Uttara-khaṇḍa · Chapter 1
Sourceॐ श्रीविष्णवे नमः । ॐ श्रीवेदव्यासाय नमः । ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् १। अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः २। ऋषय ऊचुः -। श्रुतं पातालखंडं च त्वयाख्यातं विदांवर । नानाख्यानसमायुक्तं परमानंददायकम् ३। अधुना श्रोतुमिच्छामो भगवद्भक्तिवर्द्धनम् । पाद्मे यच्छेषमस्तीह तद्ब्रूहि कृपया गुरो ४। सूत उवाच-। शृणुध्वं मुनयः सर्वे यदुक्तं शंकरेण हि । पृच्छते नारदायैव विज्ञानं पापनाशनम् ५। एकादा नारदो लोकान्पर्यटन्भगवत्प्रियः । गतोऽद्रि मंदरं शंभुं प्रष्टुं किंचिन्मनोगतम् ६। तत्रासीनमुमानाथं प्रणिपत्य शिवाज्ञया । उपविष्टः समादिष्ट आसनेऽभिमुखो विभोः ७। नारद उवाच। पप्रच्छ इदमेवेशं यन्मां पृच्छथ सत्तमाः । भगवन्देवदेवेश पार्वतीश जगद्गुरो ८। भगवत्तत्वविज्ञानं येन स्यात्तन्ममादिश । शिव उवाच। शृणु नारद वक्ष्यामि पुराणं वेदसंमितम् ९। यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । प्रथमोत्तरकीर्तिः स्यात्पर्वताख्यानमेव च १०। जालंधरं तथाख्यानं श्रीशैलाख्यं ततः परम् । हरिद्वारस्य व्याख्यानं विष्णुपादोद्भवां तथा ११। प्रयागतीर्थं ते वक्ष्ये दशाश्वमेधिकं च तत् । तुलसीमहिमाचैव शंखचक्रगदादिकम् १२। द्वारकायास्तथाख्यानं महोत्सवविधिस्ततः । तडाकजं तथा पुण्यं वापीकूपप्रपादिकम् १३। गाणपत्यं ततो वक्ष्ये वैष्णवागममेव च । जीर्णोद्धारस्य माहात्म्यं मंदाकिनी समागमम् १४। साभ्रमत्यास्तु माहात्म्यं माहात्म्यं तीरजं तथा । स्त्रीशूद्राणां तथा धर्मं तथा त्याज्यैश्च धारणम् १५। उमामहेशसंवादे प्रोक्तं नामसहस्रकम् । कैलासात्तत्समानीतं नारदेनाग्रजन्मना १६। लोकानां ब्राह्मणानां च क्षत्रियाणां विशेषतः । स्त्रीशूद्राणां विशेषेण पठितव्यं समाहितैः १७। इदं पवित्रं परमं पुण्यमायुष्यवर्धनम् । पठितव्यं विशेषेण विष्णोः सायुज्यमाप्नुयात् १८। विष्णोर्नामसहस्रं तत्पावनं भुवि विश्रुतम् । चतुर्विंशतिमूर्तीनां स्थानकानीह संवदेत् १९। तेषां च मातापितरावंतरं च ब्रवीम्यहम् । गोत्रं वेदांश्चतेषां वै कर्माणीह तथैव च २०। स्त्रियस्तेषां प्रवक्ष्यामि यथाविज्ञानदर्शनात् । चतुर्विंशत्येकादशीनां द्वादशीनां प्रभावताम् २१। गोदावर्याश्च माहात्म्यं शंखचक्रादिधारणम् । ब्राह्मणानां विशेषेण धारणं विधिपूर्वकम् २२। यमुनायाश्च माहात्म्यं गंडिकायास्तथा मुने । वेत्रवत्यास्तु माहात्म्यं वच्म्यहं ते न संशयः २३। गिल्लितीर्थोद्भवं पुण्यं शिलाक्षेत्रं महच्च यत् । तत्सर्वं संप्रवक्ष्यामि खंडे उत्तरसंज्ञके २४। अर्बुदेश्वरमाहात्म्यं तत्र तीर्थादिकं च यत् । सरस्वत्याश्च माहात्म्यं सिद्धक्षेत्रादिकं च यत् २५। पद्मनाभसमुत्पत्तिं तुलस्याश्चैव धारणम् । गोपीचंदनमाहात्म्यं पट्टपूजां तथैव च २६। निरंजनस्य माहात्म्यं तथा विज्ञानदर्शनम् । तत्र दीपप्रदानं च धूपदानं विशेषतः २७। कार्तिकस्याथ माहात्म्यं माहात्म्यं माघजं तथा । सर्वेषां च व्रतानां च माहात्म्यं विधिपूर्वकम् २८। शृणु नारद वक्ष्यामि जगन्नाथाख्यमुत्तमम् । यं दृष्ट्वा मुच्यते लोको ब्रह्महत्यादिपातकात् २९। यत्र सिद्धं तथा भुक्तं