33. O grandsire, O highly intelligent one, the lord of the universe, the cause of everything, O Brahman, quickly speak what best I can do for you.

Brahmā said :

34. You are a very hot lustre, very difficult to be borne by people. O lord of gods, act in such a way that it (i.e. your lustre) becomes mild.

The Sun said :

35. O lord, I have crores and crores of strong rays, which (would) destroy the worlds; they do not do anything liked by people. So using (some) instrument, cut them off.

36-37. Then at the words of the Sun, Brahmā quickly called Viśvakarman , and (he), having fashioned a lathe of diamond, cut off the Sun’s rays resembling the fire at the time of universal destruction. With them only he fashioned Viṣṇu’s disc (called) Sudarśana .

38-39. (He also fashioned) the infallible staff of Yama , and the trident of Śiva, and the excellent sword of Kāla and the (missile called) śakti causing great delight, and also the excellent weapon of Caṇḍikā , and a lovely lance. That Viśvakarman himself quickly fashioned these at the order of Brahma .

40-41. He also sharpened the other remaining (portion of) the Sun. Then due to the absence of any other means of his birth he was born from Aditi ’s womb (as the son) of the sage Kaśyapa , and so was known as Āditya . He moves on the border of the universe and goes round Meru ’s peak.

42. So also high up (in the sky), away from the earth at a distance of a lakh yojanas , the planets like the Moon etc. being ordained by Brahma, move there.

43. The Sun, of twelve forms, moves for twelve months. All know that the Saṃkrānti [2] is due to his transition.

44. We (i.e. I) shall, O sage, (now) tell (you) all the fruit that is (obtained by one) on these (Saṃkrānti days). (The Saṃkrānti days) on which the Sun enters the Dhanu , Mithuna , Mina and Kanyā (signs of the zodiac ) are (called) Ṣaḍaśīti .

45. (That Saṃkrānti day on which he enters) the Vṛṣabha , Vṛścika , Kumbha and Siṃha (signs) is known as Viṣṇupadī . Know that the offerings to manes, gifts and worship of deities (performed on) these (days) are eternal (i.e. give an eternal fruit).

46. The fruit of (such offerings etc. given) on a Ṣaḍaśīti is thousands of times greater. The fruit (of such offerings given) on a Viṣṇupadī has a lakh-fold fruit and of that (given on) an ayana is a crore-fold.

47. That gift given on a Viṣṇupadī is said to be inexhaustible. I say that it remains with the giver birth after birth.

48. The body does not suffer from cold by giving a piece of cloth in the cold (season). The fruit of giving gold equal to one’s own weight and of giving a bed is inexhaustible.

49. He, who, humbly gives a fully furnished bed to a brāhmaṇa, the chief of all castes, would get the position of a king.

50. Similarly by giving gold, water on the bank of a river and by giving oil and tāmbūla one would be a king on the earth.

51. By solemnly saluting a brāhmaṇa, the wealthy person would get eternally (the fruit of the salutation).

52-53. By gratifying the manes at the dawn of the fifteenth day of the dark half of Magha , one (lives) eternally (in heaven). One (should) also give a cow having golden horns, shining with jewels, having silver hoofs and having big udders made of bell-metal. By giving this (cow) to the best of brāhmaṇas (a man) would become a sovereign king.

54-55. By giving food and ornaments one would become a king—the lord of a province. He, who would give a spotted cow with all the (necessary) articles, becomes free from the sin earned (i.e. committed) during (the past) seven births and would remain eternally in heaven. By giving dainty food to a brāhmaṇa he obtains heaven eternally.

56. Prosperity does not abandon him, who gives grains, cloth, servants, an abode, a seat to the best brāhmaṇa.

57. Whatever small or large gift is given (on these) and the day of the anniversary of a yuga [3] etc. is inexhaustible in the next world.

58. The worship of a deity, a hymn of praise, listening to a religious discourse purifies a person from all sins and he is honoured in the heaven.

59-60. The third day of the bright half of Māgha is known as Manvantara All the gifts given on that day are said to be inexhaustible, (and bring to him) wealth, pleasures, kingdom, and residence in heaven for (even in) the next kalpa . Therefore gifts, worship of the good gives an endless fruit in the next world.

