Kriyāyogasāra-khaṇḍa · Chapter 19
Sourceव्यास उवाच- नारायणप्रपन्ना ये नराभक्तिसमन्विताः । कदाचिदशुभं तेषां विद्यते न द्विजोत्तम १। पुनरेव प्रवक्ष्यामि माहात्म्यं कमलापतेः । यच्छ्रुत्वा मानवाः सर्वे लभंते परमं पदम् २। वासुदेवस्य माहात्म्यं श्रुत्वा तृप्यंति वैष्णवाः । पाखण्डा न हि तृप्यंति नरके क्लेशभागिनः ३। पाखण्डानां समीपे तु विष्णुमाहात्म्यमुत्तमम् । न वक्तव्यं द्विजश्रेष्ठ वक्तव्यं वैष्णवाग्रतः ४। पूर्वं त्रेतायुगे विप्र उर्वीशुर्नाम जैमिने । आसीत्पापरतो नित्यं धर्मनिंदापरायणः ५। ब्रह्मस्वहारी विप्रेन्द्र परस्त्रीगमनोद्यतः । गोमांसाशी सुरापी च वेश्याविभ्रमलोलुपः ६। शरणागतहंता च परनिंदाकरः सदा । विश्वासघाती मित्रघ्नो ज्ञातिपीडाकरस्तथा ७। असत्यभाषी क्रूरश्च पाखंडजनसङ्गभाक् । वृत्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा ८। तादृशं तं समालोक्य दुष्टं पापपरायणम् । आजग्मुर्ज्ञातयः सर्वे क्रुद्धास्तस्य निजंगृहम् ९। ज्ञातय ऊचुः - प्रतिष्ठोपार्जिता पूर्वैरस्माकं विमले कुले । सा प्रतिष्ठा त्वया मूढ विनाशं प्रतिनीयते १०। धर्ममार्गं परित्यज्य कुरुषे पातकं सदा । मद्वंशकीर्तिहननं जातोऽसि ज्ञातिदुःखदः ११। अतिविस्मयदा सृष्टिर्विधातुर्मन्यते त्वयि । यस्मिन्सिंधौ शशी जातस्तत्र क्ष्वेडोद्भवोऽपि च १२। अहो शक्तिः कुपुत्राणां संख्यातुं न च शक्यते । अनेकैः पुरुषैः कीर्तिं संचितां हंति तत्क्षणात् १३। जाते पुत्रोत्तमे वंशः श्रेष्ठः स्यादधमोऽपि च । पुत्रेधमेतु श्रेष्ठोऽपि वंशो गच्छति हीनताम् १४। व्यास उवाच- इत्युक्त्वा ज्ञातयस्ते च तं सर्वे पापिनां वरम् । अपकीर्तिभयात्क्रुद्धास्तत्यजुः सहसा द्विज १५। ज्ञातिभिः स परित्यक्तो जनैः सर्वैश्च धिक्कृतः । प्रपेदे दस्युतां दुःखी विभ्रष्टाखिलवैभवः १६। तं दस्युकर्मकुर्वंतं निर्द्दयं परहिंसकम् । धृत्वा जनपदाः सर्वे भूपालाय न्यवेदयन् १७। तेन भूमिभुजा तस्य पितृस्नेहाद्दिवजोत्तम । न हतोऽसौ दुराचारो निजदेशाद्वहिष्कृतः १८। ततोऽसौ वनमाश्रित्य दस्युभिः सह निर्द्दयः । पांथस्वहरणार्थाय तस्थौ बहुभिरुद्धतैः १९। कदाचित्तटिनीतीरं दस्युभिः सह जैमिने । वनपर्यटने श्रांतो जगाम स्नानहेतवे २०। तस्यां तटिन्यां भगवत्परिचर्यापरायणान् । असौ ददर्श दुष्टात्मा ब्राह्मणाकृतिनो बहून् २१। अथ ते ब्राह्मणाः सर्वे समाराध्य जनार्दनम् । अन्योन्यं कथयामासुर्विहिता अति कौतुकात् २२। अद्य चंपकपुष्पाणि मया त्यक्तानि तानि वै । कश्चिद्वदति तांबूलं मया दत्तं मुरारये २३। न खादितव्यं तांबूलं कदाचिदपि जन्मनि । मयाद्य हरये दत्तं कदलीफलमुत्तमम् २४। जन्मजन्मानि च मया भक्ष्यं च कदलीफलम् । कोऽपि वक्ति मया दत्तं हरये दाडिमीफलम् २५। कोऽपि वक्ति मया दत्तं रसालफलमुत्तमम् । अन्योऽन्यमेतद्वदतां तेषां श्रुत्वा वचांसि च २६। उर्वीशुश्चिन्तयामास किं प्रदास्यामि विष्णवे । संसारे यानि वस्तूनि भक्ष्याणि संति तान्यहम् २७। न हि शक्नोमि संत्यक्तुं किं दास्यामि मुरारये । नित्यं वनांतरस्थोऽहं चौरो राजभयाकुलः २८। शकटारोहणे नास्ति ह्यधिकारः कदापि मे । व्यास उवाच- इत्युक्त्वा दस्युना तेन भूयोभूयो द्विजोत्तम २९। शकटं हरये दत्तं चतुर्वर्गप्रदायिने । अथ तेब्राह्मणाः सर्वे जग्मुर्विप्र यथागताः ३०। सोऽपि दस्युर्दस्युभिश्च जगाम निजमाश्रयम् । एकदा गुडकंडोलं तेनैव खलु वर्त्मना ३१। गृहीत्वा पथिकः कश्चित्काकीमंडलमागतः । ततोऽसौ सहसा दस्युर्निर्भयः परहिंसकः ३२। जहार गुडकंडोलमध्वनीनस्य तस्य च । अथ ते दस्यवश्चक्रुर्गुडकंडोल भंजनम् ३३। उर्वीशुश्चापतद्भागे शकटं गुडनिर्मितम् । उर्वीशुः शकटं गौडं समासाद्य द्विजोत्तम ३४। मनसा चिंतयामास वचःस्मरणपूर्वकम् । अनो मया पुरा दत्तं स्वयमेव मुरारये ३५। तस्मादनो न मे ग्राह्यं कदाचिदिह जन्मनि । विचिन्त्येति हृदा दातुं तदनो गुडनिर्मितम् ३६। दत्तं विप्राय कस्मैचिन्माधवप्रीतिहेतवे । तां भक्तिं तस्य विज्ञाय महापातकिनो द्विज ३७। जहार सकलं पापं सद्यः प्रीतो जनार्दनः । तस्मिन्नेव दिने विप्र प्रविश्य च महावनम् ३८। हतः पौरजनैः सर्वैरथ क्रुद्धैः स उर्विशुः । भगवानथ तं नेतुं विमानं स्वर्णनिर्मितम् ३९। दूतांश्च प्रेषयामास नानाभरणभूषितान् । अथ ते भगवद्दूतास्तमुर्वीशुं गतैनसम् ४०। समारोप्य विमाने तं सद्यो जग्मुः पुरं हरेः । ततौऽसौ हरिसान्निध्यं प्राप्य पुण्यात्मनां वरः ४१। पुनर्मन्वंतरशतं स्थित्वा केशवसन्निधिम् । परमं ज्ञानमासाद्य स विवेश तनुं हरेः ४२। व्यास उवाच- येन केनाप्युपायेन हरिभक्तिकरो नरः । संसारजलधेः पारं राजहंस इव व्रजन् ४३। क्षणमेव हरेर्भक्तिर्वर्तते यस्य चेतसि । तत्पदं परमं याति स पापात्मापि गच्छति ४४। एकमप्युत्तमं वस्तु दत्वाऽसौ तन्मुरारये । स्वयमेव हि भोक्तव्यं पश्चात्पापोपशांतये ४५। यद्वस्तु हरये दत्तं तच्च दद्याद्दिवजातये । किंचिच्छेषं न भोक्तव्यं तस्यावश्यं स्वयं बुधैः ४६। वस्तूनि ब्राह्मणश्रेष्ठमिष्टानि यानि कानि च । अदत्वा विष्णवे तानि न भोक्तव्यानि वैष्णवैः ४७। विष्णुनैवेद्यमाहात्म्यं सर्वपापप्रणाशनम् । सेतिहासं पुनर्वच्मि शृणु विप्र समाहितः ४८। आसीत्सर्वजनिर्नाम ब्राह्मणः शुद्धवंशजः । शांतो दांतो दयायुक्तो गुरुब्राह्मणपूजकः ४९। हरेः पूजापरश्चैव हरिस्मरणतत्परः । प्रपन्नक्लेशविध्वंसी सत्यवादी जितेन्द्रियः ५० 7.19.50। प्रातःस्नायी निजाचारग्राही हिंसा विवर्जितः । एकादशीव्रतरतो ज्ञातिपूजापरायणः ५१। कदाचित्स द्विजश्रेष्ठः स्वप्नेऽपश्यच्च केशवम् । श्यामं विरजपद्माक्षं स्मेरास्यं पीतवाससम् ५२। स्वर्णकुण्डलमञ्जीरकिरीटोज्ज्वलविग्रहम् । कौस्तुभोद्भासितोरस्कं वनमालाविभूषितम् ५३। चतुर्बाहुं शङ्खचक्रगदापद्मधरं प्रभुम् । समस्तैर्लक्षणैर्युक्तं स्वर्णयज्ञोपवीतिनम् ५४। संप्राप्य दर्शनं स्वप्ने स विप्रो जगतीपतेः । कृताञ्जलिस्तमस्तौषीद्रोमांचिततनुर्मुदा ५५। तुभ्यं नमोऽस्तु जगतः सकलस्यभर्त्त्रे सल्लोकशोकभयरोगविनाशनाय । नारायणाय कमलाहृदयप्रियाय धर्मार्थकामपरमामृतदाय तुभ्यम् ५६। पापानि चैव सकलानि मया कृतानि मत्तेन मोहवशगेन सदा मुरारे । तस्माद्बिभेमि जगदंबुनिधेर्गभीरान्मामुद्धरस्व निजभक्तितरीं प्रदाय ५७। जानामि यद्यपि हरे दुरितं मनुष्यो व्यामोहमाशुचलभे भुवि कैटभारे । पापं तथापि च मुदा सततं करोमि तस्मान्न कोऽप्यहमिवास्ति जनो विमूढः ५८। पुण्यद्रुमः सुखफलं सहसैव धत्ते किं वेद्मि नेति नृहरे कृतपातकोऽहम् । पुष्पद्रुमार्पणविधौ न ममास्ति वित्तं नाथ प्रसीद भगवन्किमहं करोमि ५९। त्वत्पादपद्मयुगलं परमामृतस्य स्थानं विहाय मम चित्तमधुव्रतोऽयम् । नारीमुखं व्रजति देवमृतिप्रदं यच्छ्लेष्मप्रकीर्णमनिशं कमलभ्रमेण ६०। पाणिःप्रदानरहितोऽनृतभाषिवक्त्रं कर्णौ च पापश्रवणाय सदैव दक्षौ । दोषानिमान्मम हरे हर सेवकस्य यस्मान्नु नाथ शरणागतदोषहंता ६१। संसारघोरजलधौ नृहरे कदाचित्त्वद्भक्तिनौरिह मया सुदृढा च लब्धा । तत्रापि दैववशगोऽहमहो दुरात्मा वर्तेत एव सततं ममदुःखकालः ६२। संसारपारगमनाय लसत्पथोऽस्ति किं सर्वदुःखरहितः सदयः प्रसन्नः । अंधीकृतस्य मम मोहमहत्तमिस्रैर्दृष्टिस्त्वयीह न कदापि च याति विष्णो ६३। पापात्मनोऽपि मम चित्तमिदं मुरारे नष्टं विनष्टजनकष्टविनष्टिकारि । यस्त्वां समस्तसुरवंदितपादपद्म स्वप्नेऽपि केशिमथनाद्य विभो समीक्षे ६४। व्यास उवाच- इति तेन स्तुतो देवो भगवान्कमलापतिः । उवाच वाक्यं वाक्यज्ञः संसारार्णवतारकः ६५। श्रीभगवानुवाच- भक्तिभिस्तव विप्रेंद्र तुष्टोऽहं नित्यमेव च । तस्मात्तवाचिरेणैव सर्वं भद्रं भविष्यति ६६। पापिनोऽपि तवोद्धारो मया पूर्वं कृतो द्विज । अधुना मम भक्तोऽसि न विपत्तिर्भविष्यति ६७। ब्राह्मण उवाच। कोऽहं तस्थौ पुरा विष्णो किं वा पापं मया कृतम् । पापिनोऽपि ममोद्धारः कथं पूर्वं त्वया कृतः ६८। संसारेऽस्मिन्कथं जातो जनितोऽहं कथं त्वया । एतत्सर्वं विभो ब्रूहि यतस्त्वं सदयः सदा ६९। श्रीभगवानुवाच- अप्रकाश्यमिदं गुह्यं यद्यपि द्विजसत्तम । तथापि तव वात्सल्यान्निगदामि निशामय ७०। पुरा त्वं ब्राह्मणश्रेष्ठ पक्षिवंशसमुद्भवः । भूतोऽसि भूमिभागेषु निजकर्मविपाकतः ७१। क्षुधया तृषया वापि सततं व्याकुलो भवान् । बभ्राम भक्षयन्कीटान्निर्झरोष्णोदकं तथा ७२। नानादुःखं सदा भुंजन्पक्षियोनौ समुद्भवः । चतुर्वर्षसहस्राणि स्थितोऽसि त्वं पुरा क्षितौ ७३। एकदा कुलभद्राख्यो ब्राह्मणः सर्वतत्ववित् । पूजयामास मां भक्त्या नैवेद्याद्यैर्नदीतटे ७४। समभ्यर्च्य स विप्रेंद्रो मम नैवेद्यतंदुलम् । ययौ तत्रैव निक्षिप्य भूय एव निजं गृहम् ७५। ततो वृक्षात्समागत्य क्षुधिना पक्षिणा त्वया । मम नैवेद्यसंबंधि भक्षितं सर्वतंदुलम् ७६। भुक्त्वैव सद्यो मुक्तोऽसि पातकैरतिदारुणैः । कदाचित्प्राप्तकालस्त्वं कालधर्मगतो द्विज ७७। त्वामानेतुं मया दूताः प्रेषिताः सर्वथा निजाः । ततो रथे समारोप्य भवंतं नष्टकल्मषम् ७८। सद्यो दूतगणाः सर्वे समायाताः परं पदम् । युगकोटिसहस्राणि स्थितोऽसि मम सन्निधौ ७९। भुंजन्सुखानि सर्वाणि दुर्ल्लभानि सुरैरपि । ततो यातोऽसि विप्रेन्द्र विशुद्धे ब्राह्मणान्वये ८०। तत्रापि मयि भक्तिस्ते जातातिसुदृढा पुनः । क्रियायोगेन मां नित्यं समाराध्य द्विजोत्तम ८१। आयुषोंते मत्प्रसादान्मामकं पदमाप्स्यसि । यदा तुष्टोऽस्म्यहं विप्र सपापात्मापि मुक्तिभाक् ८२। कदाचिद्यस्य रुष्टोस्मि पुण्यात्मापि च पापभाक् । तस्माद्ब्राह्मण भद्रं ते भक्तोऽसि मम सुव्रत ८३। दास्यामि ते परं स्थानं यदलभ्यं सुरैरपि । ब्राह्मण उवाच- त्वत्प्रसादाच्छ्रुतं नाथ पूर्ववृत्तांतमात्मनः ८४। इदानीं श्रोतुमिच्छामि यत्किञ्चिद्ब्रूहि तत्प्रभो । कस्य तुष्टोऽसि देवेन्द्र कस्य रुष्टोऽसि वा प्रभो ८५। महत्या कृपया सर्वमेतन्मे वक्तुमर्हसि । श्रीभगवानुवाच- कर्मणा येनविप्रेन्द्र तुष्टिर्मे हृदि जायते ८६। क्रोधश्च तत्समस्तं च कथयामि समासतः । यो दयावान्द्विजश्रेष्ठ सर्वभूतेषु सर्वदा ८७। अहंकारविहीनश्च तस्य तुष्टोऽस्म्यहं सदा । कर्म कुर्यान्मदर्थं यो धर्मभक्तिसमन्वितः ८८। ब्रूते मदर्थं यः शांतं तस्य तुष्टोऽस्म्यहं सदा । मिष्टं वस्तु समासाद्य दत्वा मे यश्च मानवः ८९। मानापमाने सदृशस्तस्य तुष्टोऽस्म्यहं सदा । सर्वभूतशरीरस्थं यो मां जानाति मानवः ९०। परहिंसाविहीनो यस्तस्य तुष्टोऽस्म्यहं सदा । कर्माणि कुरुते यस्तु सुविचार्य पुनः पुनः ९१। गोब्राह्मणहितैषी यस्तस्य तुष्टोऽस्म्यहं सदा । स्वयं निरुक्तं वचनं यत्नाद्यः परिपालयेत् ९२। प्रपन्नं याति यत्नाद्यस्तस्य तुष्टोऽस्म्यहं सदा । ददात्यनुपकारिभ्यो दानानि द्विजसत्तम ९३। मयि चित्तं सदा यस्य तस्य तुष्टोऽस्म्यहं सदा । कर्मणा येनतुष्टोऽस्मि निरुक्तं तत्समासतः ९४। रुष्टोऽस्मि कर्मणा येन विप्र वच्मि शृणुष्वतम् । परहिंसारतो यस्तु निर्द्दयः सर्वजंतुषु ९५। अहंयुः सर्वदा क्रुद्धः समां नयति शत्रुताम् । असत्यभाषीक्रूरश्च परनिंदापरस्तु यः ९६। कविवर्तनविध्वंसी समां नयति शत्रुताम् । अदृष्टदोषौ पितरौ स्त्रीभ्रातृभगिनी तथा ९७। मोहात्त्यजति यो मूढः समां नयति शत्रुताम् । पितृभिर्भर्त्सनं यस्तु कुरुते मूढधीर्नरः ९८। गुर्ववज्ञाकरो विप्र समां नयति शत्रुताम् । आरामच्छेदिनो ये च जलाशयविलायिनः ९९। ग्रामनाशकरायेचतेमांनयंतिशत्रुताम् । परस्त्रियं समालोक्य विषादं यान्ति ये जनाः १०० 7.19.100। शृण्वंति पापचर्चां च तेषां रुष्टोस्म्यहं सदा । द्विषंति नाथं ये मूढा अनाथस्वं हरंति ये १०१। विश्वासघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा । ये च गोवीर्यहंतारो वृषलीपतयश्च ये १०२। अश्वत्थघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा । ब्रह्मविष्णुमहेशानां मध्ये ये भेदकारिणः १०३। परदारातिरक्ता ये तेषां रुष्टोऽस्म्यहं सदा । एकादश्यां भुंजते ये लोभात्पापधियो नराः १०४। वेदनिंदाकरा ये च तेषांरुष्टोऽस्म्यहं सदा । पापबुद्धिरता ये च मित्रद्रोहरतास्तथा १०५। धात्रीतरुं च ये घ्नंति तेषां रुष्टोऽस्म्यहं सदा । दिवसे मैथुनं ये च कुर्वंते काममोहिताः १०६। रजस्वला स्त्रियां चैव तेषां रुष्टोऽस्म्यहं सदा । ये चादृष्टार्तवां नारीं मोहाद्गच्छंति सत्तम १०७। व्रतस्थां च सदा जाल्मास्ते मां नयंति शत्रुताम् । अमावास्यातिथौ ये च कुर्वंते निशिभोजनम् १०८। भोजनद्वयमेवार्के तेषां रुष्टोऽस्म्यहं सदा । आमिषं मैथुनं तैलममावास्यादिने द्विजाः १०९। न ये त्यजंति विप्रेन्द्र तेषां रुष्टोऽस्म्यहं सदा । बहुनात्र किमुक्तेन संक्षेपात्ते वदाम्यहम् ११०। निंदंति वैष्णवान्ये च तेषां रुष्टोस्म्यहं सदा । व्यास उवाच- इत्युक्त्वा भगवान्विष्णुरदृश्यः सहसाऽभवत् १११। स च विप्रः समुत्तस्थौ त्यक्तनिद्रस्तु मंचतः । केशवोक्तेन वाक्येन स विप्रो हरिभक्तिकृत् ११२। संत्यज्य सकलं कार्यं क्रियायोगरतोऽभवत् । नारायणस्य नैवेद्यं भुंजतोऽपि फलं त्विदम् ११३। हरिपूजाकृतां पुंसां न जाने किं भवेदिति । समासेन ब्रवीमि त्वां शृणु सत्तम जैमिने ११४। सकृत्कृत्वा हरेः पूजां प्राप्यते परमं पदम्। मानुष्यं दुर्ल्लभं लोके पूजा तत्रापि चक्रिणः ११५। भक्तिस्तत्रापि विप्रेन्द्र दुर्ल्लभा परिकीर्तिता ११६। संसाराब्धिं सर्वदुःखप्रपूर्णं तर्तुं वांछा यस्य चित्तेस्ति पुंसः । भक्त्या नित्यं वासुदेवस्य पूजां कुर्यादार्यः कर्मणां सोऽखिलानाम् ११७। इति श्रीपद्मपुराणे क्रियायोगसारे एकोनविंशतितमोऽध्यायः १९ ।
vyāsa uvāca- nārāyaṇaprapannā ye narābhaktisamanvitāḥ | kadācidaśubhaṃ teṣāṃ vidyate na dvijottama 1| punareva pravakṣyāmi māhātmyaṃ kamalāpateḥ | yacchrutvā mānavāḥ sarve labhaṃte paramaṃ padam 2| vāsudevasya māhātmyaṃ śrutvā tṛpyaṃti vaiṣṇavāḥ | pākhaṇḍā na hi tṛpyaṃti narake kleśabhāginaḥ 3| pākhaṇḍānāṃ samīpe tu viṣṇumāhātmyamuttamam | na vaktavyaṃ dvijaśreṣṭha vaktavyaṃ vaiṣṇavāgrataḥ 4| pūrvaṃ tretāyuge vipra urvīśurnāma jaimine | āsītpāparato nityaṃ dharmaniṃdāparāyaṇaḥ 5| brahmasvahārī viprendra parastrīgamanodyataḥ | gomāṃsāśī surāpī ca veśyāvibhramalolupaḥ 6| śaraṇāgatahaṃtā ca paraniṃdākaraḥ sadā | viśvāsaghātī mitraghno jñātipīḍākarastathā 7| asatyabhāṣī krūraśca pākhaṃḍajanasaṅgabhāk | vṛtticchedī dvijātīnāṃ nyāsāpahārakastathā 8| tādṛśaṃ taṃ samālokya duṣṭaṃ pāpaparāyaṇam | ājagmurjñātayaḥ sarve kruddhāstasya nijaṃgṛham 9| jñātaya ūcuḥ - pratiṣṭhopārjitā pūrvairasmākaṃ vimale kule | sā pratiṣṭhā tvayā mūḍha vināśaṃ pratinīyate 10| dharmamārgaṃ parityajya kuruṣe pātakaṃ sadā | madvaṃśakīrtihananaṃ jāto'si jñātiduḥkhadaḥ 11| ativismayadā sṛṣṭirvidhāturmanyate tvayi | yasminsiṃdhau śaśī jātastatra kṣveḍodbhavo'pi ca 12| aho śaktiḥ kuputrāṇāṃ saṃkhyātuṃ na ca śakyate | anekaiḥ puruṣaiḥ kīrtiṃ saṃcitāṃ haṃti tatkṣaṇāt 13| jāte putrottame vaṃśaḥ śreṣṭhaḥ syādadhamo'pi ca | putredhametu śreṣṭho'pi vaṃśo gacchati hīnatām 14| vyāsa uvāca- ityuktvā jñātayaste ca taṃ sarve pāpināṃ varam | apakīrtibhayātkruddhāstatyajuḥ sahasā dvija 15| jñātibhiḥ sa parityakto janaiḥ sarvaiśca dhikkṛtaḥ | prapede dasyutāṃ duḥkhī vibhraṣṭākhilavaibhavaḥ 16| taṃ dasyukarmakurvaṃtaṃ nirddayaṃ parahiṃsakam | dhṛtvā janapadāḥ sarve bhūpālāya nyavedayan 17| tena bhūmibhujā tasya pitṛsnehāddivajottama | na hato'sau durācāro nijadeśādvahiṣkṛtaḥ 18| tato'sau vanamāśritya dasyubhiḥ saha nirddayaḥ | pāṃthasvaharaṇārthāya tasthau bahubhiruddhataiḥ 19| kadācittaṭinītīraṃ dasyubhiḥ saha jaimine | vanaparyaṭane śrāṃto jagāma snānahetave 20| tasyāṃ taṭinyāṃ bhagavatparicaryāparāyaṇān | asau dadarśa duṣṭātmā brāhmaṇākṛtino bahūn 21| atha te brāhmaṇāḥ sarve samārādhya janārdanam | anyonyaṃ kathayāmāsurvihitā ati kautukāt 22| adya caṃpakapuṣpāṇi mayā tyaktāni tāni vai | kaścidvadati tāṃbūlaṃ mayā dattaṃ murāraye 23| na khāditavyaṃ tāṃbūlaṃ kadācidapi janmani | mayādya haraye dattaṃ kadalīphalamuttamam 24| janmajanmāni ca mayā bhakṣyaṃ ca kadalīphalam | ko'pi vakti mayā dattaṃ haraye dāḍimīphalam 25| ko'pi vakti mayā dattaṃ rasālaphalamuttamam | anyo'nyametadvadatāṃ teṣāṃ śrutvā vacāṃsi ca 26| urvīśuścintayāmāsa kiṃ pradāsyāmi viṣṇave | saṃsāre yāni vastūni bhakṣyāṇi saṃti tānyaham 27| na hi śaknomi saṃtyaktuṃ kiṃ dāsyāmi murāraye | nityaṃ vanāṃtarastho'haṃ cauro rājabhayākulaḥ 28| śakaṭārohaṇe nāsti hyadhikāraḥ kadāpi me | vyāsa uvāca- ityuktvā dasyunā tena bhūyobhūyo dvijottama 29| śakaṭaṃ haraye dattaṃ caturvargapradāyine | atha tebrāhmaṇāḥ sarve jagmurvipra yathāgatāḥ 30| so'pi dasyurdasyubhiśca jagāma nijamāśrayam | ekadā guḍakaṃḍolaṃ tenaiva khalu vartmanā 31| gṛhītvā pathikaḥ kaścitkākīmaṃḍalamāgataḥ | tato'sau sahasā dasyurnirbhayaḥ parahiṃsakaḥ 32| jahāra guḍakaṃḍolamadhvanīnasya tasya ca | atha te dasyavaścakrurguḍakaṃḍola bhaṃjanam 33| urvīśuścāpatadbhāge śakaṭaṃ guḍanirmitam | urvīśuḥ śakaṭaṃ gauḍaṃ samāsādya dvijottama 34| manasā ciṃtayāmāsa vacaḥsmaraṇapūrvakam | ano mayā purā dattaṃ svayameva murāraye 35| tasmādano na me grāhyaṃ kadācidiha janmani | vicintyeti hṛdā dātuṃ tadano guḍanirmitam 36| dattaṃ viprāya kasmaicinmādhavaprītihetave | tāṃ bhaktiṃ tasya vijñāya mahāpātakino dvija 37| jahāra sakalaṃ pāpaṃ sadyaḥ prīto janārdanaḥ | tasminneva dine vipra praviśya ca mahāvanam 38| hataḥ paurajanaiḥ sarvairatha kruddhaiḥ sa urviśuḥ | bhagavānatha taṃ netuṃ vimānaṃ svarṇanirmitam 39| dūtāṃśca preṣayāmāsa nānābharaṇabhūṣitān | atha te bhagavaddūtāstamurvīśuṃ gatainasam 40| samāropya vimāne taṃ sadyo jagmuḥ puraṃ hareḥ | tatau'sau harisānnidhyaṃ prāpya puṇyātmanāṃ varaḥ 41| punarmanvaṃtaraśataṃ sthitvā keśavasannidhim | paramaṃ jñānamāsādya sa viveśa tanuṃ hareḥ 42| vyāsa uvāca- yena kenāpyupāyena haribhaktikaro naraḥ | saṃsārajaladheḥ pāraṃ rājahaṃsa iva vrajan 43| kṣaṇameva harerbhaktirvartate yasya cetasi | tatpadaṃ paramaṃ yāti sa pāpātmāpi gacchati 44| ekamapyuttamaṃ vastu datvā'sau tanmurāraye | svayameva hi bhoktavyaṃ paścātpāpopaśāṃtaye 45| yadvastu haraye dattaṃ tacca dadyāddivajātaye | kiṃciccheṣaṃ na bhoktavyaṃ tasyāvaśyaṃ svayaṃ budhaiḥ 46| vastūni brāhmaṇaśreṣṭhamiṣṭāni yāni kāni ca | adatvā viṣṇave tāni na bhoktavyāni vaiṣṇavaiḥ 47| viṣṇunaivedyamāhātmyaṃ sarvapāpapraṇāśanam | setihāsaṃ punarvacmi śṛṇu vipra samāhitaḥ 48| āsītsarvajanirnāma brāhmaṇaḥ śuddhavaṃśajaḥ | śāṃto dāṃto dayāyukto gurubrāhmaṇapūjakaḥ 