Skip to main content

Uttara-khaṇḍa · Chapter 14

Chapter 14

Unit 426 of 693Uttara-khaṇḍa · Chapter 14Uttara-khaṇḍa · Chapter 141 source entries

Uttara-khaṇḍa · Chapter 14

Source

युधिष्ठिर उवाच- इति मायामहेशेन मोहिता गिरिजा यदा । अतः किं समभूद्ब्रह्मन्तन्ममाख्यातुमर्हसि १। नारद उवाच- क्षीराब्धौ तु शयानस्य चुक्षोभ हृदयं हरेः । अकस्मादेव राजेंद्र नयनेऽश्रुपरिप्लुते २। दृष्ट्वा तन्महदुत्पातलक्षणं भगवांस्ततः । उत्थाय शेषपर्यंकान्मां च वायुं विलोक्य च ३। किं कार्यमिति गोविंदस्तन्नागारिमथास्मरत् । स चाग्रे स्मृतिमात्रेण तस्थौ बद्धांजलिः प्रभो ४। विनतानंदनं दृष्ट्वा पुरतः प्राह केशवः । सुपर्ण तत्र गच्छ त्वं यत्र युद्धं प्रवर्तते ५। हतो जालंधरो वीरो हरो वा तेन मोहितः । दृष्ट्वा तं शीघ्रमागत्य कथयस्व ममाखिलम् ६। जालंधरेशयोर्युद्धं द्रष्टुं शक्तस्त्वमेव हि । कोऽन्यो महाहवे तस्मिन्ज्ञात्वा याति शरीरवान् ७। कदाचिद्दुर्गमं तत्र युद्धं शस्त्रास्त्रवृष्टिभिः । अथ त्वं बाणसंचारं गत्वापि हितविग्रहः ८। संदृष्ट्वा पार्वतीवृत्तिं शीघ्रमायातुमर्हसि । दैत्यमायानिरासार्थं विचिंत्य भगवांस्त्वरन् ९। गुटिकां सर्वसिद्धां च गरुडाय ददौ हरिः । अनया न भ्रमो वीर तथेत्युक्त्वा मुखेक्षिपत् १०। एवं संप्रेरितः पत्री हरिं कृत्वा प्रदक्षिणम् । निश्चक्राम खमाविश्य जगामाद्भुतवेगवान् ११। तत्र गत्वा रणं घोरं दैत्यसंघैः स दुःसहम् । दृष्टवानखिलेनासौ न किंचिज्ज्ञातवान्किल १२। तस्मादुत्पत्य वेगेन गतोऽसौ मानसोत्तरम् । शैलं तुंगतरं दुर्गमगम्यं मरुतामपि १३। विलोकयन्न ददृशे गौरीस्थानं पतंगराट् । तत्रागत्य भुजंगारिर्ध्वनिं संश्रुतवान्किल १४। गत्वा समीपे ददृशे मायापशुपतिं ततः । गरुडो गुटिकां क्षिप्य मुखेन भ्रममाप सः १५। ज्ञात्वा बुद्ध्वाथ दैत्योऽयमिति नायं वृषध्वजः । हा कष्टमिति चोक्त्वा च रुदन्नागत्य चार्णवम् १६। कथयामास वृत्तांतं पुरतः कैटभद्विषः । देव जालंधरेणायं हरो देवो विडंबितः १७। उमा प्रतारिता तेन पापेन छद्मरूपिणा । सुरस्त्वं यदि गोविंद समरं प्रतियाह्यतः १८। मायायुद्धं तु देवेश कुरु जालंधरं प्रति । तस्य राज्ञी मया दृष्टा पीठे जालंधरे शुभे १९। प्रासादभूम्यां क्रीडंती वाद्यगीतादिवर्त्तनैः । सा सुंदरतरा गौर्या रंभोर्वश्योः शतादपि २०। नेदानीं मानुषे लोके न पातालेषु तत्समा । भार्या तेन समा वेश्या नारीणां का कथा हरे २१। यस्तां स्पृशति देहेन सकृतार्थः पुमान्भवेत् । तव श्यालकपत्नी च हर त्वं तां रम प्रियाम् । शंकरस्योपकारं च कुरु चैवात्मनः सुखम् २२। नारद उवाच- श्रुत्वा तार्क्ष्यस्य वचनं तं निर्भर्त्स्य रमाप्रियः । सम्यग्व्यवस्य चोपायं विससर्ज द्रुतं