Skip to main content

Svarga-khaṇḍa · Chapter 18

Chapter 18

Unit 225 of 693Svarga-khaṇḍa · Chapter 18Svarga-khaṇḍa · Chapter 181 source entries

Svarga-khaṇḍa · Chapter 18

Source

नारद उवाच-। तदाप्रभृति ब्रह्माद्या ऋषयश्च तपोधनाः । सेवंते नर्मदां राजन्कामक्रोधविवर्जिताः १। तस्मिन्निपति तं दृष्ट्वा शूलं देवस्य भूतले । तस्य पुण्यं समाख्यातं शंकरेण महात्मना २। शूलभेदेति विख्यातं तीर्थं पुण्यतमं महत् । तत्र स्नात्वार्च्चयेद्देवं गोसहस्रफलं लभेत् ३। त्रिरात्रं कारयेद्यस्तु तस्मिन्तीर्थे नराधिप । अर्चयित्वा महादेवं पुनर्जन्म न विद्यते ४। भीमेश्वरं ततो गच्छेन्नर्मदेश्वरमुत्तमम् । आदित्येश्वरं महापुण्यं तथाऽज्यमधुना सह ५। मल्लिकेश्वरमभ्यर्च्य पर्याप्तं जन्मनः फलम् । वरुणेश्वरं ततः पश्येन्नीराजेश्वरमुत्तमम् ६। सर्वतीर्थफलं तस्य पंचायतनदर्शनात् । ततोगच्छेत राजेंद्र युद्धं वै यत्र साधितम् ७। कोटितीर्थं तु विख्यातमसुरा यत्र योधिताः । यत्र ते निहता राजन्दानवा बलदर्पिताः ८। तेषां शिरांसि गृह्यंते निहतास्ते समागताः । तैस्तु संस्थापितो देवः शूलपाणिर्महेश्वरः ९। कोटिर्विनिहता तत्र तेन कोटीश्वरः स्मृतः । दर्शनात्तस्य तीर्थस्य सदेहः स्वर्गमावहेत् १०। तदा इंद्रेण क्षुद्रत्वाद्वज्रकीलेन यंत्रितः । तदाप्रभृति लोकानां स्वर्गमत्वं निवारितम् ११। सघृतं श्रीफलं दत्वा दत्वा चांते प्रदक्षिणम् । सर्वतः सह देवेन शिरसादाय धारयेत् । सर्वकामेन संपूर्णो राजा भवति पांडव १२। मृतो रुद्रत्वमाप्नोति न चेह जायते पुनः । स्वर्गं गत्वा ततो राज्यं कृत्वागत्य ततो दिवम् १३। महादेवं तथोपास्य त्रयोदश्यां हि मानवः । स्नातमात्रो नरस्तत्र सर्वयज्ञफलं लभेत् १४। ततो गच्छेत राजेंद्र तीर्थं परमशोभनम् । नराणां पापनाशाय अगस्त्येश्वरमुत्तमम् १५। तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया । कार्तिकस्य तु मासस्य कृष्णपक्षचतुर्दशी १६। घृतेन स्नापयेद्देवं समाधिस्थो जितेंद्रियः । एकविंशकुलोपेतो न मुच्येदैश्वरात्पदात् १७। धेनवोपानहंच्छत्रं तथा दद्याच्च कंबलम् । भोजनं चैव विप्राणां सर्वं कोटिगुणं भवेत् १८। ततो गच्छेत राजेंद्र रविस्तवमनुत्तमम् । तत्र स्नात्वा नरो राजन्सिंहासनगतिर्भवेत् १९। नर्मदा दक्षिणे कूले तीर्थं शक्रस्य विश्रुतम् । उपोष्य रजनीमेकां स्नानं तत्र समाचरेत् २०। स्नानं कृत्वा यथान्यायमर्च्चयेत्तु जनार्दनम् । गोसहस्रफलं तस्य विष्णुलोकं स गच्छति २१। ऋषितीर्थं ततो गच्छेत्सर्वपापहरं नृणाम् । स्नातमात्रो नरस्तत्र शिवलोके महीयते २२। नारदस्य च तत्रैव तीर्थं परमशोभनम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् २३। देवतीर्थं ततो गच्छेद्ब्रह्मणा निर्मितं पुरा । तत्र स्नात्वा नरो राजन्ब्रह्मलोके महीयते २४। अमरकंटकं ततो गच्छेदमरस्थापितं पुरा । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् २५। ततो गच्छेत राजेंद्र वामनेश्वरमुत्तमम् । तत्र वामनकं दृष्ट्वा मुच्यते ब्रह्महत्यया २६। ऋषितीर्थं ततो गच्छेदीशानेशं पुमान्ध्रुवम् । वटेश्वरं ततो दृष्ट्वा पर्य्याप्तं जन्मनः फलम् २७। भीमेश्वरं ततो गच्छेत्सर्वव्याधिविनाशनम् । स्नातमात्रो नरो राजन्सर्वदुःखात्प्रमुच्यते २८। ततो गच्छेत राजेंद्र वारणेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्सर्वदुःखात्प्रमुच्यते २९। सोमतीर्थं ततो गच्छेत्पश्येच्चंद्रमनुत्तमम् । तत्र स्नात्वा नरो राजन्भक्त्या परमया युतः ३०। तत्क्षणाद्दिव्यदेहस्थः शिववन्मोदते चिरम् । षष्टिवर्षसहस्राणि शिवलोके महीयते ३१। ततो गच्छेत राजेंद्र पिंगलेश्वरमुत्तमम् । अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ३२। तस्मिंस्तीर्थे तु राजेंद्र कपिलां यः प्रयच्छति । यावंति तस्या रोमाणि तत्प्रसूतकुलस्य च ३३। तावद्वर्षसहस्राणि रुद्रलोके महीयते । यस्तुप्राणपरित्यागं तत्र कुर्य्यान्नराधिप ३४। अक्षयं मोदते कालं यावच्चंद्रदिवाकरौ । नर्मदातटमाश्रित्य तिष्ठंति ये तु मानवाः ३५। ते मृताः स्वर्गमायांति तथा सुकृतिनो यथा । सुरभिकेश्वरं गच्छेन्नारकं कोटिकेश्वरम् ३६। गंगावतरणे तत्र दिने पुण्यो न संशयः । नंदितीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ३७। तुष्यते तं तु नंदीशः सोमलोके महीयते । ततो द्वीपेश्वरं गच्छेद्व्यासतीर्थं तपोवनम् ३८। निवर्तिता पुरा तत्र व्यासभीता महानदी । हुंकारिता तु व्यासेन दक्षिणेन ततो गता ३९। प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । व्यासस्तस्य भवेत्प्रीतो वांछितं लभते फलम् ४०। सूत्रेण वेष्टयेद्यस्तु दीप्तं देवं सवेदिकम् । क्रीडते ह्यक्षयं कालं यथा रुद्रस्तथैव सः ४१। ततो गच्छेत राजेंद्र एरंडीतीर्थमुत्तमम् । संगमे तु नरः स्नात्वा मुच्यते सर्वपातकैः ४२। एरंडी त्रिषु लोकेषु विख्याता पापनाशिनी । अथवाश्वयुजे मासे शुक्लपक्षस्य चाष्टमी ४३। शुचिर्भूत्वा नरः स्नात्वा सोपवासपरायणः ४४। ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता । एरंडीसंगमे स्नात्वा भक्तिभावानुरंजितः ४५। शुक्तिकां शिरसि स्थाप्य अवगाह्य च वै जलम् । नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बषैः ४६। प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ४७। ततः सुवर्णतिलके स्नात्वा दत्वा च कांचनम् । कांचनेन विमानेन रुद्रलोके महीयते ४८। ततः स्वर्गच्युतः कालाद्राजा भवति वीर्यवान् । ततो गच्छेत राजेंद्र इक्षुनद्यास्तु संगमम् ४९। त्रैलोक्ये विश्रुतं दिव्यं तत्र संनिहितः शिवः । तत्र स्नात्वा नरो राजन्गाणपत्यमवाऽप्नुयात् ५०। स्कंदतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् । आजन्मनः कृतं पापं स्नानमात्राद्व्यपोहति ५१। आंगिरसं ततो गच्छेत्स्नानं तत्र समाचरेत् । गोसहस्रफलं तस्य रुद्रलोके महीयते ५२। लांगलतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् । तत्र गत्वा तु राजेंद्र स्नानं तत्र समाचरेत् ५३। सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः । वटेश्वरं ततो गच्छेत्सर्वतीर्थमनुत्तमम् ५४। तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् । संगमेश्वरं ततो गच्छेत्सर्वपापहरं परम् ५५। तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः । भद्रतीर्थं समासाद्य दानं दद्यात्तु यो नरः ५६। तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत् । अथ नारी भवेत्कापि तत्र स्नानं समाचरेत् ५७। गौरीतुल्या भवेत्सा तु इंद्रं याति न संशयः । अंगारेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् ५८। स्नातमात्रो नरस्तत्र रुद्रलोके महीयते । अंगारक्यां चतुर्थ्यां तु स्नानं तत्र समाचरेत् ५९। अक्षयं मोदते कालं मुरारिकृतशासनः । अयोनिसंगमे स्नात्वा न पश्येद्योनिमंदिरम् ६०। पांडवेश्वरकं गत्वा स्नानं तत्र समाचरेत् । अक्षयं मोदते कालमवध्यस्तु सुरासुरैः ६१। विष्णुलोकं ततो गत्वा क्रीडाभोगसमन्वितः । तत्र भुक्त्वा महाभोगान्मर्त्ये राजाभिजायते ६२। कंबोतिकेश्वरं गच्छेत्स्नानं तत्र समाचरेत् । उत्तरायणे तु संप्राप्ते यदिच्छेत्तस्य तद्भवेत् ६३। चंद्रभागां ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सोमलोके महीयते ६४। ततो गच्छेत राजेंद्र तीर्थं शक्रस्य विश्रुतम् । पूजितं देवराजेन देवैरपि नमस्कृतम् ६५। तत्र स्नात्वा नरो राजन्दानं दत्वा च कांचनम् । अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत् ६६। वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि नरो हरपुरे वसेत् ६७। ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् । अश्वानां श्वेतवर्णानां सहस्रेषु नराधिप ६८। स्वामी भवति मर्त्येषु तस्य तीर्थ प्रभावतः । ततो गच्छेत राजेंद्र ब्रह्मावर्त्तमनुत्तमम् ६९। तत्र स्नात्वा नरो राजंस्तर्पयेत्पितृदेवताः । उपोष्य रजनीमेकां पिंडं दत्वा यथाविधि ७०। कन्यागते यथाऽदित्ये अक्षयं संचितं भवेत् । ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् ७१। तत्र स्नात्वा नरो राजन्कपिलां यः प्रयच्छति । संपूर्णां पृथिवीं दत्वा यत्फलं तदवाप्नुयात् ७२। नर्मदेश्वरं परं तीर्थं न भूतं न भविष्यति । तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ७३। तत्र सर्वगतो राजा पृथिव्यामभिजायते । सर्वलक्षणसंपूर्णः सर्वव्याधिविवर्जितः ७४। नार्मदीयोत्तरेकूले तीर्थं परमशोभनम् । आदित्यायतनं रम्यमीश्वरेण तु भावितम् ७५। तत्र स्नात्वा तु राजेंद्र दानं दत्वा च शक्तितः । तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् ७६। दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मणः । मुच्यंते सर्वपापेभ्यः सूर्यलोकं प्रयांति च ७७। माघमासे तु संप्राप्ते शुक्लपक्षस्य सप्तमीम् । वसेदायतने यस्तु निरात्मा यो जितेंद्रियः ७८। न जायते व्याधितश्च कालेंधो बधिरस्तथा । सुभगो रूपसंपन्नः स्त्रीणां भवति वल्लभः ७९। इदं तीर्थं महापुण्यं मार्कंडेयेन भाषितम् । ये प्रयांति न राजेंद्र वंचितास्ते न संशयः ८०। मासेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ८१। मोदते सर्वलोकस्थो यावदिंद्राश्चतुर्दश । ततः समीपतः स्थित्वा नागेश्वरं तपोवनम् ८२। तत्र स्नात्वा तु राजेंद्र शुचिर्भूत्वा समाहितः । बहुभिर्नागकन्याभिः क्रीडते कालमक्षयम् ८३। कुबेरभवनं गच्छेत्कुबेरो यत्र संस्थितः । कालेश्वरं परं तीर्थं कुबेरो यत्र तोषितः ८४। यत्र स्नात्वा तु राजेंद्र सर्वसंपदमाप्नुयात् । ततः पश्चिमतो गच्छेन्मरुतालयमुत्तमम् ८५। तत्र स्नात्वा तु राजेंद्र शुचिर्भूत्वा समाहितः । कांचनं तु ततो दद्यादन्नशक्त्या तु बुद्धिमान् ८६। पुष्पकेण विमानेन वायुलोकं स गच्छति । मम तीर्थं ततो गच्छेन्माघमासे युधिष्ठिर ८७। कृष्णपक्षे चतुर्दश्यां स्नानं तत्र समाचरेत् । नक्तं भोज्यं ततः कुर्यान्न गच्छेद्योनिसंकटम् ८८। अहल्यातीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र अप्सरोभिः प्रमोदते ८९। पारमेश्वरे तपस्तप्त्वा अहल्या मुक्तिमागमत् । चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी ९०। कामदेवदिने तस्मिन्नहल्यां तु प्रपूजयेत् । यत्र तत्र समुत्पन्नो नरस्तत्र प्रियो भवेत् ९१। स्त्रीवल्लभो भवेच्छ्रीमान्कामदेव इवापरः । अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ९२। स्नातमात्रो नरस्तत्र गोसहस्र फलं लभेत् । सोमतीर्थं ततो गच्छेत्स्नानमात्रं समाचरेत् ९३। स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते । सोमग्रहे तु राजेंद्र पापक्षयकरं भवेत् ९४। त्रैलोक्यविश्रुतं राजन्सोमतीर्थं महाफलम् । यस्तु चांद्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप ९५। सर्वपापविशुद्धात्मा सोमलोकं स गच्छति । अग्निप्रवेशे तु जलेप्यथवापि ह्यनाशने ९६। सोमतीर्थे मृतो यस्तु नासौ मर्त्येभिजायते । स्तंभतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ९७। स्नातमात्रो नरस्तत्र सोमलोके महीयते । ततो गच्छेत राजेंद्र विष्णुतीर्थमनुत्तमम् ९८। योधनीपुरविख्यातं विष्णुतीर्थमनुत्तमम् । असुरा योधितास्तत्र वासुदेवेन कोटिशः ९९। तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह । अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति १००। ततो गच्छेत्तु राजेंद्र तापसेश्वरमुत्तमम् । अमोहकमिति ख्यातं पितॄन्यस्तत्र तर्पयेत् १०१। पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि । तत्र स्नात्वा नरो राजन्पितृपिंडं तु दापयेत् १०२। गजरूपाः शिलास्तत्र तोयमध्ये प्रतिष्ठिताः । तस्मिंस्तु दापयेत्पिंडं वैशाखे तु विशेषतः १०३। तृप्यंति पितरस्तावद्यावत्तिष्ठति मेदिनी । ततो गच्छेत राजेंद्र सिद्धेश्वरमनुत्तमम् १०४। तत्र गत्वा तु राजेंद्र गणपत्यंतिकं व्रजेत् । ततो गच्छेत राजेंद्र लिंगो यत्र जनार्दनः १०५। तत्र स्नात्वा तु राजेंद्र विष्णुलोके महीयते । नर्मदादक्षिणेकूले तीर्थं परमशोभनम् १०६। कामदेवः स्वयं तत्र तपस्तप्यत्यसौ महान् । दिव्यं वर्षसहस्रं तु शंकरं पर्युपासते १०७। समाधिपर्वदग्धस्तु शंकरेण महात्मना । श्वेतपर्वोपमश्चैव हुताशः शुक्लपर्वणि १०८। एते दग्धास्तु ते सर्वे कुसुमेश्वरसंस्थिताः । दिव्यवर्षसहस्रेण तुष्टस्तेषां महेश्वरः १०९। उमया सहितो रुद्रस्तेषां तुष्टो वरप्रदः । विमोक्षयित्वा तान्सर्वान्नर्म्मदातटमास्थितान् ११०। तस्य तीर्थप्रभावेण पुनर्देवत्वमागतः । त्वत्प्रसादान्महादेव तीर्थं च भवतूत्तमम् १११। अर्धयोजनविस्तीर्णं तीर्थं दिक्षु समंततः । तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ११२। कुसुमायुधरूपेण रुद्रलोके महीयते । वैश्वानरे यमेनैव कामदेवेन वायवे ११३। तपस्तप्त्वा तु राजेंद्र तत्रैव च पुरागतैः । अंधोनस्य समीपे तु नातिदूरे तु तस्य वै ११४। स्नानं दानं च तत्रैव भोजनं पिंडपातनम् । अग्निवेशे जले वापि अथवापि अनाशने ११५। अनिवर्तिका गतिस्तस्य मृतस्याप्यर्द्धयोजने । त्रैयंबकेण तोयेन स्नापयेन्नरपुंगवः ११६। अंधोनमूले दत्वा तु पिंडं चैव यथाविधि । पितरस्तस्य तृप्यंति यावच्चंद्र दिवाकरौ ११७। उत्तरायणे तु संप्राप्ते तत्र स्नानं करोति यः । पुरुषो वापि स्त्री वापि वसेदायतने शुचिः ११८। सिद्धेश्वरस्य देवस्य प्रभाते पूजनान्नरः । स तां गतिमवाप्नोति न तां सर्वैर्महामखैः ११९। यदा च तीर्थकालेन रूपवान्सुभगो भवेत् । मर्त्ये भवति राजासावासमुद्रांतगोचरे १२०। क्षेत्रपालं न पश्येच्च दंडपालं महाबलम् । वृथा तस्य भवेद्यात्रा अदृष्ट्वा कर्णकुंडलम् १२१। एतत्तीर्थफलं ज्ञात्वा सर्वेदेवाः समागताः । मुंचंति पुष्पवृष्टिं तु स्तुवंति कुसुमेश्वरम् १२२। इति श्रीपाद्मेमहापुराणे स्वर्गखंडे अष्टादशोऽध्यायः १८।

