Pātāla-khaṇḍa · Chapter 23
Sourceशेष उवाच। क्षणं स्थित्वा तृणान्यत्त्वा ययौ वाजी मनोजवः । वीरश्रेणीवृतः पत्रं भाले धृत्वा सचामरः १। शत्रुघ्नेन सुवीरेण लक्ष्मीनिधि नृपेण च । पुष्कलेनोग्रवाहेन प्रतापाग्र्येण रक्षितः २। ययौ पुरीं स चक्रांकां सुबाहुपरिरक्षिताम् । अनेकवीरकोटीभी रक्षितोऽनुगतः प्रभो ३। तदा पुत्रोस्य दमनो मृगयामास्थितो महान् । ददर्शाश्वं भालपत्रं चंदनादिकचर्चितम् ४। विलोक्य सेवकं प्राह कस्याश्वो मेऽक्षिगोचरः । भाले पत्रं धृतं किं नु चामरं किंतु शोभनम् ५। इति राज्ञोवचः श्रुत्वा सेवकः प्रययौ ततः । यत्रासौ वर्तते वाजी भालपत्रः सुशोभनः ६। गृहीत्वा तं केशसंघे रत्नमालाविभूषितम् । निनाय चाग्रे भूपस्य सुबाहुकुलधारिणः ७। स पत्रं वाचयामास सुंदराक्षरशोभितम् । अयोध्याधिपतिश्चासीद्राजा दशरथो बली ८। तस्यात्मजो रामभद्रः सर्वशूरशिरोमणिः । नान्योस्ति तत्समः पृथ्व्यां धनुर्धरणविक्रमः ९। तेनासौ मोचितो वाजी चंदनादिकचर्चितः । तं पालयति धर्मात्मा शत्रुघ्नः परवीरहा १०। ये च शूरा वयं वीरा धनुर्हस्ता इमे वयम् । ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम् ११। तं च मोक्ष्यति शत्रुघ्नः सर्ववीरशिरोमणिः । अन्यथा पादयोस्तस्य प्रणतिं यांतु धन्विनः १२। इत्यभिप्रायमालोक्य जगाद नृपनंदनः । राम एव धनुर्धारी न वयं क्षत्त्रियाः स्मृताः १३। ताते मेऽवस्थिते पृथ्व्यां कोऽयं गर्वो महान्भुवि । प्राप्नोतु गर्वस्य फलं मम निर्मुक्तसायकैः १४। अद्य मे निशिता बाणाः शत्रुघ्नं किंशुकं यथा । पुष्पितं विदधत्वद्धा क्षतावृतशरीरकम् १५। दारयंतु कपोलांश्च सायका मम दंतिनाम् । अश्वान्पश्यंतु शतशो रुधिरौघपरिप्लुतान् १६। पिबंतु योगिनीसंघा रुधिराणि नृमस्तकैः । शिवा भवंतु संतुष्टा मद्वैरिक्रव्यभक्षणैः १७। पश्यंतु सुभटास्तस्य मम बाहुबलं महत् । कोदंडदंडनिर्मुक्ताः शरकोटीर्विमुंचतः १८। इत्थमुक्त्वा महीपस्य तनुजो दमनाभिधः । स्वपुरं प्रेषयित्वा तं प्रहृष्टोऽभवदुद्भटः १९। सेनापतिमुवाचेदं सज्जीकुरु महामते । सेनां परिमितां मह्यं वैरिवृंदनिवारणे २०। सज्जां सेनां विधायाशु संमुखो रणमंडले । स्थितवान्या वदत्युग्रस्तावत्प्राप्ता हयानुगाः २१। क्वासौ हयो महाराज्ञो भालपत्रेण चिह्नितः । पप्रच्छुस्ते तु चान्योन्यमतिव्याकुलिता मुहुः २२। तावद्ददर्श पुरतः प्रतापाग्र्यः परंतपः । सज्जीभूतं तु कटकं वीरशब्दनिनादितम् २३। तत्रावदञ्जनाः केचिन्नीतोऽश्वोऽनेन भूपते । अन्यथा संमुखस्तिष्ठेत्कथं वीरो बलानुगः २४। इत्याकर्ण्य प्रतापाग्र्यः प्रेषयामास सेवकम् । स गत्वा तत्र पप्रच्छ कुत्राश्वो रामभूपतेः २५। केन नीतः कुतो नीतो रामं जानाति नो कुधीः । यं शक्रप्रमुखा देवा बलिमादाय सन्नताः २६। तस्य वै धर्मराजस्य कुपितं तु बलं महत् । सर्वथा हि ग्रसिष्येत प्रणतिं चेन्न यास्यति २७। इत्थमुक्तं समाकर्ण्य तदा राजसुतो बली । तं वै धिक्कारयामास वाग्जालेन सुदुर्मनाः २८। मयानीतो यज्ञहयः पत्रचिह्नाद्यलंकृतः । ये शूरास्ते तु मां जित्वा मोचयंतु बलादिह २९। सेवकस्तद्वचः श्रुत्वा रोषपूर्णो हसन्ययौ । राज्ञे निवेदयामास यथावदुपवर्णितम् ३०। तच्छ्रुत्वा रोषताम्राक्षः प्रतापाग्र्यो महाबलः । ययौ योद्धुं राजपुत्रं महावीरपुरस्कृतम् ३१। रथेन कनकांगेन चतुर्वाजिसुशोभिना । सुकूबरेण सर्वास्त्रपूरितेन ययौ बली ३२। धनुष्टंकारयामास महाबलसमन्वितः । पुनःपुनर्जहासोच्चैः कोपादुद्गमिताश्रुकः ३३। अश्ववाहा गजारूढाः खड्गोल्लसितपाणयः । अन्वयुस्ते प्रतापाग्र्यं रोषपूर्णाकुलेक्षणम् ३४। हस्तिनः पत्तयश्चैव कोटिशः प्रधनोद्यताः । चिरकालमभीप्संतो रणं वीरेणकारितम् ३५। तदोद्यतं समाज्ञाय रिपुसैन्यं नृपात्मजः । प्रत्युज्जगाम वीराग्र्यो महाबलपरीवृतः ३६। सन्नद्धः कवची खड्गी शरासनधरो युवा । लीलयैव ययौ योद्धुं मृगराड्गजतामिव ३७। तदा योधाः प्रकुपिताः परस्परवधैषिणः । छिंधि भिंधीति भाषंतो रणकार्यविशारदाः ३८। पत्तयः पत्तिसंघेन गजारूढाश्च सादिभिः । रथारूढा रथस्थैश्च वाहारूढाश्वसंस्थितैः ३९। गजा भिन्ना द्विधा जाता हयाश्च द्विदलीकृताः । अनेकनरमस्तिष्कैर्मेदिनीपूरिता ह्यभूत् ४०। तदा प्रकुपितो राजा प्रतापाग्र्यो महाबलः । स्वसैन्यकदनोद्युक्तं राजपुत्रं समीक्ष्य च ४१। उवाच सारथिं तत्र प्रापयाश्वान्यतो मम । सैन्यस्य कदनासक्तो राजपुत्रो महारथः ४२। अथ वीरशिरोरत्न नमितांघ्रिर्नृपात्मजः । ययौ संमुखमेवास्य प्रतापाग्र्यस्य वीर्यवान् ४३। सारथिः प्रापयामास प्रतापाग्र्यस्य वाजिनः । यत्रासौ दमनो वीरः सर्वशूरशिरोमणिः ४४। गत्वा तमाह्वयामास राजपुत्रं रणोद्यतम् । रथे पुरटनिर्णिक्ते तिष्ठन्कोदंडदंडभृत् ४५। रे राजपुत्र क शिशो त्वया बद्धोऽश्वसत्तमः । न ज्ञातोसि महाराजः सर्ववीरेंद्र सेवितः ४६। यस्य प्रतापं दैत्येंद्रो न शक्तः सोढुमद्भुतम् । तस्य त्वं वाजिनं नीत्वा गतोऽसि पुटभेदनम् ४७। मां जानीहि पुरः प्राप्तं कालरूपं तु वैरिणम् । मुंचाश्वमर्भ गच्छाशु बालक्रीडनकं कुरु ४८। कस्यात्मजस्त्वं कुत्रत्यः कथं नोऽदीर्घदर्शिना । धृतोऽश्वस्त्वथ संजाता घृणा मम शिशो त्वयि ४९। इत्थमाकर्ण्य दमनः स्मितं चक्रे महामनाः । उवाच च प्रतापाग्र्यं तृणीकुर्वंश्च तद्बलम् ५०। दमन उवाच। मया बद्धो बलादश्वो नीतः स्वपुटभेदनम् । नार्पयिष्येऽद्य सप्राणः कुरु युद्धं महाबल ५१। त्वया यदुक्तं बालस्त्वं गत्वा क्रीडनकं कुरु । तन्मे पश्य महाराज क्रीडनं रणमूर्धनि ५२। शेष उवाच। इत्युक्त्वा सगुणं चापं विधाय सुभुजां गजः । शराणां शतमाधत्त प्रतापाग्र्यस्य वक्षसि ५३। संधाय बाणशतकं शंखं दध्मौ प्रतापवान् । तेन शंखनिनादेन कातराणां भयं ह्यभूत् ५४। ताडयामास हृदये बाणानां शतकेन सः । प्रतापाग्र्यः प्रचिच्छेद लघुहस्तः सुपर्वणः ५५। स बाणच्छेदनं दृष्ट्वा कुपितो व्यसृजच्छरान् । कंकपक्षान्वितांस्तीक्ष्णभल्लान्राजात्मजो बली ५६। आकाशे भुवि मध्ये च बाणा ददृशिरेऽञ्चिताः । स्वनामचिह्नितास्तीक्ष्णधारापातसुशोभिताः ५७। शरास्तद्बाहु हृदये लग्ना वह्निकणान्बहून् । सृजंतः कुर्वते सैन्यदाहनं तदभून्महत् ५८। प्रतापाग्र्यः प्रकुपितस्तिष्ठतिष्ठेति च ब्रुवन् । शरेण दशसंख्येन ताडयामास मूर्धनि ५९। ते बाणा राजपुत्रस्य ललाटे परिनिष्ठिताः । विराजंते स्म च मुने दशशाखास्तरोरिव ६०। तेन बाणप्रहारेण विव्यथेन महामनाः । यष्टिकाप्रहतो यद्वत्कुंजरः सप्तवर्षकः ६१। बाणान्धनुषि संधाय मुमोच त्रिशताञ्छुभान् । सुवर्णपुंखरचितान्महाकालानलोपमान् ६२। ते बाणास्तु प्रतापाग्र्य वक्षो भित्त्वा गता ह्यधः । शोणिताक्ता यथा रामचंद्र भक्ति पराङ्मुखाः ६३। प्रतापाग्र्यः प्रकुपितः शरान्मुंचन्सहस्रशः । अकरोद्विरथं सूनुं सुबाहोस्तत्क्षणाद्द्रुतम् ६४। चतुर्भिश्च तुरो वाहान्द्वाभ्यां ध्वजमशातयत् । एकेन सारथेः कायाच्छिरो मह्यामपातयत् ६५। चतुर्भिस्ताडयामास