Skip to main content

Kriyāyogasāra-khaṇḍa · Chapter 22

Chapter 22

Unit 689 of 693Kriyāyogasāra-khaṇḍa · Chapter 22Kriyāyogasāra-khaṇḍa · Chapter 221 source entries

Kriyāyogasāra-khaṇḍa · Chapter 22

Source

जैमिनिरुवाच- गङ्गायाः शुभ माहात्म्यं विष्णुपूजाफलं तथा । अन्नदानस्य माहात्म्यं जलदानस्य चोत्तमम् १। विप्रपादोदकस्यापि माहात्म्यं पापनाशनम् । त्वत्प्रसादाच्छ्रुतं सर्वं सेतिहासं गुरो मया २। इदानीं मुनिशार्दूल श्रोतुमिच्छामि सादरम् । एकादश्याः फलं सर्वं सर्वपातकनाशनम् ३। कस्मादेकादशी श्रेष्ठा तस्याः को वा विधिः स्मृतः । कदाचित् क्रियते किं वा फलं तस्या वदस्व मे ४। का वा पूज्यतमा तत्र देवता सद्गुणार्णव । अकुर्वतः स्यात्को दोषस्तन्मे वक्तुमिहार्हसि ५। व्यास उवाच- एकादश्याः फलं सर्वं वक्तुं नारायणादृते । शक्नोति नान्यो विप्रर्षे तस्माद्वच्मि समासतः ६। सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम् । सर्वेषां दमनार्थाय सृष्टवान्पापपूरुषम् ७। द्विजातिहत्यामूर्द्धानं मदिरापानलोचनम् । स्वर्णस्तेयं च वदनं गुरुतल्पगतिः श्रुतिः ८। स्त्रीहत्या नासिकं चैव गोहत्यादोष बाहुकम् । न्यासापहारण ग्रीवं भ्रूणहत्या गलं तथा ९। परस्त्रीगतबुक्काग्रं सुहृल्लोकवधोदरम् । शरणापन्नहत्यादि नाभिगर्तावधिं कटिम् १०। गुरुनिंदा सक्थिभागं कन्याविक्रय शेफसम् । विश्वासवाक्यकथनं पायुं प्रीतिवधांघ्रिकम् ११। उपपातकरोमाणं महाकायं भयंकरम् । कृष्णवर्णं पिंगनेत्रं स्वाश्रयात्यंतदुःखदम् १२। तं दृष्ट्वा पापपुरुषमत्युग्रं पुरुषोत्तमम् । सदयश्चिंतयामास प्रजाक्लेशहरः प्रभुः १३। सृष्टोऽयं दुर्जनः क्रूरः स्वाश्रयक्लेशदायकः । प्रजानां दमनार्थाय सृजाम्येतस्य कारणम् १४। अथासौ भगवान्विष्णुर्बभूव स्वयमंतकः । ससर्ज रौरवादींश्च निरयान्पापिदुःखदान् १५। पापं यः सेवते मूढो न याति परमं पदम् । यमाज्ञया व्रजेत्तत्र नरकं रौरवादिकम् १६। एकदा भगवान्विष्णुः प्रजानां दुःखनाशनः । वैनतेयं समारुह्य जगाम यममंदिरम् १७। तं दृष्ट्वा जगतामीशं नारायणमनामयम् । धूपाद्यैः पूजयामास भास्करिस्तुष्टमानसः १८। यमेनाभ्यर्चितो विष्णुः सर्वलोकैकनायकः । उवास द्विजशार्दूल पीठे कनकनिर्मिते १९। तत्रोपविष्टो भगवान्यमेन सह दैत्यहा । शुश्राव क्रंदनं ध्यानं दक्षिणस्यां दिशि प्रभो २०। अथासौ कमलाकांतो विस्मयाविष्टमानसः । उवाचेति यमं तेषां कुतोऽयं क्रंदनध्वनिः २१। यम उवाच- देवपातकिनो मर्त्या निरयेऽत्यंतदुःखदे । स्वहस्तार्जितदोषेण सीदंति च ममालये २२। पापवृक्षफलं विष्णो भोक्तुमत्यंतदुःखदम् । रुदंति पापिनस्तस्मात्तेषां ध्वनिरसौ महान् २३। इत्युक्तः सूर्यपुत्रेण कृष्णः कमललोचनः । जगाम सहसा तत्र पापवंतो रुदंति ते २४। तान्दृष्ट्वा पापिनो मर्त्यान्रौरवादिषु संस्थितान् । भगवांश्चिंतयामास हृदिजातदयः प्रभुः २५। मया सृष्टाः प्रजाः सर्वा दोषेण निजकर्मणाम् । मयि स्थितेऽपि नरके सीदंत्येकांतदुःखदे २६। एतच्चान्यच्च विप्रेन्द्र विचिंत्य करुणामयः । बभूव सहसा तत्र स्वयमेकादशी तिथिः २७। ततस्तान्पापिनः सर्वान्कारयामास तच्छ्रुतम् । ते च सर्वे परं धाम ययुर्गलितकल्मषाः २८। तस्मादेकादशीं विष्णोमूर्तिं विद्धि परात्मनः । समस्तदुष्कृतिश्रेष्ठं व्रतानां व्रतमुत्तमम् २९। एकादशीं तिथिं कृत्वा पावयंतीं जगत्त्रयम् । शंकितः पापपुरुषो विष्णुं स्तोतुमुपाययौ ३०। ततो बद्धाञ्जलिर्भक्त्या स पापपुरुषो द्विज । तुष्टाव कमलाकांतं भगवंतं जनार्दनम् ३१। तस्यस्तवं समाकर्ण्य प्रसन्नः परमेश्वरः । उवाचाहं प्रसन्नोऽस्मि किंतेऽभिमतमुच्यताम् ३२। पापपुरुष उवाच- सृष्टो भगवता विष्णो निजानुग्रहदुःखदः । एकदश्याः प्रभावेण क्षयं प्राप्नोमि सांप्रतम् ३३। मृते मयि जगत्यस्मिन्सर्वे ते च शरीरिणः । भविष्यंति विनिर्मुक्ता भवबंधैः शरीरिणः ३४। सर्वेषु च विमुक्तेषु देहिश्रेष्ठेषु पूरुषम् । संसारकौतुकागारे कैस्त्वं क्रीडिष्यसे प्रभो ३५। क्रीडितुं यदि ते वांछा जगत्कौतुकमंदिरे । एकादशी तिथि भयात्तदा मां त्राहि केशव ३६। अन्यैः पुण्यसहस्रैस्तु मां हंतुं न हि शक्यते । शक्नोत्येकादशी पुण्या मां हंतुं वरदो भव ३७। मनुष्यपशुकीटेषु तथाऽन्येषु च जंतुषु । पर्वतेषु च वृक्षेषु स्थानेषु च जलेषु च ३८। नदीषु च समुद्रेषु वनेषु प्रांतरेषु च । स्वर्गे मर्त्ये च पाताले देवगंधर्वपक्षिषु ३९। एकादशीतिथि भयाद्भूयान्विष्णो पलायितः । कुत्रापि निर्भयस्थानं न च तेन च कुत्रचित् ४०। कोटिब्रह्माण्डमध्येषु देवदेव सनातन । एकादश्यां तिथौ स्थातुं मया स्थानं न लभ्यते ४१। एकादश्यामहं कुत्र वत्स्यामि निर्भयः प्रभो । तन्मे कथय देवेश त्वयासृष्टोऽस्म्यहेतुकः ४२। व्यास उवाच- इत्युक्त्वा पापपुरुषः क्लेशनाशनमच्युतम् । भूमौ निपत्य चक्रंद स्रवद्वाष्पविलोचनः ४३। ततः प्रहस्य भगवान्मधुकैटभमर्दनः । एकादशी भयात्त्रस्तमुवाच पापपूरुषम् ४४। श्रीभगवानुवाच- उत्तिष्ठ पापपुरुष त्यज शोकं मुदं कुरु । एकादश्यां तिथौ यत्र तव स्थानं वदामि ते ४५। एकादश्यां समायांत्यां प्रपुनन्त्यां जगत्त्रयम् । स्थातव्यमन्नमाश्रित्य भवता पापपूरुषः ४६। अन्नमाश्रित्य तिष्ठंतं भवंतं पापपूरुषम् । न हनिष्यति मन्मूर्तिरियमेकादशी तिथिः ४७। ततो देवोऽपि विप्रर्षे तत्रैवांतर्हितोऽभवत् । कृतार्थः पापपुरुषो ययौ च स यथागतः ४८। तस्मादन्नं न भोक्तव्यं कदाचिदपि सत्तमैः । आत्मनो हितमिच्छद्भिः संप्राप्ते हरिवासरे ४९। संसारे यानि पापानि तान्येवैकादशीदिने । अन्नमाश्रित्य तिष्ठंति श्रीमन्नारायणाज्ञया ५० 7.22.50। कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत् । येचान्नं भुञ्जतेऽत्रापि ते ज्ञेयाः पापिनां वराः ५१। भूयोभूयो दृढं वच्मि श्रूयतां श्रूयतां जनाः । न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं कदाचन ५२। ब्रह्मक्षत्रियविट्शूद्रैरन्यैश्च द्विजसत्तम । सर्वैरेकादशी कार्या चतुर्वर्गफलप्रदा ५३। अष्टादशनिमेषास्तु काष्ठा प्रोक्ता मनीषिभिः । क्षणं त्रिंशत्कलाभिः स्यान्मुहूर्तो द्वादशक्षणैः । त्रिंशन्मुहूर्ता लोकानामहोरात्रः प्रकीर्तितः ५५। तैः पंञ्चदशभिः पक्षो विज्ञेयो द्विजसत्तम । पक्षाभ्यां शुक्लकृष्णाभ्यां मासस्तु परिकल्पितः ५६। तस्मिन्मासे द्विजश्रेष्ठ पक्षयोः शुक्ल कृष्णयोः । महापातकयुक्तोऽपि करोत्येकादशीं यदि ५७। सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् । माता न प्रोच्यते माता माता ह्येकादशी तिथिः ५८। इहैव पालयेन्माता सर्वत्रैकादशी तिथिः । एकादशीव्रतं त्यक्त्वा व्रतमन्यत्करोति यः ५९। स्वकरस्थं मणिं त्यक्त्वा लोष्ठं गृह्णाति मूढधीः । एकादशीव्रतं यैस्तु कृतं भक्तिसमन्वितैः ६०। तैस्तु यज्ञा कृताः सर्वे व्रतानि सकलानि च । एकादश्यां च भुञ्जन्ति ये मोहात्पापिनो नराः ६१। शुक्लायां वापि कृष्णायां तेषां रुष्टः सदा हरिः । तेन धर्माः कृताः सर्वे लङ्घिता येन सा तिथिः ६२। यथा समस्तदेवानां श्रेष्ठो विष्णुः प्रकीर्तितः । तथा सर्वव्रतानां च श्रेष्ठमेकादशी व्रतम् ६३। आदित्यानां यथा सूर्यो नक्षत्राणां यथा शशी । तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६४। वृक्षाणां च यथाश्वत्थो वेदानां साम कीर्तितम् । तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६५। कवीनामुशना श्रेष्ठो वर्णानां ब्राह्मणो यथा । तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६६। व्यासः श्रेष्ठो मुनीनां च देवर्षीणां च नारदः । तथा व्रतानां सर्वेषां श्रेष्ठमेकादशीव्रतम् ६७। यथा समस्तदानानामन्नदानं वरं स्मृतम् । तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६८। यथा पुण्यसमं मित्रं नास्ति शास्त्रसमो गुरुः । तथैवैकादशी तुल्यं व्रतं नास्ति जगत्त्रये ६९। इन्द्रियाणां यथा श्रेष्ठं मनः प्रोक्तं मनीषिभिः । मासानां कार्तिकः श्रेष्ठः पाण्डवानां यथार्जुनः ७०। यथा समस्तशास्त्राणां श्रेष्ठा वेदाः प्रकीर्तिताः । तथा व्रतानां प्रवरं स्मृतमेकादशीव्रतम् ७१। वेदागमपुराणेषु शास्त्रेष्वन्येषु च द्विज । कुत्राप्येकादशीतुल्यं व्रतं प्रोक्तं न कोविदैः ७२। निर्भया मानवाः सर्वे