Skip to main content

Pātāla-khaṇḍa · Chapter 106

Chapter 106

Unit 401 of 693Pātāla-khaṇḍa · Chapter 106Pātāla-khaṇḍa · Chapter 1061 source entries

Pātāla-khaṇḍa · Chapter 106

Source

शुचिस्मितोवाच- आयुष्यवर्द्धनं भस्माशनं दृष्टं महामुने । परलोकगतिं दातुं शक्तमेतं वदस्व मे १। दधीच उवाच- अत्र ते कथयिष्यामि इतिहासं पुरातनम् । चित्रगुप्तयमाभ्यां च यद्विख्यातं बभूव ह २। मिथिलायां पुरा कश्चिच्छुनः पर्यटते क्षुधा । पुरा जन्मशतात्पूर्वं ब्राह्मणः पापनिश्चयः ३। पूर्वेवयसि वेदाढ्यः शास्त्राढ्यश्च सुबुद्धिमान् । स स्नातुं जाह्नवीं गत्वा स्नानं कृत्वा पितॄनपि ४। देवानृषीन्समभ्यर्च्य ययौ प्रात्तलिकापुरम् । प्रतिश्रयमथो चक्रे ब्राह्मणस्य निवेशने ५। तत्रैका क्षत्रियसुता यौवनस्था हतप्रिया । भ्रष्टराज्या च षट्कोटि निष्कद्रव्येण संयुता ६। भुक्त्वाथ शयितं विप्रं सर्वावयवसुंदरम् । रात्रौ चंद्रोदये शुद्धे ज्योत्स्नाहसितदिङ्मुखे ७। ब्राह्मणाभ्याशमागत्य तमुदीक्ष्येदमब्रवीत् । कुतस्त्वमागतो विप्र कं वा देशं गमिष्यसि ८। ब्राह्मण उवाच- अकालचर्या सर्वेषां शंकामुत्पादयेद्ध्रुवम् । वयःस्थयोर्मिथोवादो रहस्ये हास्यमंदिरे ९। क्षत्रियोवाच- कथाप्रसंगे यात्रायां तीर्थे देशादि विप्लवे । दुर्भिक्षे ग्रामदहने रहोवादो न दूषितः १०। प्रतिश्रयस्तु मद्गेहे भवतैव पुरा कृतः । मद्गेहवासिनी चाहं न शंका त्विह कस्यचित् ११। ब्राह्मण उवाच- तूष्णींभावो मया कार्यो गच्छ त्वं शीघ्रमग्रतः । इत्युक्ता ब्राह्मणेनासौ मनसेदमचिंतयत् १२। अनेन संगमो मह्यं यथाभूयात्तथाविधि । रोदनं तु करिष्यामि तथा यास्यति सांत्वितुम् १३। मां च सांत्वयितुं प्राप्तो मां समुत्थापयिष्यति । अहमुत्तिष्ठमानैव दोर्लताकंठसंगिनी १४। कुचयुग्मेन तद्गात्रं स्पर्शयंती विमूर्च्छिता । गतभानां हि मां दृष्ट्वा निषण्णः स्वयमेव सः १५। उत्संगे मामकं देहं निधास्यति द्विजाग्रणीः । अचेतनेव वसनमपास्य रुदतीव च १६। सुस्निग्धं रोमरहितं पक्वाश्वत्थदलाकृति । दर्शयिष्यामि तत्स्थानं कामगेहं सुगंधि च १७। मयैव विलुठंत्यांगे तस्य वस्त्रमपास्यते । विलुप्यमानसं तस्य करिष्ये स्ववशं द्विजम् १८। अदृष्टौ यादृशं चित्तं दृष्टौ नैतादृशं भवेत् । दर्शने यादृशं चित्तं संलापे नैव तादृशम् १९। संलापे यादृशं चित्तं हास्योक्तौ नैव तादृशम् । हास्योक्तौ यादृशं चित्तं स्पर्शने नैव तादृशम् २०। स्पर्शने यादृशं चित्तं योनिदृष्टौ न तादृशम् । तद्दृष्टौ यादृशं चित्तं योनिस्पर्शे न तादृशम् २१। बाहुमूलकुचद्वंद्व स्वयोनिस्पर्शदर्शनात् । कस्य न स्खलते चेतो रेतः स्कन्नं च नो भवेत् २२। दधीच उवाच- इति संचिंत्य मनसा क्षत्रिया गृहमभ्यगात् । स्वगृहद्वारमासाद्य मंदं मंदं रुरोद वै २३। चिरं कालं च रुदितं ब्राह्मणः करुणानिधिः २४। स्त्रीबालवृद्धातुर राजयोगिनां विषाग्नितोयाद्रि निपातनादिना । दुःखस्य चैवोद्धरणं प्रशस्यते कूपस्यदानेन समं वदंति २५। इत्थं विचार्य विप्रोऽसौ शुचिर्भूतः प्रसन्नधीः । तस्याः समीपमगमत्तामुवाच ततो द्विजः २६। अलं शोकेन महता इहामुत्र विरोधिना । शरीरशोषणं ह्येतच्चित्तविध्वंसनं तथा २७। त्यज शोकमिमं बाले न चार्थः शोचितेन वै । शोकस्य कारणं किं वा येनेत्थं रुद्यते त्वया २८। दधीच उवाच- एवमुक्ता द्विजेनाथ न सा किंचिदुवाच ह । मूर्च्छितेवापतद्भूमौ तमदृष्ट्वेव वीक्षते २९। तामथोत्थापयामास ब्राह्मणः परमार्थवित् । उत्थितोत्थापिता तेन निपपात पुनः पुनः ३०। पतितां पतितां विप्रो निषद्योत्थाप्य तां पुनः । अंकमारोपयामास प्रममार्ज विलोचने ३१। अथ सा मूर्च्छितेवाशु वसनं परिमुच्य तम् । दर्शयंती स्तनौ गुह्यं बाहुमूले विलोचने ३२। आलंब्य कंठे बाहुभ्यां स्तनाभ्यामस्पृशद्द्विजम् । चंद्रातपश्च विशदो मंदमारुतसंभवः ३३। अथ चिंतापरो विप्रो नैव कार्यमिदं मम । पितुर्वा मातुरुचितं पत्युर्वाथ गुरोस्तथा ३४। असंबुद्धस्य मे सर्वं विपरीतं विभाति वै । अथ कामः समायातो रहस्ये स्थितयोस्तयोः ३५। विव्याध निशितैर्बाणैर्द्विजं कामो दुरात्मवान् । स्मरबाणातुरो विप्रश्चिंतयामास