61. The Manvantara occurs in Māgha. (Similarly) the seventh day of the bright half of Māgha is said to be the most auspicious day. It is preserved by the Purāṇas (i.e. declared to be auspicious).

62. (This) seventh day of the bright half of Magha is (called) Koṭibhāskara. Having fasted on this (auspicious day) a man is liberated; there is no doubt about it.

63. This seventh day of the bright half of Magha is comparable to the solar-eclipse (day). Bathing at dawn on that day gives a great fruit.

64-65. (One should recite the following hymn:) ‘The seventh day (of Magha) should destroy my sin committed in the (previous) seven births and also my disease and misery. (This) seventh day is the mother of all beings. O you ( Saptamī ) belonging to the Sun [4] , you have come up on the seventh day, my salutation to you, O goddess (living) in the disc of the Sun.’

66-67. By offering an arka -leaf, a fragrant flower, a badari -fruit, keeping all these in a copper vessel with rice, and also a sacred thread with red lead, and offering a very auspicious respectful offering, all the sin committed during the (previous) seven births, perishes.

68. Till (then) he is troubled by (residence in) hells and sinful and painful diseases. He should eat pure food [5] made with rice exposed to the Sun.

69. And he should avoid flour, ginger and fruits or roots used as vegetables, a bud, spoilt leaves, plantains, and ghee (prepared from the milk) of a she-goat.

70. It should be free from lice, perfumes. He should avoid bath with hot water. At the time of the vow (in honour) of the Sun he should avoid all (fruits) having few seeds.

71. He, who is observing the vow, should not think of anything else except about righteousness. The vow (in honour) of the Sun is greatly meritorious, and is commended by the Purāṇas.

72 (A man who practises it) obtains eternally enjoyments like those of the Sun in the heaven for thousands and hundreds of crores of years.

73. (Enjoying in heaven) like this, and after the end of (his residence) in heaven he becomes a very prosperous king on the earth; (and) in the mortal world he again practises the vow (in honour) of the Sun due to his repeated practice (in) the former (births).

74. Then he himself obtains eternal happiness and enjoyments in the heaven; and he obtains (good) health and wealth due to the favour of the Sun.

75. That seventh day of the bright half of Magha which falls on a Sunday is well known as Mahajayā; (the one falling on) any other (day) is known as Vijayā .

76. (The fruit of) Vijayā is a lakh crores, while that of a Mahājayā is endless. Even by (practising) one of these vows he is free from the bondage of birth (and death).

77. He who gives the best horse, gold, red cloth, grains out of love for the Sun, becomes the lord of heaven and earth in succession.

78-79. I shall tell you the difference among these. O brāhmaṇa, listen properly. He who gives an excellent horse adorned with best ornaments goes to (i.e. becomes the king of) the earth with (i.e. surrounded by) the seven seas and free from enemies.

80-81. The wise have laid down, as the present to a brāhmaṇa, sandal without a horse, but with a māṣa or two of gold adorned with (i.e. accompanied by) bulls; so also a pot decked with jewels and made of gold. Or by giving only gold he becomes a rich lord of the heaven.

82. He who gives red cloth and grains according to his capacity, becomes the lord of heaven and earth, and prosperity never forsakes him.

83. He becomes healthy, his mind is pleased, he conquers the evil beings and is valorous. As long as the Sun shines (i.e. eternally) he is honoured most.

84. He who practises the vow of the Māyāsaptamī as the twelfth in Māgha etc., enjoys desired fruit in this world, and is honoured by gods also.

85. A wise man, having duly practised the vow of Arkāṅgasaptamī (falling on a Sunday), becomes purified from sin, and having obtained the desired things in this world, would obtain salvation.

86. I shall tell (you) the distinctive mark (of this vow) and also the right (to be performed) in every month. Due to the propitiousness of this vow he is honoured by gods in heaven.

87. When the Uttarāyaṇa sets in, on a Sunday and on the male asterism in the bright half, one should receive the vow of Saptamī.

