Pātāla-khaṇḍa · Chapter 109
Sourceशंभुरुवाच- अत्र ते कीर्तयिष्यामि कथां पापप्रणाशिनीम् । श्रुत्वा यां प्राप धर्मात्मा शिवभक्तिमनुत्तमाम् १। इक्ष्वाकुर्नाम विप्रेंद्रो महाविद्यो महामतिः । बहुशास्त्रप्रवीणश्च नीतिशास्त्रविशारदः २। न यष्टा न च दाता च न देवानां च पूजकः । न चाध्यापयिता वेदं न व्याख्याता श्रुतस्य च ३। न पुराणेतिहासानां श्रुतीनामागमस्य वा । यत्नाद्भोक्ता तथा देहसंस्कारैकप्रवर्तकः ४। तादृशस्य द्विजस्याथ समालक्ष्यायुरत्यगात् । लक्षांतरे तथैकस्मिन्वत्सरे मासि पंचमे ५। तृतीय दिवसे रात्र्यां पुराणं श्रुतवानिदम् । स्वसंपादितवित्तस्य येन दानं न वै कृतम् ६। दिनेदिने भुज्यमानं निःसारं स्यात्क्रमेण हि । वर्षाण्येव च तावंति नरके पच्यते ध्रुवम् ७। कृमियोनिसहस्रं च अनुभूय ततः परम् । दरिद्रो व्याधितोऽबंधुर्दुष्टभार्यो बहुप्रजः ८। दिनेदिने भिक्षितेन याचितेन च जीवनम् । यन्न क्वापि च बीजानां मग्नानामथ मार्गणात् ९। लब्धेनजीवनं कर्म भृत्यानामथ जीवनम् । मध्ये श्रोत्रविहीनश्च नेत्रहीनः स्खलन्मलः १०। एवं पुराणं श्रुत्वा साविक्ष्वाकुर्भृशदुःखितः । मनसा चिंतयच्चेदं स्मारं स्मारं द्विजाधमः ११। रूपपुष्पैर्माहिष्मयी दुर्गापि फलवर्जिता । तथा पुराणरहिता विद्या नो गतिदर्शनी १२। बहुशास्त्रं समभ्यस्य बहुवेदान्सविस्तरान् । पुंसोश्रुतपुराणस्य सम्यग्याति न दर्शनम् १३। शंभुरुवाच- एवं चिंतयतस्तस्य अकालमरणं त्वभूत् । यमलोकं गतश्चाथ यमेन परिभाषितः १४। यम उवाच- अनेकपापयुक्तोसि पुण्यं नैव महत्तव । न वेदाध्यापनात्प्राप्तं पापं च विदितं तव १५। कोटिवर्षाणि नरके तवस्थितिरिति द्विज । आयुरस्ति तवात्यल्पं गम्यतां पौर्विकीं तनुम् १६। कुरु पुण्यं हितं दानं देवतापूजनं जपम् । सांगमध्यापनं विप्र भोजनं भस्मधारणम् १७। भज विश्वेश्वरं देवं देवदेवमुमापतिम् । तस्य प्रयत्नमात्रेण मम लोकं न गच्छसि १८। यत्किंचित्प्रत्यहं पापिन्पुराणं शृणु सादरम् । ततस्तच्छ्रवणादेव नेक्षसे मम यातनाः १९। यमस्य वचनं श्रुत्वा ब्राह्मणः स्वां ययौ तनुम् । अथेशपूजनकृते यत्नमास्थाय स द्विजः २०। अगमन्मुनिवर्यं तु जाबालिशिवपूजकम् । तपः स्वाध्यायसंपन्नं श्रुतिस्मृतिविवेचकम् २१। पुराणतत्त्ववेत्तारं लक्षशिष्यसमावृतम् । जराशिथिलसर्वांगं वेदवेदांगपारगम् २२। द्रष्टुकामो ययौ शैलं मंदरं चारुकंदरम् । नानाविहंगसंपूर्णं नानापुष्पलतावृतम् २३। सर्वर्तुकुसुमोपेतं नानागंधोपशोभितम् । किन्नराणां च मिथुनैर्गीतपूर्णमहागुहम् २४। अनेकरूपलावण्य वनितोषितपादपम् । लंबमानविचित्राभिस्ताभिः शोभितपादपम् २५। रतिश्रमप्रसुप्तानां बोधनादितषट्पदम् । कूजंति च पिकाः कामं वियुक्तानां युजे किल २६। नानामुनिगणाकीर्णं प्रशांतमृगचारिणम् । अप्सरोगणसंकीर्णं गंधर्वगणसेवितम् २७। नानासिद्धमुखोद्भूतगीतपूर्णवनांतरम् । विचित्रफलसंपूर्णं नानादेवालयान्वितम् २८। प्रासादशतसंबाधं नानागृहसमन्वितम् । सिंहाननैर्गजमुखैरुलूकवदनैरथ २९। अमुखैर्विमुखैरुग्रैरर्द्धवक्त्रैर्मृगीमुखैः । रुरुजंतुकगोधाहि वानरर्क्षमुखैरपि ३०। व्याघ्रवृश्चिकभल्लूष्ट्रश्वानगर्दभतुंडकैः । समस्तजीववदनसदृशास्यैर्गणेश्वरैः । वल्लीमुखैर्वृक्षमुखैः शिलावक्त्रैरयोमुखैः ३१। शंखमुक्तादिजलजवदनैरुपशोभितम् । अधिकांगैरनंगैश्च जटिलैः शिखिमुंडितैः ३२। पत्रिवक्त्रैर्द्विषड्वक्त्रैस्त्रिविग्रहमुखैरपि । घंटास्यैः शूर्पवदनकर्णपादमुखैरपि ३३। घंटामुखैर्वेणुमुखैः किंकिणीवदनैरपि । यादृग्वस्तु जगत्यस्ति तादृशास्यैरयोमुखैः ३४। कैश्चिन्निभृतकंदर्परूपलावण्यकोमलैः । कोटिसूर्यप्रतीकाशैश्चंद्र कोटिसमप्रभैः ३५। नानावर्णैर्विश्वमुखैर्विश्वरूपैश्चतुर्मुखैः । द्विमुखैः पंचवक्त्रैश्च त्रिमुखैः षण्मुखैरपि ३६। एकानेकमुखैः शांतैः सर्वदा सुखिभिर्युतम् । नानाभोगसमृद्धैश्च रतिकामसमैरपि ३७। लक्ष्मीनारायणमुखैरुमेशसमविग्रहैः । नानारूपधरैश्चान्यैः सेवितं मंदराचलम् ३८। धेनवो यत्र वेदाश्च मीमांसावत्स संयुताः । धर्मादयः सवर्ष्माणः पुराणानि च कर्मणा ३९। स्मृतीतिहासजातानि आगमाश्च शरीरिणः । स्थिताश्च मंदरे यत्र सशैलः पापनाशनः ४०। तस्य मध्ये महापुण्यं पुरं परमशोभितम् । वापीतडागोपवनप्रासादशतशोभितम् ४१। सप्तप्राकारपरिखं रत्नाट्टालकसंयुतम् । गोपुरैर्नवभिर्युक्तं विचित्रगृहसंयुतम् ४२। यस्य चाप्रतिमं तेज उष्णशीतादिवर्जितम् । तन्मध्ये नगरी पुण्या तन्मध्ये च सभा शुभा ४३। तस्यां भद्रासनं मध्ये वेदपादविचित्रितम् । सर्वोपनिषदाकॢप्तं पादपीठं सुशोभनम् ४४। पुराणान्यागमास्तस्य