पारलौकिकदायकम् । ब्राह्मणा यत्र भुंजन्ति वेदशास्त्र विशारदः ३०। अन्येषां चैव लोकानां का कथा चैव सुव्रत । पंचविंशत्यत्र नागा नर्तक्यो विविधास्तथा ३१। ब्रह्महत्या बालहत्या गवांहत्या तथैव च । ताः सर्वा विलयं यांति जगन्नाथस्य दर्शनात् ३२। जगन्नाथेत्युच्चरञ्जंतुर्महापापैः प्रमुच्यते । विष्णोः पूजनकं पुष्पैस्तन्माहात्म्यमपि ब्रुवे ३३। पर्वतानां वर्णनं च देशानां वर्णनं तथा । गोपूजनादिमाहात्म्यं सिद्धानां चैव पूजनम् ३४। सिक्थे दत्ते तु यत्पुण्यं तत्सर्वं प्रवदाम्यहम् । कदलीगर्भदानं च वृक्षदानं ततः परम् ३५। अश्वदानं हस्तिदानं जपमाहात्म्यमुत्तमम् । मंत्रदीक्षागमं चैव गुरोर्लक्षणमेव च ३६। शिष्यस्य लक्षणं प्रोक्तं यथा पौराणिका विदुः । चरणोदकमाहात्म्यं पितृश्राद्धादिकं च यत् ३७। पितृक्षयाहदानं च नीलोत्सर्गविधिस्ततः । ग्रहणं चंद्रसूर्यस्य तत्र दानं च यद्भवेत् ३८। शालग्रामस्य दानस्य माहात्म्यं माल्यगंधयोः । दशम्यैकादशीवेधं द्वादशी हरिवासरम् ३९। तेषां चैव तुमाहात्म्यं रुद्रनामादिकं च यत् । मथुरायाश्च माहात्म्यं कुरुक्षेत्रादिकं तथा ४० । सेतुबंधस्य चाख्यानं श्रीरामेश्वरजं तथा । त्र्यंबकस्य च माहात्म्यं पंचवट्याश्च यत्फलम् ४१। दंडकारण्यमाहात्म्यं शृणु वाडवसत्तम । दंडकारण्यमाहात्म्यं नृसिंहोत्पत्तिकारणम् ४२। गीतायाश्चैव माहात्म्यं तथा भागवतस्य च । कालिंद्याश्चैव माहात्म्यमिन्द्रप्रस्थस्य वर्णनम् ४३। रुक्मांगदचरित्रं तु महिमा वैष्णवस्य च । वैष्णवे ह्येकभुक्ते तु शृणु वाडवसत्तम ४४। ससागरां च पृथिवीं दत्त्वा चैव तु यत्फलम् । तत्फलं समवाप्नोति भुक्ते ह्येके तु वैष्णवे ४५। सात्विकाः सत्त्वसंपन्ना राजसाः कामुकाः स्मृताः । तामसा अधमाः प्रोक्ता वैष्णवानां तु लक्षणम् ४६। ब्राह्मणा वैष्णवा ये तु वेदधर्मपरायणाः । तेषां माहात्म्यं वक्ष्यामि यथोक्तं चैव नारद ४७। विष्णुनिंदारता ये वै द्रव्यलोभेन सत्तम । तेषां पापं तु वक्ष्यामि सांप्रतं ऋषिसत्तम ४८ । ज्वालामुख्यास्तथाख्यानं हिमशैलेक्षणं तथा । ब्रह्मोत्पत्तिस्तु वै यत्र तं प्रदेशं वदाम्यहम् ४९। कायस्थानां समुत्पतिर्गयाव्याख्यानमेव च । गदाधरस्वरूपं च फल्गुवर्णनमेव च 6.1.५०। एतेषां चैव माहात्म्यं पाद्मे दृष्टं तथा श्रुतम् । महाबोधस्वरूपं च सकल्केर्यश एव च ५१। रामगयाया माहात्म्यं तथा प्रेतशिलाभवम् । ब्रह्मणश्च तथाख्यानं शिलाख्यानं वदाम्यहम् ५२। ब्रह्मयोनेस्तथाख्यानमक्षयाख्य वटस्य च । श्राद्धे तत्र महत्पुण्यं यत्तत्सर्वं वदाम्यहम् ५३। महेश्वरकृतां भक्तिं विष्णुना च महात्मना । अद्यापि काश्यां जपति महारुद्रो ह्यनामयम् ५४। माहात्म्यं च ततो वक्ष्ये सागरस्य हि नारद । तिलतर्पणजं पुण्यं यवजं पुण्यमेव च ५५। तुलसीदलसंयुक्तं तर्पणं देवजं तथा । तन्माहात्म्यं प्रवक्ष्यामि यथोक्तं ब्रह्मणा मम ५६। शंखनादस्य माहात्म्यं पुण्यं चासंख्यसंज्ञकम् ५७। रवेर्वारस्य माहात्म्यं योगस्य विष्णुसंज्ञिनः । वैधृतस्य च माहात्म्यं व्यतीपातस्य वै तथा ५८। एतत्सर्वं प्रवक्ष्यामि यथोक्तं चैव नारद । अन्नदानं वस्त्रदानं भूमिदानं तथैव च ५९। शय्यादानं च गोदानं तथा वृषभमेव च । जन्माष्टम्याश्च माहात्म्यं मत्स्यमाहात्म्यमेव च ६०। कूर्ममाहात्म्यं तत्प्रोक्तं वाराहस्य तथैव च । माहात्म्यं च गवादीनां दानानां प्रवदाम्यहम् ६१। प्रह्लादमुखभक्ता ये ये केचिद्भुवि विश्रुताः । तन्माहात्म्यं ततो वक्ष्ये शृणु देवर्षिसत्तम ६२। जागरे महिमा चैव दीपदाने कृते च यत् । प्रहरेषु पृथक्पूजाफलं देवर्षिसत्तम ६३। पर्शुरामस्य चाख्यानं रेणुकाया वधस्तथा । ब्राह्मणानां भूमिदानं रामेणैव च यत्कृतम् ६४। रामस्याश्रमजं पुण्यं वदाम्यहमशेषतः । नर्मदायास्तथाख्यानं पुण्यपूजनयोस्तथा ६५। दानं वेदपुराणानामाश्रमाणां निरूपणम् । हिरण्यदानपुण्यं च ब्रह्मांडदानमेव च ६६। पद्मपुराणदानं च खंडानां व्यक्तयस्तथा । प्रथमं सृष्टिखंडं च द्वितीयं भूमिखंडकम् ६७। स्वर्गखंडं तृतीयं च तुर्यं पातालसंज्ञकम् । उत्तरं पंचमं प्रोक्तं खंडान्यनुक्रमेण वै ६८। एतत्पद्मपुराणं तु व्यासेन तु महात्मना । कृतं लोकहितार्थाय ब्राह्मणश्रेयसे तथा ६९। शूद्राणां पुण्यजननं तीव्रदारिद्र्यनाशनम् । मोक्षदं सुखदं चाशु कल्याणप्रदमव्ययम् । श्रुत्वा दानं तथा कुर्याद्विधिना तत्र नारद ७०। इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे महेशनारदसंवादे बीजसमुच्चयोनाम प्रथमोऽध्यायः १।
oṃ śrīviṣṇave namaḥ | oṃ śrīvedavyāsāya namaḥ | oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam | devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet 1| ajñānatimirāṃdhasya jñānāṃjanaśalākayā | cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ 2| ṛṣaya ūcuḥ -| śrutaṃ pātālakhaṃḍaṃ ca tvayākhyātaṃ vidāṃvara | nānākhyānasamāyuktaṃ paramānaṃdadāyakam 3| adhunā śrotumicchāmo bhagavadbhaktivarddhanam | pādme yaccheṣamastīha tadbrūhi kṛpayā guro 4| sūta uvāca-| śṛṇudhvaṃ munayaḥ sarve yaduktaṃ śaṃkareṇa hi | pṛcchate nāradāyaiva vijñānaṃ pāpanāśanam 5| ekādā nārado lokānparyaṭanbhagavatpriyaḥ | gato'dri maṃdaraṃ śaṃbhuṃ praṣṭuṃ kiṃcinmanogatam 6| tatrāsīnamumānāthaṃ praṇipatya śivājñayā | upaviṣṭaḥ samādiṣṭa āsane'bhimukho vibhoḥ 7| nārada uvāca| papraccha idameveśaṃ yanmāṃ pṛcchatha sattamāḥ | bhagavandevadeveśa pārvatīśa jagadguro 8| bhagavattatvavijñānaṃ yena syāttanmamādiśa | śiva uvāca| śṛṇu nārada vakṣyāmi purāṇaṃ vedasaṃmitam 9| yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ | prathamottarakīrtiḥ syātparvatākhyānameva ca 10| jālaṃdharaṃ tathākhyānaṃ śrīśailākhyaṃ tataḥ param | haridvārasya vyākhyānaṃ viṣṇupādodbhavāṃ tathā 11| prayāgatīrthaṃ te vakṣye daśāśvamedhikaṃ ca tat | tulasīmahimācaiva śaṃkhacakragadādikam 12| dvārakāyāstathākhyānaṃ mahotsavavidhistataḥ | taḍākajaṃ tathā puṇyaṃ vāpīkūpaprapādikam 13| gāṇapatyaṃ tato vakṣye vaiṣṇavāgamameva ca | jīrṇoddhārasya māhātmyaṃ maṃdākinī samāgamam 14| sābhramatyāstu māhātmyaṃ māhātmyaṃ tīrajaṃ tathā | strīśūdrāṇāṃ tathā dharmaṃ tathā tyājyaiśca dhāraṇam 15| umāmaheśasaṃvāde proktaṃ nāmasahasrakam | kailāsāttatsamānītaṃ nāradenāgrajanmanā 16| lokānāṃ brāhmaṇānāṃ ca kṣatriyāṇāṃ viśeṣataḥ | strīśūdrāṇāṃ viśeṣeṇa paṭhitavyaṃ samāhitaiḥ 17| idaṃ pavitraṃ paramaṃ puṇyamāyuṣyavardhanam | paṭhitavyaṃ viśeṣeṇa viṣṇoḥ sāyujyamāpnuyāt 18| viṣṇornāmasahasraṃ tatpāvanaṃ bhuvi viśrutam | caturviṃśatimūrtīnāṃ sthānakānīha saṃvadet 19| teṣāṃ ca mātāpitarāvaṃtaraṃ ca bravīmyaham | gotraṃ vedāṃścateṣāṃ vai karmāṇīha tathaiva ca 20| striyasteṣāṃ pravakṣyāmi yathāvijñānadarśanāt | caturviṃśatyekādaśīnāṃ dvādaśīnāṃ prabhāvatām 21| godāvaryāśca māhātmyaṃ śaṃkhacakrādidhāraṇam | brāhmaṇānāṃ viśeṣeṇa dhāraṇaṃ vidhipūrvakam 22| yamunāyāśca māhātmyaṃ gaṃḍikāyāstathā mune | vetravatyāstu māhātmyaṃ vacmyahaṃ te na saṃśayaḥ 23| gillitīrthodbhavaṃ puṇyaṃ śilākṣetraṃ mahacca yat | tatsarvaṃ saṃpravakṣyāmi khaṃḍe uttarasaṃjñake 24| arbudeśvaramāhātmyaṃ tatra tīrthādikaṃ ca yat | sarasvatyāśca māhātmyaṃ siddhakṣetrādikaṃ ca yat 25| padmanābhasamutpattiṃ tulasyāścaiva dhāraṇam | gopīcaṃdanamāhātmyaṃ paṭṭapūjāṃ tathaiva ca 26| niraṃjanasya māhātmyaṃ tathā vijñānadarśanam | tatra dīpapradānaṃ ca dhūpadānaṃ viśeṣataḥ 27| kārtikasyātha māhātmyaṃ māhātmyaṃ māghajaṃ tathā | sarveṣāṃ ca vratānāṃ ca māhātmyaṃ vidhipūrvakam 28| śṛṇu nārada vakṣyāmi jagannāthākhyamuttamam | yaṃ dṛṣṭvā mucyate loko brahmahatyādipātakāt 29| yatra siddhaṃ tathā bhuktaṃ pāralaukikadāyakam | brāhmaṇā yatra bhuṃjanti vedaśāstra viśāradaḥ 30| anyeṣāṃ caiva lokānāṃ kā kathā caiva suvrata | paṃcaviṃśatyatra nāgā nartakyo vividhāstathā 31| brahmahatyā bālahatyā gavāṃhatyā tathaiva ca | tāḥ sarvā vilayaṃ yāṃti jagannāthasya darśanāt 32| jagannāthetyuccarañjaṃturmahāpāpaiḥ pramucyate | viṣṇoḥ pūjanakaṃ puṣpaistanmāhātmyamapi bruve 33| parvatānāṃ varṇanaṃ ca deśānāṃ varṇanaṃ tathā | gopūjanādimāhātmyaṃ siddhānāṃ caiva pūjanam 34| sikthe datte tu yatpuṇyaṃ tatsarvaṃ pravadāmyaham | kadalīgarbhadānaṃ ca vṛkṣadānaṃ tataḥ param 35| aśvadānaṃ hastidānaṃ japamāhātmyamuttamam | maṃtradīkṣāgamaṃ caiva gurorlakṣaṇameva ca 36| śiṣyasya lakṣaṇaṃ proktaṃ yathā paurāṇikā viduḥ | caraṇodakamāhātmyaṃ pitṛśrāddhādikaṃ ca yat 37| pitṛkṣayāhadānaṃ ca nīlotsargavidhistataḥ | grahaṇaṃ caṃdrasūryasya tatra dānaṃ ca yadbhavet 38| śālagrāmasya dānasya māhātmyaṃ mālyagaṃdhayoḥ | daśamyaikādaśīvedhaṃ dvādaśī harivāsaram 39| teṣāṃ caiva tumāhātmyaṃ rudranāmādikaṃ ca yat | mathurāyāśca māhātmyaṃ kurukṣetrādikaṃ tathā 40 | setubaṃdhasya cākhyānaṃ śrīrāmeśvarajaṃ tathā | tryaṃbakasya ca māhātmyaṃ paṃcavaṭyāśca yatphalam 41| daṃḍakāraṇyamāhātmyaṃ śṛṇu vāḍavasattama | daṃḍakāraṇyamāhātmyaṃ nṛsiṃhotpattikāraṇam 42| gītāyāścaiva māhātmyaṃ tathā bhāgavatasya ca | kāliṃdyāścaiva