Skip to main content

Sṛṣṭi-khaṇḍa · Chapter 5

Chapter 5

Unit 5 of 693Sṛṣṭi-khaṇḍa · Chapter 5Sṛṣṭi-khaṇḍa · Chapter 51 source entries

Sṛṣṭi-khaṇḍa · Chapter 5

Source

भीष्म उवाच। कथं सती दक्षसुता देहं त्यक्तवती शुभा। दक्षयज्ञस्तु रुद्रेण विध्वस्तः केन हेतुना१। एतन्मे कौतुकं ब्रह्मन्कथं देवो महेश्वरः। जगामाथ क्रोधवशं त्रिपुरारिर्महायशाः२। पुलस्त्य उवाच। गंगाद्वारे पुरा भीष्म दक्षो यज्ञमथारभत्। तत्र देवासुरगणाः पितरोथ महर्षयः३। समाजग्मुर्मुदायुक्ताः सर्वे देवाः सवासवाः। नागा यक्षाः सुपर्णाश्च वीरुदोषधयस्तथा४। कश्यपो भगवानत्रिः पुलस्त्यः पुलहः क्रतुः। प्रचेतसोंगिराश्चैव वसिष्ठश्च महातपाः५। तत्र वेदीं समां कृत्वा चातुर्होत्रं न्यवेशयत्। होता वसिष्ठस्तत्रासीदंगिराध्वर्युसत्तमः६। बृहस्पतिरथोद्गाता ब्रह्मा वै नारदस्तथा। यज्ञकर्मप्रवृत्तौ तु हूयमानेषु चाग्निषु७। आगता वसवः सर्व आदित्या द्वादशैव तु। अश्विनौ मरुतश्चैव मनवश्च चतुर्दश८। एवं यज्ञे प्रवृत्ते तु हूयमानेषु चाग्निषु। विभूतिं तां परां तत्र भक्ष्यभोज्यकृतां शुभाम्९। आलोक्य सर्वतो भूमिं समंताद्दशयोजनम्। महावेदी कृता तत्र सर्वैस्तत्र समन्वितैः१०। सर्वान्देवान्शक्रमुख्यान्यज्ञे दृष्ट्वा सती शुभा। तदासानुनयं वाक्यं प्रजापतिमभाषत११। सत्युवाच। ऐरावतं समारूढो देवराजः शतक्रतुः। पत्न्या शच्या सहायातः कृतावासः शतक्रतुः१२। पापानां यो यमयिता धर्मेणाधर्मिणां प्रभुः। पत्न्या धूमोर्णया सार्द्धमिहायातः स दृश्यते१३। यादसां च पतिर्द्देवो वरुणो लोकभावनः। गौर्य्या पत्न्या सहायातः प्रचेता मंडपे त्विह१४। सर्वयक्षाधिपो देवः पुत्रो विश्रवसो मुनेः। पत्न्या त्विह समायातः सह देव्या धनाधिपः१५। मुखं यः सर्वदेवानां जंतूनामुदरे स्थितः। वेदा यदर्थमुत्पन्नास्सोयं यज्ञमुपागतः१६। निऋती राक्षसेन्द्रोऽसौ दिक्पतित्वे नियोजितः। स च त्विहागतस्तात पत्न्या सार्द्धं क्रताविह१७। आयुःप्रदो जगत्यस्मिन्ब्रह्मणा निर्मितः पुरा। प्राणोपानोव्यानउदानस्समानाह्वयस्तथा१८। एकोनपंचाशत्केन गणेन परिवारितः। यज्ञे प्रजापतिश्चासौ वायुर्देवःसमागतः१९। द्वादशात्मा ग्रहाध्यक्षःचक्षुषी जगतस्त्विह। पाति वै भुवनं सर्वं देवानां यः परायणः२०। आयुषश्च वनानां च दिवसानां पतिर्हि यः। संज्ञा पतिरिहायातो भास्करो लोकपावनः२१। अत्रिवंशसमुद्भूतो द्विजराजो महायशाः। नयनानंदजननो लोकनाथो धरातले२२। ओषधीनां पतिश्चापि वीरुधामपि सर्वशः। उडुनाथः सपत्नीक इहायातः शशी तव२३। वसवोष्टौ समायाता अश्विनौ च समागतौ। वृक्षो वनस्पतिश्चापि गन्धर्वाप्सरसां गणाः२४। विद्याधरा भूतसंघा वेताला यक्षराक्षसाः। पिशाचाश्चोग्रकर्माणस्तथान्ये जीवहारकाः२५। नद्यो नदाः समुद्राश्च द्वीपाश्च सह पर्वतैः। ग्राम्यारण्याश्च पशवो यदिङ्गं यच्च नेङ्गति२६। कश्यपो भगवानत्रिर्वसिष्ठश्चापरैः सह। पुलस्त्यः पुलहश्चैव सनकाद्या महर्षयः२७। पुण्या राजर्षयश्चैव पृथिव्यां ये च पार्थिवाः। वर्णाश्चाश्रमिणश्चैव सर्वे ये कर्मकारिणः२८। किमत्र बहुनोक्तेन ब्राह्मी सृष्टिरिहागता। भगिन्यो भागिनेयाश्च भगिनीपतयस्त्विमे२९। स्वभार्यासहिताः सर्वे सपुत्रास्सह बांधवाः। त्वया समर्चिताः सर्वे दानमानपरिग्रहैः३०। आमंत्रणा मंत्रितानां सर्वेषां मानना कृता। एक एवात्र भगवान्पतिर्मे न