49| hareḥ pūjāparaścaiva harismaraṇatatparaḥ | prapannakleśavidhvaṃsī satyavādī jitendriyaḥ 50 7.19.50| prātaḥsnāyī nijācāragrāhī hiṃsā vivarjitaḥ | ekādaśīvratarato jñātipūjāparāyaṇaḥ 51| kadācitsa dvijaśreṣṭhaḥ svapne'paśyacca keśavam | śyāmaṃ virajapadmākṣaṃ smerāsyaṃ pītavāsasam 52| svarṇakuṇḍalamañjīrakirīṭojjvalavigraham | kaustubhodbhāsitoraskaṃ vanamālāvibhūṣitam 53| caturbāhuṃ śaṅkhacakragadāpadmadharaṃ prabhum | samastairlakṣaṇairyuktaṃ svarṇayajñopavītinam 54| saṃprāpya darśanaṃ svapne sa vipro jagatīpateḥ | kṛtāñjalistamastauṣīdromāṃcitatanurmudā 55| tubhyaṃ namo'stu jagataḥ sakalasyabharttre sallokaśokabhayarogavināśanāya | nārāyaṇāya kamalāhṛdayapriyāya dharmārthakāmaparamāmṛtadāya tubhyam 56| pāpāni caiva sakalāni mayā kṛtāni mattena mohavaśagena sadā murāre | tasmādbibhemi jagadaṃbunidhergabhīrānmāmuddharasva nijabhaktitarīṃ pradāya 57| jānāmi yadyapi hare duritaṃ manuṣyo vyāmohamāśucalabhe bhuvi kaiṭabhāre | pāpaṃ tathāpi ca mudā satataṃ karomi tasmānna ko'pyahamivāsti jano vimūḍhaḥ 58| puṇyadrumaḥ sukhaphalaṃ sahasaiva dhatte kiṃ vedmi neti nṛhare kṛtapātako'ham | puṣpadrumārpaṇavidhau na mamāsti vittaṃ nātha prasīda bhagavankimahaṃ karomi 59| tvatpādapadmayugalaṃ paramāmṛtasya sthānaṃ vihāya mama cittamadhuvrato'yam | nārīmukhaṃ vrajati devamṛtipradaṃ yacchleṣmaprakīrṇamaniśaṃ kamalabhrameṇa 60| pāṇiḥpradānarahito'nṛtabhāṣivaktraṃ karṇau ca pāpaśravaṇāya sadaiva dakṣau | doṣānimānmama hare hara sevakasya yasmānnu nātha śaraṇāgatadoṣahaṃtā 61| saṃsāraghorajaladhau nṛhare kadācittvadbhaktinauriha mayā sudṛḍhā ca labdhā | tatrāpi daivavaśago'hamaho durātmā varteta eva satataṃ mamaduḥkhakālaḥ 62| saṃsārapāragamanāya lasatpatho'sti kiṃ sarvaduḥkharahitaḥ sadayaḥ prasannaḥ | aṃdhīkṛtasya mama mohamahattamisrairdṛṣṭistvayīha na kadāpi ca yāti viṣṇo 63| pāpātmano'pi mama cittamidaṃ murāre naṣṭaṃ vinaṣṭajanakaṣṭavinaṣṭikāri | yastvāṃ samastasuravaṃditapādapadma svapne'pi keśimathanādya vibho samīkṣe 64| vyāsa uvāca- iti tena stuto devo bhagavānkamalāpatiḥ | uvāca vākyaṃ vākyajñaḥ saṃsārārṇavatārakaḥ 65| śrībhagavānuvāca- bhaktibhistava vipreṃdra tuṣṭo'haṃ nityameva ca | tasmāttavācireṇaiva sarvaṃ bhadraṃ bhaviṣyati 66| pāpino'pi tavoddhāro mayā pūrvaṃ kṛto dvija | adhunā mama bhakto'si na vipattirbhaviṣyati 67| brāhmaṇa uvāca| ko'haṃ tasthau purā viṣṇo kiṃ vā pāpaṃ mayā kṛtam | pāpino'pi mamoddhāraḥ kathaṃ pūrvaṃ tvayā kṛtaḥ 68| saṃsāre'sminkathaṃ jāto janito'haṃ kathaṃ tvayā | etatsarvaṃ vibho brūhi yatastvaṃ sadayaḥ sadā 69| śrībhagavānuvāca- aprakāśyamidaṃ guhyaṃ yadyapi dvijasattama | tathāpi tava vātsalyānnigadāmi niśāmaya 70| purā tvaṃ brāhmaṇaśreṣṭha pakṣivaṃśasamudbhavaḥ | bhūto'si bhūmibhāgeṣu nijakarmavipākataḥ 71| kṣudhayā tṛṣayā vāpi satataṃ vyākulo bhavān | babhrāma bhakṣayankīṭānnirjharoṣṇodakaṃ tathā 72| nānāduḥkhaṃ sadā bhuṃjanpakṣiyonau samudbhavaḥ | caturvarṣasahasrāṇi sthito'si tvaṃ purā kṣitau 73| ekadā kulabhadrākhyo brāhmaṇaḥ sarvatatvavit | pūjayāmāsa māṃ bhaktyā naivedyādyairnadītaṭe 74| samabhyarcya sa vipreṃdro mama naivedyataṃdulam | yayau tatraiva nikṣipya bhūya eva nijaṃ gṛham 75| tato vṛkṣātsamāgatya kṣudhinā pakṣiṇā tvayā | mama naivedyasaṃbaṃdhi bhakṣitaṃ sarvataṃdulam 76| bhuktvaiva sadyo mukto'si pātakairatidāruṇaiḥ | kadācitprāptakālastvaṃ kāladharmagato dvija 77| tvāmānetuṃ mayā dūtāḥ preṣitāḥ sarvathā nijāḥ | tato rathe samāropya bhavaṃtaṃ naṣṭakalmaṣam 78| sadyo dūtagaṇāḥ sarve samāyātāḥ paraṃ padam | yugakoṭisahasrāṇi sthito'si mama sannidhau 79| bhuṃjansukhāni sarvāṇi durllabhāni surairapi | tato yāto'si viprendra viśuddhe brāhmaṇānvaye 80| tatrāpi mayi bhaktiste jātātisudṛḍhā punaḥ | kriyāyogena māṃ nityaṃ samārādhya dvijottama 81| āyuṣoṃte matprasādānmāmakaṃ padamāpsyasi | yadā tuṣṭo'smyahaṃ vipra sapāpātmāpi muktibhāk 82| kadācidyasya ruṣṭosmi puṇyātmāpi ca pāpabhāk | tasmādbrāhmaṇa bhadraṃ te bhakto'si mama suvrata 83| dāsyāmi te paraṃ sthānaṃ yadalabhyaṃ surairapi | brāhmaṇa uvāca- tvatprasādācchrutaṃ nātha pūrvavṛttāṃtamātmanaḥ 84| idānīṃ śrotumicchāmi yatkiñcidbrūhi tatprabho | kasya tuṣṭo'si devendra kasya ruṣṭo'si vā prabho 85| mahatyā kṛpayā sarvametanme vaktumarhasi | śrībhagavānuvāca- karmaṇā yenaviprendra tuṣṭirme hṛdi jāyate 86| krodhaśca tatsamastaṃ ca kathayāmi samāsataḥ | yo dayāvāndvijaśreṣṭha sarvabhūteṣu sarvadā 87| ahaṃkāravihīnaśca tasya tuṣṭo'smyahaṃ sadā | karma kuryānmadarthaṃ yo dharmabhaktisamanvitaḥ 88| brūte madarthaṃ yaḥ śāṃtaṃ tasya tuṣṭo'smyahaṃ sadā | miṣṭaṃ vastu samāsādya datvā me yaśca mānavaḥ 89| mānāpamāne sadṛśastasya tuṣṭo'smyahaṃ sadā | sarvabhūtaśarīrasthaṃ yo māṃ jānāti mānavaḥ 90| parahiṃsāvihīno yastasya tuṣṭo'smyahaṃ sadā | karmāṇi kurute yastu suvicārya punaḥ punaḥ 91| gobrāhmaṇahitaiṣī yastasya tuṣṭo'smyahaṃ sadā | svayaṃ niruktaṃ vacanaṃ yatnādyaḥ paripālayet 92| prapannaṃ yāti yatnādyastasya tuṣṭo'smyahaṃ sadā | dadātyanupakāribhyo dānāni dvijasattama 93| mayi cittaṃ sadā yasya tasya tuṣṭo'smyahaṃ sadā | karmaṇā yenatuṣṭo'smi niruktaṃ tatsamāsataḥ 94| ruṣṭo'smi karmaṇā yena vipra vacmi śṛṇuṣvatam | parahiṃsārato yastu nirddayaḥ sarvajaṃtuṣu 95| ahaṃyuḥ sarvadā kruddhaḥ samāṃ nayati śatrutām | asatyabhāṣīkrūraśca paraniṃdāparastu yaḥ 96| kavivartanavidhvaṃsī samāṃ nayati śatrutām | adṛṣṭadoṣau pitarau strībhrātṛbhaginī tathā 97| mohāttyajati yo mūḍhaḥ samāṃ nayati śatrutām | pitṛbhirbhartsanaṃ yastu kurute mūḍhadhīrnaraḥ 98| gurvavajñākaro vipra samāṃ nayati śatrutām | ārāmacchedino ye ca jalāśayavilāyinaḥ 99| grāmanāśakarāyecatemāṃnayaṃtiśatrutām | parastriyaṃ samālokya viṣādaṃ yānti ye janāḥ 100 7.19.100| śṛṇvaṃti pāpacarcāṃ ca teṣāṃ ruṣṭosmyahaṃ sadā | dviṣaṃti nāthaṃ ye mūḍhā anāthasvaṃ haraṃti ye 101| viśvāsaghātino ye ca teṣāṃ ruṣṭo'smyahaṃ sadā | ye ca govīryahaṃtāro vṛṣalīpatayaśca ye 102| aśvatthaghātino ye ca teṣāṃ ruṣṭo'smyahaṃ sadā | brahmaviṣṇumaheśānāṃ madhye ye bhedakāriṇaḥ 103| paradārātiraktā ye teṣāṃ ruṣṭo'smyahaṃ sadā | ekādaśyāṃ bhuṃjate ye lobhātpāpadhiyo narāḥ 104| vedaniṃdākarā ye ca teṣāṃruṣṭo'smyahaṃ sadā | pāpabuddhiratā ye ca mitradroharatāstathā 105| dhātrītaruṃ ca ye ghnaṃti teṣāṃ ruṣṭo'smyahaṃ sadā | divase maithunaṃ ye ca kurvaṃte kāmamohitāḥ 106| rajasvalā striyāṃ caiva teṣāṃ ruṣṭo'smyahaṃ sadā | ye cādṛṣṭārtavāṃ nārīṃ mohādgacchaṃti sattama 107| vratasthāṃ ca sadā jālmāste māṃ nayaṃti śatrutām | amāvāsyātithau ye ca kurvaṃte niśibhojanam 108| bhojanadvayamevārke teṣāṃ ruṣṭo'smyahaṃ sadā | āmiṣaṃ maithunaṃ tailamamāvāsyādine dvijāḥ 109| na ye tyajaṃti viprendra teṣāṃ ruṣṭo'smyahaṃ sadā | bahunātra kimuktena saṃkṣepātte vadāmyaham 110| niṃdaṃti vaiṣṇavānye ca teṣāṃ ruṣṭosmyahaṃ sadā | vyāsa uvāca- ityuktvā bhagavānviṣṇuradṛśyaḥ sahasā'bhavat 111| sa ca vipraḥ samuttasthau tyaktanidrastu maṃcataḥ | keśavoktena vākyena sa vipro haribhaktikṛt 112| saṃtyajya sakalaṃ kāryaṃ kriyāyogarato'bhavat | nārāyaṇasya naivedyaṃ bhuṃjato'pi phalaṃ tvidam 113| haripūjākṛtāṃ puṃsāṃ na jāne kiṃ bhavediti | samāsena bravīmi tvāṃ śṛṇu sattama jaimine 114| sakṛtkṛtvā hareḥ pūjāṃ prāpyate paramaṃ padam| mānuṣyaṃ durllabhaṃ loke pūjā tatrāpi cakriṇaḥ 115| bhaktistatrāpi viprendra durllabhā parikīrtitā 116| saṃsārābdhiṃ sarvaduḥkhaprapūrṇaṃ tartuṃ vāṃchā yasya cittesti puṃsaḥ | bhaktyā nityaṃ vāsudevasya pūjāṃ kuryādāryaḥ karmaṇāṃ so'khilānām 117| iti śrīpadmapurāṇe kriyāyogasāre ekonaviṃśatitamo'dhyāyaḥ 19 |
English translation
Vyāsa said :
1-2. O best brāhmaṇa , those men who, full of devotion, resort to Viṣṇu , never face a disaster. I will once more narrate the greatness of Lakṣmī ’s lord, hearing which all men obtain the highest position.
3-4. Devotees of Viṣṇu are satisfied with listening to the greatness of Kṛṣṇa . Heretics, suffering from trouble in a hell, are not satisfied. O best brāhmaṇa, the excellent greatness of Viṣṇu should not be narrated in the presence of heretics. It should be told in the presence of Viṣṇu’s devotees.