māhātmyamindraprasthasya varṇanam 43| rukmāṃgadacaritraṃ tu mahimā vaiṣṇavasya ca | vaiṣṇave hyekabhukte tu śṛṇu vāḍavasattama 44| sasāgarāṃ ca pṛthivīṃ dattvā caiva tu yatphalam | tatphalaṃ samavāpnoti bhukte hyeke tu vaiṣṇave 45| sātvikāḥ sattvasaṃpannā rājasāḥ kāmukāḥ smṛtāḥ | tāmasā adhamāḥ proktā vaiṣṇavānāṃ tu lakṣaṇam 46| brāhmaṇā vaiṣṇavā ye tu vedadharmaparāyaṇāḥ | teṣāṃ māhātmyaṃ vakṣyāmi yathoktaṃ caiva nārada 47| viṣṇuniṃdāratā ye vai dravyalobhena sattama | teṣāṃ pāpaṃ tu vakṣyāmi sāṃprataṃ ṛṣisattama 48 | jvālāmukhyāstathākhyānaṃ himaśailekṣaṇaṃ tathā | brahmotpattistu vai yatra taṃ pradeśaṃ vadāmyaham 49| kāyasthānāṃ samutpatirgayāvyākhyānameva ca | gadādharasvarūpaṃ ca phalguvarṇanameva ca 6.1.50| eteṣāṃ caiva māhātmyaṃ pādme dṛṣṭaṃ tathā śrutam | mahābodhasvarūpaṃ ca sakalkeryaśa eva ca 51| rāmagayāyā māhātmyaṃ tathā pretaśilābhavam | brahmaṇaśca tathākhyānaṃ śilākhyānaṃ vadāmyaham 52| brahmayonestathākhyānamakṣayākhya vaṭasya ca | śrāddhe tatra mahatpuṇyaṃ yattatsarvaṃ vadāmyaham 53| maheśvarakṛtāṃ bhaktiṃ viṣṇunā ca mahātmanā | adyāpi kāśyāṃ japati mahārudro hyanāmayam 54| māhātmyaṃ ca tato vakṣye sāgarasya hi nārada | tilatarpaṇajaṃ puṇyaṃ yavajaṃ puṇyameva ca 55| tulasīdalasaṃyuktaṃ tarpaṇaṃ devajaṃ tathā | tanmāhātmyaṃ pravakṣyāmi yathoktaṃ brahmaṇā mama 56| śaṃkhanādasya māhātmyaṃ puṇyaṃ cāsaṃkhyasaṃjñakam 57| ravervārasya māhātmyaṃ yogasya viṣṇusaṃjñinaḥ | vaidhṛtasya ca māhātmyaṃ vyatīpātasya vai tathā 58| etatsarvaṃ pravakṣyāmi yathoktaṃ caiva nārada | annadānaṃ vastradānaṃ bhūmidānaṃ tathaiva ca 59| śayyādānaṃ ca godānaṃ tathā vṛṣabhameva ca | janmāṣṭamyāśca māhātmyaṃ matsyamāhātmyameva ca 60| kūrmamāhātmyaṃ tatproktaṃ vārāhasya tathaiva ca | māhātmyaṃ ca gavādīnāṃ dānānāṃ pravadāmyaham 61| prahlādamukhabhaktā ye ye kecidbhuvi viśrutāḥ | tanmāhātmyaṃ tato vakṣye śṛṇu devarṣisattama 62| jāgare mahimā caiva dīpadāne kṛte ca yat | prahareṣu pṛthakpūjāphalaṃ devarṣisattama 63| parśurāmasya cākhyānaṃ reṇukāyā vadhastathā | brāhmaṇānāṃ bhūmidānaṃ rāmeṇaiva ca yatkṛtam 64| rāmasyāśramajaṃ puṇyaṃ vadāmyahamaśeṣataḥ | narmadāyāstathākhyānaṃ puṇyapūjanayostathā 65| dānaṃ vedapurāṇānāmāśramāṇāṃ nirūpaṇam | hiraṇyadānapuṇyaṃ ca brahmāṃḍadānameva ca 66| padmapurāṇadānaṃ ca khaṃḍānāṃ vyaktayastathā | prathamaṃ sṛṣṭikhaṃḍaṃ ca dvitīyaṃ bhūmikhaṃḍakam 67| svargakhaṃḍaṃ tṛtīyaṃ ca turyaṃ pātālasaṃjñakam | uttaraṃ paṃcamaṃ proktaṃ khaṃḍānyanukrameṇa vai 68| etatpadmapurāṇaṃ tu vyāsena tu mahātmanā | kṛtaṃ lokahitārthāya brāhmaṇaśreyase tathā 69| śūdrāṇāṃ puṇyajananaṃ tīvradāridryanāśanam | mokṣadaṃ sukhadaṃ cāśu kalyāṇapradamavyayam | śrutvā dānaṃ tathā kuryādvidhinā tatra nārada 70| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe maheśanāradasaṃvāde bījasamuccayonāma prathamo'dhyāyaḥ 1|