nārada uvāca-| tadāprabhṛti brahmādyā ṛṣayaśca tapodhanāḥ | sevaṃte narmadāṃ rājankāmakrodhavivarjitāḥ 1| tasminnipati taṃ dṛṣṭvā śūlaṃ devasya bhūtale | tasya puṇyaṃ samākhyātaṃ śaṃkareṇa mahātmanā 2| śūlabhedeti vikhyātaṃ tīrthaṃ puṇyatamaṃ mahat | tatra snātvārccayeddevaṃ gosahasraphalaṃ labhet 3| trirātraṃ kārayedyastu tasmintīrthe narādhipa | arcayitvā mahādevaṃ punarjanma na vidyate 4| bhīmeśvaraṃ tato gacchennarmadeśvaramuttamam | ādityeśvaraṃ mahāpuṇyaṃ tathā'jyamadhunā saha 5| mallikeśvaramabhyarcya paryāptaṃ janmanaḥ phalam | varuṇeśvaraṃ tataḥ paśyennīrājeśvaramuttamam 6| sarvatīrthaphalaṃ tasya paṃcāyatanadarśanāt | tatogaccheta rājeṃdra yuddhaṃ vai yatra sādhitam 7| koṭitīrthaṃ tu vikhyātamasurā yatra yodhitāḥ | yatra te nihatā rājandānavā baladarpitāḥ 8| teṣāṃ śirāṃsi gṛhyaṃte nihatāste samāgatāḥ | taistu saṃsthāpito devaḥ śūlapāṇirmaheśvaraḥ 9| koṭirvinihatā tatra tena koṭīśvaraḥ smṛtaḥ | darśanāttasya tīrthasya sadehaḥ svargamāvahet 10| tadā iṃdreṇa kṣudratvādvajrakīlena yaṃtritaḥ | tadāprabhṛti lokānāṃ svargamatvaṃ nivāritam 11| saghṛtaṃ śrīphalaṃ datvā datvā cāṃte pradakṣiṇam | sarvataḥ saha devena śirasādāya dhārayet | sarvakāmena saṃpūrṇo rājā bhavati pāṃḍava 12| mṛto rudratvamāpnoti na ceha jāyate punaḥ | svargaṃ gatvā tato rājyaṃ kṛtvāgatya tato divam 13| mahādevaṃ tathopāsya trayodaśyāṃ hi mānavaḥ | snātamātro narastatra sarvayajñaphalaṃ labhet 14| tato gaccheta rājeṃdra tīrthaṃ paramaśobhanam | narāṇāṃ pāpanāśāya agastyeśvaramuttamam 15| tatra snātvā naro rājanmucyate brahmahatyayā | kārtikasya tu māsasya kṛṣṇapakṣacaturdaśī 16| ghṛtena snāpayeddevaṃ samādhistho jiteṃdriyaḥ | ekaviṃśakulopeto na mucyedaiśvarātpadāt 17| dhenavopānahaṃcchatraṃ tathā dadyācca kaṃbalam | bhojanaṃ caiva viprāṇāṃ sarvaṃ koṭiguṇaṃ bhavet 18| tato gaccheta rājeṃdra ravistavamanuttamam | tatra snātvā naro rājansiṃhāsanagatirbhavet 19| narmadā dakṣiṇe kūle tīrthaṃ śakrasya viśrutam | upoṣya rajanīmekāṃ snānaṃ tatra samācaret 20| snānaṃ kṛtvā yathānyāyamarccayettu janārdanam | gosahasraphalaṃ tasya viṣṇulokaṃ sa gacchati 21| ṛṣitīrthaṃ tato gacchetsarvapāpaharaṃ nṛṇām | snātamātro narastatra śivaloke mahīyate 22| nāradasya ca tatraiva tīrthaṃ paramaśobhanam | snātamātro narastatra gosahasraphalaṃ labhet 23| devatīrthaṃ tato gacchedbrahmaṇā nirmitaṃ purā | tatra snātvā naro rājanbrahmaloke mahīyate 24| amarakaṃṭakaṃ tato gacchedamarasthāpitaṃ purā | snātamātro narastatra gosahasraphalaṃ labhet 25| tato gaccheta rājeṃdra vāmaneśvaramuttamam | tatra vāmanakaṃ dṛṣṭvā mucyate brahmahatyayā 26| ṛṣitīrthaṃ tato gacchedīśāneśaṃ pumāndhruvam | vaṭeśvaraṃ tato dṛṣṭvā paryyāptaṃ janmanaḥ phalam 27| bhīmeśvaraṃ tato gacchetsarvavyādhivināśanam | snātamātro naro rājansarvaduḥkhātpramucyate 28| tato gaccheta rājeṃdra vāraṇeśvaramuttamam | tatra snātvā naro rājansarvaduḥkhātpramucyate 29| somatīrthaṃ tato gacchetpaśyeccaṃdramanuttamam | tatra snātvā naro rājanbhaktyā paramayā yutaḥ 30| tatkṣaṇāddivyadehasthaḥ śivavanmodate ciram | ṣaṣṭivarṣasahasrāṇi śivaloke mahīyate 31| tato gaccheta rājeṃdra piṃgaleśvaramuttamam | ahorātropavāsena trirātraphalamāpnuyāt 32| tasmiṃstīrthe tu rājeṃdra kapilāṃ yaḥ prayacchati | yāvaṃti tasyā romāṇi tatprasūtakulasya ca 33| tāvadvarṣasahasrāṇi rudraloke mahīyate | yastuprāṇaparityāgaṃ tatra kuryyānnarādhipa 34| akṣayaṃ modate kālaṃ yāvaccaṃdradivākarau | narmadātaṭamāśritya tiṣṭhaṃti ye tu mānavāḥ 35| te mṛtāḥ svargamāyāṃti tathā sukṛtino yathā | surabhikeśvaraṃ gacchennārakaṃ koṭikeśvaram 36| gaṃgāvataraṇe tatra dine puṇyo na saṃśayaḥ | naṃditīrthaṃ tato gacchetsnānaṃ tatra samācaret 37| tuṣyate taṃ tu naṃdīśaḥ somaloke mahīyate | tato dvīpeśvaraṃ gacchedvyāsatīrthaṃ tapovanam 38| nivartitā purā tatra vyāsabhītā mahānadī | huṃkāritā tu vyāsena dakṣiṇena tato gatā 39| pradakṣiṇaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa | vyāsastasya bhavetprīto vāṃchitaṃ labhate phalam 40| sūtreṇa veṣṭayedyastu dīptaṃ devaṃ savedikam | krīḍate hyakṣayaṃ kālaṃ yathā rudrastathaiva saḥ 41| tato gaccheta rājeṃdra eraṃḍītīrthamuttamam | saṃgame tu naraḥ snātvā mucyate sarvapātakaiḥ 42| eraṃḍī triṣu lokeṣu vikhyātā pāpanāśinī | athavāśvayuje māse śuklapakṣasya cāṣṭamī 43| śucirbhūtvā naraḥ snātvā sopavāsaparāyaṇaḥ 44| brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitā | eraṃḍīsaṃgame snātvā bhaktibhāvānuraṃjitaḥ 45| śuktikāṃ śirasi sthāpya avagāhya ca vai jalam | narmadodakasaṃmiśraṃ mucyate sarvakilbaṣaiḥ 46| pradakṣiṇaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa | pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā 47| tataḥ suvarṇatilake snātvā datvā ca kāṃcanam | kāṃcanena vimānena rudraloke mahīyate 48| tataḥ svargacyutaḥ kālādrājā bhavati vīryavān | tato gaccheta rājeṃdra ikṣunadyāstu saṃgamam 49| trailokye viśrutaṃ divyaṃ tatra saṃnihitaḥ śivaḥ | tatra snātvā naro rājangāṇapatyamavā'pnuyāt 50| skaṃdatīrthaṃ tato gacchetsarvapāpapraṇāśanam | ājanmanaḥ kṛtaṃ pāpaṃ snānamātrādvyapohati 51| āṃgirasaṃ tato gacchetsnānaṃ tatra samācaret | gosahasraphalaṃ tasya rudraloke mahīyate 52| lāṃgalatīrthaṃ tato gacchetsarvapāpapraṇāśanam | tatra gatvā tu rājeṃdra snānaṃ tatra samācaret 53| saptajanmakṛtaiḥ pāpairmucyate nātra saṃśayaḥ | vaṭeśvaraṃ tato gacchetsarvatīrthamanuttamam 54| tatra snātvā naro rājangosahasraphalaṃ labhet | saṃgameśvaraṃ tato gacchetsarvapāpaharaṃ param 55| tatra snātvā naro rājyaṃ labhate nātra saṃśayaḥ | bhadratīrthaṃ samāsādya dānaṃ dadyāttu yo naraḥ 56| tasya tīrthaprabhāveṇa sarvaṃ koṭiguṇaṃ bhavet | atha nārī bhavetkāpi tatra snānaṃ samācaret 57| gaurītulyā bhavetsā tu iṃdraṃ yāti na saṃśayaḥ | aṃgāreśvaraṃ tato gacchetsnānaṃ tatra samācaret 58| snātamātro narastatra rudraloke mahīyate | aṃgārakyāṃ caturthyāṃ tu snānaṃ tatra samācaret 59| akṣayaṃ modate kālaṃ murārikṛtaśāsanaḥ | ayonisaṃgame snātvā na paśyedyonimaṃdiram 60| pāṃḍaveśvarakaṃ gatvā snānaṃ tatra samācaret | akṣayaṃ modate kālamavadhyastu surāsuraiḥ 61| viṣṇulokaṃ tato gatvā krīḍābhogasamanvitaḥ | tatra bhuktvā mahābhogānmartye rājābhijāyate 62| kaṃbotikeśvaraṃ gacchetsnānaṃ tatra samācaret | uttarāyaṇe tu saṃprāpte yadicchettasya tadbhavet 63| caṃdrabhāgāṃ tato gacchetsnānaṃ tatra samācaret | snātamātro narastatra somaloke mahīyate 64| tato gaccheta rājeṃdra tīrthaṃ śakrasya viśrutam | pūjitaṃ devarājena devairapi namaskṛtam 65| tatra snātvā naro rājandānaṃ datvā ca kāṃcanam | athavā nīlavarṇābhaṃ vṛṣabhaṃ yaḥ samutsṛjet 66| vṛṣabhasya tu romāṇi tatprasūtikuleṣu ca | tāvadvarṣasahasrāṇi naro harapure vaset 67| tataḥ svargātparibhraṣṭo rājā bhavati vīryavān | aśvānāṃ śvetavarṇānāṃ sahasreṣu narādhipa 68| svāmī bhavati martyeṣu tasya tīrtha prabhāvataḥ | tato gaccheta rājeṃdra brahmāvarttamanuttamam 69| tatra snātvā naro rājaṃstarpayetpitṛdevatāḥ | upoṣya rajanīmekāṃ piṃḍaṃ datvā yathāvidhi 70| kanyāgate yathā'ditye akṣayaṃ saṃcitaṃ bhavet | tato gaccheta rājeṃdra kapilātīrthamuttamam 71| tatra snātvā naro rājankapilāṃ yaḥ prayacchati | saṃpūrṇāṃ pṛthivīṃ datvā yatphalaṃ tadavāpnuyāt 72| narmadeśvaraṃ paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati | tatra snātvā naro rājannaśvamedhaphalaṃ labhet 73| tatra sarvagato rājā pṛthivyāmabhijāyate | sarvalakṣaṇasaṃpūrṇaḥ sarvavyādhivivarjitaḥ 74| nārmadīyottarekūle tīrthaṃ paramaśobhanam | ādityāyatanaṃ ramyamīśvareṇa tu bhāvitam 75| tatra snātvā tu rājeṃdra dānaṃ datvā ca śaktitaḥ | tasya tīrthaprabhāveṇa dattaṃ bhavati cākṣayam 76| daridrā vyādhitā ye tu ye ca duṣkṛtakarmaṇaḥ | mucyaṃte sarvapāpebhyaḥ sūryalokaṃ prayāṃti ca 77| māghamāse tu saṃprāpte śuklapakṣasya saptamīm | vasedāyatane yastu nirātmā yo jiteṃdriyaḥ 78| na jāyate vyādhitaśca kāleṃdho badhirastathā | subhago rūpasaṃpannaḥ strīṇāṃ bhavati vallabhaḥ 79| idaṃ tīrthaṃ mahāpuṇyaṃ mārkaṃḍeyena bhāṣitam | ye prayāṃti na rājeṃdra vaṃcitāste na saṃśayaḥ 80| māseśvaraṃ tato gacchetsnānaṃ tatra samācaret | snātamātro narastatra svargalokamavāpnuyāt 81| modate sarvalokastho yāvadiṃdrāścaturdaśa | tataḥ samīpataḥ sthitvā nāgeśvaraṃ tapovanam 82| tatra snātvā tu rājeṃdra śucirbhūtvā samāhitaḥ | bahubhirnāgakanyābhiḥ krīḍate kālamakṣayam 83| kuberabhavanaṃ gacchetkubero yatra saṃsthitaḥ | kāleśvaraṃ paraṃ tīrthaṃ kubero yatra toṣitaḥ 84| yatra snātvā tu rājeṃdra sarvasaṃpadamāpnuyāt | tataḥ paścimato gacchenmarutālayamuttamam 85| tatra snātvā tu rājeṃdra śucirbhūtvā samāhitaḥ | kāṃcanaṃ tu tato dadyādannaśaktyā tu buddhimān 86| puṣpakeṇa vimānena vāyulokaṃ sa gacchati | mama tīrthaṃ tato gacchenmāghamāse yudhiṣṭhira 87| kṛṣṇapakṣe caturdaśyāṃ snānaṃ tatra samācaret | naktaṃ bhojyaṃ tataḥ kuryānna gacchedyonisaṃkaṭam 88| ahalyātīrthaṃ tato gacchetsnānaṃ tatra samācaret | snātamātro narastatra apsarobhiḥ pramodate 89| pārameśvare tapastaptvā ahalyā muktimāgamat | caitramāse tu saṃprāpte śuklapakṣe trayodaśī 90| kāmadevadine tasminnahalyāṃ tu prapūjayet | yatra tatra samutpanno narastatra priyo bhavet 91| strīvallabho bhavecchrīmānkāmadeva ivāparaḥ | ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam 92| snātamātro narastatra gosahasra phalaṃ labhet | somatīrthaṃ tato gacchetsnānamātraṃ samācaret 93| snātamātro narastatra sarvapāpaiḥ pramucyate | somagrahe tu rājeṃdra pāpakṣayakaraṃ bhavet 94| trailokyaviśrutaṃ rājansomatīrthaṃ mahāphalam | yastu cāṃdrāyaṇaṃ kuryāttasmiṃstīrthe narādhipa 95| sarvapāpaviśuddhātmā somalokaṃ sa gacchati | agnipraveśe tu jalepyathavāpi hyanāśane 96| somatīrthe mṛto yastu nāsau martyebhijāyate | staṃbhatīrthaṃ tato gacchetsnānaṃ tatra samācaret 97| snātamātro narastatra somaloke mahīyate | tato gaccheta rājeṃdra viṣṇutīrthamanuttamam 98| yodhanīpuravikhyātaṃ viṣṇutīrthamanuttamam | asurā yodhitāstatra vāsudevena koṭiśaḥ 99| tatra tīrthaṃ samutpannaṃ viṣṇuḥ prīto bhavediha | ahorātropavāsena brahmahatyāṃ vyapohati 100| tato gacchettu rājeṃdra tāpaseśvaramuttamam | amohakamiti khyātaṃ pitṝnyastatra tarpayet 101| paurṇamāsyāmamāvāsyāṃ śrāddhaṃ kuryādyathāvidhi | tatra snātvā naro rājanpitṛpiṃḍaṃ tu dāpayet 102| gajarūpāḥ śilāstatra toyamadhye pratiṣṭhitāḥ | tasmiṃstu dāpayetpiṃḍaṃ vaiśākhe tu viśeṣataḥ 103| tṛpyaṃti pitarastāvadyāvattiṣṭhati medinī | tato gaccheta rājeṃdra siddheśvaramanuttamam 104| tatra gatvā tu rājeṃdra gaṇapatyaṃtikaṃ vrajet | tato gaccheta rājeṃdra liṃgo yatra janārdanaḥ 105| tatra snātvā tu rājeṃdra viṣṇuloke mahīyate | narmadādakṣiṇekūle tīrthaṃ paramaśobhanam 106| kāmadevaḥ svayaṃ tatra tapastapyatyasau mahān | divyaṃ varṣasahasraṃ tu śaṃkaraṃ paryupāsate 107| samādhiparvadagdhastu śaṃkareṇa mahātmanā | śvetaparvopamaścaiva hutāśaḥ śuklaparvaṇi 108| ete dagdhāstu te sarve kusumeśvarasaṃsthitāḥ | divyavarṣasahasreṇa tuṣṭasteṣāṃ maheśvaraḥ 109| umayā sahito rudrasteṣāṃ tuṣṭo varapradaḥ | vimokṣayitvā tānsarvānnarmmadātaṭamāsthitān 110| tasya tīrthaprabhāveṇa punardevatvamāgataḥ | tvatprasādānmahādeva tīrthaṃ ca bhavatūttamam 111| ardhayojanavistīrṇaṃ tīrthaṃ dikṣu samaṃtataḥ | tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ 112| kusumāyudharūpeṇa rudraloke mahīyate | vaiśvānare yamenaiva kāmadevena vāyave 113| tapastaptvā tu rājeṃdra tatraiva ca purāgataiḥ | aṃdhonasya samīpe tu nātidūre tu tasya vai 114| snānaṃ dānaṃ ca tatraiva bhojanaṃ piṃḍapātanam | agniveśe jale vāpi athavāpi anāśane 115| anivartikā gatistasya mṛtasyāpyarddhayojane | traiyaṃbakeṇa toyena snāpayennarapuṃgavaḥ 116| aṃdhonamūle datvā tu piṃḍaṃ caiva yathāvidhi | pitarastasya tṛpyaṃti yāvaccaṃdra divākarau 117| uttarāyaṇe tu saṃprāpte tatra snānaṃ karoti yaḥ | puruṣo vāpi strī vāpi vasedāyatane śuciḥ 118| siddheśvarasya devasya prabhāte pūjanānnaraḥ | sa tāṃ gatimavāpnoti na tāṃ sarvairmahāmakhaiḥ 119| yadā ca tīrthakālena rūpavānsubhago bhavet | martye bhavati rājāsāvāsamudrāṃtagocare 120| kṣetrapālaṃ na paśyecca daṃḍapālaṃ mahābalam | vṛthā tasya bhavedyātrā adṛṣṭvā karṇakuṃḍalam 121| etattīrthaphalaṃ jñātvā sarvedevāḥ samāgatāḥ | muṃcaṃti puṣpavṛṣṭiṃ tu stuvaṃti kusumeśvaram 122| iti śrīpādmemahāpurāṇe svargakhaṃḍe aṣṭādaśo'dhyāyaḥ 18|

English translation

Nārada said :

1-7. Since then Brahmā and others, as well as the sages rich in penance, being free from lust and anger, resort to Narmadā , O king. Seeing the trident of the lord fallen at that place on the earth, the magnanimous Śiva narrated its importance. It came to be known as the great, most meritorious holy place Śūlabheda . He, who, having bathed there, would worship the god (Śiva), would obtain the fruit (of the gift) of a thousand cows. O king, he, who would pass three nights there, and would worship Mahādeva , would not be reborn. Then a man should go to Maheśvara , (then) to the excellent Narmadeśvara . (Then he should visit) the very meritorious Ādityeśvara. Then on worshipping Mallikeśvara with ghee and honey, be obtains the fruit of his existence. Then he should see (i.e. visit) Varuṇeśvara, the excellent Nirajeśvara. He gets the fruit of (visiting) all the holy places by seeing (i.e. visiting) these five. O lord of kings, he should go to the place where the battle was fought.

8-11. Koṭitīrtha is well-known where the demons were fought (with), and where these demons, proud of their strength, were destroyed. Seizing their heads he killed them who had gathered there. They installed (the representation of) Maheśvara with the trident in his hand. The point was placed there, therefore (the place) is known as Koṭitīrtha. By seeing that holy place, a man would physically go to heaven. At that time, due to meanness, Indra restrained (a man) by means of the wedge of his bolt. Since then, people’s going to heaven has been checked.

12-13. O Pāṇḍava , after having offered a coconut with ghee, at the end (of this rite), by all means he should, holding a lamp on his head, go round the (representation of the) god. He gets all his desires satisfied. When he dies, he obtains Rudrahood, and is not born again in this world. Having gone to heaven, then having ruled as a king, he goes to Indra’s paradise.

14-18. Similarly, having waited upon Mahādeva, a man who just bathes there gets the fruit of all sacrifices. Then, O lord of kings, a man should go to the very beautiful holy place—the excellent Agastyeśvara —that removes the sins of men. O king, a man, having bathed there, is absolved (of the sin) of killing a brāhmaṇa . A man with his senses controlled remaining in profound meditation, should bathe the representation of the god with ghee (on) the fourteenth day of the dark half of Kārtika . He, with twenty-one members (i.e. descendants) of his family, would never be deprived of lordly position. He should present cows, shoes, an umbrella, and a blanket, and also food to all brāhmaṇas . It would have a crorefold merit.