द्विजम् २३। श्रियंपतार्य्य संछाद्य मंचके पीतवाससा । निर्गतोऽन्येन रूपेण योगि मायाबलेन च २४। वृंदारिकानुरागेण मोहितो मधुसूदनः । दृष्ट्वा हरिं तु गच्छंतं प्रतिछन्नं युधिष्ठिर २५। शेषोप्यन्यतमेनासौ रूपेणागत्य केशवम् । जगाद भक्त्या त्वं तिष्ठ ममानुज्ञातुमर्हसि २६। किं करोमि क्व गच्छामि ब्रूहि कार्यं जनार्दन । सदा तव मुखं दृष्ट्वा भोक्ष्यामीति भवेत्सुखम् २७। श्रीभगवानुवाच- जालंधरस्त्रियं रम्यां हरिष्ये हरकारणात् । पार्वत्याश्चोपकाराय संछाद्य स्वात्मनस्तनुम् २८। एहि यामो वयं बंधो कांतारं दुरतिक्रमम् । वृंदाकर्षणसिद्ध्यर्थमित्युक्त्वा तौ वनं गतौ २९। ततो विष्णुश्च शेषश्च जटावल्कलधारिणौ । आश्रमं चक्रतुः पुण्यं सर्वकामफलप्रदम् ३०। तयोः शिष्याः प्रशिष्याश्च बभूवुः कामरूपिणः । सिंहव्याघ्रवराहाश्च ऋक्षवानरमर्कटाः ३१। अथ तस्मिन्वने वृंदां मंत्रेणाकर्षयद्धरिः । तस्या हृदयसंतापं चकार मधुसूदनः ३२। एतस्मिन्नंतरे राज्ञी तापमुग्रमुपागता । चामरांश्चालयामास दिव्यस्त्रीकरचालितान् ३३। प्रियस्यागमनं तन्वीं चिंतयंती मुहुर्मुहुः । चंदनागुरुलिप्तांगी मूर्च्छां याति हि सत्वरम् ३४। तुर्ययामे विभावर्याश्चतुर्दश्यां नृपांगना । स्वप्नं ददर्श भयदं वैधव्यभयसूचकम् ३५। जालंधरशिरः शुष्कं मर्दितं पांडुभस्मना । गृध्रेण कृष्टनयनं छिन्नकर्णाग्रनासिकम् ३६। मुक्तकेशी करालास्या कृष्णवर्णारुणांबरा । चखाद काली रक्तास्या हस्ते विधृतखर्परा ३७। ईदृशं ददृशे स्वप्नं तथात्मानं विडंबितम् । दैत्यक्षयगुणोपेतं सा ददर्श नृपांगना ३८। ततः प्रबुद्धाऽसुरराजपत्नी गीतेन वाद्येन च मागधानाम् । गेयप्रबंधैः स्तवनैर्व चोभिर्वं शस्तवैः किंपुरुषप्रपाठितैः ३९। ततस्तान्सकलान्श्रांतान्धनं दत्वा प्रसादजम् । निवार्य विप्रानाहूय स्वप्नं दृष्टं न्यवेदयत् । तं स्वप्नं ब्राह्मणाः श्रुत्वा तामूचुः शास्त्रपारगाः ४०। द्विजा ऊचुः - देवि दुःस्वप्नमत्युग्रमचिंत्यं भयदायकम् । देहि दानं द्विजातिभ्यो ह्यचिंत्य भयनाशकम् ४१। धेनुर्वासांसि रत्नानि गजांश्चाभरणानि च । ब्राह्मणाः परिसंतुष्टाः सिषिचुस्तां नृपस्त्रियम् ४२। अभिषिक्तापि सा वृंदा ज्वरेण परितप्यते । विसृज्य विप्रप्रवरान्प्रासादमगमत्तदा ४३। तत्र स्थितापि स्वपुरं ददृशे दीप्तमंगला । ततः स्वकर्मणा राजन्नाकृष्टा हरिणा तु सा ४४। न शशाक गृहे स्थातुं ततो राज्ञी वनं ययौ । रथमश्वतरीयुक्तं स्मरदूतीसखीवहम् ४५। समारुह्य क्षणात्तन्वी प्राप्ता सौभाग्यकाननम् । नानावृक्षसमायुक्तं नानापक्षिगणान्वितम् ४६। पुष्पप्रस्रवणोपेतं स्वर्गनारीविभूषितम् । मंदानिलप्रवेशोऽस्ति यत्र नान्यस्य कस्यचित् ४७। वनं वृंदारिका दृष्ट्वा सस्मार पतिमात्मनः । कथं जालंधरं वीरं द्रक्ष्यामि प्राप्तमग्रतः ४८। सा तत्र न सुखं लेभे विवेशान्यतमं वनम् । सखीरथसमायुक्ता विष्णुमायाविमोहिता ४९। ततो विलोकयामास विपिनं तरुसंकुलम् । उरुपाषाणसंरुद्धं कुरंगाक्षी भयावहम् 6.14.