English translation
1-2. Om, salutation to Śrī Viṣṇu . Om salutation to Śrī Vedavyāsa .
Om, having saluted Nārāyaṇa , so also Nara , the best among men, and goddess Sarasvatī and Vyāsa , one should narrate the (god’s) glory. Salutation to the preceptor who opened the eyes of one who is blind due to the darkness of ignorance with the pencil of the collyrium of knowledge.
The sages said :
3-4. O best among the learned, we have heard the Pātālakhaṇḍa full of various accounts and giving great joy, which you narrated (to us). Now we desire to hear what remains (i.e. the remaining portion) of the Padma ( Purāṇa ), and which augments devotion to the lord. O preceptor, please narrate it.
Sūta said :
5-7a. O sages, listen, all of you, to what Śaṅkara told Nārada who asked him, and which is the knowledge that destroys sins. Once Nārada, dear to the lord, while roaming over the worlds went to Mandara mountain to ask Śambhu some secret. There he saluted the lord of Umā who was seated. Directed by Śiva ’s order, he sat on a seat in front of the lord. He asked the god the same as you, the best ones, have asked.
Nārada said :
7b-8. O lord, O god of gods, O lord of Pārvatī , O preceptor of the world, tell me that by which the knowledge about the truth of lord can be had.
Śiva said :
9-15. O Nārada, listen to the Purāṇa which I shall tell you, which is like the Vedas and hearing which a man is free from all sins. There is no doubt about it. First there is the glory of Uttara . Then there is the story of the Parvata (Mountain). Then there is the narration of Haridvāra ; then there is the account of ( Gaṅgā ) rising from Viṣṇu’s feet. I shall also describe the holy place of Prayāga , so also the (holy place called) Aśvamedhika. I shall tell (you) about the greatness of Tulasī ; so also (I shall describe) the conch, the disc, the mace etc. Then there is the account of Dvārakā . (Then there are) the rules about a great festival. (So also) there is the description of the religious merit obtained from (bathing in) a lake, so also (from bathing in) a reservoir of water, a well, or a cistern; (there is the description of the views of) the Gāṇapatya , of the holy texts of the Vaiṣṇavas ; (then) there is (the description) of the greatness of repairs (of old temples etc.); of visiting Gaṅgā; of the greatness of Sābhramatī; so also of the banks (of rivers etc.), of the duties of women and śūdras and of what (course) should be followed by those who are forsaken.