कामुकः ३६। इयं सुचारु सर्वांगी कामिनीव प्रदृश्यते । नोचेद्योनिमुखे ह्यस्याः कथं रोमांचसंभवः ३७। तदेतस्याः कुचस्पर्शात्सर्वं व्यक्तं भविष्यति । इति संचिंत्य मनसा कुचौ योनिं द्विजोऽस्पृशत् ३८। सापि मूर्च्छितरूपेव मंदस्मितमुखाभवत् । आलिलिंग द्विजं गाढमाननं च चुचुंब ह ३९। तयोरथ समायोगो वर्षाणां शतमप्यभूत् । गते वर्षशते पश्चादेकस्मिन्दिवसे द्विजः ४०। स्नातुं ययौ नदीं प्रातः सापि विप्रप्रसंगतः । स्नानं तत्र तथा चक्रे पुराणं श्रुतवानथ ४१। कौर्मं समस्तपापानां नाशनं शिवभक्तिदम् । इदं च पद्यं शुश्राव पुराणज्ञेन भाषितम् ४२। ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । कौर्मं पुराणं श्रुत्वैव मुच्यते पातकात्ततः ४३। श्रुत्वैतद्वचनं विप्रः पौराणिकमभाषत । मया कृतानां पापानां न च संख्यास्ति काचन ४४। अशेषपापसंदोहनाशनं तदिहोच्यताम् । पौराणिक उवाच- आराधय स्वदेवेशं शंकरं त्रिदशेश्वरम् ४५। तस्य संपूजनाद्विप्र सर्वं पापं विनश्यति । पापमेव तमः प्रोक्तं ज्ञानदीपेन नश्यति ४६। अथवा पूजया विप्र समस्ताघविनाशनम् । ज्ञानपूजाविहीनानां नरके पतनं ध्रुवम् ४७। दधीच उवाच- अथ द्विजो ह्यभिगतः शिवालयमनुत्तमम् । द्रोणपुष्पसहस्रेण पूजयामास शंकरम् ४८। गृहं जगाम च ततो भोजनं कृतवानथ । विहाय क्षत्रियां विप्रो जगामेष्टां भुवं ततः ४९। हविष्यमन्नमादाय भुक्त्यशक्तेः शिवालयम् । गत्वा दीपस्थिताज्येन भोजनं कृतवान्बहिः ५०। अथ मृत्युवशं प्राप्तो यमलोकं जगाम वै । यम उवाच- त्वया कृतानां पापानां केषांचिन्नाशनं पुरा ५१। त्वयैकदिवसे पूजा शंकरस्य यतः कृता । तव पापसहस्रं च प्रणष्टं भवतो द्विज ५२। स्थितानामपि पापानां फलं नरकपातनम् । वर्षकोटिद्वयं विप्र श्वानजन्मशतं पुनः ५३। शिवदीपाज्यहरणात्फलं नरकसेवनम् । नरके च स्थितिस्तस्य शतवर्षं सुभीषणम् ५४। कुंभीपाके च काष्ठत्वं भस्म भूत्वा पुनः पुनः । वर्षाणां दशकं त्वेवं कृमिभुक्तिः परं दश ५५। पुनश्च दीपवर्तित्वं वर्षाणां च तथा दश । श्लेष्मामेध्यपुरीषेषु मूत्ररेतोह्रदेषु च ५६। उन्मज्ज्य च निमज्ज्याथ श्लेष्मविण्मलभोजनम् । ततो नरकशेषेण श्वानजन्मशतं परम् ५७। यमवाक्यमिति श्रुत्वा ब्राह्मणो निपपात च । अथ तस्य प्रिया भार्या पतिचिंतापराभवत् ५८। एतस्मिन्नंतरे तस्याः समीपं नारदोऽभ्यगात् । नारदस्य पपातासौ पादयोरतिदुःखिता ५९। तामुत्थाप्य मुनिः शुद्धां गतायुषमभाषत । अयि मुग्धे विशालाक्षि भर्तारं गंतुमर्हसि ६०। भर्ता ते हि विशालाक्षि मृतो बंधुविवर्जितः । न रोदितव्यं ते भद्रे ज्वलनं प्रविशस्व भोः ६१। ब्राह्मण्युवाच- अशक्यं यदि वा शक्यं मया गंतुं मुने वद । अग्निप्रवेशकालो वै व्यतीतो न भवेद्यथा ६२। नारद उवाच- योजनानां शतं त्वेकमितः स्थानात्पुरं हितत् । श्वो दाहः किल विप्रस्य भविता गंतुमर्हसि ६३। अव्ययोवाच- दूरस्थितं कायनाथं गंतुमर्हामि हे मुने । तद्वचस्तु समाकर्ण्य नारदस्तामभाषत ६४। विपंची नालसंस्था त्वं भव गच्छाम्यहं क्षणात् । इत्युदीर्य तदा गत्वा त्वरां चक्रे गतं च तत् ६५। देशं नष्टद्विजस्थानं तामुवाचाव्ययां मुनिः । रोदनं नेह कर्तव्यं यदि तत्राग्निमेष्यसि ६६। पापं यदि कृतं भद्रे परपूरुषसेवनम् । एतद्विशुद्धये पुत्रि प्रायश्चित्तं समाचर ६७। तवोपपातकव्रात नाशो वह्निप्रवेशनात् । नान्यत्पश्यामि नारीणां सर्वपापोपशांतये ६८। अग्निप्रवेशं मुक्त्वैकं प्रायश्चित्तं जगत्त्रये । दधीच उवाच- अथ नारदवाक्येन नोदिता सा वचोऽब्रवीत् ६९। अग्निप्रवेशे नारीणां किं कर्तव्यं महामुने । नारद उवाच- स्नानं मंगलसंस्कारो भूषणांजनधारणम् ७०। गंधपुष्पं तथा धूपं हरिद्राक्षतधारणम् । मंगलं च तथा सूत्रं पादालक्तकमेव च ७१। शक्त्या दानं प्रियोक्तिश्च प्रसन्नास्यत्वमेव च । नानामंगलवाद्यानां श्रवणं गीतकस्य च ७२। व्यभिचारकृते पापे तत्पापस्य प्रशांतये । अतीतं पातकं स्पृष्ट्वा प्रायश्चित्तं तदीरितम् ७३। कुर्यादथ स्वकां भूषां विप्राय प्रतिपादयेत् । भूषाभावे स्वकीयेन प्रायश्चित्तं तु कारयेत् ७४। नान्यथा तस्य पापस्य नाशनं वेति कुत्रचित् । अव्ययोवाच- सर्वमेतत्करिष्यामि