Skip to main content

Uttara-khaṇḍa · Chapter 78

Chapter 78

Unit 490 of 693Uttara-khaṇḍa · Chapter 78Uttara-khaṇḍa · Chapter 781 source entries

Uttara-khaṇḍa · Chapter 78

Source

महादेव उवाच- अथातः संप्रवक्ष्यामि अपामार्जनमुत्तमम् । पुलस्त्येन यथोक्तं तु दालभ्याय महात्मने १। सर्वेषां रोगदोषाणां नाशनं मंगलप्रदम् । तत्तेऽहं तु प्रवक्ष्यामि शृणु त्वं नगनंदिनि २। श्रीदालभ्य उवाच- भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः । कुष्ठग्रहाभिभूताश्च सर्वकाले ह्युपद्रुताः ३। आभिचारिककृत्याद्या बहुरोगाश्च दारुणाः । न भवंति मुनिश्रेष्ठ तन्मे त्वं वक्तुमर्हसि ४। पुलस्त्य उवाच- व्रतोपवासनियमैर्विष्णुर्वै तोषितस्तु यैः । ते नरा नैव रोगार्त्ता जायंते मुनिसत्तम ५। यैर्न कृतं व्रतं पुण्यं न दानं न तपस्तदा । न तीर्थं देवपूजा च नान्नं दत्तं तु भूरिशः ६। ते वै लोकास्तदा ज्ञेया रोगदोषैः प्रपीडिताः । आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति ७। तत्तदाप्नोत्यसंदिग्धं विष्णोः सेवी विशेषतः । नाधिं प्राप्नोति न व्याधिं न विषग्रहबंधनम् ८। कृत्यास्पर्शभयं नापि तोषिते मधुसूदने । समस्तदोषनाशश्च सर्वदा च शुभा ग्रहाः ९। देवानामप्यधृष्योऽसौ तोषिते च जनार्दने । यः सर्वेषु च भूतेषु यथात्मनि तथापरे १०। उपवासादिना तेन तोषितो मधुसूदनः । तोषिते तत्र जायंते नराः पूर्णमनोरथाः ११। अरोगाः सुखिनो भोगभोक्तारो मुनिसत्तम । तेषां च शत्रवो नैव न च रोगाभिचारिकम् १२। ग्रहरोगादिकं चैव पापकार्यं न जायते । अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वै । रक्षंति सकलापद्भ्यो येन विष्णुरुपासितः १३। श्रीदालभ्य उवाच- अनाराधितगोविंदा ये नरा दुःखभागिनः । तेषां दुःखाभिभूतानां यत्कर्त्तव्यं दयालुभिः १४। पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनम् । समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः १५। श्रीपुलस्त्य उवाच-। तद्वक्ष्यामि मुनिश्रेष्ठ समाहितमनाः शृणु । रोगदोषाशुभहरं विज्वरादि विनाशनम् १६। शिखायां श्रीधरं न्यस्य शिखाधः श्रीकरं तथा । हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम् १७। ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाटे जलशायिनम् । विभुं वै भ्रूयुगे न्यस्य भ्रूमध्ये हरिमेव च १८। नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयम् । चक्षुषोः पुंडरीकाक्षं तदधो भूधरं न्यसेत् १९। कपोलयोः कल्किनाथं वामनं कर्णमूलयोः । शंखिनं शंखयोर्न्यस्य गोविंदं वदने तथा २०। मुकुंदं दंतपंक्तौ तु जिह्वायां वाक्पतिं तथा । रामं हनौ तु विन्यस्य कंठे वैकुंठमेव च २१। बलघ्नं बाहुमूलाधश्चांसयोः कंसघातिनम् । अजं भुजद्वये न्यस्य शार्ङ्गपाणिं करद्वये २२। संकर्षणं करांगुष्ठे गोपमंगुलिपंक्तिषु । वक्षस्यधोक्षजं न्यस्य श्रीवत्सं तस्य मध्यतः २३। स्तनयोस्त्वनिरुद्धं च दामोदरमथोदरे । पद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवम् २४। मेढ्रे धराधरं देवं गुदे चैव गदाग्रजम् । पीतांबरधरं कट्यामूरुयुग्मे मधोर्द्विषम् २५। मुरद्विषं पिंडकयोर्जानुयुग्मे जनार्दनम् । फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम् २६। पादांगुष्ठे श्रीपतिं च पादाधो धरणीधरम् । रोमकूपेषु सर्वेषु विष्वक्सेनं न्यसेद्बुधः २७। मत्स्यं मांसे तु विन्यस्य कूर्मं मेदसि विन्यसेत् । वाराहं तु वसामध्ये सर्वास्थिषु तथाच्युतम् २८। द्विजप्रियं तु मज्जायां शुक्रे श्वेतपतिं तथा । सर्वांगे यज्ञपुरुषं परमात्मानमात्मनि २९। एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् । यावन्न व्याहरेत्किंचित्तावद्विष्णुमयः स्थितः ३०। गृहीत्वा तु समूलाग्रान्कुशान्शुद्धान्समाहितः । मार्जयेत्सर्वगात्राणि कुशाग्रैरिह शांतिकृत् ३१। विष्णुभक्तो विशेषेण रोगग्रहविषार्दिते । विषार्त्तानां रोगिणां च कुर्याच्छांतिमिमां शुभाम् ३२। जायते तेन भो विप्र सर्वरोगप्रणाशनम् । ॐनमः श्रीपरमार्थाय पुरुषाय महात्मने ३३। अरूपबहुरूपाय व्यापिने परमात्मने । वाराहं नारसिंहं च वामनं च सुखप्रदम् ३४। ध्यात्वा कृत्वा नमो विष्णोर्नामान्यंगेषु विन्यसेत् । निष्कल्मषाय शुद्धाय व्याधिपापहराय वै ३५। गोविंदपद्मनाभाय वासुदेवाय भूभृते । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ३६। त्रिविक्रमाय रामाय वैकुंठाय नराय च । श्रीवाराहनृसिंहाय वामनाय महात्मने ३७। हयग्रीवाय शुभ्राय हृषीकेश हराशुभम् । परोपतापमहितं प्रमुक्तं चाभिचारिकम् ३८। गरस्पर्शमहारोगप्रयोगं जरयाजर । नमोऽस्तु वासुदेवाय नमः कृष्णाय खड्गिने ३९। नमः पुष्करनेत्राय केशवायादिचक्रिणे । नमः किंजल्कवर्णाग्र्य पीतनिर्मलवाससे ४०। महादेव वपुष्कंध धृतचक्राय चक्रिणे । दंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपतये नमः ४१। महायज्ञवराहाय श्रीवल्लभ नमोस्तु ते । तप्तहाटककेशांत ज्वलत्पावकलोचनः ४२। वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते । कश्यपायातिह्स्वाय ऋग्यजुः सामलक्षण ४३। तुभ्यं वामनरूपाय क्रमते गां नमोनमः । वाराहाशेषदुःखानि सर्वपापफलानि च ४४। मर्दमर्द महादंष्ट्र मर्दमर्द च तत्फलम् । नृसिंहकुलिशस्पर्श दंतप्रांत नखोज्वल ४५। भंजभंज निनादेन दुःखान्यस्यार्त्तिनाशन । ऋग्यजुःसामभिर्वाग्भिः कामरूपधरादिधृक् ४६। प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः । एकाहिकं द्व्याहिकं च तथा त्रिदिवसज्वरम् ४७। चातुर्थिकं तथात्युग्रं तथा वै सततज्वरम् । दोषोत्थं सन्निपातोत्थं तथैवागंतुकज्वरम् ४८। शमं नयतु गोविंदो भित्वा छित्वास्य वेदनाम् । नेत्रदुःखं शिरोदुःखं दुःखं तूदरसंभवम् ४९। अनुच्छ्वासं महाश्वासं परितापं सवेपथुम् । गुदघ्राणांघ्रिरोगांश्च कुष्ठरोगं तथाक्षयम् 6.78.