16-19. In the dialogue between Umā and Maheśa The Thousand Names of Viṣṇu are told. That was brought from Kailāsa by Nārada, the brāhmaṇa . It should be recited with a concentrated mind to the people, brāhmaṇas , kṣatriyas and especially to women and śūdras. It is holy; it is pure; it increases (the span of) life; it should be especially recited; (thereby a man) would obtain intimate union with Viṣṇu. That hymn containing the thousand names of Viṣṇu is known in the world to be purifying. It (i.e. the Uttarakhaṇḍa) will tell about the places of the twenty-four images.
20-24a. I shall tell about their parents and their interior. I shall also tell you about their family, their Vedas, their deeds; so also about their wives, as I see these from my knowledge. (I shall tell you) about the importance of the twenty-four Ekādaśī days and Dvādaśī days. (I shall narrate to you) the greatness of Godāvarī ; so also about putting on (one’s person) the conch and the disc. Brāhmaṇas especially should put these on with a rite. O sage, I shall describe to you the importance of Yamunā , so also of Gaṇḍikā . I shall undoubtedly tell you about the greatness of Vetravatī . (I shall tell you) about the religious merit due to (a visit to) the holy place called Gilli. I shall describe to you the Śilā Kṣetra which is great.
24b-28. All that I shall describe in the Khaṇḍa called Uttara. (I shall narrate to you) the greatness of Arbudeśvara and the holy places etc. that are there. (I shall similarly tell you about) the importance of Sarasvatī and the holy place called Siddhakṣetra . (I shall tell you about) the rise of Padmanābha and the wearing of Tulasī(-leaves etc.). (I shall tell you about) the greatness of gopīcandana , and about the worship of the throne. (I shall describe to you) the greatness of Nirañjana (i.e. Śiva); so also about the vision of knowledge; so also about offering of lights there, and especially of incense. (I shall tell you about) the importance ofKārtika and also that of Māgha . I shall tell you about the greatness of all vows (performed) duly.
29-33a. O Nārada, I shall tell you about (the holy place of) Jagannātha , the best one, seeing whom men are freed from the sin of the murder of a brāhmaṇa etc. (Please) listen; whatever is performed and experienced there gives (i.e. leads one to) the other world. (Even) brāhmaṇas, well-versed in the Vedas eat there; then what to say about other people, O you of a good vow! Here there are twenty-five serpents and various female dancers also. On seeing Jagannātha (the sins due to murders such as) the murder of a brāhmaṇa, the murder of a child or that of a cow, all perish. A being (just while) uttering (the name) Jagannātha is free from great sins.
33b-36. I shall tell you about Viṣṇu’s worship with flowers, and its importance also. I shall tell you all that—the description of the mountains; so also the description of countries; so also the supreme greatness of worshipping the cow etc.; so also about the worship of the siddhas ; (I shall also tell you about) the religious merit which is obtained when boiled rice is given (to brāhmaṇas). (I shall tell you about) the gift of the interior of a Kadalī ; the gift of a tree. After that (I shall tell you about) the gift of a horse; the gift of an elephant; so also about the supreme importance of muttering (a hymn); so also about the knowledge of hymns and initiation; about the characteristics of a preceptor.
37-43. In (the Uttarakhaṇḍa) the characteristics of a disciple, as the public readers of the Purāṇas know them, are also told. (So also it contains) the importance of the water (flowing) from the feet (of the superiors), and (the information about) śrāddha etc. offered to the dead ancestors; (it also contains information about) the gift to the manes on the days (fixed for making offerings to them); so also the rite of giving sapphires. (It also contains information about) the lunar and solar eclipses and (about) what gifts should be (given on these days). (It tells about) the importance of the gift of a Śālagrāma (stone); so also of flowers and sandal; about the time of the tenth, eleventh and twelfth (days) and about the days sacred to Viṣṇu. (It contains information about) their greatness and the names of Rudra etc. (It also gives the information about) the greatness of Mathura , and (about) Kurukṣetra etc. (It also contains) the account of the construction of the bridge (over the sea); so also (the account) of Śrī Rāmeśvara . (It also contains the information about) the greatness of Tryambaka , and (about) the fruit of (staying at) Pañcavaṭī . O best brāhmaṇa, listen to the importance of the Daṇḍaka forest. (It tells about) the greatness of the Daṇḍaka forest and about the cause of the birth of Nṛsiṃha . (It tells about) the greatness of the Gītā ; so also of the Bhāgavata , so also the importance of Kālindī (i.e. Yamunā), and the description of Indraprastha .