५०। सिंहव्याघ्रभयाकीर्णंशृगालव्यालसेवितम् । द्रुमैः स्पृशच्छिखाकाशैर्गुहासु ध्वांतपूरितम् ५१। वनं विलोक्य सा भीमं चकिता चपलेक्षणा । स्मरदूतीं सखीं वृंदा जगाद रथवाहिनीम् । रथं प्रेषय मे शीघ्रं स्मरदूति गृहं प्रति ५२। स्मरदूतिरुवाच- नाहं जानामि दिग्भागं न यामि क्व रथं सखि । श्रांता अश्व्यः प्रवर्तंते मार्गश्चात्र न विद्यते ५३। प्रेरितो दैवकेनापि स्यंदनो यातु यत्र च । अत्र कोपि च मांसादो भक्षयिष्यति नान्यथा ५४। इत्युक्ता सा द्रुततरा रथं शीघ्रमवाहयत् । स रथो वेगतः प्राप्तो यत्र सिद्धा मुदान्विताः ५५। तत्र सिद्धाश्च दृश्यंते काननं च भयावहम् । न यत्र प्रबलो वायुर्न शब्दः पक्षिणामपि ५६। न च तेजः प्रकाशोऽस्ति न जलं प्रदिशो दिशः । तत्र प्राप्तरथस्यापि लक्षणेऽभूद्विपर्ययः ५७। अश्वतर्यो न हेषंते न च शब्दश्च नेमिजः । न चलंति पताकास्ता घंटिका न क्वणंति च ५८। न स्वनंति महाघंटा ध्वजस्तंभे निवेशिताः । विलोक्यैवंविधं प्राह तत्र वृंदा सखीं प्रति ५९। स्मरदूति क्व यास्यामो व्याघ्रसिंहभयं वनम् । न गृहे न सुखं राज्ये मम जातं वने सखि ६०। स्मरदूतिरुवाच- शृणुष्व देवि पश्य त्वं पुरः शैलोऽतिदारुणः । दृष्ट्वाग्रतो न गच्छंति तुरंग्यो भयविह्वलाः ६१। तस्यास्तद्वचनं श्रुत्वा संत्रस्ता सा नृपांगना । दृष्ट्वा हारं स्वकंठस्थं स्यंदनाच्छीघ्रमुत्थिता ६२। एतस्मिन्नंतरे प्राप्तो राक्षसो भीषणाकृतिः । त्रिपादः पंचहस्तश्च सप्तनेत्रोऽतिदारुणः ६३। पिंगलो व्याघ्रकर्णश्च सिंहस्कंधस्तथाननः । विहंगेशसमाः केशा लंबंते रुधिरारुणाः ६४। तं दृष्ट्वा पद्मकोशांगी सहसा सभयाभवत् । नेत्रे कराभ्यामाच्छाद्य चकंपे कदलीव सा ६५। प्रतिहारी प्रतोदं तु त्यक्त्वा राज्ञीमभाषत । भीतां मां त्राहि देवि त्वमयं धावति भक्षितुम् ६६। एतस्मिन्नंतरे प्राप्तो राक्षसो रथसंनिधौ । रथमुत्क्षिप्य हस्तेन भ्रामयंश्चाश्विनीयुतम् ६७। सा राज्ञी पतिता भूमौ मृगी व्याघ्रभयादिव । स्मरदूती तरोर्मूले छिन्नाशोकलता यथा ६८। ततस्ताश्चाश्विनीः सर्वाः भक्षयामास राक्षसः । तेन राज्ञी धृता हस्ते सिंहेनैणवधूरिव ६९। तामुवाच ततो रक्षः प्राणैस्ते कारणं यदि । तव भर्ता हतः संख्ये हरेणेति श्रुतं मया ७०। मामासाद्याद्य भर्तारं चिरंजीवाकुतोभया । पिबाथ वारुणीं स्वाद्वीं महामांससमन्विताम् । शृण्वंतीति वचो राज्ञी गतसत्वा इवाभवत् ७१। इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे जालंधरोपाख्याने श्रीमन्माधवमायाकथनंनाम चतुर्दशोऽध्यायः १४।