हरिद्रा मे न विद्यते ७५। भूषणं किमुत ब्रह्मन्सर्वमेतत्प्रदीयताम् । नारद उवाच- न ह्यस्ति किंचित्सौभाग्यद्रव्यमन्यत्त्वपेक्षया ७६। दधीच उवाच- अथ क्षणेनाभ्यगमत्कैलासं शिवमंदिरम् । गिरिजामथ दृष्ट्वासौ प्रणिपत्येदमब्रवीत् ७७। हरिद्रा दीयतां मातर्भूषणानि च सूत्रकम् । पार्वत्युवाच- विधवायै मया किंचिद्भूषणं दीयतां कथम् ७८। मया दत्ते हि तस्मिन्वै वैधव्यं नोपपद्यते । नारद उवाच- मातर्न विधवा यावद्धवांगं वर्तते स्त्रियः ७९। आदाहात्सूतकं नास्ति तिष्ठेत्सौभाग्यमुत्तमम् । पार्वत्युवाच- न चान्यदेहो मद्भूषां हरिद्रां धर्तुमर्हति ८०। भूषणादौ मया दत्ते चिरंजीवितमिष्यते । दीयते हि जयंत्यैव सर्वमेतत्त्वयोदितम् ८१। जयंतीं स जगामाथ तया दत्तमथाहरत् । स्नपंत्या अव्ययायास्तु हरिद्रां दत्तवान्मुनिः ८२। ततः स सूक्ष्मवसनभूषणानि मुनिर्ददौ । आह चैनां तवांतेष्टिं कः करोति नियुंक्ष्व तम् ८३। अव्ययोवाच- त्वयैव मे समस्तानां क्रियाणां कारणं मुने । पितासि सर्वं कुर्वद्य नमस्ते मुनिसत्तम ८४। दधीच उवाच- अथ तं ब्राह्मणं दग्ध्वा नारदस्तामुवाच ह । अव्यये गच्छ दहनं प्रविश त्वं यदीच्छसि ८५। अथ सा भूषिता साध्वी त्रिःप्रदक्षिणपूर्वकम् । नारदं तु नमस्कृत्य गौरांगीमर्पयन्मनः ८६। सुसूक्ष्मं मंगलंसूत्रं हरिद्रामक्षतांस्तथा । कुसुमानि च वासांसि कस्तूरीचंदनं तथा ८७। सौवर्णकंकतिकां च फलानि विविधानि च । स्वदक्षिणादिवस्त्रांतं स्पर्शयित्वा पृथक्पृथक् ८८। पार्वतीप्रीतिकामा सा पुरंध्रीभ्योऽखिलं ददौ । ज्वालामालाभिराकाशं दहंतमिव चानलम् ८९। त्रिःप्रदक्षिणमागत्य स्थित्वाग्नेः पुरतः सती । इदं प्राह तदा वाक्यं प्रांजलिः प्रहसन्मुखी ९०। अव्ययोवाच- इंद्रादयो दिशांपाला मातर्मेदिनि भास्कर । धर्मादयः सुराः सर्वे शृणुध्वं मम भाषितम् ९१। पाणिपीडनमारभ्य चैतदंतमहर्निशम् । वाङ्मनःकर्मभिर्भर्ता सेवितो यदि भक्तितः ९२। व्यभिचारो यथा न स्यादवस्थात्रितये मम । तेन सत्येन मे पत्या सार्द्धं यानं प्रयच्छत ९३। इत्युक्त्वाथ स्वहस्ताग्रपुष्पकं द्रुतमाक्षिपत् । प्रविष्टा ज्वलनं दीप्तमथापश्यद्विमानकम् ९४। सूर्येण सममुत्कृष्टमप्सरोगीतशोभितम् । आरुरोह विमानं सा भर्त्रा साकं दिवं ययौ ९५। यमः प्राहाथ संपूज्य वनितां तां पतिव्रताम् । अक्षयः स्वर्ग एवेह न च पापं तवास्ति वै ९६। कोटिद्वयसमास्तत्र नरके हंत पातकम् । मृष्टमेव न संदेहः किंतु पातकमेव च ९७। एकं शिवस्य दीपाज्यभक्षणेन समर्जितम् । न वापि नरके पातः श्वानजन्मशतं भवेत् ९८। अव्ययोवाच- अग्निप्रवेशशुद्धानां पुनश्च नरकः कथम् । अग्निप्रवेशात्सर्वेषां पापानां नाशनं भवेत् ९९। यम उवाच- शिवद्रव्यापहारस्य पातकं नैव नश्यति । इत्थमाहपुरा शंभुरन्येषां नाशनं भवेत् १००। अथ स श्वानतामाप्य शताब्दं स्यात्ततः परम् । दधीचमंदिरं प्राप्तो मृत्योरास्य गतो हि सः १०१। तस्य भित्तिसमीपे तु भस्मास्ते ह्यभिमंत्रितम् । भस्मनि श्वा पपाताथ ममार च गतो यमम् १०२। यमः संपूज्यावनतो भवान्पुण्यतमो मुनिः । मद्गेहे भवतः स्थानं न योग्यं गम्यतां बहिः १०३। अथ गत्वा बहिस्तस्थौ सारमेयो यमोदितः । संतापावस्थितं तं च नारदो दृष्टवानमुम् १०४। पप्रच्छ च किमर्थं त्वमिह तिष्ठसि दीप्तिमान् । शिवभस्मस्थितमृतं शैवं जाने महामते १०५। शैवानां पापिनां चापि साहसेन तनुत्यजाम् । यमलोको न चास्तीति शिवाज्ञा शिवनोदिता १०६। दधीच उवाच- इत्थमाभाष्य तं श्वानं कैलासमगमन्मुनिः । दंडवत्प्रणिपत्येशं व्यज्ञापयदथो हरम् १०७। देव कश्चिद्यमपुराद्बहिरास्ते स कुक्कुरः । भस्मन्येव मृतस्तद्वद्भवलोकं स चार्हति १०८। अथ मुख्यगणाविष्टो वीरभद्रः शिवेरितः । आनयामास तं श्वानं दिव्यरूपधरं तदा १०९। महेशपादप्रणतं देवायाथ व्यजिज्ञपत् । आह माहेश्वरो देवं गणमेनं कुरुष्व मे ११०। तथेति च शिवः प्राह गणः श्वानमुखोऽभवत् । दधीच उवाच-। अतुल्यं भस्ममाहात्म्यं मयोक्तं ते शुचिस्मिते १११। इतः परं हि किं भूयः श्रोतुमिच्छसि सुव्रते ११२। इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे विभूतिमाहात्म्ये षडुत्तरशततमोऽध्यायः १०६।

śucismitovāca- āyuṣyavarddhanaṃ bhasmāśanaṃ dṛṣṭaṃ mahāmune | paralokagatiṃ dātuṃ śaktametaṃ vadasva me 1| dadhīca uvāca- atra te kathayiṣyāmi itihāsaṃ purātanam | citraguptayamābhyāṃ ca yadvikhyātaṃ babhūva ha 2| mithilāyāṃ purā kaścicchunaḥ paryaṭate kṣudhā | purā janmaśatātpūrvaṃ brāhmaṇaḥ pāpaniścayaḥ 3| pūrvevayasi vedāḍhyaḥ śāstrāḍhyaśca subuddhimān | sa snātuṃ jāhnavīṃ gatvā snānaṃ kṛtvā pitṝnapi 4| devānṛṣīnsamabhyarcya yayau prāttalikāpuram | pratiśrayamatho cakre brāhmaṇasya niveśane 5| tatraikā kṣatriyasutā yauvanasthā hatapriyā | bhraṣṭarājyā ca ṣaṭkoṭi niṣkadravyeṇa saṃyutā 6| bhuktvātha śayitaṃ vipraṃ sarvāvayavasuṃdaram | rātrau caṃdrodaye śuddhe jyotsnāhasitadiṅmukhe 7| brāhmaṇābhyāśamāgatya tamudīkṣyedamabravīt | kutastvamāgato vipra kaṃ vā deśaṃ gamiṣyasi 8| brāhmaṇa uvāca- akālacaryā sarveṣāṃ śaṃkāmutpādayeddhruvam | vayaḥsthayormithovādo rahasye hāsyamaṃdire 9| kṣatriyovāca- kathāprasaṃge yātrāyāṃ tīrthe deśādi viplave | durbhikṣe grāmadahane rahovādo na dūṣitaḥ 10| pratiśrayastu madgehe bhavataiva purā kṛtaḥ | madgehavāsinī cāhaṃ na śaṃkā tviha kasyacit 11| brāhmaṇa uvāca- tūṣṇīṃbhāvo mayā kāryo gaccha tvaṃ śīghramagrataḥ | ityuktā brāhmaṇenāsau manasedamaciṃtayat 12| anena saṃgamo mahyaṃ yathābhūyāttathāvidhi | rodanaṃ tu kariṣyāmi tathā yāsyati sāṃtvitum 13| māṃ ca sāṃtvayituṃ prāpto māṃ samutthāpayiṣyati | ahamuttiṣṭhamānaiva dorlatākaṃṭhasaṃginī 14| kucayugmena tadgātraṃ sparśayaṃtī vimūrcchitā | gatabhānāṃ hi māṃ dṛṣṭvā niṣaṇṇaḥ svayameva saḥ 15| utsaṃge māmakaṃ dehaṃ nidhāsyati dvijāgraṇīḥ | acetaneva vasanamapāsya rudatīva ca 16| susnigdhaṃ romarahitaṃ pakvāśvatthadalākṛti | darśayiṣyāmi tatsthānaṃ kāmagehaṃ sugaṃdhi ca 17| mayaiva viluṭhaṃtyāṃge tasya vastramapāsyate | vilupyamānasaṃ tasya kariṣye svavaśaṃ dvijam 18| adṛṣṭau yādṛśaṃ cittaṃ dṛṣṭau naitādṛśaṃ bhavet | darśane yādṛśaṃ cittaṃ saṃlāpe naiva tādṛśam 19| saṃlāpe yādṛśaṃ cittaṃ hāsyoktau naiva tādṛśam | hāsyoktau yādṛśaṃ cittaṃ sparśane naiva tādṛśam 20| sparśane yādṛśaṃ cittaṃ yonidṛṣṭau na tādṛśam | taddṛṣṭau yādṛśaṃ cittaṃ yonisparśe na tādṛśam 21| bāhumūlakucadvaṃdva svayonisparśadarśanāt | kasya na skhalate ceto retaḥ skannaṃ ca no bhavet 22| dadhīca uvāca- iti saṃciṃtya manasā kṣatriyā gṛhamabhyagāt | svagṛhadvāramāsādya maṃdaṃ maṃdaṃ ruroda vai 23| ciraṃ kālaṃ ca ruditaṃ brāhmaṇaḥ karuṇānidhiḥ 24| strībālavṛddhātura rājayogināṃ viṣāgnitoyādri nipātanādinā | duḥkhasya caivoddharaṇaṃ praśasyate kūpasyadānena samaṃ vadaṃti 25| itthaṃ vicārya vipro'sau śucirbhūtaḥ prasannadhīḥ | tasyāḥ samīpamagamattāmuvāca tato dvijaḥ 26| alaṃ śokena mahatā ihāmutra virodhinā | śarīraśoṣaṇaṃ hyetaccittavidhvaṃsanaṃ tathā 27| tyaja śokamimaṃ bāle na cārthaḥ śocitena vai | śokasya kāraṇaṃ kiṃ vā yenetthaṃ rudyate tvayā 28| dadhīca uvāca- evamuktā dvijenātha na sā kiṃciduvāca ha | mūrcchitevāpatadbhūmau tamadṛṣṭveva vīkṣate 29| tāmathotthāpayāmāsa brāhmaṇaḥ paramārthavit | utthitotthāpitā tena nipapāta punaḥ punaḥ 30| patitāṃ patitāṃ vipro niṣadyotthāpya tāṃ punaḥ | aṃkamāropayāmāsa pramamārja vilocane 31| atha sā mūrcchitevāśu vasanaṃ parimucya tam | darśayaṃtī stanau guhyaṃ bāhumūle vilocane 32| ālaṃbya kaṃṭhe bāhubhyāṃ stanābhyāmaspṛśaddvijam | caṃdrātapaśca viśado maṃdamārutasaṃbhavaḥ 33| atha ciṃtāparo vipro naiva kāryamidaṃ mama | piturvā māturucitaṃ patyurvātha gurostathā 34| asaṃbuddhasya me sarvaṃ viparītaṃ vibhāti vai | atha kāmaḥ samāyāto rahasye sthitayostayoḥ 35| vivyādha niśitairbāṇairdvijaṃ kāmo durātmavān | smarabāṇāturo vipraściṃtayāmāsa kāmukaḥ 36| iyaṃ sucāru sarvāṃgī kāminīva pradṛśyate | nocedyonimukhe hyasyāḥ kathaṃ romāṃcasaṃbhavaḥ 37| tadetasyāḥ kucasparśātsarvaṃ vyaktaṃ bhaviṣyati | iti saṃciṃtya manasā kucau yoniṃ dvijo'spṛśat 38| sāpi mūrcchitarūpeva maṃdasmitamukhābhavat | āliliṃga dvijaṃ gāḍhamānanaṃ ca cucuṃba ha 39| tayoratha samāyogo varṣāṇāṃ śatamapyabhūt | gate varṣaśate paścādekasmindivase dvijaḥ 40| snātuṃ yayau nadīṃ prātaḥ sāpi vipraprasaṃgataḥ | snānaṃ tatra tathā cakre purāṇaṃ śrutavānatha 41| kaurmaṃ samastapāpānāṃ nāśanaṃ śivabhaktidam | idaṃ ca padyaṃ śuśrāva purāṇajñena bhāṣitam 42| brahmahā madyapaḥ stenastathaiva gurutalpagaḥ | kaurmaṃ purāṇaṃ śrutvaiva mucyate pātakāttataḥ 43| śrutvaitadvacanaṃ vipraḥ paurāṇikamabhāṣata | mayā kṛtānāṃ pāpānāṃ na ca saṃkhyāsti kācana 44| aśeṣapāpasaṃdohanāśanaṃ tadihocyatām | paurāṇika uvāca- ārādhaya svadeveśaṃ śaṃkaraṃ tridaśeśvaram 45| tasya saṃpūjanādvipra sarvaṃ pāpaṃ vinaśyati | pāpameva tamaḥ proktaṃ jñānadīpena naśyati 46| athavā pūjayā vipra samastāghavināśanam | jñānapūjāvihīnānāṃ narake patanaṃ dhruvam 47| dadhīca uvāca- atha dvijo hyabhigataḥ śivālayamanuttamam | droṇapuṣpasahasreṇa pūjayāmāsa śaṃkaram 48| gṛhaṃ jagāma ca tato bhojanaṃ kṛtavānatha | vihāya kṣatriyāṃ vipro jagāmeṣṭāṃ bhuvaṃ tataḥ 49| haviṣyamannamādāya bhuktyaśakteḥ śivālayam | gatvā dīpasthitājyena bhojanaṃ kṛtavānbahiḥ 50| atha mṛtyuvaśaṃ prāpto yamalokaṃ jagāma vai | yama uvāca- tvayā kṛtānāṃ pāpānāṃ keṣāṃcinnāśanaṃ purā 51| tvayaikadivase pūjā śaṃkarasya yataḥ kṛtā | tava pāpasahasraṃ ca praṇaṣṭaṃ bhavato dvija 52| sthitānāmapi pāpānāṃ phalaṃ narakapātanam | varṣakoṭidvayaṃ vipra śvānajanmaśataṃ punaḥ 53| śivadīpājyaharaṇātphalaṃ narakasevanam | narake ca sthitistasya śatavarṣaṃ subhīṣaṇam 54| kuṃbhīpāke ca kāṣṭhatvaṃ bhasma bhūtvā punaḥ punaḥ | varṣāṇāṃ daśakaṃ tvevaṃ kṛmibhuktiḥ paraṃ daśa 55| punaśca dīpavartitvaṃ varṣāṇāṃ ca tathā daśa | śleṣmāmedhyapurīṣeṣu mūtraretohradeṣu ca 56| unmajjya ca nimajjyātha śleṣmaviṇmalabhojanam | tato narakaśeṣeṇa śvānajanmaśataṃ param 57| yamavākyamiti