५०। कामलादींस्तथारोगान्प्रमेहादींश्च दारुणान् । ये वातप्रभवा रोगा लूताविस्फोटकादयः ५१। ते सर्वे विलयं यांतु वासुदेवापमार्जिताः । विलयं यांति ते सर्वे विष्णोरुच्चारणेन वा ५२। क्षयं गच्छंतु चाशेषास्ते चक्राभिहता हरेः । अच्युतानंतगोविंद नामोच्चारणभेषजात् ५३। नश्यंति सकला रोगाः सत्यं सत्यं वदाम्यहम् । स्थावरं जंगमं यच्च कृत्रिमं चापि यद्विषम् ५४। दंतोद्भवं नखोद्भूतमाकाशप्रभवं च यत् । भूतादिप्रभवं यच्च विषमत्यंतदुःसहम् ५५। शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनः । ग्रहान्प्रेतग्रहांश्चैव तथान्याञ्छाकिनीग्रहान् ५६। मुखमंडलिकान्क्रूरान्रेवतीं वृद्धिरेवतीम् । वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ५७। बालस्य विष्णोश्चरितं हंतु बालग्रहानपि । वृद्धानां ये ग्रहाः केचिद्बालानां चापि ये ग्रहाः ५८। नृसिंहदर्शनादेव नश्यंते तत्क्षणादपि । दंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः ५९। तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यांति विशेषतः । श्रीनृसिंहमहासिंहज्वालामालोज्ज्वलानन ६०। ग्रहानशेषान्सर्वेश नुदस्वास्य विलोचन । ये रोगा ये महोत्पाता ये द्विषो ये महाग्रहाः ६१। यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः । शस्त्रक्षतेषु ये रोगा ज्वालगर्दभिकादयः ६२। विस्फोटकादयो ये च ग्रहा गात्रेषु संस्थिताः । त्रैलोक्यरक्षाकर्त्तस्त्वं दुष्टदानववारण ६३। सुदर्शनमहातेजश्छिंधि छिंधि महाज्वरम् । छिंधि वातं च लूतां च छिंधि घोरं महाविषम् ६४। उद्दंडामरशूलं च विषज्वालासगर्दभम् । ॐ हांहांहूंहूं प्रधारेण कुठारेण हनद्दिवषः ६५। ॐ नमो भगवते सुदर्शनाय दुःखदारणविग्रह । यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै ६६। तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः । किंचिद्रूपं समास्थाय वासुदेव नमोस्तु ते ६७। क्षिप्त्वा सुदर्शनं चक्रं ज्वालमालाविभीषणम् । सर्वदुष्टोपशमनं कुरु देव वराच्युत ६८। सुदर्शनमहाचक्र गोविंदस्य वरायुध । तीक्ष्णधार महावेग सूर्यकोटिसमद्युते ६९। सुदर्शनमहाज्वाल छिंधि छिंधि महारव । सर्वदुःखानि रक्षांसि पापानि च विभीषण ७०। दुरितं हन चारोग्यं कुरु त्वं भो सुदर्शन । प्राच्यां चैव प्रतीच्यां च दक्षिणोत्तरतस्तथा ७१। रक्षां करोतु विश्वात्मा नरसिंहः स्वगर्जितैः । भूम्यांतरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः । रक्षां करोतु भगवान्बहुरूपी जनार्दनः ७२। यथा विष्णुमयं सर्वं सदेवासुरमानुषम् । तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ७३। यथा योगेश्वरो विष्णुः सर्वदेवेषु गीयते । तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ७४। परमात्मा यथा विष्णुर्वेदांगेषु च गीयते । तेन सत्येन विश्वात्मा सुखदोऽस्त्वस्य केशवः ७५। शांतिरस्तु शिवं चास्तु प्रणाशं यातु चासुखम् । वासुदेवशरीरोत्थैः कुशैः संमार्जितं मया ७६। अपामार्जितगोविंद नमो नारायणस्तथा । तथापि सर्वदुःखानां प्रशमो वचनाद्धरेः ७७। शांताः समस्तदोषास्ते ग्रहाः सर्वे विषाणि च । भूतानि च प्रशाम्यंति संस्मृते मधुसूदने ७८। एते कुशा विष्णुशरीरसंभवा जनार्दनोऽहं स्वयमेव चाग्रतः । हतं मया दुःखमशेषमस्य वै स्वस्थो भवत्वेष वचो यथा हरेः ७९। शांतिरस्तु शिवं चास्तु प्रणश्यतु सुखं च यत् । यदस्य दुरितं किंचित्क्षिप्तं तल्लवणांभसि ८०। स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् । यद्यतोऽत्रागतं पापं तत्तु तत्र प्रगच्छतु ८१। एतद्रोगेषु पीडासु जंतूनां हितमिच्छुभिः । विष्णुभक्तैश्च कर्त्तव्यमपामार्जनकं परम् ८२। अनेन सर्वदुःखानि विलयं यांत्यशेषतः । सर्वपापविशुध्यर्थं विष्णोश्चैवापमार्जनम् ८३। आर्द्रं शुष्कं लघुस्थूलं ब्रह्महत्यादिकं तु यत् । तत्सर्वं नश्यते तूर्णं तमोवद्रविदर्शनात् ८४। नश्यंति रोगा दोषाश्च सिंहात्क्षुद्रमृगा यथा । ग्रहभूतपिशाचादि श्रवणादेव नश्यतु ८५। द्रव्यार्थं लोभपरमैर्न कर्त्तव्यं कदाचन । कृतेपामार्जने किंचिन्न ग्राह्यं हितकाम्यया ८६। निरपेक्षैः प्रकर्तव्यमादिमध्यांतबोधकैः । विष्णुभक्तैः सदा शांतैरन्यथा सिद्धिदं भवेत् ८७। अतुलेयं नृणां सिद्धिरियं रक्षा परा नृणाम् । भेषजं परमं ह्येतद्विष्णोर्यदपमार्जनम् ८८। उक्तं हि ब्रह्मणा पूर्वं पुलस्त्याय सुताय वै । एतत्पुलस्त्यमुनिदालभ्यायोतं स्वयम् ८९। सर्वभूतहितार्थाय दालभ्येन प्रकाशितम् । त्रैलोक्ये तदिदं विष्णोः समाप्तं चापमार्जनम् ९०। तवाग्रे कथितं देवि यतो भक्तासि मे सदा । श्रुत्वा तु सर्वं भक्त्या च रोगान्दोषान्व्यपोहति ९१। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे अपामार्जनस्तोत्रंनाम अष्टसप्ततितमोऽध्यायः ७८।