समागतः३१। विना तेन त्विदं सर्वं शून्यवत्प्रतिभाति मे। मन्ये चाहं तु भवता पतिर्मे न निमंत्रितः३२। विस्मृतस्ते भवेन्नूनं सर्वं शंसतु मे भवान्। पुलस्य उवाच। तस्यास्तदुक्तं वचनं श्रुत्वा दक्षः प्रजापतिः३३। पतिस्नेह समायुक्तां प्राणेभ्योपि गरीयसीम्। अंकमारोप्य तां बालां साध्वीं पतिपरायणाम्३४। पतिव्रतां महाभागां पतिप्रियहितैषिणीम्। प्राह गंभीरभावेन शृणु वत्से यथातथम्३५। येनाद्य कारणेनेह पतिस्ते न निमंत्रितः। कपालपात्रधृक्चर्मी भस्मावृत तनुस्तथा३६। शूली मुण्डी च नग्नश्च श्मशाने रमते सदा। विभूत्याङ्गानि सर्वाणि परिमार्ष्टि च नित्यशः३७। व्याघ्रचर्मपरीधानो हस्तिचर्मपरिच्छदः। कपालमालं शिरसि खट्वागं च करे स्थितं३८। कट्यां वै गोनसं बध्वा लिंगेऽस्थ्नां वलयं तथा। पन्नगानां तु राजानमुपवीतं च वासुकिम्३९। कृत्वा भ्रमति चानेन रूपेण सततं क्षितौ। नग्ना गणाः पिशाचाश्च भूतसंघा ह्यनेकशः४०। त्रिनेत्रश्च त्रिशूली च गीतनृत्यरतस्सदा। कुत्सितानि तथान्यानि सदा ते कुरुते पतिः४१। त्रपाकरो भवेन्मह्यं देवानां संनिधिः कथं। कीदृक्च वसनं तस्य केतनं प्रति नार्हति४२। एतैर्दोषैर्मया वत्से लोकानां चैव लज्जया। नाह्वानं तु कृतं तस्य कारणेन मया सुते४३। यज्ञस्यास्य समाप्तौ तु पूजां कृत्वा त्वया सह। आनीय तव भर्त्तारं त्वया सह त्रिलोचनम्४४। त्रैलोक्यस्याधिकां पूजां करिष्यामि च सत्कृतैः। एतत्ते सर्वमाख्यातं त्रपायाः कारणं महत्४५। नात्र मन्युस्त्वया कार्यः सर्वः स्वं भागमर्हति। अन्यजन्मनि यैर्यादृक्कृतं कर्म शुभाशुभम्४६। इह जन्मनि ते तादृक्पुत्रिके भुंजते फलम्। परितापं मा कृथास्त्वं फलं भुंक्ष्व पुराकृतम्४७। श्रियं परगतां दृष्ट्वा रूपसौभाग्यशोभनाम्। रूपं च कांतिसौभाग्यं रम्याण्याभरणानि च४८। कुलेमहतिवैजन्मवपुश्चातीवसुंदरम्। पूर्वभाग्यैस्तु लभ्यंते नरैरेतानि सुव्रते४९। मात्मानं परिनिंदेथामाच भाग्यानि सुव्रते। फलं चैवं विधिकृतं दातुं कस्य तु कः क्षमः५० 1.5.50। नास्ति वै बलवान्कश्चिन्नमूढो न च पंडितः। पांडित्यं च बलं चैव जायते पूर्वकर्मणः५१। एते देवा दिवं प्राप्ताः शोभमानाः स्थिताश्चिरम्। पुण्येन तपसा चैव क्षेत्रेषुविविधेषुच५२। यदेभिरार्जितं पुण्यं तस्यैते फलभागिनः। एवमुक्ता ततः सा तु सती भीष्मरुषान्विता५३। विनिंदमाना पितरं क्रोधेनारुणितेक्षणा। एवमेतद्यथा तात त्वया चोक्तं ममाग्रतः५४। सर्वो जनः पुण्यभागी पुण्येन लभते श्रियं। पुण्येन लभते जन्म पुण्ये भोगाः प्रतिष्ठिताः५५। तदयं जगतामीशः सर्वेषामुत्तमोत्तमः। स्थानान्येतानि सर्वेषां दत्तान्येतेन धीमता५६। ये गुणास्तस्य देवस्य वक्तुं जिह्वापि वेधसः। न शक्ता ख्यापने तस्य देवस्य परमेष्ठिनः५७। भस्मास्थि च कपालानि श्मशाने वसतिस्तथा। गोनसाद्याश्च ये सर्पाः सर्वे ते भूषणीकृताः५८। भूतप्रेतगणास्तस्य पिशाचा गुह्यकास्तथा। एष धाता विधाता च एष पालयिता दिशः५९। प्रसादेन च रुद्रस्य प्राप्तस्वर्गः पुरंदरः। यदि रुद्रेस्ति देवत्वं यदि सर्वगतः शिवः६०। सत्येन तेन ते यज्ञं विध्वंसयतु शंकरः। यद्यस्ति मे तपः किंचित्कश्चिद्धर्मोथवा कृतः६१। फलेन तस्य धर्मस्य यज्ञस्ते नाशमर्हति। प्रियाहं यदि देवस्य यदि मां तारयिष्यति६२। तेन सत्येन ते गर्वः समाप्तिमभिगच्छतु। इत्युक्त्वा योगमास्थाय स्वदेहस्थेन तेजसा६३। निर्ददाह