तिष्ठंति क्षितिमण्डले । एकादशीव्रतं कृत्वा किं करिष्यति भास्करिः ७३। एकामेकादशीं सम्यक्कुर्वतां किंकरो यमः । एकादशीव्रतं तस्मात्कर्तव्यं हि शुभप्रदम् ७४। एकादशीव्रतविधिं संक्षेपात्कथयाम्यहम् । समाहितमना भूत्वा शृणु सत्तम जैमिने ७५। दशम्यां प्रातरुत्थाय कर्तव्यं दंतधावनम् । ततस्तैलादृते स्नानं कर्तव्यमन्नवर्जनैः ७६। ततो विष्णुं समभ्यर्च्य पाद्याद्यैर्जगदीश्वरम् । हरिध्यानपरो भूत्वा एकभोजनमाचरेत् ७७। आमिषं लवणं चैव तथा मांसं मसूरकम् । बृहन्माषं तथा शाकं दशम्यां परिवर्जयेत् ७८। द्विर्भोजनं परान्नं च मधूनि मैथुनं तथा । भोजनं कांस्यपात्रेषु दशम्यां परिवर्जयेत् ७९। निम्बपत्रं च वृंताकं दग्धं जंबीरमेव च । घृतहीनं तथा गव्यं दशम्यां परिवर्जयेत् ८०। अत्यन्तभोजनं चैव अत्यन्ताशनभोजनम् । तांबूलभक्षणं चैव दशम्यां परिवर्जयेत् ८१। दशम्यां यानि वस्तूनि निषिद्धानि द्विजोत्तम । द्वादश्यामपि तान्येव निषिद्धानि न संशयः ८२। दशम्यां विप्रशार्दूल द्वादश्यामपि वैष्णवः । सम्यग्व्रतफलप्रेप्सुर्न कुर्यान्निशि भोजनम् ८३। अतो हविष्यं कृत्वा तु दशम्यां सत्वरो व्रती । अपराह्णे पुनः कुर्याद्विधिना दंतधावनम् ८४। सायं देवालयं गत्वा गृहीत्वा कुसुमाञ्जलिम् । केशवं मनसा ध्मायन्मंत्रमेतमुदीरयेत् ८५। एतद्गृहीतं गोविंद मया त्वत्पुरतो व्रतम् । सिद्धिं गच्छतु निर्विघ्नं तव पादानुकंपया ८६। अतिचंचलचित्तोऽहं लोभमोहमयो नरः । शक्नोम्येतद्व्रतं कर्तुं किं तवानुग्रहादृते ८७। इमौ मंत्रौ पठित्वा तु तमेव कुसुमांजलिम् । दत्वा नारायणायाथ दंडवत्प्रणमेद्भुवि ८८। तस्मिन्नेव गृहे विष्णोर्विष्णुस्मरणतत्परः । कुशेन शय्यामास्तीर्य भूमौ शयनमाचरेत् ८९। ततः प्रभाते विमले न कुर्याद्दंतधावनम् । कल्लोलैर्मुखशुद्धिं तु कुर्याद्द्वादशभिर्बुधः ९०। नित्यक्रियां प्रकुर्वीत विष्णुपूजादिकक्रियाम् । ततो निशायां विप्रेन्द्र सकलैर्व्रतिभिर्जनैः ९१। एकत्र जागरं कुर्यात्पुरतो जगतांपतेः । समातृकः सभार्यश्च सभ्राता सपिता तथा ९२। तथा सपुत्रमित्रश्च कुरुते जागरं हरेः । स तिष्ठेद्विष्णुभवने चिरं व्रतकरो द्विज ९३। शङ्खचक्रादिकं चित्रं यो लिखेद्विष्णुमंदिरे । बहुजन्मकृतं पापं हरेत्तस्य जनार्दनः ९४। तंडूलचूर्णपंकेन विष्णोरायतनेषु च । अन्यैर्वन्यैश्च वा चित्रं लिखेत्तस्य फलं शृणु ९५। पुत्रपौत्रप्रपौत्रैश्च भुङ्क्ते च सकलं शुभम् । शेषे विष्णुपुरं गत्वा तत्र मोक्षमवाप्नुयात् ९६। वासरे कमलाभर्तुर्ध्वजारोपणकृन्नरः । उद्धृत्य कोटिपुरुषान्नारायणपुरं व्रजेत् ९७। पताकावल्लिभिर्युक्तं विष्णोरायतनं जनः । मण्डयत्यवनीपालः स लभेत्प्रतिजन्मनि ९८। पताकाप्रचलंती च यावद्भवति वायुना । तत्कर्तुः पातकं सर्वं तावदेव विनश्यति ९९। पताकावलयाः प्राज्ञैर्नानावर्णा हरेर्गृहे । स्थापितव्याः परं स्थानमिच्छद्भिर्हरिवासरे १०० 7.22.100। विष्णोः शिरसि यच्छत्रं धत्ते चारुतरं जनः । प्रतिजन्मनि विप्रर्षे क्षत्त्री भवति स क्षितौ १०१। वासरे वासुदेवस्य पुष्पमंडपकृन्नरः । प्रतिपुष्पं लभेत्पुण्यं वाजिमेधशतोत्तरम् १०२। वासुदेवदिने पुष्पैः सुंगधैर्मंडयन्बुधः । यत्नादपि च कर्तव्यं चतुर्वर्गफलाप्तये १०३। यो वस्त्रगृहनिर्माणं कुरुते हरिवासरे । स सौधवासी विप्रर्षे भवति त्रिदशालये १०४। निर्माय वस्त्रभवनं तत्र बध्नाति मानवः । श्वेतं वा लोहितं वापि कृष्णं वासोऽच्युतप्रियः १०५। शालिग्रामशिलां तत्र प्रतिमां वा श्रियःपतेः । पञ्चामृतेन संस्नाप्य स्थापयेद्भक्तितो व्रती १०६। आदौ स्वस्त्ययनं कुर्यात्संकल्पं च तथा बुधः । यत्नादपि च कर्तव्यं चतुर्वर्गफलाप्तये १०७। भूतशुद्धिं निजां विप्र विधानं शास्त्रभाषितैः । ततश्चैकमना भूत्वा गृहीत्वा पुष्पमुत्तमम् १०८। ध्यायन्नारायणं देवं हृदयांभोजवासिनम् । आसीनं हेमपीठे च तथा मणिमयेऽपि च १०९। आसीनं हेमपीठे मणिमयज्वलनालंकृतं क्रीडवेशं बिभ्रल्ले। खोज्ज्वलाभ्रद्युतिरुचिरतनुं दीर्घदोर्भिश्चतुर्भिः । नित्यं विभ्राजमानं सकलकरलयैः सायुधैः पद्मनेत्रैः । पश्यंतं श्रीमुखं तच्छ्रमनुदमनिशं तं भजेऽपाङ्गदृष्ट्या ११०। आगच्छ भगवन्देवसहितः श्रीपतेः प्रिय । कर्तव्या हि मया भक्त्या सपर्यास्मिन्व्रते तव १११। सर्वलक्षणसंपन्न लक्ष्म्या सह जगद्गुरो । अस्मिन्वरासने तिष्ठ यावत्पूजां करोमि ते ११२। समस्तलोकविख्यात कीर्ते नारायणप्रभो । कच्चित्ते कुशलं सर्वं सर्वं वद सुरार्चित ११३। पाद्यं गृहाण देवेश नारायणसुवासितम् । पादद्वयरजोहारि पवित्रमतिशीतलम् ११४। अर्घ्यं ददामि ते विष्णो दूर्वापल्लवसंयुतम् । अखंडतंडुलोपेतं पुंडरीकनिभेक्षण ११५। इदमाचमनीयं ते सुपवित्रं ददाम्यहम् । गृहाण परमानंद परमानंदवर्द्धनम् ११६। मया दत्तेन गंधेन जरासंधविनाशन । तवास्तु भूषितं गात्रं लक्ष्मीनाथ सुगंधिना ११७। ददाम्यहं पवित्रार्थं जगतामादिकारकम् । इदमाचमनं देव तद्गृहाण सुरेश्वर ११८। सृष्टोऽयं विधिना पूर्वं देवानां तुष्टिवृद्धये । अतस्तुभ्यं सुरश्रेष्ठ धूपोऽयं दीयते मया ११९। तमसः स्तोमसंहर्ता घृतपूर्णो जनार्दन । तवास्तु प्रीतये देव एष दीपो जनार्दन १२०। सोत्तरीयमिदं वस्त्रं बस्तिश्रोणिसुशोभनम् । ददाम्यहं ते देवेश सोपवीतं जगद्गुरो १२१। अन्नं चतुर्विधं स्वादुरसैः षड्भिः समन्वितम् । मया निवेदितं भक्त्या गृहाण परमेश्वर १२२। मुखदुर्गन्धहरणं कर्पूरखदिरान्वितम् । गृहाण विष्णो तांबूलं कैवल्यद महामते १२३। विधिनानेन गोविन्दमुपहारैरनुत्तमैः । पूजयेत्संवृतो भक्त्या प्रहरेषु चतुर्ष्वपि १२४। नानोपहारान्हरये यो यच्छेद्धरिवासरे । वित्तशाठ्यं न कर्तव्यं कर्मणां फलमिच्छता १२५। ततस्तु व्रतिभिः सर्वैर्नारायणपरायणैः । निशि जागरणं कार्य्यं नृत्यगीतस्तवादिभिः १२६। प्रदक्षिणं द्विजश्रेष्ठ नामानि कमलापतेः । सर्वपापविनाशीनि स्मर्तव्यानि व्रते रतैः १२७। स्फुरंतं प्रतिवक्त्रेभ्यो हरिनामध्वनिं जनाः । शृण्वंति ते विमुक्ताः स्युर्महद्भिः पापसंचयैः १२८। न पाखंण्डजनालापः कर्तव्यो हरिवासरे । पाखंडालापमात्रेण सर्वधर्मो विनश्यति १२९। नारायणयशोगीतं प्रतिकंठं विनिःसृतम् । श्रुत्वा मूढा न तृप्यंति श्वानो वीणाक्वणं यथा १३०। संतो हर्षं समायांति श्रुत्वा गीतं जगत्पतेः । समस्तपापविध्वंसि वीणाक्वाणं यथा मृगाः १३१। गायंतं हरिगीतानि नृत्यंति नृत्यमुत्तमम् । तृप्यंति व्रतिनो दृष्ट्वा तृप्यंति कमलापतेः १३२। व्रतिनो येन तृप्यंति विष्णोरायतने द्विज । प्रतिजन्मनि वै तेषां पशुता शाश्वती भवेत् १३३। न ये गीतानि गायंति व्रतिनो हरिवासरे । विहीना वचनैस्ते च भ्रमंति प्रतिजन्मनि १३४। मृदंगादीनि वाद्यानि कर्तव्यानि हरेः पुरः । यतो वाद्यैर्भवेत्तुष्टो भगवान्मधुसूदनः १३५। कुर्वंति जागरं विष्णोर्वेदाध्ययनमुत्तमम् । पुराणपठनं वापि कर्तव्यं वैष्णवैर्जनैः १३६। रामायणं भागवतं भारतं व्यासभाषितम् । अन्यानि च पुराणानि पाठ्यानि हरिवासरे १३७। ये पठंति पुरो विष्णोर्ये शृण्वन्ति हरेर्दिने । प्रत्यक्षरे लभंते ते कपिलादानजं फलम् १३८। निशि जागरणं कुर्यात्सानंदो वैष्णवो जनः । जितनिद्रो भवेत्सम्यग्ध्यायते केशवं हृदा १३९। प्रदक्षिणाकारतया भूयोभूयो हरेर्द्दिने । निपत्य दण्डवद्भूमौ प्रणमेच्च जनार्द्दनम् १४०। ततः प्रभाते विमले कृतपंचमहाध्वरः । हरिं संस्नाप्य दुग्धेन पूजयेद्भक्तिमान्व्रती १४१। व्रतस्य दक्षिणां दद्यान्निजशक्त्या द्विजन्मने । ततस्तु द्वादशीमध्ये व्रती पारणमाचरेत् १४२। पारणं कुरुते यस्तु विलंघ्य द्वादशीतिथिम् । जन्मकोट्यर्जितं पुण्यं तस्य चैव विनश्यति १४३। द्वादशीतिथिमध्ये तु कर्तव्यं पारणं बुधैः । न कदाचित्त्रयोदश्यां व्रतस्य फलमिच्छुभिः १४४। उपवासदिने विप्र निशायामपि वैष्णवः । उपवासफलप्रेप्सुर्यत्नात्स्वापं विवर्जयेत् १४५। विना जागरणं नूनमुपवासो निरर्थकः । अतो जागरणं कार्य्यमुभयोरपि पक्षयोः १४६। एकादशीव्रतं येन विधिनानेन कुर्वते । सत्यं सत्यं द्विजश्रेष्ठ सर्वे ते मोक्षगामिनः १४७। जन्ममृत्युहरणैकनिदानं सेंद्र देवनिकरैरपि कार्यम् । वासुदेवदिवसव्रतसारं जैमिने त्वमनिशं कुरु यत्नात् १४८। इति श्रीपद्मपुराणे क्रियायोगसारे एकादशीमाहात्म्ये द्वाविंशोऽध्यायः २२ ।