तं सूनुं नृपतेः पुनः । तत्क्षणाच्चापमेकेन गुणयुक्तं तु चिच्छिदे ६६। सोऽन्यरथं समारुह्य हयरत्नसुशोभितम् । धनुः करे समादाय सज्यं चक्रे महामनाः ६७। प्रत्युवाच प्रतापाग्र्यं त्वया विक्रांतमद्भुतम् । पश्येदानीं पराक्रांतिं धनुषो मम सद्भट ६८। एवमुक्त्वा तु दमनो बाणान्दश समाददे । चतुर्भिश्चतुरो वाहान्निनाय यमसादनम् ६९। चतुर्भिस्तिलशः कृत्तो रथश्चक्रसमन्वितः । एकेन हृदि विव्याध बाणेनैकेन सारथिम् ७०। जगर्ज शंखमापूर्य शंखशब्दसमन्वितः । तत्कर्म पूजयामास साधु वीर महाबल ७१। इति विक्रांतमालोक्य प्रतापाग्र्यो रुषान्वितः । अन्यं रथं समास्थाय ययौ योद्धुं नृपात्मजम् ७२। उवाच वीर पश्य त्वं मम विक्रांतमद्भुतम् । इत्युक्त्वाशु मुमोचौघाञ्छराणां शितपर्वणाम् ७३। शराः सर्वत्र दृश्यंते कुंजरेषु हयेषु च । परब्रह्मेव सर्वत्र व्याप्ताश्चांतरगोचराः ७४। तं राजपुत्रं शितबाणकोटिभि -। र्व्याप्तं विधायाशु जगर्ज विक्रमी । संहर्षयन्स्वीयगणान्परान्महान् । कुर्वन्हृदा शून्यतमान्गतासुकान् ७५। स राजपुत्रः शितसायकव्रजैः । संपूर्णमात्मानमवेक्ष्य रोषितः । जग्राह शस्त्राणि दुरंतविक्रमो । धनुश्च धुन्वन्भुजदंडयोर्महान् ७६। चकर्त सर्वाण्यस्त्राणि शस्त्राणि च महाबलः । रोषताम्रेक्षणो मुंचञ्छरान्वैरिविदारिणः ७७। तच्छस्त्रजालं निर्धूय राजपुत्रो जगाद तम् । क्षमस्वैकं प्रहारं मे यदि शूरोसि मारिष ७८। यद्यनेन भवंतं वै रथाच्चेत्पातयामि न । प्रतिज्ञां शृणु मे वीर मम गर्वेण निर्मिताम् ७९। वेदं निंदंति ये मत्ता हेतुवादविचक्षणाः । तेषां पापं ममैवास्तु नरकार्णवमज्जकम् ८०। इत्युक्त्वा बाणमासाद्य कोदंडे कालसन्निभम् । ज्वालामालाकुलं तीक्ष्णं निषंगादुद्धृतं वरम् ८१। स मुक्तो नृपवर्येण हृदि लक्ष्यीकृतः शरः । जगाम तरसा तं वै कालानलसमप्रभः ८२। प्रतापाग्र्यः शरं दृष्ट्वा स्वपातनसमुद्यतम् । बाणान्धनुष्यथाधत्त शरच्छेदायवै शितान् ८३। स बाणः सर्वबाणांस्तांश्छिंदन्मध्यत एव हि । जगाम वै प्रतापाग्र्यहृदयं धैर्यसंयुतम् ८४। संलग्नो हृदि नालीकः प्रविवेश तदंतरम् । राजाकृतप्रहारस्तु पपात धरणीतले ८५। मूर्च्छितं चेतनाहीनं रथोपस्थाद्गतं भुवि । सारथिस्तं समादायापोवाह रणमंडलात् ८६। हाहाकारोमहानासीद्बलं भग्नं गतं ततः । यत्र शत्रुघ्ननामासौ वीरकोटिपरीवृतः ८७। राजात्मजो जयं प्राप्य प्रतापाग्र्यं विजित्य सः । प्रतीक्षां तु चकारास्य शत्रुघ्नस्य च भूपतेः ८८। इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे राजपुत्रयुद्धकथनंनाम त्रयोविंशोऽध्यायः २३ ।
śeṣa uvāca| kṣaṇaṃ sthitvā tṛṇānyattvā yayau vājī manojavaḥ | vīraśreṇīvṛtaḥ patraṃ bhāle dhṛtvā sacāmaraḥ 1| śatrughnena suvīreṇa lakṣmīnidhi nṛpeṇa ca | puṣkalenogravāhena pratāpāgryeṇa rakṣitaḥ 2| yayau purīṃ sa cakrāṃkāṃ subāhuparirakṣitām | anekavīrakoṭībhī rakṣito'nugataḥ prabho 3| tadā putrosya damano mṛgayāmāsthito mahān | dadarśāśvaṃ bhālapatraṃ caṃdanādikacarcitam 4| vilokya sevakaṃ prāha kasyāśvo me'kṣigocaraḥ | bhāle patraṃ dhṛtaṃ kiṃ nu cāmaraṃ kiṃtu śobhanam 5| iti rājñovacaḥ śrutvā sevakaḥ prayayau tataḥ | yatrāsau vartate vājī bhālapatraḥ suśobhanaḥ 6| gṛhītvā taṃ keśasaṃghe ratnamālāvibhūṣitam | nināya cāgre bhūpasya subāhukuladhāriṇaḥ 7| sa patraṃ vācayāmāsa