mahādeva uvāca- athātaḥ saṃpravakṣyāmi apāmārjanamuttamam | pulastyena yathoktaṃ tu dālabhyāya mahātmane 1| sarveṣāṃ rogadoṣāṇāṃ nāśanaṃ maṃgalapradam | tatte'haṃ tu pravakṣyāmi śṛṇu tvaṃ naganaṃdini 2| śrīdālabhya uvāca- bhagavanprāṇinaḥ sarve viṣarogādyupadravaiḥ | kuṣṭhagrahābhibhūtāśca sarvakāle hyupadrutāḥ 3| ābhicārikakṛtyādyā bahurogāśca dāruṇāḥ | na bhavaṃti muniśreṣṭha tanme tvaṃ vaktumarhasi 4| pulastya uvāca- vratopavāsaniyamairviṣṇurvai toṣitastu yaiḥ | te narā naiva rogārttā jāyaṃte munisattama 5| yairna kṛtaṃ vrataṃ puṇyaṃ na dānaṃ na tapastadā | na tīrthaṃ devapūjā ca nānnaṃ dattaṃ tu bhūriśaḥ 6| te vai lokāstadā jñeyā rogadoṣaiḥ prapīḍitāḥ | ārogyaṃ paramāmṛddhiṃ manasā yadyadicchati 7| tattadāpnotyasaṃdigdhaṃ viṣṇoḥ sevī viśeṣataḥ | nādhiṃ prāpnoti na vyādhiṃ na viṣagrahabaṃdhanam 8| kṛtyāsparśabhayaṃ nāpi toṣite madhusūdane | samastadoṣanāśaśca sarvadā ca śubhā grahāḥ 9| devānāmapyadhṛṣyo'sau toṣite ca janārdane | yaḥ sarveṣu ca bhūteṣu yathātmani tathāpare 10| upavāsādinā tena toṣito madhusūdanaḥ | toṣite tatra jāyaṃte narāḥ pūrṇamanorathāḥ 11| arogāḥ sukhino bhogabhoktāro munisattama | teṣāṃ ca śatravo naiva na ca rogābhicārikam 12| graharogādikaṃ caiva pāpakāryaṃ na jāyate | avyāhatāni kṛṣṇasya cakrādīnyāyudhāni vai | rakṣaṃti sakalāpadbhyo yena viṣṇurupāsitaḥ 13| śrīdālabhya uvāca- anārādhitagoviṃdā ye narā duḥkhabhāginaḥ | teṣāṃ duḥkhābhibhūtānāṃ yatkarttavyaṃ dayālubhiḥ 14| paśyadbhiḥ sarvabhūtasthaṃ vāsudevaṃ sanātanam | samadṛṣṭibhirapyatra tanme brūhi viśeṣataḥ 15| śrīpulastya uvāca-| tadvakṣyāmi muniśreṣṭha samāhitamanāḥ śṛṇu | rogadoṣāśubhaharaṃ vijvarādi vināśanam 16| śikhāyāṃ śrīdharaṃ nyasya śikhādhaḥ śrīkaraṃ tathā | hṛṣīkeśaṃ tu keśeṣu mūrdhni nārāyaṇaṃ param 17| ūrdhvaśrotre nyasedviṣṇuṃ lalāṭe jalaśāyinam | vibhuṃ vai bhrūyuge nyasya bhrūmadhye harimeva ca 18| narasiṃhaṃ nāsikāgre karṇayorarṇaveśayam | cakṣuṣoḥ puṃḍarīkākṣaṃ tadadho bhūdharaṃ nyaset 19| kapolayoḥ kalkināthaṃ vāmanaṃ karṇamūlayoḥ | śaṃkhinaṃ śaṃkhayornyasya goviṃdaṃ vadane tathā 20| mukuṃdaṃ daṃtapaṃktau tu jihvāyāṃ vākpatiṃ tathā | rāmaṃ hanau tu vinyasya kaṃṭhe vaikuṃṭhameva ca 21| balaghnaṃ bāhumūlādhaścāṃsayoḥ kaṃsaghātinam | ajaṃ bhujadvaye nyasya śārṅgapāṇiṃ karadvaye 22| saṃkarṣaṇaṃ karāṃguṣṭhe gopamaṃgulipaṃktiṣu | vakṣasyadhokṣajaṃ nyasya śrīvatsaṃ tasya madhyataḥ 23| stanayostvaniruddhaṃ ca dāmodaramathodare | padmanābhaṃ tathā nābhau nābhyadhaścāpi keśavam 24| meḍhre dharādharaṃ devaṃ gude caiva gadāgrajam | pītāṃbaradharaṃ kaṭyāmūruyugme madhordviṣam 25| muradviṣaṃ piṃḍakayorjānuyugme janārdanam | phaṇīśaṃ gulphayornyasya kramayośca trivikramam 26| pādāṃguṣṭhe śrīpatiṃ ca pādādho dharaṇīdharam | romakūpeṣu sarveṣu viṣvaksenaṃ nyasedbudhaḥ 27| matsyaṃ māṃse tu vinyasya kūrmaṃ medasi vinyaset | vārāhaṃ tu vasāmadhye sarvāsthiṣu tathācyutam 28| dvijapriyaṃ tu majjāyāṃ śukre śvetapatiṃ tathā | sarvāṃge yajñapuruṣaṃ paramātmānamātmani 29| evaṃ nyāsavidhiṃ kṛtvā sākṣānnārāyaṇo bhavet | yāvanna vyāharetkiṃcittāvadviṣṇumayaḥ sthitaḥ 30| gṛhītvā tu samūlāgrānkuśānśuddhānsamāhitaḥ | mārjayetsarvagātrāṇi kuśāgrairiha śāṃtikṛt 31| viṣṇubhakto viśeṣeṇa rogagrahaviṣārdite | viṣārttānāṃ rogiṇāṃ ca kuryācchāṃtimimāṃ śubhām 32| jāyate tena bho vipra sarvarogapraṇāśanam | oṃnamaḥ śrīparamārthāya puruṣāya mahātmane 33| arūpabahurūpāya vyāpine paramātmane | vārāhaṃ nārasiṃhaṃ ca vāmanaṃ ca sukhapradam 34| dhyātvā kṛtvā namo viṣṇornāmānyaṃgeṣu vinyaset | niṣkalmaṣāya śuddhāya vyādhipāpaharāya vai 35| goviṃdapadmanābhāya vāsudevāya bhūbhṛte | namaskṛtvā pravakṣyāmi yattatsidhyatu me vacaḥ 36| trivikramāya rāmāya vaikuṃṭhāya narāya ca | śrīvārāhanṛsiṃhāya vāmanāya mahātmane 37| hayagrīvāya śubhrāya hṛṣīkeśa harāśubham | paropatāpamahitaṃ pramuktaṃ cābhicārikam 38| garasparśamahārogaprayogaṃ jarayājara | namo'stu vāsudevāya namaḥ kṛṣṇāya khaḍgine 39| namaḥ puṣkaranetrāya keśavāyādicakriṇe | namaḥ kiṃjalkavarṇāgrya pītanirmalavāsase 40| mahādeva vapuṣkaṃdha dhṛtacakrāya cakriṇe | daṃṣṭroddhṛtakṣititalatrimūrtipataye namaḥ 41| mahāyajñavarāhāya śrīvallabha namostu te | taptahāṭakakeśāṃta jvalatpāvakalocanaḥ 42| vajrādhikanakhasparśa divyasiṃha namo'stu te | kaśyapāyātihsvāya ṛgyajuḥ sāmalakṣaṇa 43| tubhyaṃ vāmanarūpāya kramate gāṃ namonamaḥ | vārāhāśeṣaduḥkhāni sarvapāpaphalāni ca 44| mardamarda mahādaṃṣṭra mardamarda ca tatphalam | nṛsiṃhakuliśasparśa daṃtaprāṃta nakhojvala 45| bhaṃjabhaṃja ninādena duḥkhānyasyārttināśana | ṛgyajuḥsāmabhirvāgbhiḥ kāmarūpadharādidhṛk 46| praśamaṃ sarvaduḥkhāni nayatvasya janārdanaḥ | ekāhikaṃ dvyāhikaṃ ca tathā tridivasajvaram 47| cāturthikaṃ tathātyugraṃ tathā vai satatajvaram | doṣotthaṃ sannipātotthaṃ tathaivāgaṃtukajvaram 48| śamaṃ nayatu goviṃdo bhitvā chitvāsya vedanām | netraduḥkhaṃ śiroduḥkhaṃ duḥkhaṃ tūdarasaṃbhavam 49| anucchvāsaṃ mahāśvāsaṃ paritāpaṃ savepathum | gudaghrāṇāṃghrirogāṃśca kuṣṭharogaṃ tathākṣayam 6.78.50| kāmalādīṃstathārogānpramehādīṃśca dāruṇān | ye vātaprabhavā rogā lūtāvisphoṭakādayaḥ 51| te sarve vilayaṃ yāṃtu vāsudevāpamārjitāḥ | vilayaṃ yāṃti te sarve viṣṇoruccāraṇena vā 52| kṣayaṃ gacchaṃtu cāśeṣāste cakrābhihatā hareḥ | acyutānaṃtagoviṃda nāmoccāraṇabheṣajāt 53| naśyaṃti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham | sthāvaraṃ jaṃgamaṃ yacca kṛtrimaṃ cāpi yadviṣam 54| daṃtodbhavaṃ nakhodbhūtamākāśaprabhavaṃ ca yat | bhūtādiprabhavaṃ yacca viṣamatyaṃtaduḥsaham 55| śamaṃ nayatu tatsarvaṃ kīrtito'sya janārdanaḥ | grahānpretagrahāṃścaiva tathānyāñchākinīgrahān 56| mukhamaṃḍalikānkrūrānrevatīṃ vṛddhirevatīm | vṛddhikākhyāngrahāṃścogrāṃstathā mātṛgrahānapi 57| bālasya viṣṇoścaritaṃ haṃtu bālagrahānapi | vṛddhānāṃ ye grahāḥ kecidbālānāṃ cāpi ye grahāḥ 58| nṛsiṃhadarśanādeva naśyaṃte tatkṣaṇādapi | daṃṣṭrākarālavadano nṛsiṃho daityabhīṣaṇaḥ 59| taṃ dṛṣṭvā te grahāḥ sarve dūraṃ yāṃti viśeṣataḥ | śrīnṛsiṃhamahāsiṃhajvālāmālojjvalānana 60| grahānaśeṣānsarveśa nudasvāsya vilocana | ye rogā ye mahotpātā ye dviṣo ye mahāgrahāḥ 61| yāni ca krūrabhūtāni grahapīḍāśca dāruṇāḥ | śastrakṣateṣu ye rogā