jaiminiruvāca- gaṅgāyāḥ śubha māhātmyaṃ viṣṇupūjāphalaṃ tathā | annadānasya māhātmyaṃ jaladānasya cottamam 1| viprapādodakasyāpi māhātmyaṃ pāpanāśanam | tvatprasādācchrutaṃ sarvaṃ setihāsaṃ guro mayā 2| idānīṃ muniśārdūla śrotumicchāmi sādaram | ekādaśyāḥ phalaṃ sarvaṃ sarvapātakanāśanam 3| kasmādekādaśī śreṣṭhā tasyāḥ ko vā vidhiḥ smṛtaḥ | kadācit kriyate kiṃ vā phalaṃ tasyā vadasva me 4| kā vā pūjyatamā tatra devatā sadguṇārṇava | akurvataḥ syātko doṣastanme vaktumihārhasi 5| vyāsa uvāca- ekādaśyāḥ phalaṃ sarvaṃ vaktuṃ nārāyaṇādṛte | śaknoti nānyo viprarṣe tasmādvacmi samāsataḥ 6| sṛṣṭvādau puruṣaśreṣṭhaḥ saṃsāraṃ sacarācaram | sarveṣāṃ damanārthāya sṛṣṭavānpāpapūruṣam 7| dvijātihatyāmūrddhānaṃ madirāpānalocanam | svarṇasteyaṃ ca vadanaṃ gurutalpagatiḥ śrutiḥ 8| strīhatyā nāsikaṃ caiva gohatyādoṣa bāhukam | nyāsāpahāraṇa grīvaṃ bhrūṇahatyā galaṃ tathā 9| parastrīgatabukkāgraṃ suhṛllokavadhodaram | śaraṇāpannahatyādi nābhigartāvadhiṃ kaṭim 10| guruniṃdā sakthibhāgaṃ kanyāvikraya śephasam | viśvāsavākyakathanaṃ pāyuṃ prītivadhāṃghrikam 11| upapātakaromāṇaṃ mahākāyaṃ bhayaṃkaram | kṛṣṇavarṇaṃ piṃganetraṃ svāśrayātyaṃtaduḥkhadam 12| taṃ dṛṣṭvā pāpapuruṣamatyugraṃ puruṣottamam | sadayaściṃtayāmāsa prajākleśaharaḥ prabhuḥ 13| sṛṣṭo'yaṃ durjanaḥ krūraḥ svāśrayakleśadāyakaḥ | prajānāṃ damanārthāya sṛjāmyetasya kāraṇam 14| athāsau bhagavānviṣṇurbabhūva svayamaṃtakaḥ | sasarja rauravādīṃśca nirayānpāpiduḥkhadān 15| pāpaṃ yaḥ sevate mūḍho na yāti paramaṃ padam | yamājñayā vrajettatra narakaṃ rauravādikam 16| ekadā bhagavānviṣṇuḥ prajānāṃ duḥkhanāśanaḥ | vainateyaṃ samāruhya jagāma yamamaṃdiram 17| taṃ dṛṣṭvā jagatāmīśaṃ nārāyaṇamanāmayam | dhūpādyaiḥ pūjayāmāsa bhāskaristuṣṭamānasaḥ 18| yamenābhyarcito viṣṇuḥ sarvalokaikanāyakaḥ | uvāsa dvijaśārdūla pīṭhe kanakanirmite 19| tatropaviṣṭo bhagavānyamena saha daityahā | śuśrāva kraṃdanaṃ dhyānaṃ dakṣiṇasyāṃ diśi prabho 20| athāsau kamalākāṃto vismayāviṣṭamānasaḥ | uvāceti yamaṃ teṣāṃ kuto'yaṃ kraṃdanadhvaniḥ 21| yama uvāca- devapātakino martyā niraye'tyaṃtaduḥkhade | svahastārjitadoṣeṇa sīdaṃti ca mamālaye 22| pāpavṛkṣaphalaṃ viṣṇo bhoktumatyaṃtaduḥkhadam | rudaṃti pāpinastasmātteṣāṃ dhvanirasau mahān 23| ityuktaḥ sūryaputreṇa kṛṣṇaḥ kamalalocanaḥ | jagāma sahasā tatra pāpavaṃto rudaṃti te 24| tāndṛṣṭvā pāpino martyānrauravādiṣu saṃsthitān | bhagavāṃściṃtayāmāsa hṛdijātadayaḥ prabhuḥ 25| mayā sṛṣṭāḥ prajāḥ sarvā doṣeṇa nijakarmaṇām | mayi sthite'pi narake sīdaṃtyekāṃtaduḥkhade 26| etaccānyacca viprendra viciṃtya karuṇāmayaḥ | babhūva sahasā tatra svayamekādaśī tithiḥ 27| tatastānpāpinaḥ sarvānkārayāmāsa tacchrutam | te ca sarve paraṃ dhāma yayurgalitakalmaṣāḥ 28| tasmādekādaśīṃ viṣṇomūrtiṃ viddhi parātmanaḥ | samastaduṣkṛtiśreṣṭhaṃ vratānāṃ vratamuttamam 29| ekādaśīṃ tithiṃ kṛtvā pāvayaṃtīṃ jagattrayam | śaṃkitaḥ pāpapuruṣo viṣṇuṃ stotumupāyayau 30| tato baddhāñjalirbhaktyā sa pāpapuruṣo dvija | tuṣṭāva kamalākāṃtaṃ bhagavaṃtaṃ janārdanam 31| tasyastavaṃ samākarṇya prasannaḥ parameśvaraḥ | uvācāhaṃ prasanno'smi kiṃte'bhimatamucyatām 32| pāpapuruṣa uvāca- sṛṣṭo bhagavatā viṣṇo nijānugrahaduḥkhadaḥ | ekadaśyāḥ prabhāveṇa kṣayaṃ prāpnomi sāṃpratam 33| mṛte mayi jagatyasminsarve te ca śarīriṇaḥ | bhaviṣyaṃti vinirmuktā bhavabaṃdhaiḥ śarīriṇaḥ 34| sarveṣu ca vimukteṣu dehiśreṣṭheṣu pūruṣam | saṃsārakautukāgāre kaistvaṃ krīḍiṣyase prabho 35| krīḍituṃ yadi te vāṃchā jagatkautukamaṃdire | ekādaśī tithi bhayāttadā māṃ trāhi keśava 36| anyaiḥ puṇyasahasraistu māṃ haṃtuṃ na hi śakyate | śaknotyekādaśī puṇyā māṃ haṃtuṃ varado bhava 37| manuṣyapaśukīṭeṣu tathā'nyeṣu ca jaṃtuṣu | parvateṣu ca vṛkṣeṣu sthāneṣu ca jaleṣu ca 38| nadīṣu ca samudreṣu vaneṣu prāṃtareṣu ca | svarge martye ca pātāle devagaṃdharvapakṣiṣu 39| ekādaśītithi bhayādbhūyānviṣṇo palāyitaḥ | kutrāpi nirbhayasthānaṃ na ca tena ca kutracit 40| koṭibrahmāṇḍamadhyeṣu devadeva sanātana | ekādaśyāṃ tithau sthātuṃ mayā sthānaṃ na labhyate 41| ekādaśyāmahaṃ kutra vatsyāmi nirbhayaḥ prabho | tanme kathaya deveśa tvayāsṛṣṭo'smyahetukaḥ 42| vyāsa uvāca- ityuktvā pāpapuruṣaḥ kleśanāśanamacyutam | bhūmau nipatya cakraṃda sravadvāṣpavilocanaḥ 43| tataḥ prahasya bhagavānmadhukaiṭabhamardanaḥ | ekādaśī bhayāttrastamuvāca pāpapūruṣam 44| śrībhagavānuvāca- uttiṣṭha pāpapuruṣa tyaja śokaṃ mudaṃ kuru | ekādaśyāṃ tithau yatra tava sthānaṃ vadāmi te 45| ekādaśyāṃ samāyāṃtyāṃ prapunantyāṃ jagattrayam | sthātavyamannamāśritya bhavatā pāpapūruṣaḥ 46| annamāśritya tiṣṭhaṃtaṃ bhavaṃtaṃ pāpapūruṣam | na haniṣyati manmūrtiriyamekādaśī tithiḥ 47| tato devo'pi viprarṣe tatraivāṃtarhito'bhavat | kṛtārthaḥ pāpapuruṣo yayau ca sa yathāgataḥ 48| tasmādannaṃ na bhoktavyaṃ kadācidapi sattamaiḥ | ātmano hitamicchadbhiḥ saṃprāpte harivāsare 49| saṃsāre yāni pāpāni tānyevaikādaśīdine | annamāśritya tiṣṭhaṃti śrīmannārāyaṇājñayā 50 7.22.50| kurvatāṃ sarvapāpāni narakānniṣkṛtirbhavet | yecānnaṃ bhuñjate'trāpi te jñeyāḥ pāpināṃ varāḥ 51| bhūyobhūyo dṛḍhaṃ vacmi śrūyatāṃ śrūyatāṃ janāḥ | na bhoktavyaṃ na bhoktavyaṃ na bhoktavyaṃ kadācana 52| brahmakṣatriyaviṭśūdrairanyaiśca dvijasattama | sarvairekādaśī kāryā caturvargaphalapradā 53| aṣṭādaśanimeṣāstu kāṣṭhā proktā manīṣibhiḥ | kṣaṇaṃ triṃśatkalābhiḥ syānmuhūrto dvādaśakṣaṇaiḥ | triṃśanmuhūrtā lokānāmahorātraḥ prakīrtitaḥ 55| taiḥ paṃñcadaśabhiḥ pakṣo vijñeyo dvijasattama | pakṣābhyāṃ śuklakṛṣṇābhyāṃ māsastu parikalpitaḥ 56| tasminmāse dvijaśreṣṭha pakṣayoḥ śukla kṛṣṇayoḥ | mahāpātakayukto'pi karotyekādaśīṃ yadi 57| sarvapāpavinirmukto viṣṇulokamavāpnuyāt | mātā na procyate mātā mātā hyekādaśī tithiḥ 58| ihaiva pālayenmātā sarvatraikādaśī tithiḥ | ekādaśīvrataṃ tyaktvā vratamanyatkaroti yaḥ 59| svakarasthaṃ maṇiṃ tyaktvā loṣṭhaṃ gṛhṇāti mūḍhadhīḥ | ekādaśīvrataṃ yaistu kṛtaṃ bhaktisamanvitaiḥ 60| taistu yajñā kṛtāḥ sarve vratāni sakalāni ca | ekādaśyāṃ ca bhuñjanti ye mohātpāpino narāḥ 61| śuklāyāṃ vāpi kṛṣṇāyāṃ teṣāṃ ruṣṭaḥ sadā hariḥ | tena dharmāḥ kṛtāḥ sarve laṅghitā yena sā tithiḥ 62| yathā samastadevānāṃ śreṣṭho viṣṇuḥ prakīrtitaḥ | tathā sarvavratānāṃ ca śreṣṭhamekādaśī vratam 63| ādityānāṃ yathā sūryo nakṣatrāṇāṃ yathā śaśī | tathā sarvavrataśreṣṭhaṃ proktamekādaśīvratam 64| vṛkṣāṇāṃ ca yathāśvattho vedānāṃ sāma kīrtitam | tathā sarvavrataśreṣṭhaṃ proktamekādaśīvratam 65| kavīnāmuśanā śreṣṭho varṇānāṃ brāhmaṇo yathā | tathā sarvavrataśreṣṭhaṃ proktamekādaśīvratam 66| vyāsaḥ śreṣṭho munīnāṃ ca devarṣīṇāṃ ca nāradaḥ | tathā vratānāṃ sarveṣāṃ śreṣṭhamekādaśīvratam 67| yathā samastadānānāmannadānaṃ varaṃ smṛtam | tathā sarvavrataśreṣṭhaṃ proktamekādaśīvratam 68| yathā puṇyasamaṃ mitraṃ nāsti śāstrasamo guruḥ | tathaivaikādaśī tulyaṃ vrataṃ nāsti jagattraye 69| indriyāṇāṃ yathā śreṣṭhaṃ manaḥ proktaṃ manīṣibhiḥ | māsānāṃ kārtikaḥ śreṣṭhaḥ pāṇḍavānāṃ yathārjunaḥ 70| yathā samastaśāstrāṇāṃ śreṣṭhā vedāḥ prakīrtitāḥ | tathā vratānāṃ pravaraṃ smṛtamekādaśīvratam 71| vedāgamapurāṇeṣu śāstreṣvanyeṣu ca dvija | kutrāpyekādaśītulyaṃ vrataṃ proktaṃ na kovidaiḥ 72| nirbhayā mānavāḥ sarve tiṣṭhaṃti kṣitimaṇḍale | ekādaśīvrataṃ kṛtvā kiṃ kariṣyati bhāskariḥ 73| ekāmekādaśīṃ samyakkurvatāṃ kiṃkaro yamaḥ | ekādaśīvrataṃ tasmātkartavyaṃ hi śubhapradam 74| ekādaśīvratavidhiṃ saṃkṣepātkathayāmyaham | samāhitamanā bhūtvā śṛṇu sattama jaimine 75| daśamyāṃ prātarutthāya kartavyaṃ daṃtadhāvanam | tatastailādṛte snānaṃ kartavyamannavarjanaiḥ 76| tato viṣṇuṃ samabhyarcya pādyādyairjagadīśvaram | haridhyānaparo bhūtvā ekabhojanamācaret 77| āmiṣaṃ lavaṇaṃ caiva tathā māṃsaṃ masūrakam | bṛhanmāṣaṃ tathā śākaṃ daśamyāṃ parivarjayet 78| dvirbhojanaṃ parānnaṃ ca madhūni maithunaṃ tathā | bhojanaṃ kāṃsyapātreṣu daśamyāṃ parivarjayet 79| nimbapatraṃ ca vṛṃtākaṃ dagdhaṃ jaṃbīrameva ca | ghṛtahīnaṃ tathā gavyaṃ daśamyāṃ parivarjayet 80| atyantabhojanaṃ caiva atyantāśanabhojanam | tāṃbūlabhakṣaṇaṃ caiva daśamyāṃ parivarjayet 81| daśamyāṃ yāni vastūni niṣiddhāni dvijottama | dvādaśyāmapi tānyeva niṣiddhāni na saṃśayaḥ 82| daśamyāṃ vipraśārdūla dvādaśyāmapi vaiṣṇavaḥ | samyagvrataphalaprepsurna kuryānniśi bhojanam 83| ato haviṣyaṃ kṛtvā tu daśamyāṃ satvaro vratī | aparāhṇe punaḥ kuryādvidhinā daṃtadhāvanam 84| sāyaṃ devālayaṃ gatvā gṛhītvā kusumāñjalim | keśavaṃ manasā dhmāyanmaṃtrametamudīrayet 85| etadgṛhītaṃ goviṃda mayā tvatpurato vratam | siddhiṃ gacchatu nirvighnaṃ tava pādānukaṃpayā 86| aticaṃcalacitto'haṃ lobhamohamayo naraḥ | śaknomyetadvrataṃ kartuṃ kiṃ tavānugrahādṛte 87| imau maṃtrau paṭhitvā tu tameva kusumāṃjalim | datvā nārāyaṇāyātha daṃḍavatpraṇamedbhuvi 88| tasminneva gṛhe viṣṇorviṣṇusmaraṇatatparaḥ | kuśena śayyāmāstīrya bhūmau śayanamācaret 89| tataḥ prabhāte vimale na kuryāddaṃtadhāvanam | kallolairmukhaśuddhiṃ tu kuryāddvādaśabhirbudhaḥ 90| nityakriyāṃ prakurvīta viṣṇupūjādikakriyām | tato niśāyāṃ viprendra sakalairvratibhirjanaiḥ 91| ekatra jāgaraṃ kuryātpurato jagatāṃpateḥ | samātṛkaḥ sabhāryaśca sabhrātā sapitā tathā 92| tathā saputramitraśca kurute jāgaraṃ hareḥ | sa tiṣṭhedviṣṇubhavane ciraṃ vratakaro dvija 93| śaṅkhacakrādikaṃ citraṃ yo likhedviṣṇumaṃdire | bahujanmakṛtaṃ pāpaṃ harettasya janārdanaḥ 94| taṃḍūlacūrṇapaṃkena viṣṇorāyataneṣu ca | anyairvanyaiśca vā citraṃ likhettasya phalaṃ śṛṇu 95| putrapautraprapautraiśca bhuṅkte ca sakalaṃ śubham | śeṣe viṣṇupuraṃ gatvā tatra mokṣamavāpnuyāt 96| vāsare kamalābharturdhvajāropaṇakṛnnaraḥ | uddhṛtya koṭipuruṣānnārāyaṇapuraṃ vrajet 97| patākāvallibhiryuktaṃ viṣṇorāyatanaṃ janaḥ | maṇḍayatyavanīpālaḥ sa labhetpratijanmani 98| patākāpracalaṃtī ca yāvadbhavati vāyunā | tatkartuḥ pātakaṃ sarvaṃ tāvadeva vinaśyati 99| patākāvalayāḥ prājñairnānāvarṇā harergṛhe | sthāpitavyāḥ paraṃ sthānamicchadbhirharivāsare 100 7.22.100| viṣṇoḥ śirasi yacchatraṃ dhatte cārutaraṃ janaḥ | pratijanmani viprarṣe kṣattrī bhavati sa kṣitau 101| vāsare vāsudevasya puṣpamaṃḍapakṛnnaraḥ | pratipuṣpaṃ labhetpuṇyaṃ vājimedhaśatottaram 102| vāsudevadine puṣpaiḥ suṃgadhairmaṃḍayanbudhaḥ | yatnādapi ca kartavyaṃ caturvargaphalāptaye 103| yo vastragṛhanirmāṇaṃ kurute harivāsare | sa saudhavāsī viprarṣe bhavati tridaśālaye 104| nirmāya vastrabhavanaṃ tatra badhnāti mānavaḥ | śvetaṃ vā lohitaṃ vāpi kṛṣṇaṃ vāso'cyutapriyaḥ 105| śāligrāmaśilāṃ tatra pratimāṃ vā śriyaḥpateḥ | pañcāmṛtena saṃsnāpya sthāpayedbhaktito vratī 106| ādau svastyayanaṃ kuryātsaṃkalpaṃ ca tathā budhaḥ | yatnādapi ca kartavyaṃ caturvargaphalāptaye 107| bhūtaśuddhiṃ nijāṃ vipra vidhānaṃ śāstrabhāṣitaiḥ | tataścaikamanā bhūtvā gṛhītvā puṣpamuttamam 108| dhyāyannārāyaṇaṃ devaṃ hṛdayāṃbhojavāsinam | āsīnaṃ hemapīṭhe ca tathā maṇimaye'pi ca 109| āsīnaṃ hemapīṭhe maṇimayajvalanālaṃkṛtaṃ krīḍaveśaṃ bibhralle| khojjvalābhradyutiruciratanuṃ dīrghadorbhiścaturbhiḥ | nityaṃ vibhrājamānaṃ sakalakaralayaiḥ sāyudhaiḥ padmanetraiḥ | paśyaṃtaṃ śrīmukhaṃ tacchramanudamaniśaṃ taṃ bhaje'pāṅgadṛṣṭyā 110| āgaccha bhagavandevasahitaḥ śrīpateḥ priya | kartavyā hi mayā bhaktyā saparyāsminvrate tava 111| sarvalakṣaṇasaṃpanna lakṣmyā saha jagadguro | asminvarāsane tiṣṭha yāvatpūjāṃ karomi te 112| samastalokavikhyāta kīrte nārāyaṇaprabho | kaccitte kuśalaṃ sarvaṃ sarvaṃ vada surārcita 113| pādyaṃ gṛhāṇa deveśa nārāyaṇasuvāsitam | pādadvayarajohāri pavitramatiśītalam 114| arghyaṃ dadāmi te viṣṇo dūrvāpallavasaṃyutam | akhaṃḍataṃḍulopetaṃ puṃḍarīkanibhekṣaṇa 115| idamācamanīyaṃ te supavitraṃ dadāmyaham | gṛhāṇa paramānaṃda paramānaṃdavarddhanam 116| mayā dattena gaṃdhena jarāsaṃdhavināśana | tavāstu bhūṣitaṃ gātraṃ lakṣmīnātha sugaṃdhinā 117| dadāmyahaṃ pavitrārthaṃ jagatāmādikārakam | idamācamanaṃ deva tadgṛhāṇa sureśvara 118| sṛṣṭo'yaṃ vidhinā pūrvaṃ devānāṃ tuṣṭivṛddhaye | atastubhyaṃ suraśreṣṭha dhūpo'yaṃ dīyate mayā 119| tamasaḥ stomasaṃhartā ghṛtapūrṇo janārdana | tavāstu prītaye deva eṣa dīpo janārdana 120| sottarīyamidaṃ vastraṃ bastiśroṇisuśobhanam | dadāmyahaṃ te deveśa sopavītaṃ jagadguro 121| annaṃ caturvidhaṃ svādurasaiḥ ṣaḍbhiḥ samanvitam | mayā niveditaṃ bhaktyā gṛhāṇa parameśvara 122| mukhadurgandhaharaṇaṃ karpūrakhadirānvitam | gṛhāṇa viṣṇo tāṃbūlaṃ kaivalyada mahāmate 123| vidhinānena govindamupahārairanuttamaiḥ | pūjayetsaṃvṛto bhaktyā prahareṣu caturṣvapi 124| nānopahārānharaye yo yaccheddharivāsare | vittaśāṭhyaṃ na kartavyaṃ karmaṇāṃ phalamicchatā 125| tatastu vratibhiḥ sarvairnārāyaṇaparāyaṇaiḥ | niśi jāgaraṇaṃ kāryyaṃ nṛtyagītastavādibhiḥ 126| pradakṣiṇaṃ dvijaśreṣṭha nāmāni kamalāpateḥ | sarvapāpavināśīni smartavyāni vrate rataiḥ 127| sphuraṃtaṃ prativaktrebhyo harināmadhvaniṃ janāḥ | śṛṇvaṃti te vimuktāḥ syurmahadbhiḥ pāpasaṃcayaiḥ 128| na pākhaṃṇḍajanālāpaḥ kartavyo harivāsare | pākhaṃḍālāpamātreṇa sarvadharmo vinaśyati 129| nārāyaṇayaśogītaṃ pratikaṃṭhaṃ viniḥsṛtam | śrutvā mūḍhā na tṛpyaṃti śvāno vīṇākvaṇaṃ yathā 130| saṃto harṣaṃ samāyāṃti śrutvā gītaṃ jagatpateḥ | samastapāpavidhvaṃsi vīṇākvāṇaṃ yathā mṛgāḥ 131| gāyaṃtaṃ harigītāni nṛtyaṃti nṛtyamuttamam | tṛpyaṃti vratino dṛṣṭvā tṛpyaṃti kamalāpateḥ 132| vratino yena tṛpyaṃti viṣṇorāyatane dvija | pratijanmani vai teṣāṃ paśutā śāśvatī bhavet 133| na ye gītāni gāyaṃti vratino harivāsare | vihīnā vacanaiste ca bhramaṃti pratijanmani 134| mṛdaṃgādīni vādyāni kartavyāni hareḥ puraḥ | yato vādyairbhavettuṣṭo bhagavānmadhusūdanaḥ 135| kurvaṃti jāgaraṃ viṣṇorvedādhyayanamuttamam | purāṇapaṭhanaṃ vāpi kartavyaṃ vaiṣṇavairjanaiḥ 136| rāmāyaṇaṃ bhāgavataṃ bhārataṃ vyāsabhāṣitam | anyāni ca purāṇāni pāṭhyāni harivāsare 137| ye paṭhaṃti puro viṣṇorye śṛṇvanti harerdine | pratyakṣare labhaṃte te kapilādānajaṃ phalam 138| niśi jāgaraṇaṃ kuryātsānaṃdo vaiṣṇavo janaḥ | jitanidro bhavetsamyagdhyāyate keśavaṃ hṛdā 139| pradakṣiṇākāratayā bhūyobhūyo harerddine | nipatya daṇḍavadbhūmau praṇamecca janārddanam 140| tataḥ prabhāte vimale kṛtapaṃcamahādhvaraḥ | hariṃ saṃsnāpya dugdhena pūjayedbhaktimānvratī 141| vratasya dakṣiṇāṃ dadyānnijaśaktyā dvijanmane | tatastu dvādaśīmadhye vratī pāraṇamācaret 142| pāraṇaṃ kurute yastu vilaṃghya dvādaśītithim | janmakoṭyarjitaṃ puṇyaṃ tasya caiva vinaśyati 143| dvādaśītithimadhye tu kartavyaṃ pāraṇaṃ budhaiḥ | na kadācittrayodaśyāṃ vratasya phalamicchubhiḥ 144| upavāsadine vipra niśāyāmapi vaiṣṇavaḥ | upavāsaphalaprepsuryatnātsvāpaṃ vivarjayet 145| vinā jāgaraṇaṃ nūnamupavāso nirarthakaḥ | ato jāgaraṇaṃ kāryyamubhayorapi pakṣayoḥ 146| ekādaśīvrataṃ yena vidhinānena kurvate | satyaṃ satyaṃ dvijaśreṣṭha sarve te mokṣagāminaḥ 147| janmamṛtyuharaṇaikanidānaṃ seṃdra devanikarairapi kāryam | vāsudevadivasavratasāraṃ jaimine tvamaniśaṃ kuru yatnāt 148| iti śrīpadmapurāṇe kriyāyogasāre ekādaśīmāhātmye dvāviṃśo'dhyāyaḥ 22 |