88. The wise say that Hasta , Maitra (i.e. Anurādhā ), Puṣya , Śravas (i.e. Sravaṇa ), Mṛga and Punarvasu are male asterisms.

89. It is said that one should eat only once on the fifth day, should eat only at night on the sixth day, should fast on the seventh day, and the fast would be broken on the eighth day.

90. He eats the tip of the Arka-tree, pure cowdung, good black pepper, water, fruit and root. At night he should eat, or should eat once a day according to the rules; or (should drink) milk or eat food anointed with ghee. These are told in order (to be the things which he should partake of). Doing (i.e. taking) them in this order and thus observing the vow of the Sun on the seventh day, he obtains the desired fruit.

91. Without touching them with his teeth, he should drink, with water, the tip of the Arka tree, a particular pair of small leaves from the branch of the Arka tree on the north-east of the village. He should also drink with water in a small quantity, without touching with his teeth, pure cowdung not fallen on the ground, holding it with the middle finger and the thumb. He should also drink with water and without touching it with his teeth, an unbruised, old, big, dry, good black pepper. He should also drink water sacred to Viṣṇu, flowing from the roots of his fingers. Without touching it with his teeth, he should drink with water one of the fruits from among dates and coconuts. The food should be anointed with ghee and should be of the measure of a peacock’s egg. The quantity of the ghee should be like that only.

92. When the Sun doubles his shadow, he should know it to be nakta . Nakta is eating at night.

93. He should first worship the deity with fruits, flowers etc. and sacred hymns. Then he should give gift of food according to the rules and proportion.

94. Then (follow) the meditation: He should meditate upon the Sun, especially at the time of worshipping him—the god—who is full of all (good) marks, who is adorned with all ornaments, who has two arms, whose complexion is red, who has held in his hand a red lotus, whose disc is lustrous, who remains in a large (quantity of) water, who is with his attendants, who is seated on a lotus, who is anointed with red sandal.

95-96. Then (he should recite) this sacred hymn: ‘We make an offering to Bhāskara , possessing a thousand rays. We think of him. Let that Sun urge us on.’

97. This hymn is said to be very great (i.e. effective) and (when recited) on the seventh day brings victory. (He should worship the Sun) with Karavīra and Karañja flowers resembling the red saffron.

98-99. Then, particularly on the eighth day, the fast should be broken. The fast should be broken on the eighth day only and never on the ninth; (for) if the fast is broken on the ninth day he does not get the fruit of the vow. The fast should be broken in the afternoon, and (the food should be) without bitter, pungent or sour articles (of food).

100. He should carefully cleanse the rice, and avoid (blades of) grass or seeds etc. He should also avoid kidney-beans, beans, sesamum and ghee.

101. With devotion and according to his capacity he should feed the brāhmaṇas by giving them food with vegetarian sauces and drinks.

102-104. He should suitably distribute presents among the brāhmaṇas. He who observes this vow of Saptamī which gives unending fruit, which destroys all sins and increases wealth and (the number of) sons, and he, O best of brāhmaṇas, who, having observed it every month to please the Sun, devoutly breaks the fast, goes to the Sun’s heaven. He would live in heaven for a crore of kalpas and then obtain the best position.

105. This alone, is the great secret told formerly by Śiva. By constantly listening to it, and by observing the vow, or by narrating it to the people, the fruit (that one gets) is the same.

[1]: [1] : Mahāpātaka—The five great sins are: murder of a brāhmaṇa, drinking wine, stealing, having illicit relation with one's teacher’s wife, and contact with those who commit these sins.

[2]: [2] : Saṃkrānti—The passage of the Sun from one zodiacal sign to another. When the Sun passes through Karka or Makara, it is Ayana-Saṅkrānti, and when it passes through Mesa and Tulā, it is Viśva-Saṅkrānti.

[3]: [3] : Yugādyā—The anniversary of the first day of a Yuga.

[4]: [4] : Saptasapti—An epithet of the Sun.

[5]: [5] : Haviṣyānna—Food fit to be eaten during days of fast.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 43089, revision 334625 (2022-04-06T19:48:12Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364200.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.