yudhiṣṭhira uvāca- iti māyāmaheśena mohitā girijā yadā | ataḥ kiṃ samabhūdbrahmantanmamākhyātumarhasi 1| nārada uvāca- kṣīrābdhau tu śayānasya cukṣobha hṛdayaṃ hareḥ | akasmādeva rājeṃdra nayane'śrupariplute 2| dṛṣṭvā tanmahadutpātalakṣaṇaṃ bhagavāṃstataḥ | utthāya śeṣaparyaṃkānmāṃ ca vāyuṃ vilokya ca 3| kiṃ kāryamiti goviṃdastannāgārimathāsmarat | sa cāgre smṛtimātreṇa tasthau baddhāṃjaliḥ prabho 4| vinatānaṃdanaṃ dṛṣṭvā purataḥ prāha keśavaḥ | suparṇa tatra gaccha tvaṃ yatra yuddhaṃ pravartate 5| hato jālaṃdharo vīro haro vā tena mohitaḥ | dṛṣṭvā taṃ śīghramāgatya kathayasva mamākhilam 6| jālaṃdhareśayoryuddhaṃ draṣṭuṃ śaktastvameva hi | ko'nyo mahāhave tasminjñātvā yāti śarīravān 7| kadāciddurgamaṃ tatra yuddhaṃ śastrāstravṛṣṭibhiḥ | atha tvaṃ bāṇasaṃcāraṃ gatvāpi hitavigrahaḥ 8| saṃdṛṣṭvā pārvatīvṛttiṃ śīghramāyātumarhasi | daityamāyānirāsārthaṃ viciṃtya bhagavāṃstvaran 9| guṭikāṃ sarvasiddhāṃ ca garuḍāya dadau hariḥ | anayā na bhramo vīra tathetyuktvā mukhekṣipat 10| evaṃ saṃpreritaḥ patrī hariṃ kṛtvā pradakṣiṇam | niścakrāma khamāviśya jagāmādbhutavegavān 11| tatra gatvā raṇaṃ ghoraṃ daityasaṃghaiḥ sa duḥsaham | dṛṣṭavānakhilenāsau na kiṃcijjñātavānkila 12| tasmādutpatya vegena gato'sau mānasottaram | śailaṃ tuṃgataraṃ durgamagamyaṃ marutāmapi 13| vilokayanna dadṛśe gaurīsthānaṃ pataṃgarāṭ | tatrāgatya bhujaṃgārirdhvaniṃ saṃśrutavānkila 14| gatvā samīpe dadṛśe māyāpaśupatiṃ tataḥ | garuḍo guṭikāṃ kṣipya mukhena bhramamāpa saḥ 15| jñātvā buddhvātha daityo'yamiti nāyaṃ vṛṣadhvajaḥ | hā kaṣṭamiti coktvā ca rudannāgatya cārṇavam 16| kathayāmāsa vṛttāṃtaṃ purataḥ kaiṭabhadviṣaḥ | deva jālaṃdhareṇāyaṃ haro devo viḍaṃbitaḥ 17| umā pratāritā tena pāpena chadmarūpiṇā | surastvaṃ yadi goviṃda samaraṃ pratiyāhyataḥ 18| māyāyuddhaṃ tu deveśa kuru jālaṃdharaṃ prati | tasya rājñī mayā dṛṣṭā pīṭhe jālaṃdhare śubhe 19| prāsādabhūmyāṃ krīḍaṃtī vādyagītādivarttanaiḥ | sā suṃdaratarā gauryā raṃbhorvaśyoḥ śatādapi 20| nedānīṃ mānuṣe loke na pātāleṣu tatsamā | bhāryā tena samā veśyā nārīṇāṃ kā kathā hare 21| yastāṃ spṛśati dehena sakṛtārthaḥ pumānbhavet | tava śyālakapatnī ca hara tvaṃ tāṃ rama priyām | śaṃkarasyopakāraṃ ca kuru caivātmanaḥ sukham 22| nārada uvāca- śrutvā tārkṣyasya vacanaṃ taṃ nirbhartsya ramāpriyaḥ | samyagvyavasya copāyaṃ visasarja drutaṃ dvijam 23| śriyaṃpatāryya saṃchādya maṃcake pītavāsasā | nirgato'nyena rūpeṇa yogi māyābalena ca 24| vṛṃdārikānurāgeṇa mohito