suṃdarākṣaraśobhitam | ayodhyādhipatiścāsīdrājā daśaratho balī 8| tasyātmajo rāmabhadraḥ sarvaśūraśiromaṇiḥ | nānyosti tatsamaḥ pṛthvyāṃ dhanurdharaṇavikramaḥ 9| tenāsau mocito vājī caṃdanādikacarcitaḥ | taṃ pālayati dharmātmā śatrughnaḥ paravīrahā 10| ye ca śūrā vayaṃ vīrā dhanurhastā ime vayam | te gṛhṇaṃtu balādvāhaṃ ratnamālāvibhūṣitam 11| taṃ ca mokṣyati śatrughnaḥ sarvavīraśiromaṇiḥ | anyathā pādayostasya praṇatiṃ yāṃtu dhanvinaḥ 12| ityabhiprāyamālokya jagāda nṛpanaṃdanaḥ | rāma eva dhanurdhārī na vayaṃ kṣattriyāḥ smṛtāḥ 13| tāte me'vasthite pṛthvyāṃ ko'yaṃ garvo mahānbhuvi | prāpnotu garvasya phalaṃ mama nirmuktasāyakaiḥ 14| adya me niśitā bāṇāḥ śatrughnaṃ kiṃśukaṃ yathā | puṣpitaṃ vidadhatvaddhā kṣatāvṛtaśarīrakam 15| dārayaṃtu kapolāṃśca sāyakā mama daṃtinām | aśvānpaśyaṃtu śataśo rudhiraughapariplutān 16| pibaṃtu yoginīsaṃghā rudhirāṇi nṛmastakaiḥ | śivā bhavaṃtu saṃtuṣṭā madvairikravyabhakṣaṇaiḥ 17| paśyaṃtu subhaṭāstasya mama bāhubalaṃ mahat | kodaṃḍadaṃḍanirmuktāḥ śarakoṭīrvimuṃcataḥ 18| itthamuktvā mahīpasya tanujo damanābhidhaḥ | svapuraṃ preṣayitvā taṃ prahṛṣṭo'bhavadudbhaṭaḥ 19| senāpatimuvācedaṃ sajjīkuru mahāmate | senāṃ parimitāṃ mahyaṃ vairivṛṃdanivāraṇe 20| sajjāṃ senāṃ vidhāyāśu saṃmukho raṇamaṃḍale | sthitavānyā vadatyugrastāvatprāptā hayānugāḥ 21| kvāsau hayo mahārājño bhālapatreṇa cihnitaḥ | papracchuste tu cānyonyamativyākulitā muhuḥ 22| tāvaddadarśa purataḥ pratāpāgryaḥ paraṃtapaḥ | sajjībhūtaṃ tu kaṭakaṃ vīraśabdanināditam 23| tatrāvadañjanāḥ kecinnīto'śvo'nena bhūpate | anyathā saṃmukhastiṣṭhetkathaṃ vīro balānugaḥ 24| ityākarṇya pratāpāgryaḥ preṣayāmāsa sevakam | sa gatvā tatra papraccha kutrāśvo rāmabhūpateḥ 25| kena nītaḥ kuto nīto rāmaṃ jānāti no kudhīḥ | yaṃ śakrapramukhā devā balimādāya sannatāḥ 26| tasya vai dharmarājasya kupitaṃ tu balaṃ mahat | sarvathā hi grasiṣyeta praṇatiṃ cenna yāsyati 27| itthamuktaṃ samākarṇya tadā rājasuto balī | taṃ vai dhikkārayāmāsa vāgjālena sudurmanāḥ 28| mayānīto yajñahayaḥ patracihnādyalaṃkṛtaḥ | ye śūrāste tu māṃ jitvā mocayaṃtu balādiha 29| sevakastadvacaḥ śrutvā roṣapūrṇo hasanyayau | rājñe nivedayāmāsa yathāvadupavarṇitam 30| tacchrutvā roṣatāmrākṣaḥ pratāpāgryo mahābalaḥ | yayau yoddhuṃ rājaputraṃ mahāvīrapuraskṛtam 31| rathena kanakāṃgena caturvājisuśobhinā | sukūbareṇa sarvāstrapūritena yayau balī 32| dhanuṣṭaṃkārayāmāsa mahābalasamanvitaḥ | punaḥpunarjahāsoccaiḥ kopādudgamitāśrukaḥ 33| aśvavāhā gajārūḍhāḥ khaḍgollasitapāṇayaḥ | anvayuste pratāpāgryaṃ roṣapūrṇākulekṣaṇam 34| hastinaḥ pattayaścaiva koṭiśaḥ pradhanodyatāḥ | cirakālamabhīpsaṃto raṇaṃ vīreṇakāritam 35| tadodyataṃ samājñāya ripusainyaṃ nṛpātmajaḥ | pratyujjagāma vīrāgryo mahābalaparīvṛtaḥ 36| sannaddhaḥ kavacī khaḍgī śarāsanadharo yuvā | līlayaiva yayau yoddhuṃ mṛgarāḍgajatāmiva 37| tadā yodhāḥ prakupitāḥ parasparavadhaiṣiṇaḥ | chiṃdhi bhiṃdhīti bhāṣaṃto raṇakāryaviśāradāḥ 38| pattayaḥ pattisaṃghena gajārūḍhāśca sādibhiḥ | rathārūḍhā rathasthaiśca vāhārūḍhāśvasaṃsthitaiḥ 39| gajā bhinnā dvidhā jātā hayāśca dvidalīkṛtāḥ | anekanaramastiṣkairmedinīpūritā hyabhūt 40| tadā prakupito rājā pratāpāgryo mahābalaḥ | svasainyakadanodyuktaṃ rājaputraṃ samīkṣya ca 41| uvāca sārathiṃ tatra prāpayāśvānyato mama | sainyasya kadanāsakto rājaputro mahārathaḥ 42| atha vīraśiroratna namitāṃghrirnṛpātmajaḥ | yayau saṃmukhamevāsya pratāpāgryasya vīryavān 43| sārathiḥ prāpayāmāsa pratāpāgryasya vājinaḥ | yatrāsau damano vīraḥ sarvaśūraśiromaṇiḥ 44| gatvā tamāhvayāmāsa rājaputraṃ raṇodyatam | rathe puraṭanirṇikte tiṣṭhankodaṃḍadaṃḍabhṛt 45| re rājaputra ka śiśo tvayā baddho'śvasattamaḥ | na jñātosi mahārājaḥ sarvavīreṃdra sevitaḥ 46| yasya pratāpaṃ daityeṃdro na śaktaḥ soḍhumadbhutam | tasya tvaṃ vājinaṃ nītvā gato'si puṭabhedanam 47| māṃ jānīhi puraḥ prāptaṃ kālarūpaṃ tu vairiṇam | muṃcāśvamarbha gacchāśu bālakrīḍanakaṃ kuru 48| kasyātmajastvaṃ kutratyaḥ kathaṃ no'dīrghadarśinā | dhṛto'śvastvatha saṃjātā ghṛṇā mama śiśo tvayi 49| itthamākarṇya damanaḥ smitaṃ cakre mahāmanāḥ | uvāca ca pratāpāgryaṃ tṛṇīkurvaṃśca tadbalam 50| damana uvāca| mayā baddho balādaśvo nītaḥ svapuṭabhedanam | nārpayiṣye'dya saprāṇaḥ kuru yuddhaṃ mahābala 51| tvayā yaduktaṃ bālastvaṃ gatvā krīḍanakaṃ kuru | tanme paśya mahārāja krīḍanaṃ raṇamūrdhani 52| śeṣa uvāca| ityuktvā saguṇaṃ cāpaṃ vidhāya subhujāṃ gajaḥ | śarāṇāṃ śatamādhatta pratāpāgryasya vakṣasi 53| saṃdhāya bāṇaśatakaṃ śaṃkhaṃ dadhmau pratāpavān | tena śaṃkhaninādena kātarāṇāṃ bhayaṃ hyabhūt 54| tāḍayāmāsa hṛdaye bāṇānāṃ śatakena saḥ | pratāpāgryaḥ praciccheda laghuhastaḥ suparvaṇaḥ 55| sa bāṇacchedanaṃ dṛṣṭvā kupito vyasṛjaccharān | kaṃkapakṣānvitāṃstīkṣṇabhallānrājātmajo balī 56| ākāśe bhuvi madhye ca bāṇā dadṛśire'ñcitāḥ | svanāmacihnitāstīkṣṇadhārāpātasuśobhitāḥ 57| śarāstadbāhu hṛdaye lagnā vahnikaṇānbahūn | sṛjaṃtaḥ kurvate sainyadāhanaṃ tadabhūnmahat 58| pratāpāgryaḥ prakupitastiṣṭhatiṣṭheti ca bruvan | śareṇa daśasaṃkhyena tāḍayāmāsa mūrdhani 59| te bāṇā rājaputrasya lalāṭe pariniṣṭhitāḥ | virājaṃte sma ca mune daśaśākhāstaroriva 60| tena bāṇaprahāreṇa vivyathena mahāmanāḥ | yaṣṭikāprahato yadvatkuṃjaraḥ saptavarṣakaḥ 61| bāṇāndhanuṣi saṃdhāya mumoca triśatāñchubhān | suvarṇapuṃkharacitānmahākālānalopamān 62| te bāṇāstu pratāpāgrya vakṣo bhittvā gatā hyadhaḥ | śoṇitāktā yathā rāmacaṃdra bhakti parāṅmukhāḥ 63| pratāpāgryaḥ prakupitaḥ śarānmuṃcansahasraśaḥ | akarodvirathaṃ sūnuṃ subāhostatkṣaṇāddrutam 64| caturbhiśca turo vāhāndvābhyāṃ dhvajamaśātayat | ekena sāratheḥ kāyācchiro mahyāmapātayat 65| caturbhistāḍayāmāsa taṃ sūnuṃ nṛpateḥ punaḥ | tatkṣaṇāccāpamekena guṇayuktaṃ tu cicchide 66| so'nyarathaṃ samāruhya