तदात्मानं सदेवासुरपन्नगैः। किंकिमेतदिति प्रोक्ते गंधर्वगणगुह्यकैः६४। गंगाकूले तदा मुक्तो देहो वै क्रुद्धया तया। सौनकं नाम तत्तीर्थं गंगायाः पश्चिमे तटे६५। श्रुत्वा रुद्रस्तु तद्वार्त्तां पत्न्यानाश सुदुःखितः। हंतुं यज्ञं धीरभवत्देवानामिह पश्यताम्६६। गणकोटिः समादिष्टा ग्रहा वैनायकास्तथा। भूतप्रेतपिशाचाश्च दक्षयज्ञ विनाशने६७। तैर्गत्वा विबुधास्सर्वे यज्ञे निर्जित्य नाशिताः। हते यज्ञे तदा दक्षो निरुत्साहो निरुद्यमः६८। उपगम्याब्रवीत्त्रस्तो देवदेवं पिनाकिनम्। न ज्ञातोसि मया देव देवानां प्रभुरीश्वरः६९। त्वमस्य जगतोधीशः सुरास्सर्वे त्वया जिताः। कृपां कुरु महेशान गणान्सर्वान्निवर्त्तय७०। गणैर्नानाविधैर्घोरैर्नानाभूषणभूषितैः। नानावदनदंतौष्ठैर्नाना प्रहरणोद्यतैः७१। नाना नागेंद्रसंदष्ट जटाभारोपशोभितैः। सुदृढोद्धत दर्पाढ्यैर्घोरैर्घोरनिघातिभिः७२। कामरूपैरकांतैश्च सर्वकामसमन्वितैः। अनिवार्यबलैश्चोग्रैर्योगिभिर्योगगामिभिः७३। व्यालोलकेसरजटैर्दंष्ट्रोत्कटहसन्मुखैः। करींद्रकरटाटोप पाटवैः सिंहदेहिभिः७४। केचित्परमदाघ्राण घूर्णद्दीपसमप्रभैः। विचित्रचित्रवसनैर्द्धीरधीरवारदिभिः७५। मृगव्याघ्रसिंहरुतैस्तरक्ष्वजिनधारिभिः। भुजंगहारवलयकृतयज्ञोपवीतकैः७६। शूलासिपट्टिशधरैः परशुप्रासहस्तकैः। वज्रक्रकचकोदंडकालदंडास्त्रपाणिभिः७७। गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव। देवदेवमहादेव नष्टो यज्ञो दिवं गतः७८। मृगरूपधरो भूत्वा भयभीतस्तु शंकर। नमः शङ्खाभदेवाय सगणाय सनंदिने७९। वृषासनाय सोमाय क्रतुकालांतकाय च। नमो दिक्चर्मवस्त्राय नमस्ते तीव्रतेजसे८०। ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायामिताय च। गिरीशाय सुरेशाय ईशानाय नमोनमः८१। रुद्राय प्रतिवज्राय शिवाय क्रथनाय च। सुरासुराधिपतये यतीनां पतये नमः८२। धूम्रोग्राय विरूपाय यज्वने घोररूपिणे। विरूपाक्षाशुभाक्षाय सहस्राक्षाय वै नमः८३। मुंडाय चंडमुण्डाय वरखट्वाङ्गधारिणे। कव्यरूपाय हव्याय सर्वसंहारिणे नमः८४। भक्तानुकंपिनेत्यर्थं रुद्रजाप्यस्तुताय च। विरूपाय सुरूपाय रूपाणां शतकारिणे८५। पंचास्याय शुभास्याय चंद्रास्याय नमो नमः। वरदाय वरार्हाय कूर्माय च मृगाय च८६। लीलालकशिखंडाय कमंडलुधराय च। विश्वनाम्नेथ विश्वाय विश्वेशाय नमोनमः८७। त्रिनेत्रत्राणमस्माकं त्रिपुरघ्नविधीयतां। वाङ्मनः कायभावैस्तु प्रपन्नस्य महेश्वर८८। एवं स्तुतस्तदा देवो दक्षेणापन्नदेहिना। दिव्येनानेन स्तोत्रेण भृशमाराधितस्तदा८९। समग्रं ते यज्ञफलं मया दत्तं प्रजापते। सर्वकामप्रसिर्द्ध्य्थंफलंप्राप्स्यस्यनुत्तमम्९०। एवमुक्तो भगवता प्रणम्याथ सुरेश्वरम्। जगाम स्वनिकेतं तु गणानामेव पश्यताम्९१। पत्न्याः शोकेन वै देवो गंगाद्वारे तदास्थितः। तां सतीं चिंतयानस्तु क्व नु सामेप्रियागता९२। तस्य शोकाभिभूतस्य नारदो भवसंन्निधौ। सा ते सती या देवेश भार्या प्राणसमामृता९३। हिमवद्दुहिता सा च मेनागर्भसमुद्भवा। जग्राह देहमन्यं सा वेदवेदार्थवेदिनी९४। श्रुत्वा देवस्तदा ध्यानमवतीर्णामपश्यत। कृतकृत्यमथात्मानं कृत्वा देवस्तदास्थितः९५। संप्राप्तयौवना देवी पुनरेव विवाहिता। एवं हि कथितं भीष्म यथा यज्ञो हतः पुरा९६। इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे दक्षयज्ञविध्वंसोनाम पञ्चमोऽध्यायः५।