madhusūdanaḥ | dṛṣṭvā hariṃ tu gacchaṃtaṃ pratichannaṃ yudhiṣṭhira 25| śeṣopyanyatamenāsau rūpeṇāgatya keśavam | jagāda bhaktyā tvaṃ tiṣṭha mamānujñātumarhasi 26| kiṃ karomi kva gacchāmi brūhi kāryaṃ janārdana | sadā tava mukhaṃ dṛṣṭvā bhokṣyāmīti bhavetsukham 27| śrībhagavānuvāca- jālaṃdharastriyaṃ ramyāṃ hariṣye harakāraṇāt | pārvatyāścopakārāya saṃchādya svātmanastanum 28| ehi yāmo vayaṃ baṃdho kāṃtāraṃ duratikramam | vṛṃdākarṣaṇasiddhyarthamityuktvā tau vanaṃ gatau 29| tato viṣṇuśca śeṣaśca jaṭāvalkaladhāriṇau | āśramaṃ cakratuḥ puṇyaṃ sarvakāmaphalapradam 30| tayoḥ śiṣyāḥ praśiṣyāśca babhūvuḥ kāmarūpiṇaḥ | siṃhavyāghravarāhāśca ṛkṣavānaramarkaṭāḥ 31| atha tasminvane vṛṃdāṃ maṃtreṇākarṣayaddhariḥ | tasyā hṛdayasaṃtāpaṃ cakāra madhusūdanaḥ 32| etasminnaṃtare rājñī tāpamugramupāgatā | cāmarāṃścālayāmāsa divyastrīkaracālitān 33| priyasyāgamanaṃ tanvīṃ ciṃtayaṃtī muhurmuhuḥ | caṃdanāguruliptāṃgī mūrcchāṃ yāti hi satvaram 34| turyayāme vibhāvaryāścaturdaśyāṃ nṛpāṃganā | svapnaṃ dadarśa bhayadaṃ vaidhavyabhayasūcakam 35| jālaṃdharaśiraḥ śuṣkaṃ marditaṃ pāṃḍubhasmanā | gṛdhreṇa kṛṣṭanayanaṃ chinnakarṇāgranāsikam 36| muktakeśī karālāsyā kṛṣṇavarṇāruṇāṃbarā | cakhāda kālī raktāsyā haste vidhṛtakharparā 37| īdṛśaṃ dadṛśe svapnaṃ tathātmānaṃ viḍaṃbitam | daityakṣayaguṇopetaṃ sā dadarśa nṛpāṃganā 38| tataḥ prabuddhā'surarājapatnī gītena vādyena ca māgadhānām | geyaprabaṃdhaiḥ stavanairva cobhirvaṃ śastavaiḥ kiṃpuruṣaprapāṭhitaiḥ 39| tatastānsakalānśrāṃtāndhanaṃ datvā prasādajam | nivārya viprānāhūya svapnaṃ dṛṣṭaṃ nyavedayat | taṃ svapnaṃ brāhmaṇāḥ śrutvā tāmūcuḥ śāstrapāragāḥ 40| dvijā ūcuḥ - devi duḥsvapnamatyugramaciṃtyaṃ bhayadāyakam | dehi dānaṃ dvijātibhyo hyaciṃtya bhayanāśakam 41| dhenurvāsāṃsi ratnāni gajāṃścābharaṇāni ca | brāhmaṇāḥ parisaṃtuṣṭāḥ siṣicustāṃ nṛpastriyam 42| abhiṣiktāpi sā vṛṃdā jvareṇa paritapyate | visṛjya viprapravarānprāsādamagamattadā 43| tatra sthitāpi svapuraṃ dadṛśe dīptamaṃgalā | tataḥ svakarmaṇā rājannākṛṣṭā hariṇā tu sā 44| na śaśāka gṛhe sthātuṃ tato rājñī vanaṃ yayau | rathamaśvatarīyuktaṃ smaradūtīsakhīvaham 45| samāruhya kṣaṇāttanvī prāptā saubhāgyakānanam | nānāvṛkṣasamāyuktaṃ nānāpakṣigaṇānvitam 46| puṣpaprasravaṇopetaṃ svarganārīvibhūṣitam | maṃdānilapraveśo'sti yatra nānyasya kasyacit 47| vanaṃ vṛṃdārikā dṛṣṭvā sasmāra patimātmanaḥ | kathaṃ jālaṃdharaṃ vīraṃ drakṣyāmi prāptamagrataḥ 48| sā tatra na sukhaṃ lebhe viveśānyatamaṃ vanam | sakhīrathasamāyuktā