19-21. Then O lord of kings, a man should go to the excellent Ravistava. Having bathed (i.e. if a man bathes) there, he would get a throne (i.e. would be a king). On the right bank of Narmadā, the place holy to Indra (and called Śakratīrtha ) is well-known. Having fasted there for a night, he should bathe. Having bathed there he should properly worship Janārdana (i.e. Viṣṇu ). He gets the fruit of (having given away) a thousand cows. He goes to Viṣṇu’s world.

22-23. Thence he should go to Ṛṣitīrtha , which removes all the sins of men. A man, by just bathing there, is honoured in Śiva’s world. There only is the very beautiful holy place of (i.e. named after) Nārada . By just bathing there, a man would obtain the fruit of (giving away) a thousand cows.

24-25. Then he should go to Devatīrtha , formerly fashioned by Brahmā. O king, having bathed there, a man is honoured in Brahmā’s world. Then he should go to Amarakaṇṭaka , formerly established by gods. Having just bathed there, a man would obtain the fruit of having given away a thousand cows.

26-27. Then he should go to Vāmaneśvara. Seeing Vāmanaka there, he is absolved of the sin of killing a brāhmaṇa. Thence a man should go to Ṛṣitīrtha, and certainly to Īśāneśa. Then having gone to (i.e. if he visits) Vaṭeśvara , he obtains the fruit of his existence.

28-29. Thence a man should go to Bhīmeśvara , which destroys all diseases. A man, O king, by just bathing there is free from all misery. Then, O lord of kings, he should go to the excellent (holy place called) Varaṇeśvara. Having bathed there, a man is free from all misery, O king.

30-31. Then he should go to Somatīrtha and should see Candra . O king, then, being full of great devotion, having bathed there, he, obtaining a celestial body just at that moment, enjoys like Śiva for a long time. He is honoured for sixty thousand years in Śiva’s heaven.

32-36. Then O lord of kings, he should go to the excellent (holy place of) Piṅgaleśvara . By fasting for a day and night (there) he would obtain the fruit of (having fasted for) three nights. O lord of kings, he who gives a tawny cow (to a brāhmaṇa) at that holy place, is honoured in Rudra ’s world for as many thousand years as there are hairs on his body and on the bodies of the members born in his family. O king, he who casts his life there, enjoys eternally as long as the moon and the sun will remain in the sky. Those men who, having resorted to the bank of Narmadā, die (there), go to heaven as the men of good deeds go.

37-41. Then on the day of Gaṅgāvataraṇa , he should go to Surabhikeśvara and (the holy place called) Nāraka and Koṭikeśvara. He is blessed; no doubt about it. Thence going to Nanditīrtha, he should bathe there. Lord of Nandi (i.e. Śiva) is pleased, and the man is honoured in Soma ’s heaven. Then he should go to Dīpeśvara , and the penance-grove (called) Vyāsatīrtha . Formerly the great river turned back from there, being afraid of Vyāsa . Then, when he uttered the sound ‘hum’, she went (i.e. flowed) towards the south. O king, he who circumambulates at the holy place, has Vyāsa pleased with him, and he gets the desired fruit. He who puts a thread round (the representation of) the god along with the altar, sports for eternal time; and he is as Rudra is (i.e. becomes Rudra-like).

42-47. Thence, O lord of kings, he should go to the excellent sacred place (called) Eraṇḍī. Having bathed (there) at the confluence, he is absolved of all sins. Eraṇḍī is well-known in the three worlds (as) destroyer of sins. Or (on) the eighth of the bright fortnight in the month of Āśvina , a man having bathed, and being pure and intent upon fasting, should feed one brāhmaṇa, (thereby) a crore (of brāhmaṇas) are fed. Having bathed at the confluence at Eraṇḍī, and delighted in devotion, a man, having placed a pearl-oyster on his head, and having plunged into the water mixed with that of Narmadā, gets absolved of all sins. O king, he who would circumambulate at that holy place, goes round the earth consisting of seven islands.

48-51. Then having bathed at Suvarṇatilaka and having given gold (to a brāhmaṇa) he is honoured in Rudra’s world with a golden mansion. Then fallen from heaven after (some) time, he becomes a powerful king. Thence, O lord, he should go to the confluence of the river Ikṣu . It is well-known in the three worlds. Śiva is present there. O king, having bathed a man would attain the status of the head of the attendants of Śiva. Thence he should go to Skandatīrtha which destroys all sins. Sin committed from birth goes away merely by bathing there.

52-57a. Thence he should go to (the holy place called) Āṅgirasa , and should bathe there. He gets the fruit of (having given away) a thousand cows. He is honoured in Rudra’s heaven. From there he should go to Lāṅgalatīrtha which destroys all sins. Having gone there, O lord of kings, he should bathe there. There is no doubt that (thereby) he becomes free from sins committed during seven existences. Hence he should go to Vaṭeśvara, the best of all holy places. O king, having bathed there, he would obtain the fruit of (having given away) a thousand cows. From there, he should go to the great (holy place called) Saṅgameśvara which removes all sins. Having bathed there one gets a kingdom. There is no doubt about it. All that (merit) of the man who, after reaching Bhadratīrtha , gives gifts, would become a crorefold in effect by the power of that sacred place.

57b-58a. If a woman bathes there, she would become like Gaurī , and undoubtedly goes to Indra.

58b-62. Then he should go to Aṅgāreśvara , and should bathe there. A man, merely by bathing there, is honoured in Rudra’s world. On the Aṅgārakī caturthī (i.e. caturthī falling on a Tuesday) he should bathe there. Being instructed by Viṣṇu, he rejoices eternally. Having bathed at Ayonisaṅgama, he should see the Yonimandira. Having gone to Pāṇḍaveśvara, he should bathe there. He cannot be killed by gods or demons, and rejoices eternally. Then going to Viṣṇu’s heaven, he is full of sport and enjoyments. Having enjoyed great pleasures there, he is born as a king in the mortal world.

63. He should go to Kambotikeśvara and should bathe there. When the summer solstice arrives, whatever he would desire would take place.

64. Thence he should go to Candrabhāgā and bathe there. A man by just bathing there is honoured in Soma’s world.

65-69a. Then, O king of kings, he should go to the holy place of Śakra (i.e. Indra), which is well-known, and is honoured by the king of gods. He should give gold as a gift. Or he who would give a bull of a dark colour, would live in Hara ’s city for as many thousand years as there are hairs on the body of the bull, and on the bodies of those that are born in his family. Then having fallen from heaven, he becomes a powerful king; and by the power of that holy place, he becomes, among thousands of mortals, the master of horses of white colour.