5-9. O Jaimini , formerly in Tretā-yuga there lived a brāhmaṇa, Urvīśu by name. He was always engaged in sinful acts, and was highly given to the censure of religion. He snatched brāhmaṇas ’ wealth. O best brāhmaṇa, he was always bent upon cohabitation with another’s wife. He ate cow’s flesh. He drank liquor. He had an ardent longing for the amorous gestures of prostitutes. He harmed him who sought his shelter. He always censured others. He was a traitor. He harmed his friends. He harassed his kinsmen also. He told lies. He was cruel. He used to have the company of heretics. He cut off the livehood of brāhmaṇas. He took away deposits. Seeing him cruel and highly attached to sins like that all his kinsmen who were angry came to his house.
The kinsmen said :
10-14. O fool, the eminence which our ancestors had earned in our pure family is (now) being destroyed by you. Giving up the righteous path, you are always committing sin(s). You are born as the destroyer of the fame of our family and as one giving pain to your kinsmen. In you (i.e. with regard to you) the Creator’s creation is thought to be causing wonder. Poison came up from that sea from which the moon had come up. Oh, it is not possible to measure the power of bad sons. In a moment they destroy the fame gathered by many men (i.e. their ancestors). Even a low family becomes the greatest when the best son is born (in it). But even the best family is degraded when a mean son is born in it.
Vyāsa said :
15-20. O brāhmaṇa, speaking like this all the kinsmen, getting angry due to the fear of infamy, deserted that greatest sinner. He, deserted by all his kinsmen and reproached by all people, was sorry, and deprived of all his affluence, became a bandit. All (the members of) the community seized him who did that act of a robber, cruel and harmful to others, and reported him to the king. O best brāhmaṇa, the king, due to affection for his father, did not kill him, (but) expelled him from his country. Then the cruel one, resorting to a forest along with many (other) haughty bandits, remained (there) for snatching the wealth of travellers. O Jaimini, he, fatigued while roaming in the forest, sometime went, along with (other) bandits, for a bath to a river-bank.
21-22. This wicked one saw in that river many blessed brāhmaṇas highly devoted to the lord’s worship. Then all the brāhmaṇas, having worshipped Viṣṇu, spoke to one another with great curiosity:
23-29a. “I have today dropped those campaka -flowers (in honour of Viṣṇu).” Someone (else) said: “I have offered tāmbūla to Viṣṇu. In my life I shall never eat a tāmbūla. Today I have offered the best banana to Viṣṇu. Birth after birth I would eat a banana.” Someone said: “I have offered a pomegranate to Viṣṇu.” Someone said: “I have offered an excellent mango (to Viṣṇu).” Having heard these words of them talking to one another, Urvīśu thought, ‘What shall I offer to Viṣṇu? I cannot give all those things that are eatables in the worldly existence to Viṣṇu. (Then) What shall I offer to him? I, a thief, overcome by the fear of the king, always stay in the forest. I am never entitled to getting into a cart.’
Vyāsa said :
29b-33. O best brāhmaṇa, the thief, repeatedly speaking like this, gave a cart to Viṣṇu, the giver of the four goals (of human life). Then all the brāhmaṇas went as they had come. That thief also went to his abode along with (other) thieves. Once a traveller carrying a basket of jaggery came to that region of the impudent (thieves) along the same path. Then this fearless bandit, harming others, snatched that basket of jaggery of the traveller. Then the robbers broke the basket of jaggery.
34-36. As his share Urvīśu obtained a cart fashioned from jaggery. O best brāhmaṇa, Urvīśu, having obtained that jaggery-cart thought in his mind recollecting the words (of those brāhmaṇas): ‘Formerly I myself have presented a cart to Viṣṇu. Therefore, in this existence, I should not take a cart.’ Thinking like this in his mind he intended to give the cart (to a brāhmaṇa).
37-42. To please Viṣṇu he gave it to some brāhmaṇa. O brāhmaṇa, knowing that devotion of that great sinner, Viṣṇu who was pleased, instantly removed all his sin. O brāhmaṇa, on the same day all the angry citizens entered that great forest and killed that Urvīśu. To take him (to his own abode) the lord sent an aeroplane made of gold, so also messengers adorned with various ornaments. Then those messengers of the lord, having put that Urvīśu who was dead, into the aeroplane, instantly went to Viṣṇu's city. Then the best one among the pious obtained Viṣṇu’s proximity. After living near Viṣṇu for a hundred periods of Manu , and after securing the highest knowledge, he entered Viṣṇu’s body.
Vyāsa said :
43-44. A man who, somehow or the other, is devoted to Viṣṇu, goes, like a royal swan beyond the ocean of the worldly existence. He in whose heart there is devotion for Viṣṇu even for a moment, goes to the highest position. Even though he is a sinner, he goes (to the highest position).
45. One should, after offering even the best thing to Viṣṇu, afterwards enjoy it for the appeasement of the sin.
46. The thing that is offered to Viṣṇu should be given to a brāhmaṇa. The wise should not enjoy any remnant of it themselves.
47. O best brāhmaṇa, a devotee of Viṣṇu should not enjoy whatever things and sweets without offering them to Viṣṇu.
48-51. I shall again tell, along with its history, the greatness of eatables offered to Viṣṇu, which destroy all sins. O brāhmaṇa, being attentive, listen to it. There was a brāhmaṇa, Sarvajani by name, who was born in a pure family. He was calm, controlled, kind and honoured his preceptors (or elderly persons) and brāhmaṇas. He was absorbed in Viṣṇu’s worship, and was exclusively devoted to remembering Viṣṇu. He removed the affliction of those who sought his shelter; he was truthful, and had curbed his senses. He (everyday) bathed in the morning. He followed the practices of his own (caste); he abandoned harm (to others); he was absorbed in (observing) the Ekādaśī vow; he was intent upon honouring his kinsmen.
52-54. Once that best brāhmaṇa saw in his dream lord Viṣṇu who was dark, whose eyes were like dustless lotuses, who had a smiling face, who had put on a yellow garment, whose body was bright due to golden ear-rings and anklets and a crown, whose chest shone with the Kaustubha (gem), who was adorned with a garland of wood-flowers. He had four arms, had held a conch, a disc, a mace and a lotus, was endowed with all (auspicious) marks, and had worn a golden sacred thread.
55. Having seen the lord of the world in the dream, the brāhmaṇa joined the palms of his hands, and with his body horripilated, gladly praised him.
56-64. “I salute you, (i.e.) Viṣṇu, who are the lord of the entire world, who destroy the grief, fear and diseases of good people, who are dear to Lakṣmī’s heart, who give the nectar of piety, material welfare, and sensual enjoyment. O Murāri , I, being arrogant through folly committed all sins. I am, therefore, frightened. Giving the boat of your devotion, take me out of this deep ocean of (the existence in) the world. O Viṣṇu, though I know that a man quickly obtains sin and delusion on the earth, yet I am always gladly committing sins. Therefore, there is no man here (i.e. on the earth) who is foolish like me. O Viṣṇu, do I who have committed sins, not know that the tree of religious merit suddenly gives the fruit of happiness, O Nṛhari? O lord, I have no wealth to (undertake) the act of offering you a tree having flowers. Be pleased. O lord, what shall I do? O god, this bee of my heart, leaving the pair of your lotus-like feet, the place of the best nectar, constantly moves to a woman’s face—misunderstanding it for a lotus which causes death and which is full of the phlegm of deceit. (My) hand is bereft of (giving) gifts. (My) mouth tells lies. (My) ears are always intent upon listening to sinful things. O Viṣṇu, remove these faults of me, your servant, since, O lord, you always destroy the blemishes of him who has sought your shelter. O Nṛhari, at one time, I have, in this world, obtained the very strong boat of your devotion in (order to cross) this fearful ocean of the worldly existence. Even in that case, I, under the sway of Destiny, remain a wicked-hearted person. I am constantly having an unhappy time. Is there a bright path, kind, pleasant and free from all afflictions, for crossing the mundane existence? O Viṣṇu, my eyes blinded by a great darkness in the form of delusion never go to you in this world. O destroyer of Keśin , O you whose lotus-like feet are saluted by all gods, since I see you today, this mind of me, even of a wicked nature, destroying the trouble of people that are tormented, has perished.”