bhīṣma uvāca| kathaṃ satī dakṣasutā dehaṃ tyaktavatī śubhā| dakṣayajñastu rudreṇa vidhvastaḥ kena hetunā1| etanme kautukaṃ brahmankathaṃ devo maheśvaraḥ| jagāmātha krodhavaśaṃ tripurārirmahāyaśāḥ2| pulastya uvāca| gaṃgādvāre purā bhīṣma dakṣo yajñamathārabhat| tatra devāsuragaṇāḥ pitarotha maharṣayaḥ3| samājagmurmudāyuktāḥ sarve devāḥ savāsavāḥ| nāgā yakṣāḥ suparṇāśca vīrudoṣadhayastathā4| kaśyapo bhagavānatriḥ pulastyaḥ pulahaḥ kratuḥ| pracetasoṃgirāścaiva vasiṣṭhaśca mahātapāḥ5| tatra vedīṃ samāṃ kṛtvā cāturhotraṃ nyaveśayat| hotā vasiṣṭhastatrāsīdaṃgirādhvaryusattamaḥ6| bṛhaspatirathodgātā brahmā vai nāradastathā| yajñakarmapravṛttau tu hūyamāneṣu cāgniṣu7| āgatā vasavaḥ sarva ādityā dvādaśaiva tu| aśvinau marutaścaiva manavaśca caturdaśa8| evaṃ yajñe pravṛtte tu hūyamāneṣu cāgniṣu| vibhūtiṃ tāṃ parāṃ tatra bhakṣyabhojyakṛtāṃ śubhām9| ālokya sarvato bhūmiṃ samaṃtāddaśayojanam| mahāvedī kṛtā tatra sarvaistatra samanvitaiḥ10| sarvāndevānśakramukhyānyajñe dṛṣṭvā satī śubhā| tadāsānunayaṃ vākyaṃ prajāpatimabhāṣata11| satyuvāca| airāvataṃ samārūḍho devarājaḥ śatakratuḥ| patnyā śacyā sahāyātaḥ kṛtāvāsaḥ śatakratuḥ12| pāpānāṃ yo yamayitā dharmeṇādharmiṇāṃ prabhuḥ| patnyā dhūmorṇayā sārddhamihāyātaḥ sa dṛśyate13| yādasāṃ ca patirddevo varuṇo lokabhāvanaḥ| gauryyā patnyā sahāyātaḥ pracetā maṃḍape tviha14| sarvayakṣādhipo devaḥ putro viśravaso muneḥ| patnyā tviha samāyātaḥ saha devyā dhanādhipaḥ15| mukhaṃ yaḥ sarvadevānāṃ jaṃtūnāmudare sthitaḥ| vedā yadarthamutpannāssoyaṃ yajñamupāgataḥ16| niṛtī rākṣasendro'sau dikpatitve niyojitaḥ| sa ca tvihāgatastāta patnyā sārddhaṃ kratāviha17| āyuḥprado jagatyasminbrahmaṇā nirmitaḥ purā| prāṇopānovyānaudānassamānāhvayastathā18| ekonapaṃcāśatkena gaṇena parivāritaḥ| yajñe prajāpatiścāsau vāyurdevaḥsamāgataḥ19| dvādaśātmā grahādhyakṣaḥcakṣuṣī jagatastviha| pāti vai bhuvanaṃ sarvaṃ devānāṃ yaḥ parāyaṇaḥ20| āyuṣaśca vanānāṃ ca divasānāṃ patirhi yaḥ| saṃjñā patirihāyāto bhāskaro lokapāvanaḥ21| atrivaṃśasamudbhūto dvijarājo mahāyaśāḥ| nayanānaṃdajanano lokanātho dharātale22| oṣadhīnāṃ patiścāpi vīrudhāmapi sarvaśaḥ| uḍunāthaḥ sapatnīka ihāyātaḥ śaśī tava23| vasavoṣṭau samāyātā aśvinau ca samāgatau| vṛkṣo vanaspatiścāpi gandharvāpsarasāṃ gaṇāḥ24| vidyādharā bhūtasaṃghā vetālā yakṣarākṣasāḥ| piśācāścograkarmāṇastathānye jīvahārakāḥ25| nadyo nadāḥ samudrāśca dvīpāśca saha parvataiḥ| grāmyāraṇyāśca paśavo yadiṅgaṃ yacca neṅgati26| kaśyapo bhagavānatrirvasiṣṭhaścāparaiḥ saha| pulastyaḥ pulahaścaiva sanakādyā maharṣayaḥ27| puṇyā rājarṣayaścaiva pṛthivyāṃ ye ca pārthivāḥ| varṇāścāśramiṇaścaiva sarve ye karmakāriṇaḥ28| kimatra bahunoktena brāhmī sṛṣṭirihāgatā| bhaginyo bhāgineyāśca bhaginīpatayastvime29| svabhāryāsahitāḥ sarve saputrāssaha bāṃdhavāḥ| tvayā samarcitāḥ sarve dānamānaparigrahaiḥ30| āmaṃtraṇā maṃtritānāṃ sarveṣāṃ mānanā kṛtā| eka evātra bhagavānpatirme na samāgataḥ31| vinā tena tvidaṃ sarvaṃ śūnyavatpratibhāti me| manye cāhaṃ tu bhavatā patirme na nimaṃtritaḥ32| vismṛtaste bhavennūnaṃ sarvaṃ śaṃsatu me bhavān| pulasya uvāca| tasyāstaduktaṃ vacanaṃ śrutvā dakṣaḥ prajāpatiḥ33| patisneha samāyuktāṃ prāṇebhyopi garīyasīm| aṃkamāropya tāṃ bālāṃ sādhvīṃ patiparāyaṇām34| pativratāṃ mahābhāgāṃ patipriyahitaiṣiṇīm| prāha gaṃbhīrabhāvena śṛṇu vatse yathātatham35| yenādya kāraṇeneha patiste na nimaṃtritaḥ| kapālapātradhṛkcarmī bhasmāvṛta tanustathā36| śūlī muṇḍī ca nagnaśca śmaśāne ramate sadā| vibhūtyāṅgāni sarvāṇi parimārṣṭi ca nityaśaḥ37| vyāghracarmaparīdhāno hasticarmaparicchadaḥ| kapālamālaṃ śirasi khaṭvāgaṃ ca kare sthitaṃ38| kaṭyāṃ vai gonasaṃ badhvā liṃge'sthnāṃ valayaṃ tathā| pannagānāṃ tu rājānamupavītaṃ ca vāsukim39| kṛtvā bhramati cānena rūpeṇa satataṃ kṣitau| nagnā gaṇāḥ piśācāśca bhūtasaṃghā hyanekaśaḥ40| trinetraśca triśūlī ca gītanṛtyaratassadā| kutsitāni tathānyāni sadā te kurute patiḥ41| trapākaro bhavenmahyaṃ devānāṃ saṃnidhiḥ kathaṃ| kīdṛkca vasanaṃ tasya ketanaṃ prati nārhati42| etairdoṣairmayā vatse lokānāṃ caiva lajjayā| nāhvānaṃ tu kṛtaṃ tasya kāraṇena mayā sute43| yajñasyāsya samāptau tu pūjāṃ kṛtvā tvayā saha| ānīya tava bharttāraṃ tvayā saha trilocanam44| trailokyasyādhikāṃ pūjāṃ kariṣyāmi ca satkṛtaiḥ| etatte sarvamākhyātaṃ trapāyāḥ kāraṇaṃ mahat45| nātra manyustvayā kāryaḥ sarvaḥ svaṃ bhāgamarhati| anyajanmani yairyādṛkkṛtaṃ karma śubhāśubham46| iha janmani te tādṛkputrike bhuṃjate phalam| paritāpaṃ mā kṛthāstvaṃ phalaṃ bhuṃkṣva purākṛtam47| śriyaṃ paragatāṃ dṛṣṭvā rūpasaubhāgyaśobhanām| rūpaṃ ca kāṃtisaubhāgyaṃ ramyāṇyābharaṇāni ca48| kulemahativaijanmavapuścātīvasuṃdaram| pūrvabhāgyaistu labhyaṃte narairetāni suvrate49| mātmānaṃ pariniṃdethāmāca bhāgyāni suvrate| phalaṃ caivaṃ vidhikṛtaṃ dātuṃ kasya tu kaḥ kṣamaḥ50 1.5.50| nāsti vai balavānkaścinnamūḍho na ca paṃḍitaḥ| pāṃḍityaṃ ca balaṃ caiva jāyate pūrvakarmaṇaḥ51| ete devā divaṃ prāptāḥ śobhamānāḥ sthitāściram| puṇyena tapasā caiva kṣetreṣuvividheṣuca52| yadebhirārjitaṃ puṇyaṃ tasyaite phalabhāginaḥ| evamuktā tataḥ sā tu satī bhīṣmaruṣānvitā53| viniṃdamānā pitaraṃ krodhenāruṇitekṣaṇā| evametadyathā tāta tvayā coktaṃ mamāgrataḥ54| sarvo janaḥ puṇyabhāgī puṇyena labhate śriyaṃ| puṇyena labhate janma puṇye bhogāḥ pratiṣṭhitāḥ55| tadayaṃ jagatāmīśaḥ sarveṣāmuttamottamaḥ| sthānānyetāni sarveṣāṃ dattānyetena dhīmatā56| ye guṇāstasya devasya vaktuṃ jihvāpi vedhasaḥ| na śaktā khyāpane tasya devasya parameṣṭhinaḥ57| bhasmāsthi ca kapālāni śmaśāne vasatistathā| gonasādyāśca ye sarpāḥ sarve te bhūṣaṇīkṛtāḥ58| bhūtapretagaṇāstasya piśācā guhyakāstathā| eṣa dhātā vidhātā ca eṣa pālayitā diśaḥ59| prasādena ca rudrasya prāptasvargaḥ puraṃdaraḥ| yadi rudresti devatvaṃ yadi sarvagataḥ śivaḥ60| satyena tena te yajñaṃ vidhvaṃsayatu śaṃkaraḥ| yadyasti me tapaḥ kiṃcitkaściddharmothavā kṛtaḥ61| phalena tasya dharmasya yajñaste nāśamarhati| priyāhaṃ yadi devasya yadi māṃ tārayiṣyati62| tena satyena te garvaḥ samāptimabhigacchatu| ityuktvā yogamāsthāya svadehasthena tejasā63| nirdadāha tadātmānaṃ sadevāsurapannagaiḥ| kiṃkimetaditi prokte