स्वस्तीति शिवपादयोः । तत्रासीनो महायोगी गोक्षीरसदृशाकृतिः ४५। मंदस्मितसुचार्वास्योद्व्यष्टवर्षवयाः प्रभुः । दधान उरसामालां मणिरुद्राक्षकल्पिताम् ४६। बिभ्राण उपवीतं च कर्णिकारसमद्युतिः । सुरत्नकुंडलो देवः किरीटकनकांबरः ४७। नानाभूषणसंयुक्तो नानागंधविलेपनः । वामांकन्यस्तगिरिजो वीक्षमाणस्तदाननम् ४८। मुग्धां च सुमुखीं बालां नवयौवनशोभिताम् । भूषितां चारुसर्वांगीं बिभ्रतीं कनकांबुजम् ४९। आलिंग्य वामेनकरेण देवीं दक्षेण तस्या मुखमुन्नमय्य । स्पृष्ट्वा शिरो वामकरेण तस्या दक्षेण कुर्वंस्तिलकं च देवः ५०। भक्तिर्वीजयते देवं प्रणव व्यजनेन च । पूजाकांतापि कुसुमैर्मालां देवाय बिभ्रती ५१। ज्ञप्तिर्विरक्तिर्वनिते बिभ्रत्यौ योगचामरे । समाधिः कार्यकर्तास्य धारणायोषिदस्य च ५२। यमाश्चनियमाश्चैव किंकरास्तस्य कीर्तिताः । प्राणायामः पुरोधास्तु प्रत्याहारः सुवर्णधृक् ५३। ध्यानं च द्रविणाध्यक्षः सत्यं सेनापतिस्तथा । ब्रह्मप्रभृतिकीटांताः पशवस्तत्पतिः शिवः ५४। पशूनां पालको धर्मः स्यादधर्मश्च तस्करः । मायापाशेन ते बद्धा मोचनी काशिका मृतिः ५५। नानाविधाश्च प्रमदा देवदेवमुमापतिम् । एतादृशमुमानाथं कोटिजंतुरनुस्मरेत् ५६। इष्टान्भोगानवाप्याथ शिवलोके महीयते । ब्रह्मविष्णुमहेंद्राद्यास्तत्पुरद्वारपालकाः ५७। लक्ष्मीसरस्वतीदेव्यौ देहल्याद्यर्च्चनेक्षितेः । नियुक्ते देवदेवस्य देवाश्च सुरयोषितः ५८। दास्यो देवाः समस्ताश्च दासा यस्य महात्मनः । एतादृशमहाशैलमिक्ष्वाकुः संददर्श ह ५९। मुनिं प्रणम्य जाबालिमिदमाह वचस्तदा । गंतुकामो महाशैलं शक्तोस्यस्मिन्न वा मुने ६०। ममायुरल्पं कथितं यमेन ज्ञानिना पुरा ६१। नरकश्च बहुःप्रोक्तः कथं श्रेयो भविष्यति । जाबालिरुवाच- मयापि सर्वमेतत्ते ज्ञातं दिव्येन चक्षुषा ६२। आयुर्दशदिनं ब्रह्मन्विद्वानपि न धर्मकृत् । न तपस्ते ह्यनभ्यासान्न च योगोऽल्पकालतः ६३। न दानं द्रविणाभावादसामर्थ्यात्तथार्हणा । न यज्ञो न व्रतं पूर्तं न च पुण्यमनायुषः ६४। न चाध्यापनतीर्थादि सेवाकालविरोधतः । तस्मात्तत्पापनाशाय प्रायश्चित्तं न विद्यते ६५। गतिप्रदं तथा धर्मं गच्छ वा तिष्ठ वा मुने । इक्ष्वाकुरुवाच-। यावज्जीवं प्रतिज्ञाय क्रियते यो वृषो द्विज ६६। तेन पापपरीहारो भविष्यति सुनिश्चितम् । तं ब्रूहि येन धर्मेण मम पापं प्रणश्यति ६७। केन वा पुण्ययोगेन स्वर्गतिश्च भविष्यति । शरणं भव विप्रर्षे नरकादतिबिभ्यतः ६८। सर्वधर्मफलं प्राहुः शरणागतपालनम् । जाबालिरुवाच- सत्यं स्वल्पेन कालेन न तादृग्लभ्यते वृषः ६९। अमृतेत्वनृते शक्यं वक्तुं स्वप्नांतरेष्वपि । रहस्यमेकं किंचित्तु यस्य कस्यापि नोच्यते ७०। इक्ष्वाकुरुवाच- शरणं पालय मुने कालो मे निर्गमिष्यति । जाबालिरुवाच- मम प्राणाधिकं विप्र रहस्यं श्रुतिचोदितम् ७१। शिवलिंगार्चनं नाम ब्रह्मादिभिरनुष्ठितम् । समस्तपापशमनं सर्वोपद्रवनाशनम् ७२। भुक्तिमुक्तिप्रदं तस्माच्छिवपूजां समाचर । नातिक्रामेद्यदि मुने शिवलिंगार्चनं शुभम् ७३। यः शंभुपूजां विच्छिंद्यात्तेन च्छिन्नं हि मे शिरः । वरं शूलविनिक्षेपो वरं शाल्मलिकर्षणम् ७४। वरं प्राणपरित्यागो नैव पूजाव्यतिक्रमः । वरं वह्निप्रपतनं वरं चाधःशिरः कृतम् ७५। वरं स्वमलभुक्तिर्वा नेशपूजाव्यतिक्रमः । अपूजयित्वा चेशानं यो हि भुंक्ते नराधमः ७६। पापानामन्नरूपाणां तस्य भोजनमुच्यते । अनुच्चार्य पदं शंभोर्भुङ्क्ते यदि च खादति ७७। शिवेति मंगलं नाम यस्य वाचि प्रवर्तते । भस्मीभवंति तस्याशु महापातककोटयः ७८। शिवं प्रदक्षिणीकृत्य यो नमस्यति मानवः । भूमेः प्रदक्षिणं कृत्वा यत्तत्पुण्यमवाप्नुयात् ७९। प्रदक्षिणत्रयं कृत्वा नमस्कारं च पंचधा । पुनः प्रदक्षिणं कृत्वा नत्वा मुच्येत पातकैः ८०। सर्ववाद्यानि यः कुर्यात्कारयेद्वा शिवालये । बलेन महता युक्तो वेदसेव्यत्र जायते ८१। श्रावयेद्यः पुराणानि देवदेवं त्रिलोचनम् । सर्वपापविनिर्मुक्तो वसेच्छिवपुरे कृती ८२। तं नित्यमादरेणेशो वक्ति वाक्यं प्रियं सदा । एतत्संक्षेपतः प्रोक्तमीशपूजनमुत्तमम् ८३। अल्पायुश्च भवान्विप्र शिवपूजनमाचर । त्रिकालं वा द्विकालं वा एककालमथापि वा ८४। यामं यामार्धमथवा शिवपूजनमाचर । वानप्रस्थाश्रमो भूत्वा वानप्रस्थकृताश्रयः ८५। वानप्रस्थप्रसूनैश्च प्रातःपूजय शंकरम् । श्रीफलैः शतपत्रैश्च पद्मसौगंधिकैरपि ८६। नीपैर्जपाभिः पुन्नागैः करवीरैश्च पाटलैः । तुलस्याच रविदलैरपराजितया तथा ८७। अपामार्गदलै रुद्र जटादमनकेन च । सर्वैरेभिः समफलैर्बिल्वपत्रैश्च धूर्तकैः ८८। द्रोणैः शिरीषैः शक्तैश्च दूर्वया कोरकैरपि । नंद्यावर्तैरक्षतैश्च तिलमिश्रैश्च केवलैः ८९। अन्यैरपि यथाशक्ति प्रातः संपूजयेच्छिवम् । कर्णिकारैश्च सौवर्णर्दूवर्ययापि शिवार्चनम् ९०। मुकुलैर्नार्चयेद्देवं चंपकैर्जलजं विना । जलजानां च सर्वेषां पत्राणामक्षतस्य च ९१। कुशपुष्पस्य रजतसुवर्णकृतयोरपि । अन्यत्कृत्वा यथा यत्तु तैलपक्वं भवेन्नृप ९२। न तत्पर्युषितं प्रोक्तमपूपादि गमिष्यति । उक्षितं यत्फलायुक्तं तैलक्षाराम्लजीरकैः ९३। जले तत्प्रोक्षितं मूलफलशाकादिकं नृप । न च पर्युषितं प्रोक्तं गंगातोयं च सागरम् ९४। महानदीजलं सर्वं केदारजलमेव च । ह्रदरूपेण यत्तीर्थं कूपतीर्थेन राघव ९५। तडागवापीसरसां कूपेनापां च यद्भवेत् । तत्तीर्थतोयं सर्वं च न च पर्युषितं भवेत् ९६। न रात्रौ जलमाहार्यं दिवा संपादयेज्जलम् । ससैकतं तथा धार्यं न च पर्युषितं हि तत् ९७। एवं विदित्वा पूजां त्वं शिवलिंगे समाचर । शंभुरुवाच- एवमुक्तोथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः ९८। शिवपूजापरो भूत्वा दिनाष्टकमतिष्ठत । नवमेऽथ दिने प्राप्ते प्रातःकाले कृतार्चनः ९९। मरणावसरे प्राप्ते शिवपूजां विधाय सः । स्वान्प्राणानुपहाराय तत्याजैव महेशितुः १००। मृतं तमथ विज्ञाय यमदूताः समागताः । यमलोकप्रापका ये यतमास्थाय तस्थिरे १०१। शैवाश्चापि समायाता दूता वह्निमुखादयः । तेषामन्योन्यवादोभून्मामको मामकस्त्विति १०२। अथ यामः पाशपाणिः शिवदूतमथार्दयत् । अथ वह्निमुखः क्रुद्धो यमदूतशतं ततः १०३। महाकायस्तथा भूत्वा गृहीत्वा च करेण तत् । शिरांसि च तथैकेनापीड्य चिच्छेद शष्पवत् १०४। मारयित्वा ततो दूतानादायेक्ष्वाकुमभ्यगात् । निवेदयामास च तं वीरभद्राय धीमते १०५। स चापि शंकरायाथ तं प्राह च महेश्वरः । त्वयाष्टदिनपूजैव कृता कृष्णा दिने दिने १०६। त्वमनिंदः पुरा मां च लिंगं शिश्नाग्रमित्युत । तेनैव पापयोगेन शिश्नवक्त्रो भविष्यसि १०७। शिश्नाग्रे विवरं चक्रं जिह्वानासादिवर्जितः । पूर्वं मन्नामवक्तृत्वाद्वक्ता चापि भविष्यसि १०८। अथेशवचनात्सोपि तथाभूतोभवत्क्षणात् । शंभुरुवाच- य इदं शृणुयान्नित्यं पुराणाख्यानमुत्तमम् १०९। विमुक्तपापबंधश्च शिवभक्तो भविष्यति । स याति च शिवस्थाने वक्ता चापि तथा भवेत् ११०। यश्च वक्ति कथामेनां हरेण सदृशो भवेत् । उक्त्वा कथामिमां पूर्वमधीरो नाम भूमिपः १११। स्वर्गं स गतवान्राजा कृतपापोथ भार्यया ११२। इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे विभूतिमाहात्म्येन। नवोत्तरशततमोऽध्यायः १०९ ।
śaṃbhuruvāca- atra te kīrtayiṣyāmi kathāṃ pāpapraṇāśinīm | śrutvā yāṃ prāpa dharmātmā śivabhaktimanuttamām 1| ikṣvākurnāma vipreṃdro mahāvidyo mahāmatiḥ | bahuśāstrapravīṇaśca nītiśāstraviśāradaḥ 2| na yaṣṭā na ca dātā ca na devānāṃ ca pūjakaḥ | na cādhyāpayitā vedaṃ na vyākhyātā śrutasya ca 3| na purāṇetihāsānāṃ śrutīnāmāgamasya vā | yatnādbhoktā tathā dehasaṃskāraikapravartakaḥ 4| tādṛśasya dvijasyātha samālakṣyāyuratyagāt | lakṣāṃtare tathaikasminvatsare māsi paṃcame 5| tṛtīya divase rātryāṃ purāṇaṃ śrutavānidam | svasaṃpāditavittasya yena dānaṃ na vai kṛtam 6| dinedine bhujyamānaṃ niḥsāraṃ syātkrameṇa hi | varṣāṇyeva ca tāvaṃti narake pacyate dhruvam 7| kṛmiyonisahasraṃ ca anubhūya tataḥ param | daridro vyādhito'baṃdhurduṣṭabhāryo bahuprajaḥ 8| dinedine bhikṣitena yācitena ca jīvanam | yanna kvāpi ca bījānāṃ magnānāmatha mārgaṇāt 9| labdhenajīvanaṃ karma bhṛtyānāmatha jīvanam | madhye śrotravihīnaśca netrahīnaḥ skhalanmalaḥ 10| evaṃ purāṇaṃ śrutvā sāvikṣvākurbhṛśaduḥkhitaḥ | manasā ciṃtayaccedaṃ smāraṃ smāraṃ dvijādhamaḥ 11| rūpapuṣpairmāhiṣmayī durgāpi phalavarjitā | tathā purāṇarahitā vidyā no gatidarśanī 12| bahuśāstraṃ samabhyasya bahuvedānsavistarān | puṃsośrutapurāṇasya samyagyāti na darśanam 13| śaṃbhuruvāca- evaṃ ciṃtayatastasya akālamaraṇaṃ tvabhūt | yamalokaṃ gataścātha yamena paribhāṣitaḥ 14| yama uvāca- anekapāpayuktosi puṇyaṃ naiva mahattava | na vedādhyāpanātprāptaṃ pāpaṃ ca viditaṃ tava 15| koṭivarṣāṇi narake tavasthitiriti dvija | āyurasti tavātyalpaṃ gamyatāṃ paurvikīṃ tanum 16| kuru puṇyaṃ hitaṃ dānaṃ devatāpūjanaṃ japam | sāṃgamadhyāpanaṃ vipra bhojanaṃ bhasmadhāraṇam 17| bhaja viśveśvaraṃ devaṃ devadevamumāpatim | tasya prayatnamātreṇa mama lokaṃ na gacchasi 18| yatkiṃcitpratyahaṃ pāpinpurāṇaṃ śṛṇu sādaram | tatastacchravaṇādeva nekṣase mama yātanāḥ 19| yamasya vacanaṃ śrutvā brāhmaṇaḥ svāṃ yayau tanum | atheśapūjanakṛte yatnamāsthāya sa dvijaḥ 20| agamanmunivaryaṃ tu jābāliśivapūjakam | tapaḥ svādhyāyasaṃpannaṃ śrutismṛtivivecakam 21| purāṇatattvavettāraṃ lakṣaśiṣyasamāvṛtam | jarāśithilasarvāṃgaṃ vedavedāṃgapāragam 22| draṣṭukāmo yayau śailaṃ maṃdaraṃ cārukaṃdaram | nānāvihaṃgasaṃpūrṇaṃ nānāpuṣpalatāvṛtam 23| sarvartukusumopetaṃ nānāgaṃdhopaśobhitam | kinnarāṇāṃ ca mithunairgītapūrṇamahāguham 24| anekarūpalāvaṇya vanitoṣitapādapam | laṃbamānavicitrābhistābhiḥ śobhitapādapam 25| ratiśramaprasuptānāṃ bodhanāditaṣaṭpadam | kūjaṃti ca pikāḥ kāmaṃ viyuktānāṃ yuje kila 26| nānāmunigaṇākīrṇaṃ praśāṃtamṛgacāriṇam | apsarogaṇasaṃkīrṇaṃ gaṃdharvagaṇasevitam 27| nānāsiddhamukhodbhūtagītapūrṇavanāṃtaram | vicitraphalasaṃpūrṇaṃ nānādevālayānvitam 28| prāsādaśatasaṃbādhaṃ nānāgṛhasamanvitam | siṃhānanairgajamukhairulūkavadanairatha 29| amukhairvimukhairugrairarddhavaktrairmṛgīmukhaiḥ | rurujaṃtukagodhāhi vānararkṣamukhairapi 30| vyāghravṛścikabhallūṣṭraśvānagardabhatuṃḍakaiḥ | samastajīvavadanasadṛśāsyairgaṇeśvaraiḥ | vallīmukhairvṛkṣamukhaiḥ śilāvaktrairayomukhaiḥ 31| śaṃkhamuktādijalajavadanairupaśobhitam | adhikāṃgairanaṃgaiśca jaṭilaiḥ śikhimuṃḍitaiḥ 32| patrivaktrairdviṣaḍvaktraistrivigrahamukhairapi | ghaṃṭāsyaiḥ śūrpavadanakarṇapādamukhairapi 33| ghaṃṭāmukhairveṇumukhaiḥ kiṃkiṇīvadanairapi | yādṛgvastu jagatyasti tādṛśāsyairayomukhaiḥ 34| kaiścinnibhṛtakaṃdarparūpalāvaṇyakomalaiḥ | koṭisūryapratīkāśaiścaṃdra koṭisamaprabhaiḥ 35| nānāvarṇairviśvamukhairviśvarūpaiścaturmukhaiḥ | dvimukhaiḥ paṃcavaktraiśca trimukhaiḥ ṣaṇmukhairapi 36| ekānekamukhaiḥ śāṃtaiḥ sarvadā sukhibhiryutam | nānābhogasamṛddhaiśca ratikāmasamairapi 37| lakṣmīnārāyaṇamukhairumeśasamavigrahaiḥ | nānārūpadharaiścānyaiḥ sevitaṃ maṃdarācalam 38| dhenavo yatra vedāśca mīmāṃsāvatsa saṃyutāḥ | dharmādayaḥ savarṣmāṇaḥ purāṇāni ca karmaṇā 39| smṛtītihāsajātāni āgamāśca śarīriṇaḥ | sthitāśca maṃdare yatra saśailaḥ pāpanāśanaḥ 40| tasya madhye mahāpuṇyaṃ puraṃ paramaśobhitam | vāpītaḍāgopavanaprāsādaśataśobhitam 41| saptaprākāraparikhaṃ ratnāṭṭālakasaṃyutam | gopurairnavabhiryuktaṃ vicitragṛhasaṃyutam 42| yasya cāpratimaṃ teja uṣṇaśītādivarjitam | tanmadhye nagarī puṇyā tanmadhye ca sabhā śubhā 43| tasyāṃ bhadrāsanaṃ madhye vedapādavicitritam | sarvopaniṣadākḷptaṃ pādapīṭhaṃ suśobhanam 44| purāṇānyāgamāstasya svastīti śivapādayoḥ | tatrāsīno mahāyogī gokṣīrasadṛśākṛtiḥ 45| maṃdasmitasucārvāsyodvyaṣṭavarṣavayāḥ prabhuḥ | dadhāna urasāmālāṃ maṇirudrākṣakalpitām 46| bibhrāṇa upavītaṃ ca karṇikārasamadyutiḥ | suratnakuṃḍalo devaḥ kirīṭakanakāṃbaraḥ 47| nānābhūṣaṇasaṃyukto nānāgaṃdhavilepanaḥ | vāmāṃkanyastagirijo vīkṣamāṇastadānanam 48| mugdhāṃ ca sumukhīṃ bālāṃ navayauvanaśobhitām | bhūṣitāṃ cārusarvāṃgīṃ bibhratīṃ kanakāṃbujam 49| āliṃgya vāmenakareṇa devīṃ dakṣeṇa tasyā mukhamunnamayya | spṛṣṭvā śiro vāmakareṇa tasyā dakṣeṇa kurvaṃstilakaṃ ca devaḥ 50| bhaktirvījayate devaṃ praṇava vyajanena ca | pūjākāṃtāpi kusumairmālāṃ devāya bibhratī 51| jñaptirviraktirvanite bibhratyau yogacāmare | samādhiḥ kāryakartāsya dhāraṇāyoṣidasya ca 52| yamāścaniyamāścaiva kiṃkarāstasya kīrtitāḥ | prāṇāyāmaḥ purodhāstu pratyāhāraḥ suvarṇadhṛk 53| dhyānaṃ ca draviṇādhyakṣaḥ satyaṃ senāpatistathā | brahmaprabhṛtikīṭāṃtāḥ paśavastatpatiḥ śivaḥ 54| paśūnāṃ pālako dharmaḥ syādadharmaśca taskaraḥ | māyāpāśena te baddhā mocanī kāśikā mṛtiḥ 55| nānāvidhāśca pramadā devadevamumāpatim | etādṛśamumānāthaṃ koṭijaṃturanusmaret 56| iṣṭānbhogānavāpyātha śivaloke mahīyate | brahmaviṣṇumaheṃdrādyāstatpuradvārapālakāḥ 57| lakṣmīsarasvatīdevyau dehalyādyarccanekṣiteḥ | niyukte devadevasya devāśca surayoṣitaḥ 58| dāsyo devāḥ samastāśca dāsā yasya mahātmanaḥ | etādṛśamahāśailamikṣvākuḥ saṃdadarśa ha 59| muniṃ praṇamya jābālimidamāha vacastadā | gaṃtukāmo mahāśailaṃ śaktosyasminna vā mune 60| mamāyuralpaṃ kathitaṃ yamena jñāninā purā 61| narakaśca bahuḥproktaḥ kathaṃ śreyo bhaviṣyati | jābāliruvāca- mayāpi sarvametatte jñātaṃ divyena cakṣuṣā 62| āyurdaśadinaṃ brahmanvidvānapi na dharmakṛt | na tapaste hyanabhyāsānna ca yogo'lpakālataḥ 63| na dānaṃ draviṇābhāvādasāmarthyāttathārhaṇā | na yajño na vrataṃ pūrtaṃ na ca puṇyamanāyuṣaḥ 64| na cādhyāpanatīrthādi sevākālavirodhataḥ | tasmāttatpāpanāśāya prāyaścittaṃ na vidyate 65| gatipradaṃ tathā dharmaṃ gaccha vā tiṣṭha vā mune | ikṣvākuruvāca-| yāvajjīvaṃ pratijñāya kriyate yo vṛṣo dvija 66| tena pāpaparīhāro bhaviṣyati suniścitam | taṃ brūhi yena dharmeṇa mama pāpaṃ praṇaśyati 67| kena vā puṇyayogena svargatiśca bhaviṣyati | śaraṇaṃ bhava viprarṣe narakādatibibhyataḥ 68| sarvadharmaphalaṃ prāhuḥ śaraṇāgatapālanam | jābāliruvāca- satyaṃ svalpena kālena na tādṛglabhyate vṛṣaḥ 69| amṛtetvanṛte śakyaṃ vaktuṃ svapnāṃtareṣvapi | rahasyamekaṃ kiṃcittu yasya kasyāpi nocyate 70| ikṣvākuruvāca- śaraṇaṃ pālaya mune kālo me nirgamiṣyati | jābāliruvāca- mama prāṇādhikaṃ vipra rahasyaṃ śruticoditam 71| śivaliṃgārcanaṃ nāma brahmādibhiranuṣṭhitam | samastapāpaśamanaṃ sarvopadravanāśanam 72| bhuktimuktipradaṃ tasmācchivapūjāṃ samācara | nātikrāmedyadi mune śivaliṃgārcanaṃ śubham 73| yaḥ śaṃbhupūjāṃ vicchiṃdyāttena cchinnaṃ hi me śiraḥ | varaṃ śūlavinikṣepo varaṃ śālmalikarṣaṇam 74| varaṃ prāṇaparityāgo naiva pūjāvyatikramaḥ | varaṃ vahniprapatanaṃ varaṃ cādhaḥśiraḥ kṛtam 75| varaṃ svamalabhuktirvā neśapūjāvyatikramaḥ | apūjayitvā ceśānaṃ yo hi bhuṃkte narādhamaḥ 76| pāpānāmannarūpāṇāṃ tasya bhojanamucyate | anuccārya padaṃ śaṃbhorbhuṅkte yadi ca khādati 77| śiveti maṃgalaṃ nāma yasya vāci pravartate | bhasmībhavaṃti tasyāśu mahāpātakakoṭayaḥ 78| śivaṃ pradakṣiṇīkṛtya yo namasyati mānavaḥ | bhūmeḥ pradakṣiṇaṃ kṛtvā yattatpuṇyamavāpnuyāt 79| pradakṣiṇatrayaṃ kṛtvā namaskāraṃ ca paṃcadhā | punaḥ pradakṣiṇaṃ kṛtvā natvā mucyeta pātakaiḥ 80| sarvavādyāni yaḥ kuryātkārayedvā śivālaye | balena mahatā yukto vedasevyatra jāyate 81| śrāvayedyaḥ purāṇāni devadevaṃ trilocanam | sarvapāpavinirmukto vasecchivapure kṛtī 82| taṃ nityamādareṇeśo vakti vākyaṃ priyaṃ sadā | etatsaṃkṣepataḥ proktamīśapūjanamuttamam 83| alpāyuśca bhavānvipra śivapūjanamācara | trikālaṃ vā dvikālaṃ vā ekakālamathāpi vā 84| yāmaṃ yāmārdhamathavā śivapūjanamācara | vānaprasthāśramo bhūtvā vānaprasthakṛtāśrayaḥ 85| vānaprasthaprasūnaiśca prātaḥpūjaya śaṃkaram | śrīphalaiḥ śatapatraiśca padmasaugaṃdhikairapi 86| nīpairjapābhiḥ punnāgaiḥ karavīraiśca pāṭalaiḥ | tulasyāca ravidalairaparājitayā tathā 87| apāmārgadalai rudra jaṭādamanakena ca | sarvairebhiḥ samaphalairbilvapatraiśca dhūrtakaiḥ 88| droṇaiḥ śirīṣaiḥ śaktaiśca dūrvayā korakairapi | naṃdyāvartairakṣataiśca tilamiśraiśca kevalaiḥ 89| anyairapi yathāśakti prātaḥ saṃpūjayecchivam | karṇikāraiśca sauvarṇardūvaryayāpi śivārcanam 90| mukulairnārcayeddevaṃ caṃpakairjalajaṃ vinā | jalajānāṃ ca sarveṣāṃ patrāṇāmakṣatasya ca 91| kuśapuṣpasya rajatasuvarṇakṛtayorapi | anyatkṛtvā yathā yattu tailapakvaṃ bhavennṛpa 92| na tatparyuṣitaṃ proktamapūpādi gamiṣyati | ukṣitaṃ yatphalāyuktaṃ tailakṣārāmlajīrakaiḥ 93| jale tatprokṣitaṃ mūlaphalaśākādikaṃ nṛpa | na ca paryuṣitaṃ proktaṃ gaṃgātoyaṃ ca sāgaram 94| mahānadījalaṃ sarvaṃ kedārajalameva ca | hradarūpeṇa yattīrthaṃ kūpatīrthena rāghava 95| taḍāgavāpīsarasāṃ kūpenāpāṃ ca yadbhavet | tattīrthatoyaṃ sarvaṃ ca na ca paryuṣitaṃ bhavet 96| na rātrau jalamāhāryaṃ divā saṃpādayejjalam | sasaikataṃ tathā dhāryaṃ na ca paryuṣitaṃ hi tat 97| evaṃ viditvā pūjāṃ tvaṃ śivaliṃge samācara | śaṃbhuruvāca- evamuktotha muninā ikṣvākurbrāhmaṇapriyaḥ 98| śivapūjāparo bhūtvā dināṣṭakamatiṣṭhata | navame'tha dine prāpte prātaḥkāle kṛtārcanaḥ 99| maraṇāvasare prāpte śivapūjāṃ vidhāya saḥ | svānprāṇānupahārāya tatyājaiva maheśituḥ 100| mṛtaṃ tamatha vijñāya yamadūtāḥ samāgatāḥ | yamalokaprāpakā ye yatamāsthāya tasthire 101| śaivāścāpi samāyātā dūtā vahnimukhādayaḥ | teṣāmanyonyavādobhūnmāmako māmakastviti 102| atha yāmaḥ pāśapāṇiḥ śivadūtamathārdayat | atha vahnimukhaḥ kruddho yamadūtaśataṃ tataḥ 103| mahākāyastathā bhūtvā gṛhītvā ca kareṇa tat | śirāṃsi ca tathaikenāpīḍya ciccheda śaṣpavat 104| mārayitvā tato dūtānādāyekṣvākumabhyagāt | nivedayāmāsa ca taṃ vīrabhadrāya dhīmate 105| sa cāpi śaṃkarāyātha taṃ prāha ca maheśvaraḥ | tvayāṣṭadinapūjaiva kṛtā kṛṣṇā dine dine 106| tvamaniṃdaḥ purā māṃ ca liṃgaṃ śiśnāgramityuta | tenaiva pāpayogena śiśnavaktro bhaviṣyasi 107| śiśnāgre vivaraṃ cakraṃ jihvānāsādivarjitaḥ | pūrvaṃ mannāmavaktṛtvādvaktā cāpi bhaviṣyasi 108| atheśavacanātsopi tathābhūtobhavatkṣaṇāt | śaṃbhuruvāca- ya idaṃ śṛṇuyānnityaṃ purāṇākhyānamuttamam 109| vimuktapāpabaṃdhaśca śivabhakto bhaviṣyati | sa yāti ca śivasthāne vaktā cāpi tathā bhavet 110| yaśca vakti kathāmenāṃ hareṇa sadṛśo bhavet | uktvā kathāmimāṃ pūrvamadhīro nāma bhūmipaḥ 111| svargaṃ sa gatavānrājā kṛtapāpotha bhāryayā 112| iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde vibhūtimāhātmyena| navottaraśatatamo'dhyāyaḥ 109 |
English translation
Śambhu said :
1-5a. In this regard I shall tell you a story which destroys sins and hearing which the pious one (i.e. Ikṣvāku ) obtained excellent devotion. (There was) the best brāhmaṇa , Ikṣvāku by name. He was very learned, very intelligent, proficient in many sacred precepts and well-versed in the science of ethics. He did not perform a sacrifice ; he did not give (in charity ); he did not worship deities . He did not teach the Vedas , nor did he explain the sacred texts; so also (he did not teach) the Purāṇas , history, the sacred texts or the Vedas. With difficulty he could (get food to) cat and proceeded only with the embellishment of his body . The life (of the span ) of a lakh of years of that brāhmaṇa of that type passed.
5b-10. In the next (span of a) lakh, at night on the third day of the fifth month in (i.e. of) a year he heard this Purāṇa (text): “He, who has not given in charity the wealth earned by him, is certainly roasted for those many years in hell , (for the wealth) being enjoyed day-by-day would become (i.e. becomes) depleted. Then having gone through a thousand existences of insects etc., he then is (born) as a poor man suffering from diseases , having no relatives , having a wicked wife and many children . Every day he lives by begging and supplicating. He leads his life by asking for broken seeds (not capable of growing), or the life among servants (of a man) having no ears, no eyes and with dirt falling (from his body).”
11-13. Having heard the Purāṇa (text) like this, that Ikṣvāku became extremely afflicted. The mean brāhmaṇa repeatedly thought in his mind (like) this: ‘Even Durgā , having flowers and beauty is void of fruit due to her having a buffalo . In the same way, knowledge without the Purāṇas would not show the (right) path. A man, (even) after studying many sacred texts, and Vedas with (all) their expanse, does not get proper knowledge unless he has studied the Purāṇas.’
Śambhu said :
14. When he was thinking like this he met with an untimely death . He then went to Yama ’s world, and was (thus) addressed by Yama.