Vyāsa said :
65. Thus praised by him, the revered god, the lord of Lakṣmī, knower of words and saviour from the ocean of the worldly existence, said (these) words:
The lord said :
66-67. O best brāhmaṇa, I am constantly pleased with your devotion. Therefore, you will have full happiness soon. O brāhmaṇa, I have formerly emancipated you, though a sinner. Now you are my devotee. You will not face a calamity.
The brāhmaṇa said :
68-69. O Viṣṇu, who was I formerly? What sin did I commit? How did you formerly emancipate me, though a sinner? Since you are always kind, O lord, tell me all this—How was I born, and how was I created by you in this mundane existence?
The lord said :
70-73. O best brāhmaṇa, though this secret is not to be divulged, lam telling it through affection for you. Listen. O best brāhmaṇa, formerly due to the ripening of your acts you were born in a region on the earth in the stock of a bird. You, always oppressed by hunger and thirst, wandered, eating insects and (drinking) the hot water of springs. You, born in the stock of a bird, always experiencing various afflictions formerly lived for four thousand years on the earth.
74-77. Once, a brāhmaṇa named Kulabhadra, knowing the full truth, devoutly worshipped me with offerings of eatables etc. on the bank of a river. The best brāhmaṇa, having offered me rice as the offering of eatables, again went home after leaving it just there. Then you, a hungry bird, having come down from the tree, ate all that rice offered as an offering of eatables to me. On just eating it you were instantly freed from very fearful sins. Once, on the completion of your life, you died, O brāhmaṇa.
78-80. Then by all means I sent my messengers to bring you (to me). Then putting you whose sins had perished, into a chariot, the hosts of messengers instantly came to the highest place. Enjoying all pleasures, difficult to be had even by gods, you stayed with me for thousands of crores of yugas . Then, O best brāhmaṇa, you went to (i.e. were born in) a pure brāhmaṇa-family.
81-84a. There (i.e. in that existence) also, very firm devotion for me was again produced in you. O excellent brāhmaṇa, having everyday worshipped me with employment of rituals, you will obtain my position at the end of your life. O brāhmaṇa, when I am pleased, you, though a sinner, will enjoy liberation. When sometime I am angry with a man, he is a sinner, even though he is pious; (but) O brāhmaṇa, when I am pleased, a man, though he is a sinner, obtains liberation. Therefore, O brāhmaṇa, O you of a good vow, may you have welfare. You are my devotee. I shall give you that place which cannot be obtained even by gods.
The brāhmaṇa said :
84b-86a. O lord, due to your grace, I have heard my former account. Now I desire to hear something. O lord, tell it. O lord, with whom are you pleased? O best of gods, with whom are you angry? With great favour please tell me all this.
The lord said :
86b-94. O best brāhmaṇa, I shall tell (you) all that in brief, due to which act pleasure is produced in my heart and due to which anger is produced. O best brāhmaṇa, with him who acts for my sake and who is without egotism, I am always pleased.. With him who, full of piety and devotion, speaks calmly for me, I am always pleased. With that man who having secured sweetmeat gives it to me and who is equanimous in honour and insult, I am always pleased. With the man who knows me to be present in the bodies of all beings and who avoids harm to others, I am always pleased. With him who repeatedly thinking well, does his acts and who desires the good of cows and brāhmaṇas, I am always pleased. With him who would, with great effort, keep the word uttered by him, and who goes to him carefully who has sought his shelter, lam always pleased. O best brāhmaṇa, with him who always gives gifts to those who do not oblige him, and whose heart is always in me, I am always delighted. I have told (you) in brief with which act I am pleased.
95-111a. O brāhmaṇa, I (now) tell the act due to which I am angry. Listen to it. He who is engaged in harming others, who is cruel to all living beings, who is egoistic, who is always angry, makes me his enemy. He who tells lies, who is cruel, who is given to censuring others, who destroys the mode of the living of the wise, makes me his enemy. The fool who, through delusion, abandons his parents whose faults are not noticed, so also his wife, brother, sister, makes me his enemy. A dull-witted man who reproaches his parents, who insults his preceptor, makes me his. enemy, O brāhmaṇa. Those who destroy groves, who destroy lakes, who destroy villages, make me their enemy. With those people who, on seeing another’s wife are dejected, who listen to sinful discussion, I am always angry. With those who hate the lord, who snatch the wealth of the unprotected, who are traitors, I am always angry. With those who take away the price of cow’s milk, who are the husbands of Śūdra women, who harm the holy fig-tree, I am always angry. With those who make a distinction among Brahmā , Viṣṇu and Śiva , and who are very much attached to other’s wives, I am always angry. With those men of sinful minds, who eat on the Ekādaśī day through greed and who censure the Vedas , I am always angry. With those who are attached to sinful thoughts and to plotting against their friends, and who destroy the dhātrī -tree I am always angry. With those who, deluded by lust, cohabit by day and who cohabit with a woman in her menses, I am always angry. O best one, those who, through folly, approach a woman who has not attained puberty, so also the rogues who approach a woman observing a vow, make me their enemy. I am always angry with them who take a meal at night on the new-moon day, so also with them who take two meals on Sundays. O brāhmaṇa, with those who do not avoid cohabitation, flesh, oil on new-moon day, I am always angry. What is the use of talking much in this matter? I (shall) tell you in brief. So also I am always angry with them who censure Viṣṇu’s devotees.
Vyāsa said :
111b-117. Speaking like this lord Viṣṇu suddenly vanished. And that brāhmaṇa, having abandoned his sleep, got up from his bed. Due to the words uttered by Viṣṇu the brāhmaṇa, the devotee of Viṣṇu, gave up all (other) activities and was engaged in the employment of rituals. This is the fruit of (i.e. obtained by) them who even eat the articles of food (after they are) offered to Viṣṇu. I do not know how much fruit would be theirs who have worshipped Viṣṇu. O best one, O Jaimini, I (shall) tell you in brief. Listen. A man, having performed Viṣṇu’s worship (but) once, obtains the highest position. In the world manhood is difficult to be obtained. Even in it worship of Viṣṇu is (difficult to be had). O best brāhmaṇa, there also devotion is declared to be difficult. That respectable man in whose mind there is a desire to cross the ocean of the mundane existence, should everyday devoutly worship Viṣṇu with all rites.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 14256, revision 336767 (2022-04-27T03:50:39Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365860.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.