44-50. (It contains) the life of Rukmāṅgada and (tells about) the greatness of a devotee of Viṣṇu. O best brāhmaṇa, listen; if a devotee of Viṣṇu is fed but once, the man who feeds him gets that fruit which he would obtain by giving the entire earth along with ocean. The sāttvika are endowed with goodness; the rājasa are said to be lustful. The tāmasa are described to be vicious. The characteristics of the devotees of Viṣṇu are also described (in it). O Nārada, I shall tell you about the greatness, as described, of the brāhmaṇas who are devotees of Viṣṇu and who are intent upon practising the way of life as told in the Vedas. O best sage, then I shall tell you about the sin of those who, through greed for wealth, are engaged in censuring Viṣṇu. (I shall tell) you the account of Jvālāmukhī , and (about the importance of) seeing the Himālaya . I shall describe to you the region where Brahmā was born. I shell tell you about the origin of kāyasthas ; so also the account of Gayā . (I shall describe to you) the nature of Gadādhara and (give you) the description of (the river at Gaya called) Phalgu .
51-56a. In the Padma (Purāṇa), the importance of these is seen (and) is also heard (from it). (It also contains) the nature of great knowledge, and the glory of Kalki . (It contains the description of) Rāmagayā and Pretaśilā . I shall tell you the account of Brahmā and Śilā; so also the account of Brahmā’s origin, and of the bunyan tree called Akṣaya . Great religious merit (accrues) by (performing) a śrāddha there. I shall tell (you) all about that. (I shall tell you about) the worship of Śiva done by the noble Viṣṇu. Even now Mahārudra mutters (the names of) Anāmaya (i.e. Viṣṇu). After that, O Nārada, I shall describe to you the greatness of the ocean; so also the religious merit due to the offering of sesamum seeds and also due to (the offering of) barley-grains; so also (the religious merit) due to the offering of water mixed with Tulasī leaves and due to. the (worship of) deity.
56b-59a. I shall tell you about its greatness as Brahmā told it to me. (I shall describe to you) the greatness of the sound of the conch and religious merit of its innumerable (varieties). (I shall tell you about) the greatness of Sunday, and of abstract meditation on him called Viṣṇu. (I shall tell you) the importance of Vaidhṛta and also of Vyatīpāta (i.e. a great calamity). O Nārada, I shall tell you all this, as has been told.
59b-64. Uttarakhaṇḍa tells about the gift of food, the gift of garments, the gift of land, so also (of) a bull, about the greatness of Janmāṣṭamī , the importance of the Matsya (Purāṇa), the importance of the Kūrma (Purāṇa) and so also of the Vārāha (Purāṇa). I shall also tell (you) the importance of the gifts of cows etc. After that I shall describe to you the greatness of the devotees like Prahlāda , who are well-known on the earth. Listen, O best divine sage. O best divine sage, (it contains) the importance of keeping awake (during certain nights); so also of the gift of lamps; so also (it tells about) the fruit of the separate worship (offered) during different watches. (It contains) the account of Paraśurāma ; so also (of) the murder of Reṇukā ; so also (of) the gift of land made to brāhmaṇas and whatever Rāma did.
65-66a. I shall describe fully the religious merit due to (the stay in) Rāma’s hermitage. I shall tell you the account of Narmada , and that of the religious merit and the worship; so also (I shall tell you about) the gift of (the texts of) the Vedas and the Purāṇas and the form of the (various) stages of life.
66b-70. (I shall tell you about) the religious merit due to the gift of gold and that of the world; (about) the gift of the Padma Purāṇa and the nature of (its) Khaṇḍas . The first is Sṛṣṭikhaṇḍa; the second is Bhūmikhaṇḍa. The third is Svargakhaṇḍa and the fourth is called Pātāla . The fifth is called Uttara. These are the Khaṇḍas in order. The noble Vyāsa composed this Padma Purāṇa for the well-being of the people and for the welfare of brāhmaṇas. It creates religious merit in śūdras, and removes acute poverty. It gives salvation and happiness and quickly brings about inexhaustible good fortune. O Nārada, having listened to it, a man should give gifts according to the rite (told therein).
Complete chapter-aligned witnesses. Sanskrit Wikisource page 44512, revision 334355 (2022-04-01T23:49:15Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365432.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.