hayaratnasuśobhitam | dhanuḥ kare samādāya sajyaṃ cakre mahāmanāḥ 67| pratyuvāca pratāpāgryaṃ tvayā vikrāṃtamadbhutam | paśyedānīṃ parākrāṃtiṃ dhanuṣo mama sadbhaṭa 68| evamuktvā tu damano bāṇāndaśa samādade | caturbhiścaturo vāhānnināya yamasādanam 69| caturbhistilaśaḥ kṛtto rathaścakrasamanvitaḥ | ekena hṛdi vivyādha bāṇenaikena sārathim 70| jagarja śaṃkhamāpūrya śaṃkhaśabdasamanvitaḥ | tatkarma pūjayāmāsa sādhu vīra mahābala 71| iti vikrāṃtamālokya pratāpāgryo ruṣānvitaḥ | anyaṃ rathaṃ samāsthāya yayau yoddhuṃ nṛpātmajam 72| uvāca vīra paśya tvaṃ mama vikrāṃtamadbhutam | ityuktvāśu mumocaughāñcharāṇāṃ śitaparvaṇām 73| śarāḥ sarvatra dṛśyaṃte kuṃjareṣu hayeṣu ca | parabrahmeva sarvatra vyāptāścāṃtaragocarāḥ 74| taṃ rājaputraṃ śitabāṇakoṭibhi -| rvyāptaṃ vidhāyāśu jagarja vikramī | saṃharṣayansvīyagaṇānparānmahān | kurvanhṛdā śūnyatamāngatāsukān 75| sa rājaputraḥ śitasāyakavrajaiḥ | saṃpūrṇamātmānamavekṣya roṣitaḥ | jagrāha śastrāṇi duraṃtavikramo | dhanuśca dhunvanbhujadaṃḍayormahān 76| cakarta sarvāṇyastrāṇi śastrāṇi ca mahābalaḥ | roṣatāmrekṣaṇo muṃcañcharānvairividāriṇaḥ 77| tacchastrajālaṃ nirdhūya rājaputro jagāda tam | kṣamasvaikaṃ prahāraṃ me yadi śūrosi māriṣa 78| yadyanena bhavaṃtaṃ vai rathāccetpātayāmi na | pratijñāṃ śṛṇu me vīra mama garveṇa nirmitām 79| vedaṃ niṃdaṃti ye mattā hetuvādavicakṣaṇāḥ | teṣāṃ pāpaṃ mamaivāstu narakārṇavamajjakam 80| ityuktvā bāṇamāsādya kodaṃḍe kālasannibham | jvālāmālākulaṃ tīkṣṇaṃ niṣaṃgāduddhṛtaṃ varam 81| sa mukto nṛpavaryeṇa hṛdi lakṣyīkṛtaḥ śaraḥ | jagāma tarasā taṃ vai kālānalasamaprabhaḥ 82| pratāpāgryaḥ śaraṃ dṛṣṭvā svapātanasamudyatam | bāṇāndhanuṣyathādhatta śaracchedāyavai śitān 83| sa bāṇaḥ sarvabāṇāṃstāṃśchiṃdanmadhyata eva hi | jagāma vai pratāpāgryahṛdayaṃ dhairyasaṃyutam 84| saṃlagno hṛdi nālīkaḥ praviveśa tadaṃtaram | rājākṛtaprahārastu papāta dharaṇītale 85| mūrcchitaṃ cetanāhīnaṃ rathopasthādgataṃ bhuvi | sārathistaṃ samādāyāpovāha raṇamaṃḍalāt 86| hāhākāromahānāsīdbalaṃ bhagnaṃ gataṃ tataḥ | yatra śatrughnanāmāsau vīrakoṭiparīvṛtaḥ 87| rājātmajo jayaṃ prāpya pratāpāgryaṃ vijitya saḥ | pratīkṣāṃ tu cakārāsya śatrughnasya ca bhūpateḥ 88| iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe rājaputrayuddhakathanaṃnāma trayoviṃśo'dhyāyaḥ 23 |
English translation
Śeṣa said :
1-4. The horse, having a chowrie (on his head), having the speed of mind, surrounded by a line of the heroes, bearing a note on his forehead, protected by the great hero Śatrughna , by king Lakṣmīnidhi, by Puṣkala , Ugravāha and Pratāpāgrya went to the city Cakrāṅkā protected by Subāhu . O lord, he was protected and followed by many crores of warriors. At that time his great (i.e. Subāhu’s) son, Damana , who had gone ahunting, saw the horse with a note on his forehead and besmeared with sandal etc.