viṣṇumāyāvimohitā 49| tato vilokayāmāsa vipinaṃ tarusaṃkulam | urupāṣāṇasaṃruddhaṃ kuraṃgākṣī bhayāvaham 6.14.50| siṃhavyāghrabhayākīrṇaṃśṛgālavyālasevitam | drumaiḥ spṛśacchikhākāśairguhāsu dhvāṃtapūritam 51| vanaṃ vilokya sā bhīmaṃ cakitā capalekṣaṇā | smaradūtīṃ sakhīṃ vṛṃdā jagāda rathavāhinīm | rathaṃ preṣaya me śīghraṃ smaradūti gṛhaṃ prati 52| smaradūtiruvāca- nāhaṃ jānāmi digbhāgaṃ na yāmi kva rathaṃ sakhi | śrāṃtā aśvyaḥ pravartaṃte mārgaścātra na vidyate 53| prerito daivakenāpi syaṃdano yātu yatra ca | atra kopi ca māṃsādo bhakṣayiṣyati nānyathā 54| ityuktā sā drutatarā rathaṃ śīghramavāhayat | sa ratho vegataḥ prāpto yatra siddhā mudānvitāḥ 55| tatra siddhāśca dṛśyaṃte kānanaṃ ca bhayāvaham | na yatra prabalo vāyurna śabdaḥ pakṣiṇāmapi 56| na ca tejaḥ prakāśo'sti na jalaṃ pradiśo diśaḥ | tatra prāptarathasyāpi lakṣaṇe'bhūdviparyayaḥ 57| aśvataryo na heṣaṃte na ca śabdaśca nemijaḥ | na calaṃti patākāstā ghaṃṭikā na kvaṇaṃti ca 58| na svanaṃti mahāghaṃṭā dhvajastaṃbhe niveśitāḥ | vilokyaivaṃvidhaṃ prāha tatra vṛṃdā sakhīṃ prati 59| smaradūti kva yāsyāmo vyāghrasiṃhabhayaṃ vanam | na gṛhe na sukhaṃ rājye mama jātaṃ vane sakhi 60| smaradūtiruvāca- śṛṇuṣva devi paśya tvaṃ puraḥ śailo'tidāruṇaḥ | dṛṣṭvāgrato na gacchaṃti turaṃgyo bhayavihvalāḥ 61| tasyāstadvacanaṃ śrutvā saṃtrastā sā nṛpāṃganā | dṛṣṭvā hāraṃ svakaṃṭhasthaṃ syaṃdanācchīghramutthitā 62| etasminnaṃtare prāpto rākṣaso bhīṣaṇākṛtiḥ | tripādaḥ paṃcahastaśca saptanetro'tidāruṇaḥ 63| piṃgalo vyāghrakarṇaśca siṃhaskaṃdhastathānanaḥ | vihaṃgeśasamāḥ keśā laṃbaṃte rudhirāruṇāḥ 64| taṃ dṛṣṭvā padmakośāṃgī sahasā sabhayābhavat | netre karābhyāmācchādya cakaṃpe kadalīva sā 65| pratihārī pratodaṃ tu tyaktvā rājñīmabhāṣata | bhītāṃ māṃ trāhi devi tvamayaṃ dhāvati bhakṣitum 66| etasminnaṃtare prāpto rākṣaso rathasaṃnidhau | rathamutkṣipya hastena bhrāmayaṃścāśvinīyutam 67| sā rājñī patitā bhūmau mṛgī vyāghrabhayādiva | smaradūtī tarormūle chinnāśokalatā yathā 68| tatastāścāśvinīḥ sarvāḥ bhakṣayāmāsa rākṣasaḥ | tena rājñī dhṛtā haste siṃhenaiṇavadhūriva 69| tāmuvāca tato rakṣaḥ prāṇaiste kāraṇaṃ yadi | tava bhartā hataḥ saṃkhye hareṇeti śrutaṃ mayā 70| māmāsādyādya bhartāraṃ ciraṃjīvākutobhayā | pibātha vāruṇīṃ svādvīṃ mahāmāṃsasamanvitām | śṛṇvaṃtīti vaco rājñī gatasatvā ivābhavat 71| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe jālaṃdharopākhyāne śrīmanmādhavamāyākathanaṃnāma caturdaśo'dhyāyaḥ 14|