English translation

Jaimini said :

1-2. O preceptor, by your grace I have heard the sin-destroying greatness along with its history, of the water flowing from a brāhmaṇa ’s feet, the auspicious greatness of Gaṅgā , so also the fruit of the worship of Viṣṇu , the excellent (account of the) greatness of the gift of food and of water.

3-5. O best sage, now I desire to hear carefully the entire fruit of (the vow of) Ekādaśī , which destroys all sins., Why is the Ekādaśī(-vow) the greatest? What is declared to be the mode of (its observance)? When is it observed? What is its fruit? Tell me. O you ocean of virtues, who is the most adorable deity there? Please tell me what fault (accrues) to him who does not observe it.

Vyāsa said :

6-12. O brāhmaṇa sage, none else but Viṣṇu is able to narrate the entire fruit of the Ekādaśī(vow). Therefore, I shall tell it in brief. The highest Puruṣa ( Brahman ) having first created the world with the mobile and the immobile, created the ‘Man of Sin’ (sin personified) for curbing all. His head was the murder of brāhmaṇas . His eyes were the drink of liquor. His face was the theft of gold. His ears were the violation of the preceptor’s bed (i.e. his wife). His nose was the murder of women. His arms were the sin of killing cows. His neck was the snatching of deposits. His throat was causing abortions. The tip ofhis heart was adultery. His belly was the murder of friends. His waist ending with the hollow of his navel was the murder of those who sought his shelter. His thigh was the preceptor’s censure. His penis was the sale of (one’s) daughter. His anus was the divulging of confidential words. His feet were the murder of love. The small hair on his body was misfortunes. His body was huge. He was fierce. His complexion was dark. His eyes were tawny. He gave great pain to those who sought his shelter.

13-14. Seeing that Man of Sin, the best among men (but) very fierce, the kind lord who removes the affliction of his creation (i.e. mankind), thought: ‘For curbing my creation, I have created this wicked man, cruel and giving affliction to those that resort to him. (Now) I shall create the means (to control him)’.