jvālagardabhikādayaḥ 62| visphoṭakādayo ye ca grahā gātreṣu saṃsthitāḥ | trailokyarakṣākarttastvaṃ duṣṭadānavavāraṇa 63| sudarśanamahātejaśchiṃdhi chiṃdhi mahājvaram | chiṃdhi vātaṃ ca lūtāṃ ca chiṃdhi ghoraṃ mahāviṣam 64| uddaṃḍāmaraśūlaṃ ca viṣajvālāsagardabham | oṃ hāṃhāṃhūṃhūṃ pradhāreṇa kuṭhāreṇa hanaddivaṣaḥ 65| oṃ namo bhagavate sudarśanāya duḥkhadāraṇavigraha | yāni cānyāni duṣṭāni prāṇipīḍākarāṇi vai 66| tāni sarvāṇi sarvātmā paramātmā janārdanaḥ | kiṃcidrūpaṃ samāsthāya vāsudeva namostu te 67| kṣiptvā sudarśanaṃ cakraṃ jvālamālāvibhīṣaṇam | sarvaduṣṭopaśamanaṃ kuru deva varācyuta 68| sudarśanamahācakra goviṃdasya varāyudha | tīkṣṇadhāra mahāvega sūryakoṭisamadyute 69| sudarśanamahājvāla chiṃdhi chiṃdhi mahārava | sarvaduḥkhāni rakṣāṃsi pāpāni ca vibhīṣaṇa 70| duritaṃ hana cārogyaṃ kuru tvaṃ bho sudarśana | prācyāṃ caiva pratīcyāṃ ca dakṣiṇottaratastathā 71| rakṣāṃ karotu viśvātmā narasiṃhaḥ svagarjitaiḥ | bhūmyāṃtarikṣe ca tathā pṛṣṭhataḥ pārśvato'grataḥ | rakṣāṃ karotu bhagavānbahurūpī janārdanaḥ 72| yathā viṣṇumayaṃ sarvaṃ sadevāsuramānuṣam | tena satyena sakalaṃ duḥkhamasya praṇaśyatu 73| yathā yogeśvaro viṣṇuḥ sarvadeveṣu gīyate | tena satyena sakalaṃ duḥkhamasya praṇaśyatu 74| paramātmā yathā viṣṇurvedāṃgeṣu ca gīyate | tena satyena viśvātmā sukhado'stvasya keśavaḥ 75| śāṃtirastu śivaṃ cāstu praṇāśaṃ yātu cāsukham | vāsudevaśarīrotthaiḥ kuśaiḥ saṃmārjitaṃ mayā 76| apāmārjitagoviṃda namo nārāyaṇastathā | tathāpi sarvaduḥkhānāṃ praśamo vacanāddhareḥ 77| śāṃtāḥ samastadoṣāste grahāḥ sarve viṣāṇi ca | bhūtāni ca praśāmyaṃti saṃsmṛte madhusūdane 78| ete kuśā viṣṇuśarīrasaṃbhavā janārdano'haṃ svayameva cāgrataḥ | hataṃ mayā duḥkhamaśeṣamasya vai svastho bhavatveṣa vaco yathā hareḥ 79| śāṃtirastu śivaṃ cāstu praṇaśyatu sukhaṃ ca yat | yadasya duritaṃ kiṃcitkṣiptaṃ tallavaṇāṃbhasi 80| svāsthyamasya sadaivāstu hṛṣīkeśasya kīrtanāt | yadyato'trāgataṃ pāpaṃ tattu tatra pragacchatu 81| etadrogeṣu pīḍāsu jaṃtūnāṃ hitamicchubhiḥ | viṣṇubhaktaiśca karttavyamapāmārjanakaṃ param 82| anena sarvaduḥkhāni vilayaṃ yāṃtyaśeṣataḥ | sarvapāpaviśudhyarthaṃ viṣṇoścaivāpamārjanam 83| ārdraṃ śuṣkaṃ laghusthūlaṃ brahmahatyādikaṃ tu yat | tatsarvaṃ naśyate tūrṇaṃ tamovadravidarśanāt 84| naśyaṃti rogā doṣāśca siṃhātkṣudramṛgā yathā | grahabhūtapiśācādi śravaṇādeva naśyatu 85| dravyārthaṃ lobhaparamairna karttavyaṃ kadācana | kṛtepāmārjane kiṃcinna grāhyaṃ hitakāmyayā 86| nirapekṣaiḥ prakartavyamādimadhyāṃtabodhakaiḥ | viṣṇubhaktaiḥ sadā śāṃtairanyathā siddhidaṃ bhavet 87| atuleyaṃ nṛṇāṃ siddhiriyaṃ rakṣā parā nṛṇām | bheṣajaṃ paramaṃ hyetadviṣṇoryadapamārjanam 88| uktaṃ hi brahmaṇā pūrvaṃ pulastyāya sutāya vai | etatpulastyamunidālabhyāyotaṃ svayam 89| sarvabhūtahitārthāya dālabhyena prakāśitam | trailokye tadidaṃ viṣṇoḥ samāptaṃ cāpamārjanam 90| tavāgre kathitaṃ devi yato bhaktāsi me sadā | śrutvā tu sarvaṃ bhaktyā ca rogāndoṣānvyapohati 91| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde apāmārjanastotraṃnāma aṣṭasaptatitamo'dhyāyaḥ 78|