gaṃdharvagaṇaguhyakaiḥ64| gaṃgākūle tadā mukto deho vai kruddhayā tayā| saunakaṃ nāma tattīrthaṃ gaṃgāyāḥ paścime taṭe65| śrutvā rudrastu tadvārttāṃ patnyānāśa suduḥkhitaḥ| haṃtuṃ yajñaṃ dhīrabhavatdevānāmiha paśyatām66| gaṇakoṭiḥ samādiṣṭā grahā vaināyakāstathā| bhūtapretapiśācāśca dakṣayajña vināśane67| tairgatvā vibudhāssarve yajñe nirjitya nāśitāḥ| hate yajñe tadā dakṣo nirutsāho nirudyamaḥ68| upagamyābravīttrasto devadevaṃ pinākinam| na jñātosi mayā deva devānāṃ prabhurīśvaraḥ69| tvamasya jagatodhīśaḥ surāssarve tvayā jitāḥ| kṛpāṃ kuru maheśāna gaṇānsarvānnivarttaya70| gaṇairnānāvidhairghorairnānābhūṣaṇabhūṣitaiḥ| nānāvadanadaṃtauṣṭhairnānā praharaṇodyataiḥ71| nānā nāgeṃdrasaṃdaṣṭa jaṭābhāropaśobhitaiḥ| sudṛḍhoddhata darpāḍhyairghorairghoranighātibhiḥ72| kāmarūpairakāṃtaiśca sarvakāmasamanvitaiḥ| anivāryabalaiścograiryogibhiryogagāmibhiḥ73| vyālolakesarajaṭairdaṃṣṭrotkaṭahasanmukhaiḥ| karīṃdrakaraṭāṭopa pāṭavaiḥ siṃhadehibhiḥ74| kecitparamadāghrāṇa ghūrṇaddīpasamaprabhaiḥ| vicitracitravasanairddhīradhīravāradibhiḥ75| mṛgavyāghrasiṃharutaistarakṣvajinadhāribhiḥ| bhujaṃgahāravalayakṛtayajñopavītakaiḥ76| śūlāsipaṭṭiśadharaiḥ paraśuprāsahastakaiḥ| vajrakrakacakodaṃḍakāladaṃḍāstrapāṇibhiḥ77| gaṇeśvaraiḥ sudurddharṣairvṛtaḥ sūryo grahairiva| devadevamahādeva naṣṭo yajño divaṃ gataḥ78| mṛgarūpadharo bhūtvā bhayabhītastu śaṃkara| namaḥ śaṅkhābhadevāya sagaṇāya sanaṃdine79| vṛṣāsanāya somāya kratukālāṃtakāya ca| namo dikcarmavastrāya namaste tīvratejase80| brahmaṇe brahmadehāya brahmaṇyāyāmitāya ca| girīśāya sureśāya īśānāya namonamaḥ81| rudrāya prativajrāya śivāya krathanāya ca| surāsurādhipataye yatīnāṃ pataye namaḥ82| dhūmrogrāya virūpāya yajvane ghorarūpiṇe| virūpākṣāśubhākṣāya sahasrākṣāya vai namaḥ83| muṃḍāya caṃḍamuṇḍāya varakhaṭvāṅgadhāriṇe| kavyarūpāya havyāya sarvasaṃhāriṇe namaḥ84| bhaktānukaṃpinetyarthaṃ rudrajāpyastutāya ca| virūpāya surūpāya rūpāṇāṃ śatakāriṇe85| paṃcāsyāya śubhāsyāya caṃdrāsyāya namo namaḥ| varadāya varārhāya kūrmāya ca mṛgāya ca86| līlālakaśikhaṃḍāya kamaṃḍaludharāya ca| viśvanāmnetha viśvāya viśveśāya namonamaḥ87| trinetratrāṇamasmākaṃ tripuraghnavidhīyatāṃ| vāṅmanaḥ kāyabhāvaistu prapannasya maheśvara88| evaṃ stutastadā devo dakṣeṇāpannadehinā| divyenānena stotreṇa bhṛśamārādhitastadā89| samagraṃ te yajñaphalaṃ mayā dattaṃ prajāpate| sarvakāmaprasirddhythaṃphalaṃprāpsyasyanuttamam90| evamukto bhagavatā praṇamyātha sureśvaram| jagāma svaniketaṃ tu gaṇānāmeva paśyatām91| patnyāḥ śokena vai devo gaṃgādvāre tadāsthitaḥ| tāṃ satīṃ ciṃtayānastu kva nu sāmepriyāgatā92| tasya śokābhibhūtasya nārado bhavasaṃnnidhau| sā te satī yā deveśa bhāryā prāṇasamāmṛtā93| himavadduhitā sā ca menāgarbhasamudbhavā| jagrāha dehamanyaṃ sā vedavedārthavedinī94| śrutvā devastadā dhyānamavatīrṇāmapaśyata| kṛtakṛtyamathātmānaṃ kṛtvā devastadāsthitaḥ95| saṃprāptayauvanā devī punareva vivāhitā| evaṃ hi kathitaṃ bhīṣma yathā yajño hataḥ purā96| iti śrīpādmapurāṇe prathame sṛṣṭikhaṇḍe dakṣayajñavidhvaṃsonāma pañcamo'dhyāyaḥ5|