Yama said :
15-19. You are having many sins. You have not secured great religious merit by teaching the Vedas. Sin (alone) is known to you. Therefore, O brāhmaṇa, you will remain in hell for a crore of years. You have a very short span of life. Go back to your former body (i.e. existence). O brāhmaṇa, do religious deeds that are beneficial like giving in charity, worshipping the deities, and repeating hymns; so also teach (Vedas) along with their limbs (i.e. the Vedāṅgas ), and apply sacred ash. Worship God Viśveśvara , the god of gods and the lord of Umā. Merely by his perseverance you will not go to my world, O sinner, every day listen to a little (i.e. small portion of) Purāṇa with respect. Then merely by listening to it, you will not see (i.e. experience) the pangs inflicted by Yama (i.e. me).
20-22. Hearing the words of Yama, the brāhmaṇa went back to (i.e. took up) his own (i.e. former) body. Then that brāhmaṇa made efforts to worship the lord. He went to the sage Jābāli , the worshipper of Śiva , who was endowed with penance and self-study , who discussed the sacred texts and the codes of law, who knew the truth about the Purāṇas, who was surrounded by a lakh of disciples, whose entire body had become loose due to old age, who had mastered the Vedas and the Vedāṅgas.
23-36. Desiring to see him he (i.e. Ikṣvāku) went to the Mandara ( mountain ) which had beautiful caves, which was crowded with many blossoming creepers full of various kinds of birds , which possesed flowers of all seasons , which was adorned with various fragrances , whose big caves were full of the songs (sung) by kinnara couples, the trees in which were resorted to by many beautiful, charming women , the lovely ones, suspending themselves from them, which was resounding with the (hummings of) bees made to rouse them who had slept due to the fatigue caused by love -sports, in which the cuckoos also cooed very much, indeed to unite the separated ( lovers ), which was crowded with hosts of various sages , where calm (i.e. undisturbed) deer were moving, which was crowded with the bevies of the celestial nymphs, which was resorted to by the groups of gandharvas , the interior of the forest of which was full of the songs produced from the mouths of many siddhas , which was full of lovely fruits , and which had many temples , which was thronged with hundreds of palaces, which had many houses , which was adorned with fierce and angry lords of attendants that had faces like those of lions , like those of elephants , like those of wolves, or having different or strange faces, (or) that had half faces, (or) had half-curved faces, (or) had faces like those of the female deer, (or that) had the faces like those of the creatures like the ruru deer, or like those of alligators, bears and monkeys , that had faces like those of tigers , scorpions, bears, camels , dogs and donkeys , that had faces like those of all the beings, that had faces like creepers, like trees, curved like rocks and (made) of iron , that had superior bodies, faulty bodies, that had matted hair , that had tufts of hair on their heads , or that were clean -shaved, that had faces like those of birds, that had twelve faces, that had three-figured faces, that had faces like bells , that had faces, ears, or feet like winnowing baskets, that had face like bells or like flutes or like small bells, that had iron-faces like whatever (i.e. all) things in the world; (it was adorned with) certain (attendants) that had put down the charm and beauty of Cupid with their tender faces, that resembled a crore of suns, and that had lustre like those of a crore of moons , that had many colours , that had all (kinds of) faces, that had all forms and four faces, that hand two faces, five faces, three faces or even six faces, that had one or many faces, that were tranquil and were always happy.
37-44a. The mountain Mandara was resorted to by (beings) that were affluent with many enjoyments , and that resembled Rati and Cupid, that had faces like those of Lakṣmī and Viṣṇu , and had bodies like those of Uma (i.e. Pārvatī ) and Śiva. It was also resorted to by others having various forms. There the cows were the Vedas, having the calves in the form of Mīmāṃsā ; Dharma and others were bodily (present); Purāṇas (presented themselves) with (i.e. in) deeds; there were all the Codes of Law and (all) Histories; there were Vedas embodied; they stayed on the Mandara (mountain); the mountain destroyed sins. In its midst (i.e. on it, there was) a very auspicious and extremely beautiful city . It was decorated with wells, lakes, groves and hundreds of palaces. It had seven ramparts, trenches, and jewelled upper stories. It had nine town-gates, and beautiful houses. Its lustre is matchless, and it is without heat and cold . In it is an auspicious seat , beautified with the feet of Vedas.
44b-48a. The very beautiful foot-stool is prepared with all the Upaniṣads . To the two auspicious feet are (attached) Purāṇas and Vedas for auspiciousness. A great meditating saint is seated there. His figure is (fair) like cow’s milk . His charming face has a gentle smile on it. The lord’s age is sixteen years. On his chest he has a rosary made of gems and rudrākṣa . He having the lustre of a karṇikāra ( flower ) wears a sacred thread . The god has (put on) good, jewelled ear-rings . He has put on a crown and golden garments . He has (put on) many ornaments , and has applied sandal of various kinds.
48b-54. On his left lap Pārvatī is seated, and he is looking at her face. The god embraces with his left arm the innocent, young goddess of a beautiful face adorned with fresh youth, decorated, beautiful in all limbs, and having a golden lotus , and raises her face with his right hand. With his left hand the god touches her head , and puts a mark (on it) with his right hand. With the fan of Oṃkāra Bhakti (i.e. Devotion) fans the gods. The charming Pūjā (i.e. worship) gives a garland with (i.e. of) flowers to the god. Jñapti (i.e. Cognition) and Virakti (i.e. Detachment )—the two ladies—hold the chowries in the form of abstract meditation . Samādhi (i.e. profound Meditation) works for him and Dhāraṇā (i.e. steady Abstraction of mind) is his wife. Checks and Restraints are said to be his servants. Prāṇāyāma (i.e. Suspending the breath) is his family-priest , and Pratyāhāra (i.e. Withdrawing the senses) is the holder of (the staff of) gold . Dhyāna (i.e. Meditation) is the superintendent of his wealth, so also Satya (i.e. Truth) is the general of his army . From Brahmā . to an insect all are the animals and Śiva is their lord.
55-62a. Dharma is the guardian of the animals, and Adharma (i.e. Unrighteousness) is a thief . They (i.e. the animals) are bound by the noose of illusion . Death at Kāśī is the liberator; and women of various sorts (serve) the god of gods, the lord of Umā (i.e. Pārvatī). A crore of beings would remember (i.e. remember) the lord of Umā who is like this. Having obtained desired pleasures they are honoured in Śiva’s heaven . Brahmā, Viṣṇu, great Indra are the door-keepers of his city. The two goddesses Lakṣmī and Sarasvatī are appointed to worship the threshold etc. on the ground. Gods and celestial women are the servants of the god of gods. All gods are the servants of the noble one. Ikṣvāku saw such a great mountain. Having saluted the sage Jābāli, he said these words: “O sage, I desire to go to the mountain. Are you capable of doing this (i.e. taking me there) or not? Formerly the wise Yama told me about the short (span of) my life. He told me (that I would stay in) many hells . How can there be absolution (for me)?”