śrutvā brāhmaṇo nipapāta ca | atha tasya priyā bhāryā paticiṃtāparābhavat 58| etasminnaṃtare tasyāḥ samīpaṃ nārado'bhyagāt | nāradasya papātāsau pādayoratiduḥkhitā 59| tāmutthāpya muniḥ śuddhāṃ gatāyuṣamabhāṣata | ayi mugdhe viśālākṣi bhartāraṃ gaṃtumarhasi 60| bhartā te hi viśālākṣi mṛto baṃdhuvivarjitaḥ | na roditavyaṃ te bhadre jvalanaṃ praviśasva bhoḥ 61| brāhmaṇyuvāca- aśakyaṃ yadi vā śakyaṃ mayā gaṃtuṃ mune vada | agnipraveśakālo vai vyatīto na bhavedyathā 62| nārada uvāca- yojanānāṃ śataṃ tvekamitaḥ sthānātpuraṃ hitat | śvo dāhaḥ kila viprasya bhavitā gaṃtumarhasi 63| avyayovāca- dūrasthitaṃ kāyanāthaṃ gaṃtumarhāmi he mune | tadvacastu samākarṇya nāradastāmabhāṣata 64| vipaṃcī nālasaṃsthā tvaṃ bhava gacchāmyahaṃ kṣaṇāt | ityudīrya tadā gatvā tvarāṃ cakre gataṃ ca tat 65| deśaṃ naṣṭadvijasthānaṃ tāmuvācāvyayāṃ muniḥ | rodanaṃ neha kartavyaṃ yadi tatrāgnimeṣyasi 66| pāpaṃ yadi kṛtaṃ bhadre parapūruṣasevanam | etadviśuddhaye putri prāyaścittaṃ samācara 67| tavopapātakavrāta nāśo vahnipraveśanāt | nānyatpaśyāmi nārīṇāṃ sarvapāpopaśāṃtaye 68| agnipraveśaṃ muktvaikaṃ prāyaścittaṃ jagattraye | dadhīca uvāca- atha nāradavākyena noditā sā vaco'bravīt 69| agnipraveśe nārīṇāṃ kiṃ kartavyaṃ mahāmune | nārada uvāca- snānaṃ maṃgalasaṃskāro bhūṣaṇāṃjanadhāraṇam 70| gaṃdhapuṣpaṃ tathā dhūpaṃ haridrākṣatadhāraṇam | maṃgalaṃ ca tathā sūtraṃ pādālaktakameva ca 71| śaktyā dānaṃ priyoktiśca prasannāsyatvameva ca | nānāmaṃgalavādyānāṃ śravaṇaṃ gītakasya ca 72| vyabhicārakṛte pāpe tatpāpasya praśāṃtaye | atītaṃ pātakaṃ spṛṣṭvā prāyaścittaṃ tadīritam 73| kuryādatha svakāṃ bhūṣāṃ viprāya pratipādayet | bhūṣābhāve svakīyena prāyaścittaṃ tu kārayet 74| nānyathā tasya pāpasya nāśanaṃ veti kutracit | avyayovāca- sarvametatkariṣyāmi haridrā me na vidyate 75| bhūṣaṇaṃ kimuta brahmansarvametatpradīyatām | nārada uvāca- na hyasti kiṃcitsaubhāgyadravyamanyattvapekṣayā 76| dadhīca uvāca- atha kṣaṇenābhyagamatkailāsaṃ śivamaṃdiram | girijāmatha dṛṣṭvāsau praṇipatyedamabravīt 77| haridrā dīyatāṃ mātarbhūṣaṇāni ca sūtrakam | pārvatyuvāca- vidhavāyai mayā kiṃcidbhūṣaṇaṃ dīyatāṃ katham 78| mayā datte hi tasminvai vaidhavyaṃ nopapadyate | nārada uvāca- mātarna vidhavā yāvaddhavāṃgaṃ vartate striyaḥ 79| ādāhātsūtakaṃ nāsti tiṣṭhetsaubhāgyamuttamam | pārvatyuvāca- na cānyadeho madbhūṣāṃ haridrāṃ dhartumarhati 80| bhūṣaṇādau mayā datte ciraṃjīvitamiṣyate | dīyate hi jayaṃtyaiva sarvametattvayoditam 81| jayaṃtīṃ sa jagāmātha tayā dattamathāharat | snapaṃtyā avyayāyāstu haridrāṃ dattavānmuniḥ 82| tataḥ sa sūkṣmavasanabhūṣaṇāni munirdadau | āha caināṃ tavāṃteṣṭiṃ kaḥ karoti niyuṃkṣva tam 83| avyayovāca- tvayaiva me samastānāṃ kriyāṇāṃ kāraṇaṃ mune | pitāsi sarvaṃ kurvadya namaste munisattama 84| dadhīca uvāca- atha taṃ brāhmaṇaṃ dagdhvā nāradastāmuvāca ha | avyaye gaccha dahanaṃ praviśa tvaṃ yadīcchasi 85| atha sā bhūṣitā sādhvī triḥpradakṣiṇapūrvakam | nāradaṃ tu namaskṛtya gaurāṃgīmarpayanmanaḥ 86| susūkṣmaṃ maṃgalaṃsūtraṃ haridrāmakṣatāṃstathā | kusumāni ca vāsāṃsi kastūrīcaṃdanaṃ tathā 87| sauvarṇakaṃkatikāṃ ca phalāni vividhāni ca | svadakṣiṇādivastrāṃtaṃ sparśayitvā pṛthakpṛthak 88| pārvatīprītikāmā sā puraṃdhrībhyo'khilaṃ dadau | jvālāmālābhirākāśaṃ dahaṃtamiva cānalam 89| triḥpradakṣiṇamāgatya sthitvāgneḥ purataḥ satī | idaṃ prāha tadā vākyaṃ prāṃjaliḥ prahasanmukhī 90| avyayovāca- iṃdrādayo diśāṃpālā mātarmedini bhāskara | dharmādayaḥ surāḥ sarve śṛṇudhvaṃ mama bhāṣitam 91| pāṇipīḍanamārabhya caitadaṃtamaharniśam | vāṅmanaḥkarmabhirbhartā sevito yadi bhaktitaḥ 92| vyabhicāro yathā na syādavasthātritaye mama | tena satyena me patyā sārddhaṃ yānaṃ prayacchata 93| ityuktvātha svahastāgrapuṣpakaṃ drutamākṣipat | praviṣṭā jvalanaṃ dīptamathāpaśyadvimānakam 94| sūryeṇa samamutkṛṣṭamapsarogītaśobhitam | āruroha vimānaṃ sā bhartrā sākaṃ divaṃ yayau 95| yamaḥ prāhātha saṃpūjya vanitāṃ tāṃ pativratām | akṣayaḥ svarga eveha na ca pāpaṃ tavāsti vai 96| koṭidvayasamāstatra narake haṃta pātakam | mṛṣṭameva na saṃdehaḥ kiṃtu pātakameva ca 97| ekaṃ śivasya dīpājyabhakṣaṇena samarjitam | na vāpi narake pātaḥ śvānajanmaśataṃ bhavet 98| avyayovāca- agnipraveśaśuddhānāṃ punaśca narakaḥ katham | agnipraveśātsarveṣāṃ pāpānāṃ nāśanaṃ bhavet 99| yama uvāca- śivadravyāpahārasya pātakaṃ naiva naśyati | itthamāhapurā śaṃbhuranyeṣāṃ nāśanaṃ bhavet 100| atha sa śvānatāmāpya śatābdaṃ syāttataḥ param | dadhīcamaṃdiraṃ prāpto mṛtyorāsya gato hi saḥ 101| tasya bhittisamīpe tu bhasmāste hyabhimaṃtritam | bhasmani śvā papātātha mamāra ca gato yamam 102| yamaḥ saṃpūjyāvanato bhavānpuṇyatamo muniḥ | madgehe bhavataḥ sthānaṃ na yogyaṃ gamyatāṃ bahiḥ 103| atha gatvā bahistasthau sārameyo yamoditaḥ | saṃtāpāvasthitaṃ taṃ ca nārado dṛṣṭavānamum 104| papraccha ca kimarthaṃ tvamiha tiṣṭhasi dīptimān | śivabhasmasthitamṛtaṃ śaivaṃ jāne mahāmate 105| śaivānāṃ pāpināṃ cāpi sāhasena tanutyajām | yamaloko na cāstīti śivājñā śivanoditā 106| dadhīca uvāca- itthamābhāṣya taṃ śvānaṃ kailāsamagamanmuniḥ | daṃḍavatpraṇipatyeśaṃ vyajñāpayadatho haram 107| deva kaścidyamapurādbahirāste sa kukkuraḥ | bhasmanyeva mṛtastadvadbhavalokaṃ sa cārhati 108| atha mukhyagaṇāviṣṭo vīrabhadraḥ śiveritaḥ | ānayāmāsa taṃ śvānaṃ divyarūpadharaṃ tadā 109| maheśapādapraṇataṃ devāyātha vyajijñapat | āha māheśvaro devaṃ gaṇamenaṃ kuruṣva me 110| tatheti ca śivaḥ prāha gaṇaḥ śvānamukho'bhavat | dadhīca uvāca-| atulyaṃ bhasmamāhātmyaṃ mayoktaṃ te śucismite 111| itaḥ paraṃ hi kiṃ bhūyaḥ śrotumicchasi suvrate 112| iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde vibhūtimāhātmye ṣaḍuttaraśatatamo'dhyāyaḥ 106|

English translation

Śucismitā said :

1. O great sage, the eating of the sacred ash is seen to prolong life. It is capable of giving a course of the other world.

Dadhīca said :

2-8. In this matter I shall tell you an old and well-known account of what happened between Yama and Citragupta . Formerly a dog wandered through hunger in Mithilā . In a hundredth previous existence he was a brāhmaṇa of sinful resolves. In his youth he was a very intelligent (man) who was endowed with the (knowledge) of Vedas and sacred texts. Having gone to Gaṅgā for bathing, he bathed (in Gaṅgā) and having worshipped his dead ancestors, gods and sages also, went to the city (called) Prāttalikā. He took shelter in a brāhmaṇa’s house. There was staying a daughter of a kṣatriya . She was young. Her lover was killed. She had lost her kingdom. She possessed wealth of six crores of niṣkas . At night, after moonlight, she came near the brāhmaṇa who was asleep and was handsome in all limbs, and seeing him said these words: “O brāhmaṇa, wherefrom have you come? To which country will you go?”

The brāhmaṇa said :

9. Stirring (out) at a wrong time would certainly create suspicion (in the minds) of all; so also the talk between us who are young in this private, mirthful chamber.

The kṣatriya woman said :

10-11. A talk in private (between a young man and a young woman) is not censurable when a tale is told, on a pilgrimage, at a sacred place, at the time of the devastation of the country etc., at the time of a famine, or when the village is on fire. You yourself first took shelter in my house. I am (just) staying in this house. (Therefore) nobody will have a suspicion in this matter.