5-7. Seeing (the horse), he said to his servant: “Whose horse is seen by me? Why has he got a note on his head, so also a beautiful chowrie?” Hearing these words of the king, the servant then went from there to the place where the well-decorated horse with a note on his forehead stood. Having seized him, decorated with a jewelled necklace, by his hair (i.e. his mane) he took him in front of the king of the supporter of the Subāhu family.
8-12. He read the note having beautiful letters: “There was king Daśaratha , the powerful lord of Ayodhyā . Rāmabhadra , the crest-jewel of all the brave men, is his son. There is no other person having valour like his son. There is no other person having valour like him in archery on the earth. He has released his horse besmeared with sandal etc. Righteous Śatrughna, killer of the warriors of his enemy, is protecting him. Those (who think) ‘We are brave warriors; we have bows in our hands’ should forcibly seize the horse adorned with a jewelled necklace. Śatrughna, the crest-jewel of all heroes will free him. Otherwise let the archers bow down at his feet.”
13-18. Knowing the import, the king’s son said: “ Rāma alone is an archer. We are not considered to be kṣatriyas ! What is this great pride on the earth when my father is living on the earth? Let him obtain the fruit of his pride through the arrows discharged by me. Today let my sharp arrows really render Lakṣmaṇa like a blooming kiṃśuka tree with his body covered with wounds; and let my arrows split the temples of his elephants. Let them see the hundreds of horses covered with streams of blood. Let the groups of (the female attendants of Durgā called) Yoginīs drink the blood from the heads of men. Let the female jackals be pleased with eating the dead bodies of my enemies. Let his good (i.e. brave) warriors observe the great power of me, discharging crores of arrows released from my bow.”
19-20. Having spoken like this, that prominent son of the king, named Damana, sent him to his own city, and said to his general: “To ward off the host of enemies keep ready for me a limited army, O you very intelligent one.” When the fierce one made the army ready and stood facing the battle, (just) then the followers of the horse came (there).
21-28. They who were repeatedly confounded, asked one another: “Where is the great king’s horse, marked with a note on his forehead?” Just then, the hero Pratāpāgrya saw in front of him the army that was ready and that was resounding with the sounds (made) by the heroes. At that time some people said: “O king, (your) horse is taken (away) by this one (i.e. by Damana). Otherwise, how would he, followed by the army of heroes stand facing (you)?” Hearing these (words), Pratāpāgrya sent his servant (to Damana). Having gone there, he asked (him): “Where is the horse of king Rāma? Who has taken it? Where has he taken it? Does the fool not know Rāma, having made an offering to whom gods led by Indra have well bowed (before him). The large army of that righteous king, being angry, will fully destroy (him) if he does not salute him.” Hearing (these words) spoken (by the servant), the mighty and wicked son of the king reproached with a mass of words.
29-32. (He said:) “I have brought the sacrificial horse adorned with such marks as the note etc. Those who are brave may free him by conquering me now with force.” The servant, having heard those words, was full of anger, and he, laughing, went (back). He told the king as narrated properly (above). Hearing it, the very mighty Pratāpāgrya, with his eyes red due to anger, went to fight with the king’s son, followed by great heroes. The mighty one went in a chariot made of gold, shining with four horses, having a good (i.e. strong) pole to which the yoke was fixed, and filled with all (kinds of) missiles.
33-36. Accompanied by a great army, he made the twang of his bow. Again and again he laughed loudly, causing tears to be shed through anger. The horse-riders, elephant-riders, with their hands glittering with swords followed that Pratāpāgrya whose eyes were full of tears due to anger. The elephants, the foot-soldiers in crores, ready for the fight, desired for a long time the fight waged by the hero. Then having come to know that the enemy’s army was ready, the king’s son, the best among the heroes, and surrounded by a huge army, advanced.
37-45. The young (prince), having taken a sword and a bow, sportively went to fight as a lion (approaches) a herd of elephants. Then the warriors, skilled in the act of fighting, being very angry, and desiring to kill one another, said: “Cut (him) off; break (him)”. The foot-soldiers (fought) with the group of foot-soldiers; the elephant-riders (fought) with the warriors (on elephants); those who had got into chariots (fought) with those who were in chariots; the horse-riders (fought) with those who were seated on horses. The elephants were cut off, and were divided into two. The horses also were split up into two. The earth was filled with many human heads. Then that very mighty Pratāpāgrya who was very angry, having seen the prince ready to destroy his army, said to his charioteer: “Take the horses (i.e. the chariot) to that place where that great warrior, that prince, is engaged in the destruction of my army.” Then the brave prince whose feet were bowed by the jewels of the heads of the heroes, confronted Pratāpāgrya. Pratāpāgrya's charioteer took his horses to that place where the hero Damana, the crest-jewel of all the brave, stood. Standing in the chariot nourished (i.e. adorned) with gold, and holding a bow he went to the prince ready to fight, and challenged him:
46-50. “O prince, O child, you have tied up the best horse. You do not know the great king (Rāma) who is served by all best heroes, whose wonderful valour even the lord of the demons (i.e. Rāvaṇa ) could not bear. Having taken his horse, you went to your house. Know me, your enemy, of the form of death, who have come to your city. O child, leave the horse, and play a child’s game. Whose son are you? Wherefrom do you come?