15-16. Then lord Viṣṇu himself became Yama . He created hells like Raurava that gave affliction to the sinners. A fool who commits a sin does not go to the highest position. By Yama’s order he would go to a hell like Raurava.

17. Once lord Viṣṇu, who removes the afiliction of the created beings, mounted upon Garuḍa and went to Yama’s abode.

18. The Sun’s son, on seeing Anāmaya Viṣṇu, the lord of the worlds, was pleased in mind, and worshipped him with incense etc.

19. Viṣṇu, the only chief of all the worlds, honoured by Yama, sat on a seat made of gold, O best brāhmaṇa.

20. The lord, the killer of demons, seated there, heard crying, meditation ( dhyānaṃ ?), in the southern direction, O lord.

21. Then that lord of Lakṣmī , with his mind full of amazement, said to Yama: “Wherefrom is this sound of their crying (coming)?”

Yama said :

22-23. O god, sinful mortals sink in the hell giving great affliction, in my abode due to sins committed by their own hands. O Viṣṇu, it is extremely painful to eat the fruit of the tree of sins. Therefore, the sinners are crying. This big noise is theirs.

24-25. Thus told by the Sun’s son, Kṛṣṇa , having lotus-like eyes, suddenly went where they were crying. Then the lord, the master, seeing those sinful mortals living in Raurava etc. had pity produced in his heart and thought:

26. ‘I have created all these living beings in accordance with the fault in their acts. In spite of my presence they sink in hell, giving great distress.’

27. O best brāhmaṇa, thinking this and something else, he, full of pity, himself suddenly became the day of Ekādaśī.

28-30. Then he made it well-known to all the sinners. All of them, with their sins dropped went to the highest abode. Therefore, know Ekādaśī to be the embodiment of Viṣṇu, the highest soul. He made the Ekādaśī day, as the best of all vows, the best one (removing) all misdeeds, and as one purifying the three worlds. The Man of Sin, being afraid, went to Viṣṇu to praise him.

31. Then, O brāhmaṇa, that Man of Sin, devoutly joining the palms of his hands, praised lord Viṣṇu, the lord of Lakṣmī.

32. Hearing his hymn of praise the lord was pleased. He said: “I am pleased. Tell me what you desire.”

The Man of Sin said :

33-34. O Viṣṇu, you, the lord, have created me, giving distress (to beings) by obliging them. Due to the power of Ekādaśī, I am perishing now. When I die, all the sentient beings will be free from the bonds of the worldly existence.

35-42. O lord, when all the best sentient beings will be freed, with whom will you sport in this play-house in the form of the worldly existence? O Viṣṇu, if you have a desire to sport in the playhouse in the form of the world, then protect me from the fear of the Ekādaśī day. I cannot be killed by thousands of other (kinds of) religious merit. The meritorious Ekādaśī (alone) can kill me. Grant me a boon. For me who ran away through the fear of Ekādaśī, I do not find any place free from fear among men, insects, other living beings, on mountains, trees, dry grounds, in water, rivers, seas, forests, on desolate roads, in heaven, on the earth, in the nether world, (or) among gods, gandharvas , birds. O god of gods, O eternal one, due to this Ekādaśī day I am not getting a place to stay in the crores of universes. O lord, O lord of gods, tell me where I shall live without fear on the Ekādaśī (day). You have created me without a purpose.

Vyāsa said :

43-44. The Man of Sin spoke like this to Viṣṇu who removes affliction. He, with tears in his eyes, fell down on the ground and wept. Then the lord, the destroyer of Madhu and Kaiṭabha , laughed and said to the Man of Sin who was alarmed through the fear of Ekādaśī:

The lord said :

45-47. O Man of Sin, give up your grief. Be joyful. I shall tell you where you will have your place on the Ekadaśī day. O Man of Sin, when Ekādaśī, the purifier of the three worlds, arrives, you should resort to food. This Ekādaśī day, my embodiment, will not kill you, the Man of Sin, who have taken shetler [shelter?] inside food.

48-49. Then, O brāhmaṇa sage, the god also disappeared there only. The Man of Sin, being satisfied, went as he had come. Therefore, those best ones who desire their welfare should never eat food when the day of (i.e. sacred to) Viṣṇu, has come.

50-52. By the order of glorious Viṣṇu al the sins that are there in the world, save themselves by resorting to food on the Ekādaśī day. (Even) those committing all (kinds of) sins would be discharged from hell. But those who eat food even on this day should be known to be the greatest sinners (and have no requittal). Repeatedly I am telling firmly. O people, listen, listen. Never, never eat food (on the Ekādaśī day).

53-56. O best brāhmaṇa, all brāhmaṇas, kṣatriyas , vaiśyas , śūdras and others should observe; the Ekādaśī (vow), which gives (the fruit of) the four goals of human life. The wise say that a kāṣṭhā is formed by eighteen nimeṣas . Those who know everything say that a kalā is formed by thirty kāṣṭhās . A kṣaṇa is formed by thirty kalās , and a muhūrta by twelve kṣaṇas . The day and night of people is declared to be of thirty muhūrtas . O best brāhmaṇa, a fortnight should be known (to be formed) by those fifteen (days). A month is formed by the two fortnights—the bright and the dark.

57-58a. O best brāhmaṇa, he who, even having committed great sins, observes the Ekādaśī (vow) in both the bright and dark halves in the month, would, after being freed from all sins, obtain Viṣṇu’s world.

58b-62. A mother is not said to be mother. The mother is the Ekādaśī day. A mother would look after (one) in this world only. But the Ekādaśī day (looks after one) everywhere. That dull person who, abandoning the Ekādaśī vow observes another vow, takes up a clod after giving up a gem in his hand. Those who, full of devotion, have observed the Ekādaśī vow, have performed all sacrifices, and have observed all vows. Viṣṇu is always angry with those sinful men who, through folly, eat (food) on the Ekādaśī of the bright half or of the dark half (of a month). He, who has fasted on the Ekādaśī day has performed all religious rites.

63-71. As Viṣṇu is declared to be the greatest of all gods, so is the Ekādaśī Vow the greatest of all vows. As the Sun is (said to be the greatest) among Ādityas , as the Moon is (said to be the greatest) among the constellations, so the vow of Ekādaśī is said to be the greatest of all vows. As the holy fig tree is declared (to be the greatest) of all trees, as the Sāma ( Veda ) is (declared to be the greatest) of all Vedas , so is the Ekādaśī vow said to be the greatest of all vows. As Uśanas (i.e. Śukrācārya ) is (said to be the greatest) of (all) thinkers, as brāhmaṇa is (said to be the best) among castes, so is the Ekādaśī vow said to be the greatest of all vows. Among the sages Vyāsa is the greatest. Nārada is the greatest among the divine sages. Similarly the Ekādaśī vow is the greatest of all vows. As the gift of food is said to be the best of all gifts, similarly the Ekādaśī vow is said to be the greatest of all vows. As there is no friend like religious merit, as there is no teacher like the holy texts, similarly there is no vow comparable to the Ekādaśī vow in the three worlds. As the wise have declared mind to be the greatest of the senses, the month of Kārtika to be the greatest among the months, Arjuna to be the greatest of the Pāṇḍavas , as the Vedas are declared to be the greatest of all holy texts, so is the Ekādaśī vow said to be the best among vows.

72-74. O brāhmaṇa, the wise have not declared any other vow equal to the Ekādaśī vow in the Vedas, scriptures, Purāṇas and other holy texts. Having observed the Ekādaśī vow all men remain without fear on the earth. What will (Yama), the Sun’s son, do (to them)? Yama is the servant of those who properly observe (even) one Ekādaśī. Therefore, one should observe the Ekādaśī vow, giving happiness.

75. I am telling you in brief the manner of (observing) the Ekādaśī vow. O best one, O Jaimini , being of (i.e. with) an attentive mind listen (to it).

76-81. Having got up in the morning on the tenth (day) a man should brush his teeth. Then he should bathe without (smearing his body with) oil and (remain) without food. Then having worshipped Viṣṇu by offering water for washing his feet etc., he should, being highly devoted to the meditation of Viṣṇu, take one meal (only). On the tenth he should avoid (eating) flesh, salt, meat, pulses, big beans, so also vegetables. On the tenth he should avoid eating twice, the food of another (man), spirituous liquors, sexual union, so also taking food from vessels of bell-metal. On the tenth he should avoid nimba -leaf, egg-plant-fruit, and dry citron, so also milk without ghee . On the tenth he should avoid eating too much, very much enjoying and eating food and tāmbūla .

82. O best brāhmaṇa, just those articles which are prohibited on the tenth are also undoubtedly prohibited on the twelfth.

83. O best brāhmaṇa, a devotee of Viṣṇu desiring the proper fruit of his vow should not eat at night on the tenth, so also on the twelfth.

84. Therefore, he who observes a vow, having quickly eaten food proper for a fast should, in the proper manner, brush his teeth in the afternoon on the tenth.