Jābāli said :
62b-66a. By means of my divine eye I too knew all this about you. O brāhmaṇa, your life is (i.e. you will live) for ten (more) days. Though a learned man, you did not practise acts of piety. Due to lack of repeated practice, you have not practised penance. Due to the time being short you (have) not (practised) abstract meditation. You have not given gifts due to absence of wealth. You did not go through worship due to lack of capacity. You did not perform sacrifices . You did not do acts of pious liberality. (Therefore) you, having no life (i.e. having a short life), have no religious merit (to your credit). Due to (your) going against the time you did not resort to teaching or to holy places. So, to destroy that sin, no expiation is laid down; so also no religious practice leading to salvatation is laid down. (Hence,) O sage, stay (here) or go (back).
Ikṣvāku said :
66b-69a. O brāhmaṇa, by means of the religious practice which is performed after taking a pledge throughout life, the destruction of sins definitely takes place. Tell me about those religious practices by means of which my sin will perish; so also (tell me) due to which religious merit I shall go to heaven. O brāhmaṇa sage, be the refuge of me who am extremely afraid of hell. They say that looking after him who has sought one’s refuge, is the fruit of all religious practices.
Jābāli said :
69b-70. It is true that within a short time religious merit like that cannot be obtained. As long as falsehood has not ceased, it is possible to speak like that in dreams . There is a secret. It is not spoken (out) to anyone.
Ikṣvāku said :
71a. O sage, protect me who have sought your refuge. My time will pass out.
Jābāli said :
71b-75a. O brāhmaṇa, the secret enjoined by the sacred texts is greater (i.e. more valuable) than my life. (It is) the worship of Śiva’s Phallus . It was practised by Brahma and others. It destroys all sins. It destroys all calamities. It gives enjoyments and salvation . Therefore, perform the worship of Śiva. O sage, one should not violate the auspicious worship of the Phallus of Śiva. He who would disturb Śiva’s worship has cut off my head. It is preferable to be thrown on a spike, to be dragged to hell, to give up one’s life, but never violation of (Śiva’s) worship.
75b-83a. It is better to fall into fire , to bow down the head, to eat one’s own feces, but not the violation of Śiva’s worship. The food of him, the mean man, who eats without worshipping the lord, or if he enjoys or eats without uttering Śiva’s name, is said to be of sins of the form of food. The crores of the great sins of him who has in his words (i.e. on his tongue) the auspicious name Śiva are quickly reduced to ash. The man who goes round (the Phallus of) Śiva (keeping it to) the right and salutes him, would get the same religious merit which one would get by going round the earth . Having gone round (the Phallus) three times and saluted five times, and having again gone round (it) and saluted (it), one would be free from sins. He who would make or cause to make (the sound of) musical instruments in Śiva’s temple , is endowed with great power and is born as one who resorts to the Vedas. He who would make the three-eyed god, the god of gods, hear the Purāṇas (i.e. would recite Purāṇas before him), would, being free from all sins and being blessed, live in Śiva’s city. The god always speaks to him sweet words with regard.
Jābāli said :
83b-90. This excellent worship of Śiva has been told (to you) in brief. O brāhmaṇa, you are short-lived (i.e. the span of your life is short). Perform the worship of Śiva. Thrice, twice or even once (a day), for a watch, perform Śiva’s worship. Resorting to the stage of a recluse , resorting to a recluse, worship Śiva with the flowers of a recluse in the morning. A man should worship Śiva with coconut , lotuses, saugandhikas , nīpa -flowers, japā -flowers, punnāgas , karavīras , pāṭalas , tulasī , arkas , aparājitā , apamārgas , rudrajātadamana, with all these and with fruits and bilva leaves and dhūrtakas , droṇa -flowers, abundant śirīṣa flowers, dūrvū, korakas , nandyāvartas , sacred rice grains or mixed with sesamum only, or with other ( materials of worship) according to his capacity. The worship of Śiva is also (done) with karṇikāra flowers and a golden dūrvā .
91-98a. He should not worship Śiva with buds or campaka flowers, except the lotus . All lotuses, leaves and sacred grains, darbhas and flowers should be kept separately from the silver and golden (flowers etc.). O king , cake cooked in oil would not be said to be stale. That which is with fruits and with acid and sour substances or with cumin-seeds should be sprinkled with water . (All) that, viz. roots, fruits, vegetables etc. sprinkled with water is not said to be stale. All that water, viz. water of a great river , water ( flowing ) from a mountain, or water in the form of a pool (i.e. in a pool), or well-water, or the water that would be (available) from a tank , a lake, well is holy water. It would not be stale. Water should not be procured at night. He should procure it by day. Water with sand (i.e. from a sandy place) should also be taken; for it is not stale. Knowing like this, you offer a worship to Śiva’s Phallus.
Śambhu said :
98b-100. That Ikṣvāku dear to brāhmaṇas (or to whom brāhmṇas were dear), thus addressed by the sage, became engrossed in Śiva’s worship (and) remained (in doing the worship) for eight days. When the ninth day arrived, he performed (Śiva’s) worship in the morning. When the time of his death came, he, having performed Śiva’s worship, offered his life as a present to the great lord (Śiva).
101-109a. Knowing him to be dead, Yama’s messengers who took (the dead) to Yama’s world came (there) and made efforts (to take him). Śiva’s messengers, like Vahnimukha , also came there. Among them there was a dispute: ‘This is mine , this is mine.’ Then, a messenger of Yama, with a noose in his hand hurt a messenger of Śiva. Then Vahnimukha got angry, and becoming of (i.e. turning himself into) a great body, seized a hundred messengers of Yama with one hand and squeezing their heads with another, cut them off like young grass . Then killing the messengers and taking Ikṣvāku (with him) he went (to Vīrabhadra ). He presented him to the intelligent Vīrabhadra. He too (presented) him to Śiva. Then the great god said to him: “Every day for eight days, you offered a worship. Formerly you had censured me saying ‘Śiva’s Phallus is (just) the tip of a penis .’ Therefore, you will be one with a penis-like mouth . On its tip there will be a round hole. You will be without a tongue, a nose etc. (But) because of your having uttered my name formerly, you will be a speaker (also).” Due to the words of the lord he became like that in a moment.
Śambhu said :
109b-112. He who will every day listen to this excellent old account , will, being free from the bond of sins, become Śiva’s devotee. He would go to Śiva’s place and would also be a speaker. He who tells this story, would be like Śiva. Formerly a king named Adhīra , having told this story, went, though he had committed a sin, to heaven with his wife.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 44075, revision 333744 (2022-03-16T02:22:21Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365421.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.