English translation

Mahādeva said :

1-2. I shall hereafter tell you about the excellent vow of the sprinkling with water, as told by Pulastya to the magnanimous Dālabhya. It destroys all faults caused by diseases. It gives auspiciousness. I shall tell it to you. Listen, O daughter of the ( Himālaya ) Mountain.

Śrī Dālabhya said :

3-4. O revered one, please tell me that by which all beings can avoid suffering from the troubles caused by poison, diseases etc; they are overcome with leprosy and (evil) Planets, and are always troubled. There are many severe diseases brought about by magic or by female deities [1] having destructive powers.

Pulastya said :

5-13. O best sage, those men who have pleased Viṣṇu with vows, fasts and restraints, will not be afflicted by diseases. Those men who have not observed an auspicious vow, have not given gifts, have not practised penance, have not visited a sacred place, have not worshipped a deity, have not given food in large-quantities, are known to be afflicted by diseases and (similar) faults. He who attends upon Viṣṇu, especially obtains undoubtedly whatever he mentally desires like good health or great wealth. He does not suffer from physical or mental disease and is not afflicted by poison or a Planet. He does not have the fear of the contact of the deities having destructive powers. All his sins perish; and the Planets are always auspicious (i.e. favourable) to him. He who has pleased Viṣṇu and looks upon all beings as himself, is invincible even to gods. He has pleased Viṣṇu with a fast etc. When he (i.e. Viṣṇu) is pleased, desires of men are fully satisfied. O best sage, they are free from diseases, are happy. They enjoy pleasures. They have no enemies. Nor do they suffer from diseases and effects of magical forces. No evil act like (the evil influence of) a Planet or a disease takes place in their case. The weapons of Kṛṣṇa , like the disc etc. which are unobstructed, protect him who has waited upon Viṣṇu from all calamities.

Śrī Dālabhya said :

14-15. Tell me especially what the kind persons who see the ancient Vāsudeva in all beings, who look equally upon all, should do for the miserable persons who have not propitiated Govinda and are overcome with grief.