The brāhmaṇa said :

12-17. I have to keep mum. Quickly go from my presence.

Thus addressed by the brāhmaṇa she thus thought to herself: ‘Somehow or other I should have union with him. I shall (now) weep so that he will come to console me. When he will come to console me, he will raise me up. Then I shall get up and have contact of his neck with my creeper-like arms (i.e. I shall throw my creeper-like arms round his neck); and as it were fainting, I shall touch his body with the pair of my breasts. Seeing me having lost consciousness, he, the best brāhmaṇa who would be seated, will put my body on his lap. I, as it were being unconscious, will throw off my garment, and as it were weeping (i.e. pretending to weep), shall show him that (private) part (of me) which is very lovely, which is free from hair, which has the shape of a ripe aśvattha -leaf, which is the very fragrant abode of Cupid.

18-22. Having, while rolling on his body, removed his garment, I shall make his mind perplexed and bring the brāhmaṇa under my control. His mind would not be (as perturbed) when (my private part) is not seen as it would be (perturbed) when it is seen. The mind is not so (much perturbed) in (i.e. due to) talk as it is by means of actual seeing (the private part). The mind is not (perturbed) like that in a mirthful talk as it is in (i.e. by means of) a dialogue. The mind is not so (much perturbed) by means of a touch as it is in (i.e. due to) a mirthful talk. (The mind is) not so (much perturbed) by touching the vulva as by seeing it. Whose mind does not become excited and whose semen does not trickle down on seeing a woman’s armpits, her pair of breasts and her vulva being touched (by herself)?’

Dadhīca said :

23-28. Thinking like this with (i.e. in) her mind, that kṣatriya woman went to her house; and having approached the door of her house, she wept gently. She wept for a long time. ‘Removing the grief of a woman, a child, an old man, a feeble person, a king, a meditating saint due to poison, fire, water or the fall of a stone etc. is recommended; they say it is like giving a well.’ Thinking like this that brāhmaṇa, the treasure of kindness, being pure and with his mind pleased, went near her, and then the brāhmaṇa said to her: “Enough of(i.e. desist from) this great grief going against (happiness in) this and the next world. This leads to the drying up of the body and harms the mind also. O you young woman, give up this grief. It is no use grieving. What is the cause of your wailing; what is it for which you are weeping?”

Dadhīca said :

29-35a. Thus addressed by that brāhmaṇa, she did not say anything. She fell on the ground as if she had fainted; and looked at him (and showed) as it were she did not see him. The brāhmaṇa, knowing the highest truth, made her get up. When he made her get up, she got up but again and again fell down. The brāhmaṇa sat down and again and again got her up who had repeatedly fallen down, put her on his lap, and wiped her eyes. Then as it were she had fainted, she removed her garment, and showed him her breasts, her private part, her arm-pits and eyes. Having hung to his neck with her arms, she touched the brāhmaṇa with her breasts. The moonlight was clear, and there were gentle breezes. Then the brāhmaṇa became engrossed in thinking: ‘This is not my work. It is proper for the father, the mother, the husband or the teacher. To me who am not enlightened, everything appears inauspicious.’

35b-40a. Then Cupid came there when the two were in private. Cupid, of a bad heart, struck the brāhmaṇa with sharp arrows. The brāhmaṇa, being afflicted due to the arrows of Cupid, became lustful, and thought: ‘This one, very beautiful in all limbs, appears to be lustful. Otherwise how can there be horripilation on her vulva? All that will be clear from the touch of her breasts.’ Thinking like this, the brāhmaṇa touched her breasts and vulva. She too, who feigned a swoon, had a smile on her face. She closely embraced the brāhmaṇa, and kissed his face. Then they were united even for a hundred years.

40b-42. When a hundred years had passed, the brāhmaṇa one day in the morning went to a river to bathe. She too went with the brāhmaṇa. He bathed there and listened to the Kaurma Purāṇa which destroys all sins and gives (i.e. produces) devotion to Śiva ; and heard this verse uttered by the one who knew the Purāṇa.

43-45a. “He who kills a brāhmaṇa, he who drinks liquor, a thief, he who violates his teacher’s wife, becomes free from the sin by just listening to the Kaurrna Purāṇa.” Hearing this statement, the brāhmaṇa said to that brāhmaṇa well-versed in the Purāṇas : “The sins committed by me have no number (i.e. cannot be counted). Tell me that which would destroy the heap of all (my) sins.”

The brāhmaṇa well-versed in the Purāṇas said :

45b-47. Propitiate Śaṅkara , the god of gods, the lord of gods. O brāhmaṇa, by means of his worship all your (sin) will perish. Sin is said to be darkness. It perishes by means of the lamp of knowledge, or O brāhmaṇa, all sins perish due to the worship of him. Those who are bereft of knowledge and worship certainly fall into a hell.

Dadhīca said :

48-51a. Then the brāhmaṇa went to an excellent temple of Śiva. (There) he worshipped Śaṅkara with a thousand droṇa flowers. Then he went home and took food. Leaving the kṣatriya woman the brāhmaṇa went to the desired region. Having procured food to be eaten on days of fast, and having eaten it according to his capacity, he went to the temple of Śiva. Going there, he ate his meal with the ghee in the lamp outside the temple. Then he was under the sway of death, and went to Yama’s world.

Yama said :

51b-57. Certain sins formerly committed by you have perished. O brāhmaṇa, since you offered worship to Śaṅkara on one day, a thousand of your sins have perished. Of the sins that have remained, the fruit is a fall into hell, (and staying there) for two crores of years, and having the existence of a dog a hundred times. Due to stealing the ghee from the lamp of Śiva a man has to resort to (i.e. to live in) hell for a hundred very awful years. He turns into wood in the Kumbhīpāka hell, and repeatedly becoming ash for ten years, he then becomes an insect for another ten (years). Then for ten years he becomes the wick of a lamp. Sinking in and coming up from phlegm, impure feces, and pools of urine and semen, he eats phlegm, feces and dirt. Then when the residence in hell is over, he gets a hundred existences as a dog.

58-62. Hearing these words of Yama, the brāhmaṇa fell down. Then his dear wife became full of anxiety. In the meanwhile, Nārada came near her. She who was extremely afflicted, fell at the feet of Nārada. Having raised her, Nārada said to the pure one about her dead (husband): “O innocent one of large eyes, please go to your husband. O you of large eyes, your husband, abandoned by his kinsmen, is dead. O auspicious one, you should not weep. Enter fire (i.e. funeral pyre of your husband).”

The brāhmaṇa woman said :

O sage, tell me whether I should or should not go, so that the time for entering the fire should not elapse.