69b-74. Thence, O lord of kings, he should go to the excellent Brahmāvarta . Having bathed there, he should offer oblations to his divine manes by giving a piṇḍa according to the proper rites after having fasted for a night. When the Sun has entered Virgo, (this merit) would be stored eternally. Thence, O lord of kings, he should go to the excellent holy place (called) Kapilātīrtha . O king, he, who, after bathing there, gives a tawny cow (to a brāhmaṇa), would get the fruit which would be got by giving the entire earth. Narmadeśvara is a great holy place. There has not been or will not be (other) holy place (like this). O king, having bathed there, a man would obtain the fruit of a horse sacrifice. (A man who has gone there) is born as a sovereign emperor on the earth; he is perfect with all (good) characteristics and free from all diseases.

75-80. On the northern bank of Narmadā, there is a very auspicious holy place (called) Ādityāyana; it is charming and is created by the lord. O lord of kings, the gift given there after having bathed there becomes inexhaustible by the power of that holy place. Those that are poor, or diseased, or those that have done wicked deeds, are absolved of all sins, and go to the Sun’s world. On the seventh of the bright fortnight when the month of Māgha has come, he who, without food, and with his senses controlled, would live in the temple, never suffers from diseases, does not become blind or deaf. Being fortunate and endowed with handsomeness, he becomes dear to women. This holy place is said to be very holy by Mārkaṇḍeya . O lord of kings, those who do not go there are undoubtedly deceived.

81-85a. Thence he should go to Māseśvara, and should bathe there. A man merely by bathing there, would obtain heaven. Remaining in all worlds, he rejoices as long as fourteen Indras rule. Then remaining in the penance-grove called Nāgeś - vara which is nearby, and having bathed there, O lord of kings, and being pure and concentrated, he sports for eternal time with many Nāga damsels. He should go to Kubera ’s abode, where Kubera stays. Kāleśvara is a great holy place where Kubera was pleased. Bathing there, O lord of kings, he would obtain all wealth.

85b-88. Then he should go westward to the best abode of the Maruts . Having bathed there, O lord of kings, being pure and concentrated, the intelligent one should then give gold and food according to his capacity. He goes to Vāyu ’s world by the Puṣpaka aeroplane. O Yudhiṣṭhira , then in the month of Māgha he should go to my Tīrtha . On the fourteenth day of a dark fortnight he should bathe there. Then he should eat at night, and should not go to Yonisaṃkaṭa.

89-97a. Thence he should go to Ahalyātīrtha . After merely having bathed there, he rejoices with celestial nymphs. Ahalyā got liberated after having practised penance at the Parameśvara (tīrtha). When the thirteenth day of the bright half of Caitra has arrived, he should, on that day holy to god Cupid, worship Ahalyā. A man who is born anywhere (i.e. in any family), would be dear there. He would be dear to women, would be prosperous and like another god of love. Having reached Ayodhyā , (he should visit) the well-known Śakratīrtha. Having merely bathed there, a man would obtain the fruit of (giving) a thousand cows. Thence he should go to Somatīrtha and just bathe there. A man who has just bathed there, is absolved of all sins. On (the day of) the planet Moon, O lord of kings, it would remove all sins. O king, Somatīrtha is well-known in the three worlds, and gives a great fruit. O lord of men, he, who observes there the Cāndrāyaṇa vow, goes, after his soul is purified from all sins, to Soma’s heaven. He who dies at Somatīrtha by entering fire or in the water or by living without food, is not born in the mortal world.

97b-100. Thence he should go to Stambhatīrtha , and should bathe there. By merely bathing there, a man is honoured in Soma’s heaven. Then, O lord of kings, he should go to the excellent Viṣṇutīrtha . The excellent Viṣṇutīrtha is (also) well-known as Yodhanīpura. Vāsudeva fought with crores of demons there. There a holy place came up; and here (i.e. at this holy place) Viṣṇu would be pleased. By observing a fast day and night, he keeps off (the sin of) the murder of a brāhmaṇa.

101-104a. Then O lord of kings, he should go to the excellent (holy place called) Tāpaseśvara . It is known as Amohaka . There he should offer oblations to his manes. On the full moon or the new moon day he should offer a śrāddha according to the proper rite. Having bathed there, O king, he should offer piṇḍa to his manes. In it stand stones of the form of elephants. At that (holy place) he should offer piṇḍa—especially in (the month of) Vaiśākha . His manes remain pleased as long as the earth will remain.

104b-121. Thence, O lord of kings, he should go to the excellent Siddheśvara . Going there he should go near Gaṇapati . From there, he should go to the place where there is Janārdana (as a) liṅga . O lord of kings, having bathed there, he is honoured in Viṣṇu’s world. On the right bank of Narmada there is a very auspicious holy place. This great Kāmadeva (i.e. god of love) practises penance there. For a thousand divine years he worships Śiva. During the time of his abstract meditation he was burnt by the magnanimous Śiva. On the day of the bright parvan (i.e. the full moon day) the fire resembled a white mountain. All those remaining with Cupid were burnt and they lived at Kusumeśvara. After a thousand divine years the great lord (Śiva) was pleased with them. Rudra, the giver of boons, was, along with Umā, pleased with them. All they remaining on the bank of Narmada were liberated. By the power of that holy place they again attained godhead. ‘O Mahādeva, let the holy place be excellent by your favour.’ The holy place has extended up to half a yojana all around. A man, given to fasting, having bathed at that holy place is honoured in the form of Cupid in Rudra’s heaven. Yama , Kāmadeva, Vaiśvānara and Vāyu who had formerly come there, practised penance there only. A man who within the limit of half a yojana from there, near Andhona, not far away from the holy place, bathes, gives gifts, (gives) food (to brāhmaṇas), offers piṇḍas , enters fire, or water, or fasts, is never reborn after dying there. The best man should bathe himself with the water sacred to Tryambaka . The manes of him, who duly offers piṇḍas at the root of Andhona, remain pleased as long as the moon and the sun remain (in the sky). A man or a woman who bathes there when the sun enters the northern solstice, would, (being) pure, live in the abode (of Siddheśvara) (and) the man, would obtain, by worshipping Siddheśvara in the morning, that status of the good which cannot be obtained by (performing) great sacrifices; and during the time of his stay at the holy place, an ugly man becomes handsome. In the mortal world, he becomes the king (of the earth) upto the oceans. (If) he would not see Kṣetrapāla , and the mighty Daṇḍapāla his pilgrimage would be fruitless, (also) by not seeing (i.e. visiting) Karṇakuṇḍala.

122. Having learnt this fruit of (the visit to) sacred places, all the gods that had assembled there, showered flowers and praised Kusumeśvara.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 25365, revision 401290 (2024-03-27T04:08:50Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365237.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.