85-87. In the evening, having gone to (Viṣṇu’s) temple with a handful of flowers, he, meditating mentally upon Viṣṇu, should utter this prayer: ‘O Govinda , I have taken up this vow before you. By the grace of your feet, may it reach its completion without any obstacle. Can I, a man of a very fickle mind, full of greed and delusion, observe it without your favour?’

88-93. Having recited these two hymns, and having offered just that handful of flowers to Viṣṇu, he should salute (Viṣṇu) prostrating himself like a staff on the ground. In that very abode of Viṣṇu, he, engaged in remembering Viṣṇu, should sleep on the ground after covering his bed with kuśa (grass). Then when it is the bright morning, he should not brush his teeth. The wise one should clean his mouth with twelve mouthfuls of water. He should (then) perform his daily rites like Viṣṇu’s worship etc. Then, O best brāhmaṇa, at night, he should, together with all other men observing the vow, keep awake in front of the lord of worlds. O best brāhmaṇa, he who observes the vow for a long time along with his mother, wife, brother or also his father, his son, friend, and who would keep awake before Viṣṇu, would dwell in Viṣṇu’s abode.

94. Viṣṇu would take away the sin of (i.e. committed by) him during many existences, who would draw the picture of a conch, or a disc etc. in Viṣṇu’s temple.

95-100. Listen to the fruit of (i.e. obtained by) him who would draw in Viṣṇu’s temple a picture with the paste of rice-powder or with other sylvan materials. He enjoys all auspicious (things) along with his sons, grandsons, and great-grandsons. And afterwards, he, going to Viṣṇu’s abode, would get liberation there. A man hoisting a flag on the day of (i.e. sacred to) Lakṣmī’s lord, would go to Viṣṇu’s city after emancipating crores of men. That man who would decorate Viṣṇu’s temple with lines of banners would be a king in every birth. As soon as the banner moves due to breezes all the sin of the maker of it perishes just then. Wise men desiring the highest position, should put up the lines of banners of various colours in Viṣṇu’s temple on the day of (i.e. sacred to) Viṣṇu.

101-105. O brāhmaṇa sage, that man who holds a very beautiful umbrella over Viṣṇu’s head, becomes (i.e. is born as) a kṣatriya in every existence on the earth. He who, on the day of (i.e. sacred to) Viṣṇu, prepares a pavilion of flowers, would obtain for every flower the religious merit due to more than a hundred horse-sacrifices. A wise man should even with effort prepare a pavilion with flowers on the day of (i.e. sacred to) Viṣṇu in order to obtain (the fruit of) the four goals of human life. He who makes an abode of cloth (i.e. a tent) on the day of (i.e. sacred to) Viṣṇu, lives in a mansion in heaven, O brāhmaṇa sage. Having fashioned an abode of cloth, a man, dear to Viṣṇu, (or to whom Viṣṇu is dear), ties there a white, or red or black (piece of) cloth.

106. The observer of the vow should devoutly install there a śālagrāma stone or idol of the lord of Lakṣmī after bathing it with pañcāmṛta .

107. A wise man should first perform, even with effort the svastyayana (recitation of mantras for averting evil) and then declare the purpose in order to obtain (the fruit of) the four goals of human life.

108. Having performed one’s bhūtaśuddhi (the removal of ghosts from oneself) in accordance with the formality prescribed by scriptures he should take with a concentrated mind an excellent flower.

109-110. He should meditate upon Viṣṇu residing in the lotus of his heart, seated on a golden seat and on a jewelled one. “Constantly looking from the corners of my eyes at him, seated on a golden seat, adorned with fire-like (bright) gems, having donned a sporting attire, having a beautiful body like the sky, having the digit (of the moon), always shining with the four arms holding weapons, looking with his lotus-like eyes at Lakṣmī’s face that removes his fatigue, I worship him.

111-123. O lord, O lord of Lakṣmī, O dear one, come along with the gods. In this vow I have to worship you with devotion. O you endowed with all good characteristics, Olordof the world, remain with Lakṣmī on this excellent seat till I worship you. O you whose fame is well-known in all the worlds, O Nārāyaṇa , O lord, I hope you are quite all right. Tell me all that, O you who are worshipped by the gods. O lord of gods, O Nārāyaṇa, accept the fragrant water for washing your feet. It will remove the dust-particles from both your feet; it is pure and very cold. O Viṣṇu, I offer you materials of worship along with dūrvā grass. It is along with unbroken rice grains, O you whose eyes resemble lotuses. I am offering you this very pure water for sipping. O you highest joy, accept it which enhances great joy. O you destroyer of Jarāsandha , O you lord of Lakṣmī, may your body be decorated with the fragrant sandal offered by me. O god, O lord of gods, to you the first cause of the worlds I am offering this water for sipping, for purifying. (Please) accept it. For increasing the joy of the god, this incense was formerly created by Brahmā . Therefore, I offer it to you, O greatest among gods. O Janārdana , O god, may this lamp, full of ghee, and destroyer of the mass of darkness, please you. This garment along with the upper one will very well decorate your abdomen and hips. O lord of gods, O master of the world, I am giving it to you along with the sacred thread. O highest god, I have devoutly offered to you four kinds of food having six agreeable tastes. (Please) accept it. O Viṣṇu, O you very intelligent one, accept this tāmbūla removing the bad odour of the mouth, with (i.e. containing) camphor and khadira , and giving beatitude”.

124-126. Full of devotion he should in this way worship Viṣṇu with excellent offerings in (all) the four watches (of the day). He who would offer various offerings on the day of(i.e. sacred to) Viṣṇu should not show guile about wealth if he desires the fruit of his acts. Then all the observers of the vow, highly devoted to Viṣṇu, should keep awake at night while dancing, singing and eulogizing etc.

127. O best brāhmaṇa, those who are engaged in the vow, should remember Viṣṇu’s names destroying all sins, while going round (the image of Viṣṇu) keeping it to their right.

128. Those who hear the sound of Viṣṇu’s name coming from every mouth would be free from great heaps of sins.

129. On the day of (i.e. sacred to) Viṣṇu one should not talk to heretics. Due to a mere talk with heretics (one’s) entire religious merit perishes.

130. Fools are not pleased on hearing the song of Viṣṇu’s glory which comes out from every mouth, as dogs are not pleased on hearing the sound of a lute.

131. The good ones are pleased on hearing the song about the lord of the world, which destroys all sins, as the deer are pleased on hearing the sound of a lute.

132-134. They sing songs about Viṣṇu. They dance an excellent dance. They are pleased on seeing the observers of Viṣṇu’s vow. They are pleased with what the observers of Viṣṇu’s vow are pleased with in the temple of Viṣṇu, O brāhmaṇa. Those observers of (Viṣṇu’s) vow who do not sing on the day of (i.e. sacred to) Viṣṇu, attain beasthood eternally in every existence. They, without (the power of uttering) words (i.e. being dumb) roam in every existence.

135. Musical instruments like tabor should be beaten in front of (the image of) Viṣṇu, since lord Viṣṇu would be pleased with (the sound of) musical instruments.

136. The devotees of Viṣṇu keeping awake (in front) of Viṣṇu study Vedas (in his temple) or recite a Purāṇa (in the temple).

137. On the day of (i.e. sacred to) Viṣṇu, Rāmāyaṇa , Bhāgavata , or Bhārata narrated by Vyāsa or other Purāṇas should be read.

138. Those who read (these) before (the image of) Viṣṇu and those who listen to them on the day of (i.e. sacred to) Viṣṇu, obtain for every letter the fruit due to the gift of a tawny cow.

139. A devotee of Viṣṇu should joyfully keep awake at night. He should curb his sleep. He properly meditates upon Viṣṇu with his heart.

140-142. On the day of (i.e. sacred to) Viṣṇu, he should salute Viṣṇu by falling (i.e. prostrating himself) on the ground like a staff while going round (the image keeping it to his) right. Then the devout observer of the vow, after having performed the five great sacrifices in the bright morning, should bathe (the image of) Viṣṇu with milk and worship him. The observer of the vow should give a present according to his capacity to a brāhmaṇa. Then on the twelfth day he should break the fast.

143-147. The religious merit earned during cores of existences by him who breaks his fast after having observed a fast on the twelfth day, perishes. The wise ones, desiring the fruit of the vow, should break the fast on the twelfth day, and never on the thirteenth day. O brāhmaṇa, the devotee of Viṣṇu, desiring the fruit of the fast, should, with effort, avoid sleep even at night on the day of the fast. Without keeping awake the fast is useless. Therefore, (on the Ekādaśī days) in both the fortnights he should keep awake. O greatest brāhmaṇa, all those who observe the Ekādaśī vow in this manner truly go to (i.e. attain) liberation.

148. O Jaimini, even hosts of gods like Indra and others should observe this essence of the vow of the day of (i.e. sacred to) Viṣṇu, which is the only cause of avoiding birth and death. You also observe it carefully.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 45210, revision 336770 (2022-04-27T03:54:56Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365863.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.