Nārada said :

63. That city is at a distance of a hundred yojanas from here. The brāhmaṇa (i.e. the body of your husband) will be burnt tomorrow.

Avyayā said :

64-69a. O sage, I deserve to go to the lord of my body, who is away.

Hearing her words, Nārada said to her: “You sit upon the handle of my lute. I shall go (there) in a moment.” Saying so, he made haste and went there—to the country and abode of the dead brāhmaṇa. The sage said to that Avyayā: “If you will go to (i.e. desire to enter) fire there, then do not weep. O daughter, if you have committed a sin like enjoying another man (than your husband) then make an expiation to purify that. On entering into the fire your minor sins will perish. Leaving (i.e. except) entering the fire I do not see any other (expiation) for women for the appeasement of all sins.”

Dadhīca said :

69b-70a. Impelled by Nārada’s words, she said: “O great sage, what have women to do at the time of entering fire?”

Nārada said :

70b-75a. They have to bathe, sanctify themselves, have to put on ornaments and apply unguents, have to apply sandal (-paste), have to put on flowers, have to have incense, turmeric and sacred rice grains. They have to wear an auspicious thread and apply red lac to their feet. They should give gifts according to their capacity, they should speak agreeable words, and should have a pleasing face. They should listen to (the sound of) many auspicious musical instruments and songs. When a sin of (the nature of) infidelity is committed, then, with reference to that old sin (i.e. sin committed previously), that is said to be an expiation for the appeasement of that sin. Then she should put on the ornaments and offer them to a brāhmaṇa. In the absence of (such) ornaments, she should not make (the brāhmaṇa) perform the (rite of) expiation. In no other way, and nowhere, can that sin perish.

Avyayā said :

75b-76a. I shall do all this; (but) I do not have turmeric. What are the ornaments? O brāhmaṇa, give all that to me.

Nārada said :

76b. There is no such article of the auspicious state of wifehood as is required.

Dadhīca said :

77-78a. Then in a moment he (i.e. Nārada) went to Śiva’s abode, Kailāsa . Seeing Girijā (i.e. Pārvatī ) he saluted her and said to her: “O mother, give me turmeric, ornaments and an auspicious thread.”

Pārvatī said :

78b-79a. How should I give any ornament to a widow? If I give (her an ornament), widowhood is not possible.

Nārada said :

79b-80a. O mother, a woman is not a widow as long as her husband’s body remains (unburnt). Till the husband’s body is burnt, there is no impurity and the auspicious state of wifehood remains.

Pārvatī said :

80b-83. No other body (than mine) deserves to put on my ornaments and turmeric. When ornaments etc. are given by me, long life is prescribed. Whatever you have said would be given by (my maid) Jayantī .

Then he went to Jayantī and carried whatever was given by her. Then the sage gave turmeric to Avyayā who was being given a bath. Then the sage gave her fine garments and ornaments. He said to her: “Who will perform your funeral rites? Appoint him.”

Avyayā said :

84. O sage, you alone are the cause of (i.e. will perform) all rites in my case. You are my father. Perform every (rite); salutation to you, O best sage.

Dadhīca said ;

85-90. Then having burnt (i.e. consigned to fire the body of) the brāhmaṇa, Nārada said to her: “O Avyayā, go, and enter the fire if you so desire.” Then the chaste lady decorated (herself), and having saluted Nārada after going round him three times keeping him to her right, dedicated her mind to Gaurī (i.e. Pārvatī). Desiring to please Pārvatī, she separately (i.e. one by one) touched her very fine auspicious thread, turmeric, so also sacred grains and flowers, garments, musk, sandal, golden comb, various fruits, from presents to her garments—gave all (these) to elderly married women. The chaste woman went three times round the fire which was, as it were, burning the sky with rows of flames, by keeping it to her right, and stood in front of it. Then with the palms of her hands folded and with a smiling face she said these words:

Avyayā said :

91-98. O regents of the quarters like Indra , O mother Earth, O Sun, O all gods like Dharma (i.e. Yama), hear my words: “If, from (the day of) marriage till today I have, day and night, devoutly served my husband by words, thought, and by acts, and if in the three states (of youth, adulthood and old age) I have not transgressed (in my duties to him), then truly grant me going with my husband.”

Saying so, she quickly dropped the flower from the tip of her hand (and) entered the blazing fire. Then she saw an aeroplane, which was excellent like the Sun and graced with the music of celestial nymphs. She got into the aeroplane and went to heaven with her husband. Then Yama, having honoured that chaste wife, said to her: “You will have (i.e. live in) heaven eternally; (now) no sin of you remains. In hell your sin was washed off (by staying there) for two crore years. There is no doubt about it. But (still) there is a sin. One is committed by eating the ghee of the lamp (kept in honour) of Śiva. There may not be a fall into hell, but will be hundred existences as a dog.”

Avyayā said :

99. How can there be (a fall into) hell for those who are purified by entering fire? The destruction of all sins would take place by entering into fire.

Yama said :

100-106. Formerly Śambhu had said that the sin of him who steals (the articles) of Ś iva, never perishes. Other sins may perish. Then he obtains the existence of a dog, which would be (continuing) for a hundred years after that.

Reaching the abode of Dadhīca he has entered the mouth of death. Near his wall there was the sacred ash that was consecrated. The dog fell into the sacred ash, died, and went to Yama. Yama honoured him, bowed down to him (and said): “You are the most meritorious sage. There is no proper place for you in my house. (Please) go out.” Then that dog, impelled by Yama, went out and remained there. Nārada saw him who remained there with tormentation; and he asked him: “Why do you, the bright one, remain here? O you of high intelligence, I know you to be a devotee of Śiva, who died remaining in the ash of (i.e. sacred to) Śiva. There is no residence in Yama’s world for them who are devotees of Śiva (but) who being sinful, cast their bodies. This is Śiva’s order given by Śiva.”

Dadhīca said :

107-112. Speaking thus to the dog, the sage went to Kailāsa. Having saluted Śiva (by prostrating himself) like a staff, he respectfully said to him: “O god, a certain dog (having come) from Yama’s city remains outside. He is dead in the sacred ash. Therefore, he deserves (residence in) your heaven.” Then Vīrabhadra , the chief among the attendants, being impelled by Śiva, brought that dog having a divine form and having saluted the feet of Śiva. Then he respectfully said to the god. The attendant of Śiva (i.e. Vīrabhadra) said to the god: “Make him an attendant (i.e. one of the attendants) of me.” Śiva said: “All right.” The attendant became one with a dog’s face (i.e. the dog became one of the attendants).

Dadhīca said :

O you Śucismitā , the importance of the sacred ash is matchless. O you of a good vow, what more than this do you wish to hear?

Complete chapter-aligned witnesses. Sanskrit Wikisource page 44072, revision 333748 (2022-03-16T02:29:50Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365418.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.