Śrī Pulastya said :

16-29. O best sage, I shall tell it. Listen with an attentive mind. It removes the evils like diseases and blemishes and destroys fever etc. Having assigned (i.e. supposing that) Śrīdhara (is) in the tuft of hair on the crest of the head, and Śrīkara below it, Hṛṣīkeśa in the hair, and the highest Nārāyaṇa on the head, one should assign Viṣṇu above the ears and him who lies in the water on (i.e. to) the forehead. Having assigned the lord to the two eyebrows, and Hari between them, (having assigned) Narasiṃha to the tip of the nose, and Arṇaveśaya (i.e. he who lies in the ocean) to the ears, and the lotus-eyed one to the eyes, he should assign Bhūdhara below them. He should assign Kalkinātha to the cheeks and Vāmana to the roots of the ears. Having assigned the conch-holder to the bones on the forehead, and Govinda to the mouth, and Mukunda to the row of teeth, Vākpati to the tongue, Rāma to the chin and Vaikuṇṭha to the neck, Balaghna to the root of the arms, the destroyer of Kaṃsa to the shoulders, Aja to the two arms, and Śārṅgapāṇi to the two hands, Saṅkarṣaṇa to the thumb of the hand, Gopa to the rows of fingers, Adhokṣaja to the chest, Śrīvatsa in its middle, (he should assign) Aniruddha to the breasts, and Dāmodara to the belly, Padmanābha to the navel, and Keśava below it. (He should assign) god Dharādhara to the penis, and Gadāgraja to the anus, the wearer of yellow garments to the waist and (should assign) Madhu ’s enemy to the pair of thighs, the enemy of Mura to the calves of the legs, Janārdana to the pair of knees, Phaṇīśa to the ankles, and (he should assign) Trivikrama to the two feet. The wise man should assign Śrīpati to the toe, Dharaṇīdhara below it, and Viśvaksena to all the pores of the hair. Having assigned Matsya to the flesh, he should assign Kūrma to the marrow, Varāha in the fat and (should assign) Acyuta to all his bones. (He should assign) Dvijapriya (i.e. dear to the brāhmaṇas , or to whom brāhmaṇas are dear) to the marrow of the bones and flesh, Śvetapati to the semen, the sacrificial Puruṣa to the entire body and the highest soul to his soul.

30-43. Having thus made the rite of assignment, he would actually be Viṣṇu. As long as he would not talk anything, he would remain merged in Viṣṇu. He, being calm and creator of tranquillity here, should take pure darbhas with their roots and tips, and should sprinkle all his limbs with the tips of the darbhas. A devotee of Viṣṇu especially brings about this auspicious tranquillity to a person afflicted by a disease, a Planet or poison. O brāhmaṇa , due to that all diseases are destroyed. (He should pray:) “Om, salutation to Śrī Paramārtha (i.e. the highest truth), to the magnanimous Puruṣa. (Salutation to the) formless one, and to him of many forms, to the pervader, to the Supreme Soul, to Varāha, to Narasiṃha, to Vāmana who gives happiness.” Having meditated and saluted Viṣṇu, he should assign Viṣṇu’s names to the parts of his body. “Having saluted the spotless one, the pure one, the one who removes bodily diseases and sins, Govinda, Padmanābha, Vāsudeva, Bhūbhṛt (i.e. the supporter of the earth), I shall utter words. Let them be successful. (Salutation to) Trivikrama, Rāma, Vaikuṇṭha, Nara , Śrī Varāha, Nṛsiṃha , (and) to the magnanimous Vāmana; to Hayagrīva , to Śubhra ; O Hṛṣīkeśa, remove the inauspicious, that which torments others, that which is not beneficial, that magic which is discharged (at me). O ageless one, destroy the employment of the poisonous touch of a great disease. Salutation to Vāsudeva. Salutation to Kṛṣṇa, the holder of the sword. Salutation to Puṣkaranetra, Keśava, Ādicakrin, to you having a yellow spotless garment, O Kiñjalkavarṇāgrya. Salutation to you who has held Mahādeva on his body, so also a disc, and to cakrin . Salutation to the Trimūrtipati who held the earth on his fang. O Śrīvallabha (i.e. dear to Lakṣmī , or to whom Lakṣmī is dear), salutation to you, to the great sacrifice and (great) Varāha, O you whose ends of hair are like heated gold, and whose eyes are like burning fire. Salutation to you, O divine lion, the touch of whose nails is more (sharp) than that of the thunderbolt. O you having the characteristics of Ṛg, Yajus and Sāman , salutation to Kaśyapa , to Atihrasva.