English translation

Bhīṣma said :

1. How did Satī , Dakṣa ’s auspicious daughter, cast off her body? For what reason was Dakṣa’s sacrifice destroyed by Rudra ?

2. I have also a desire to know why lord Śiva , the destroyer of Tripura and greatly renowned, got angry.

Pulastya spoke :

3-8. O Bhīṣma , in olden time, Dakṣa commenced a sacrifice at Haridvāra . There hosts of gods, Pitṛs (manes), and great sages, all gods with Indra , Nāgas , Yakṣas , Suparṇas , creepers and herbs, and revered Kaśyapa , Atri , Pulastya , Pulaha , Kratu , Pracetas , Aṅgiras and Vasiṣṭha of great penance had assembled. Making the altar even, he appointed four priests. Vasiṣṭha was the Hotṛ (reciting the Ṛgvedic prayers at the sacrifice); Aṅgiras was the best Adhvaryu (officiating priest); Bṛhaspati was the Udgātṛ (chanting the hymns of Sāmaveda ) and Nārada the Brahmā (-priest). When the sacrifice commenced and oblations were offered into fires, all the Vasus and the twelve Ādityas , the two Aśvins , Maruts and the fourteen Manus arrived there.

9-11. When thus the sacrifice proceeded and (oblations were) offered into fires, then seeing that great bright splendour of food and the ground around upto ten yojanas , and the great altar prepared by all that had gathered there, and seeing, at the sacrifice, all gods led by Śakra , the auspicious Satī, spoke the following words to Prajāpati .

Satī said :

12. King of gods, Indra, mounted on Airāvata , has come with his wife Śacī , and has stayed here.

13. He, who curbs sins and who is by nature the lord of the virtuous, has arrived here with his wife Dhūmorṇā .

14. God Varuṇa (also called) Pracetas, lord of the aquatic animals and the creators of the world, has come to this pavilion along with his wife Gaurī ,

15. The lord of wealth (i.e. Kubera ), the supreme ruler of all the Yakṣas, and the son of the sage Viśravas , has come here with his wife Sahadevī.

16-17. He, who is the mouth of all gods, who resides in the bellies of all creatures, and for whom the sacrifices have come up, he, Niṛtī [Nirṛtī?], the lord of the Rākṣasas , who has been appointed as the lord of the (south-western) direction, O dear father, has come to this sacrifice with his wife.

18-19. Lord Vāyu , the giver of life in this world, and created in olden time by Brahmā, and known as Prāṇa , Apāna , Vyāna , Udāna (and) Samāna , and surrounded by his forty-nine attendants, has come to this sacrifice.

20-21. Bhāskara (the Sun), having twelve souls, lord of the planets, the (two) eyes of the world, and the best resort of the gods, the lord of life, of the forests and the lord of days, the husband of Saṃjñā and the purifier of the worlds, has come here.

22-23. Your Moon, born in the family of Atri, and lord of the brāhmaṇas , of great fame, delighting the eyes, lord of the world, by all means the master of the herbs and creepers on the earth, the lord of the constellations, has arrived here with his wife.

24-28. The eight Vasus have come; the two Asvins have arrived; and Trees, Herbs, Gandharvas and the groups of the celestial nymphs, Vidyādharas , groups of ghosts, vampires, Yakṣas and demons, goblins of horrible deeds, and others who take away life, great rivers, and streams, oceans and islands, with mountains, and wild beasts, as well as the movable and the immovable, revered Kaśyapa, Atri, and Vasiṣṭha with other (sages), and great sages like Pulastya, Pulaha and Sanaka and others, righteous royal sages, and also the kings of the earth, all people of various castes and of the orders of life, and all labourers (have arrived here).

29-30. What is the use of prolixity in this case? The creation of Brahmā has come here. Sisters, their sons and their brothers-in-law with their wives and sons, (and) with their relatives, all these—who have been honoured by you with gifts, regards and with attendants (are assembled here).

31. You have honoured all who were invited by you; but my revered husband alone has not come.

32. All this appears to me to be void without him. I think you have not invited my husband.

33-37. In all probability you have forgotten him. Tell me everything.

Pulastya said :

Having heard the words uttered by her, Dakṣa Prajāpati, placing that virtuous, magnanimous young woman on his lap, solemnly said to her, who was devoted to her husband, and was full of love for him, the one more important to her than her own life, who desired what was dear to and good for her husband: “My dear child, hear precisely why your husband was not invited. He holds the pot of skull; puts on a hide; his body is covered over with ashes; holds a trident; has a garland ofheads round his neck; is naked; and always rejoices in the cemetery; he always rubs his body with ashes.

38-41. He puts on a tiger’s hide, and has a garment of elephant’s skin. On his head there is a string of skulls and he has in his hand, a club with a skull at its top and has a snake tied round his waist; has put a ring round his organ of generation; has made Vāsuki , the lord of serpents, his sacred thread. He always moves in this form on the earth. (He has with him) many naked attendants, goblins, and groups of creatures. He has three eyes, a trident, and is always engaged in music and dance. Your husband always does similar (other) contemptible things.

42. (He) in the presence of gods would cause shame to me. What kind of garment does he have? He does not honour (i.e. care for) a residence.

43. O child, due to these faults and fearing public censure I have not invited him, O my daughter.

44-45. After this sacrifice is over, bringing your husband and honouring him with you, I shall offer the three-eyed one, with respects, a worship uncommon in the three worlds. I have told you this great reason for (my) shame.

46-49. You should not be angry for this; everyone should have what he deserves. O daughter, those who have done any good or bad deed in a previous existence, get its fruit like (i.e. according to) that in this existence. Seeing other’s prosperity, charming with grace and good fortune, do not get excited enjoy the fruit of (what was) done formerly. O you virtuous lady, appearance, beauty and blessedness, delightful ornaments, and birth in a great family, and extremely handsome body—all these are obtained by men due to good fortune.

50-51. Do not censure yourself, O virtuous lady, nor blame your destiny. This is the destined fruit. Who can give it to whom? No one is strong, or foolish, or wise. Wisdom or power comes due to former deeds.

52. These gods have secured heaven, and the shining ones have remained there and in various fields, for a long time by means of religious merit and penance.

53-57. They enjoy the fruit of the religious merit that they have earned.”