How have you—a short-sighted one—seized the horse? O child, pity for you has arisen in me.” Having heard this, Damana, of a large heart, smiled, and, looking down upon the power of Pratāpāgrya, said to him:
Damana said :
51-52. I tied the horse forcibly, and took him to my city. O you very powerful one, I shall not give (back the horse). With life (i.e. if you live) fight (with me). About what you told me that I am a child and I should go and play, (I say), O great king, see my play in the battle.
Śeṣa said :
53-60. Speaking like this he took up his bow with the string. He, born from one having strong arms, discharged a hundred arrows on the chest of Pratāpāgrya. Having fixed a hundred arrows on his bow, the valourous one blew a conch. Due to that sound of the conch, the timid were frightened. He struck at his chest with a hundred arrows. Dexterous Pratāpāgrya cut off the good (i.e. sharp) arrows. Seeing the arrows cut off, and getting angry, the powerful son of the king discharged sharp arrows having heron feathers (attached to them). Curved arrows, bearing their names, and beautiful with sharp edge and falling (down), were seen in the sky and on the ground. The arrows sticking to his arms and chest produced many fire-particles and burnt the army. It was a great (tragedy). The very angry Pratāpāgrya, saying ‘Wait, wait’, struck him on the head with arrows, ten in number. Those arrows stuck into the forehead of the prince. O sage, they shone there like ten branches of a tree.
61-67. The high-minded one was not afflicted by being struck by the arrows, like a seven-year old elephant struck by sticks. Having fixed three hundred auspicious arrows with their feathered parts decked with gold, and resembling the fire of Śiva , on his bow he discharged them. Those arrows pierced the chest of Pratāpāgrya and being besmeared with blood, he went down like those who are averse to the devotion of Rāma. Pratāpāgrya got very much angry, and discharging thousands of arrows quickly, deprived Subāhu’s son of his chariot that moment (only). With four (arrows) he killed his four horses; with two (arrows) cut down his flag. With one (arrow) he caused to fall down on the ground the charioteer’s head from his body. Again with four (arrows) he struck the king’s son. At that moment only he cut off with one (arrow) the bow along with its string. The large-minded one got into another chariot adorned with gems of horses and taking a bow in his hand he made it ready.
68-80. He said to Pratāpāgrya: “O good hero, you have shown a wonderful valour. Now see the superiority of my bow.” Saying so, Damana took ten arrows; and with four (arrows) killed the four horses. With four he cut the chariot with its wheels into (pieces of the size of) sesamum (seeds). With one he pierced his chest, and with one he (pierced) his charioteer. Blowing his conch he roared and with the sound of the conch he honoured his deed (saying): “Well (done), O hero, O you of great power.” Thus seeing the valour, Pratāpāgrya, with anger got into another chariot and went to fight with the prince. (He) said (to him:) “O hero, see my wonderful valour.” Saying so he quickly discharged a volley of arrows with whetted joints. Everywhere, on (the bodies of) elephants and horses arrows were seen. Going into the space they occupied every place like the highest Brahman . The brave and great one, delighting his own hosts and making his enemies very much dejected, and (even) lose their life, quickly covering the prince with crores of sharp arrows, roared. The mighty and very powerful prince, seeing himself completely covered with masses of sharp arrows, got angry and he of an endless valour took up weapons; and he shaking the bow on his arms, and with his eyes red due to anger, discharging arrows, tearing the enemies, cut off all the missiles and weapons (of his enemy). Having destroyed that mass of weapons, the prince said to him: “O respectable one, if you are (really) brave, pardon me for this one stroke. O brave one, listen to my solemn declaration made by me through pride: “Let me have that sin, drowning me into the ocean of hell, of those arrogant ones, clever in disputation, who censure the Veda , if with this (one) stroke I would not knock you down from your chariot.”
81-88. Speaking like this, he drew out from the quiver an excellent sharp arrow resembling death, full of a series of flames, and placed it on his bow. That arrow resembling in effulgence the destructive fire at the end of the world, and aimed at the chest (of Pratāpāgrya), was discharged by the excellent (son of the) king. It speedily reached him. Pratāpāgrya, seeing the arrow on the point of knocking him down fixed sharp arrows on his bow to cut off that arrow. That arrow cutting off all the arrows in the middle reached Pratāpāgrya’s heart endowed with courage. The arrow stuck his chest and entered his heart. The king (thus) struck fell down on the ground. His charioteer, seeing him in a swoon and unconscious and fallen from the driving box on the ground, took him and carried him away from the battle (-field). There was a very loud wailing, the army was baffled and went where (their chief) named Śatrughna, surrounded by crores of brave men, stood. The king’s son (i.e. Damana) having obtained victory after vanquishing Pratāpāgrya, waited for king Śatrughna.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 43678, revision 335920 (2022-04-16T15:07:03Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365334.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.