44-65. Salutation to you, of the form of Vāmana, and going over the earth. O Varāha, destroy all miseries, the fruits of sins. O you of large fangs, destroy that fruit (of sins) O you, Nṛsiṃha, having a thunderbolt-like touch and bright tips of the teeth and nails. With your sound remove his miseries, O you destroyer of affliction, and taking up any desired form through the utterances of the Ṛg ( Veda ), Yajus (Veda) and Sāma (Veda). May Janārdana pacify all his sorrows. May Govinda, having broken and cut off his agony (remove) his fever lasting for a day, two days, three days, so lasting for four days, very severe, constant fever, so also fever arising from the vitiated state of the three humours of the body, and accidental fever. (May he remove) the pain in the eyes, headache and stomachache. (May he remove) lack of breath, severe asthma, all round heat (i.e. fever), shivering, diseases of anus, nose, feet, so also leprosy and consumption. (May be remove) diseases like jaundice, so also severe urinary diseases, so also those diseases due to (the humour of) wind (in the body), cuts, boils etc. May they, wiped off by Vāsudeva, perish. (Even) by uttering the name of Viṣṇu, (may) all of them perish. May all of them, struck with Viṣṇu’s disc, perish. By means of the medicine of the utterance of the names, viz. Acyuta, Ananta , Govinda, all the diseases vanish. I am telling the truth, (and) the truth (only). May Viṣṇu, when (his names are) uttered, destroy the poison which is immobile, mobile, artificial, so also that which is due to teeth, nails or from the sky (i.e. air), which is due to beings, and which is extremely unbearable. (May he destroy) the imps, the deadly demons, so also demonesses [2] attending upon Durgā , severe (disease of) white round spots [3] on the face, (divine mothers like) Revatī and Vṛddhirevatī, the imps called Vṛddhika and Mātṛ also. May the account of Viṣṇṇ in his childhood remove (the influence of) young imps. All the seizures (by imps etc.) of the old and of children perish that moment only when Viṣṇu is seen. Viṣṇu has his mouth fierce due to the fangs, and is fearful to the demons. Seeing him those imps especially go away. O Śrī Nṛsiṃha, O great lion, O you having a row of flames, O you of a bright face, O you bright one, destroy all the imps (etc. affecting) him. (Remove also) those diseases, great portents, enemies, great imps, and those cruel beings, severe afflictions due to Planets, the diseases in the wounds caused by weapons like diseases of the skin, so also the boils etc. and the imps etc. settled on the limbs, O you, who are the protector of the three worlds, and who ward off wicked demons. O Sudarśana of great lustre, cut off (i.e. destroy) the severe fever. Remove the (effect of) wind, cuts, and severe, great poison. (Remove) the very severe, undoing pain, and the flame of poison with the skin disease Om, Hāṃ, Hāṃ, Hūṃ, Hūṃ; kill the enemies with your very sharp axe.

66-84. Salutation to the revered Sudarśana, you having the body destroying miseries. (May) Viṣṇu, the Supreme Soul (remove) all those other wicked (forces) which give pain to beings; salutation to you, O Vāsudeva (who has) taken up some form. O god, O excellent Acyuta, having thrown the Sudarśana disc, fearful due to rows of flames, destroy all the wicked. O you Sudarśana, great disc, O you excellent weapon of Viṣṇu, O you of a sharp edge, O you of a great speed, O you having the brilliance of a crore suns, O you Sudarśana, having great flames, and of a great sound, cut off all calamities, demons, and sins, O you fearful one. O Sudarśana, destroy sins, make (us men of) good health; in the east, in the west, south and north, may Narasiṃha, the universal soul, protect (us) with his roars. On the earth, in the atmosphere, behind (us), by (our) sides, in front of us, may Viṣṇu, of many forms, protect (us). Since it is a fact that everything consisting of gods, demons and human beings is full of (i.e. pervaded by) him, may the entire misery of this one perish. Since it is a fact that Viṣṇu, the lord of abstract meditation is sung (i.e. praised) among gods, may the entire misery of this one perish. Since it is a fact that the highest soul Viṣṇu is sung (i.e. praised) in the Vedāṅgas , may Viṣṇu, the universal soul give him happiness. May there be peace. May there be auspiciousness; may unhappiness perish, (since) I have sprinkled with darbhas springing from the body of Vāsudeva. O Govind, O you who have cleaned (everything by sending) away (the evil forces), salutation (to you). You are Viṣṇu like that. Yet all miseries perish due to utterance of Hari’s (names). When Viṣṇu is remembered, all blemishes, imps (or Planets) and all poisons and ghosts are destroyed. These darbhas have sprung from Viṣṇu’s body. I am Viṣṇu myself remaining in front. I have destroyed all his misery. He should be comfortable, since such are Viṣṇu’s words. May there be peace, auspiciousness and happiness. Whatever [4] is his misery is thrown into the salty ocean. Let it perish. May he always have comfort due to the recital of (the names of) Viṣṇu. Let the sin go wherefrom it has come.” A devotee of Viṣṇu, desiring the good of beings, should do this great sprinkling of(i.e. sacred to) Viṣṇu at the time of diseases. Due to this all miseries completely vanish. For the purification of (i.e. from) all sins, the sprinkling of Viṣṇu is effective. Whatever (blemish), wet, dry, small or big, like the murder of a brāhmaṇa etc. (there is) all that quickly perishes like darkness at the appearance of the sun.

85-91. As small animals perish from the lion (’s attack), so diseases and blemishes flee away. May imps, fiends, goblins etc. perish on merely hearing the name of Viṣṇu. Those who are very greedy for money should never do it. Having done the sprinkling a man, desiring his good, should not accept (any money etc.). Those who are desireless, and who know the beginning, the middle and the end, and who are always calm, should do it. Otherwise it would not give success.

This sprinkling (in honour) of Viṣṇu is a matchless success of men, a great protection of men; it is a great weapon. It was formerly told by Brahmā to his son Pulastya. Pulastya himself told it to Dālabhya. It is publicised by Dālabhya for the good of all beings in the three worlds. The (narration of) Viṣṇu’s sprinkling is over. O goddess, I have told it to you, since you are always devoted to me. A person listening to this devoutly destroys all blemishes and diseases.

[1]: [1] : Kṛtyā—A female deity to whom sacrifices are offered for destructive and magical purposes.

[2]: [2] : Sākinī—A kind of female being attendant on Durgā, and supposed to be a demon or fairy.

[3]: [3] : Maṇḍalaka—White leprosy with round spots.

[4]: [4] : Praṇaśyatu sukham etc. seems quite incongruous.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 44649, revision 336474 (2022-04-22T22:46:57Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365655.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.