Thus addressed, that chaste lady, full of terrible wrath, with her eyes red with anger, and condemning her father (said): father, it is as you told me. Every person partakes of his religious merit; gets wealth by means of his merit; gets birth as a result of his religious merit; and enjoyments have their basis in religious merit. Therefore he is the lord of the worlds, and. the best of the best. By him, the intelligent one, these positions are given to all these, That highest god has those virtues which even the tongue of the Creator is unable to narrate.

58. The ashes, bones, skulls, residence in a cemetery, the serpents like gonasa , evil spirits, his attendants, ghosts, fiends, Guhyakas are his ornaments.

59-64. He is the author and the creator; he guards the quarters. By the favour of Rudra, Indra attained heaven. If there is godhead in Rudra, if Śiva is omnipotent, then truly Śaṅkara should destroy your sacrifice. If I have some penance (to my credit), or if I have moral merit, then by the fruit of that merit your sacrifice will perish. If I am dear to the lord, if he will liberate me, then truly your pride will come to an end.”

Speaking thus, and contemplating the supreme spirit, she burnt herself with the lustre residing in her body, while the gods, demons, serpents, Gandharvas, attendants and Guhyakas said: “Oh! what is this, what is this?”

65. Then she, the angry one, cast her body on the bank of the Ganges . That sacred place called Saunaka is on the western bank of the Ganges.

66. Hearing that news, Rudra, extremely pained at the loss of his wife, thought of destroying the sacrifice even when the gods were watching it.

67. For the destruction of Dakṣa’s sacrifice, the crores of his attendants were ordered; and also the evil demons, the followers of Gajānana , the spirits, ghosts and fiends (were ordered).

68. Having gone (to the place of the sacrifice) they vanquished all gods; caused them to flee. When the sacrifice was destroyed, Dakṣa became devoid of energy and inactive.

69-70. Being alarmed, he approached Śaṅkara, the god of gods, and said to him: “I did not know your true character as the lord and master of the gods. You are the lord of this world, and gods are conquered by you. O great lord, favour me and withdraw all your attendants.

71-77. The sacrifice has gone to the heaven after being caused to fly away by your brave attendants of various kinds, of various mouths, teeth and lips, ready with various kinds of weapons, shining with matted hair, being bitten (i.e. touched) by many great serpents, full of intense and excessive pride, terrible, and hitting terribly, taking forms according to their desire, ugly-looking, having all desires, having invincible power, fearful, having armours, and moving trickishly, having unsteady matted hair, their laughing faces looking fierce due to the fangs, having great energy like the cheeks of elephants (?), having bodies like lions, and some of them stinking with madness and staggering like lamp (-flames) having quivering brilliance. (They are) crying like beasts, tigers, and lions, wearing hides like hyenas, using the wreaths of sepents [serpents?] as sacred threads, holding lances, swords and sharp-edged spears, carrying in their hands hatchets and barbed missiles, and destructive weapons, saws, bows and (other) fatal missiles.

78. Sacrifice, surrounded by very invincible powerful attendants like the sun with planets, O Śaṅkara, and taking the form of a deer, and being frightened, fled and went to heaven.

79-80. My saluation to the god resembling a conch, accompanied by his attendants, and by Nandi . My salutation to Soma , seated on a bull, and the destroyer of the sacrifice and time, and to him having the quarters as his garments, and to him of strong lustre.

81-87. My salutation to Brahmā, Brahmaṇya , having the body of Brahmā, to the unlimited one, to Girīśa, to the lord of gods, and to Īśāna , to Rudra, to him resembling the thunderbolt, to Śiva, to Krathana , to the lord of the gods, and of demons and sages; to Dhūmogra, Virūpa , Yajvan , to the one of a fearful form, to Virūpākṣa , Aśubhākṣa, and Sahasrākṣa ; to Muṇḍa , Caṇḍamuṇḍa, the holder of an excellent club with a skull at the top, to Kavyarūpa, Havya , and the destroyer of all; my salutation to (the lord), compassionate to his devotees and to him praised by the muttered prayer (addressed) to Rudra; to Virūpa, Sarūpa , to him who takes hundreds of forms; my salutation to Pañcāsya , Śubhāsya and Candrāsya, to the giver of boons, to Varāha , to Kūrma and to Mṛga ; to him having a sportive lock of hair, and to the holder of a water-pot, to Viśvanāman, to Viśva and to Viśveśa .

88. O three-eyed one, O destroyer of Tripura, give protection to us (and to me) who have taken refuge in you, through sincerity of speech, mind and body.”

89. The lord, thus praised by Dakṣa, with his body afflicted, and propitiated very much with this divine eulogy (said):

90. “O Prajapati , I have given you the entire fruit of the sacrifice. You will get its excellent fruit leading to the accomplishment of all (your) desires.”

91. Thus addressed by the lord, Dakṣa, having saluted the lord of gods, and being watched by śiva’s attendants, went to his residence.

92. (And) then the lord, due to the grief for his wife Satī, and thinking of her—‘Where has (my) beloved gone?’—remained at Gaṅgādvāra .

93. Nārada approached him who was overpowered by grief. (He said): “O lord of gods, that Satī, your wife, is dead.

94. She, the knower of the Vedas and their significance, has taken up another body as the daughter of Himavat , born from the womb of Mena .”

95. Having heard this, the lord saw her descending into his meditation. Regarding himself blessed, the lord then remained (there).

96. Attaining youth, the goddess married again. Thus, O Bhīṣma, I have told you how the Sacrifice perished in olden times.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 32004, revision 335706 (2022-04-13T10:03:04Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364125.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.