English translation

Yudhiṣṭhira said :

1. O brāhmaṇa , please tell me what happened after the illusive Śiva had (thus) bewildered Pārvatī .

Nārada said :

2-5a. The heart of Viṣṇu lying in the ocean was disturbed. All of a sudden, O best king, his eyes were full of tears. Seeing that sign of a great portent, the lord then getting up from the bed of Śeṣa , looked at me and Vāyu , and thinking, ‘What should be done (now)?’ remembered ( Garuḍa ) the enemy of the serpents. He too, merely by being remembered, stood with his palms joined before the lord. Seeing before him (Garuḍa) the son of Vinatā , Viṣṇu said:

5b-9a. “O Suparṇa , go there where the battle is going on. Seeing whether the hero Jālandhara is killed or Śiva is deluded by him, quickly come (back) and tell everything to me. You alone are capable of seeing the battle between Jālandhara and the lord. Who else after knowing (what is going on) in the great battle would come (back) alive? At times the battle there was hard to be understood due to the showers of weapons and missiles. Going there (as fast) as the movement of an arrow, and with your body covered, come back after having observed the condition of Pārvatī.”

9b-10. Lord Viṣṇu after having thought about removing the illusion caused by the demon, quickly gave a pill fully endowed with supernatural powers to Garuḍa. (He said to Garuḍa:) “O hero, due to this (pill) you will not be illusioned.” Saying, “All right”, he (i.e. Garuḍa) put it into his mouth.

11-17a. The bird (i.e. Garuḍa) thus urged by the lord went round Viṣṇu keeping him to his right, and he, of a wonderful speed, moved out, and having entered the sky, went (to the battlefield). Having gone there he saw unbearable terrible fight with the hosts of demons; but he did not know anything fully. Therefore, he flew speedily and went to (the region) Mānasot- tara , (a part of) the mountain, which was very high, inaccessible, and difficult to be reached even by gods. The lord of birds (though he tried) to see, could not see the place of Pārvatī. Having come there, (Garuḍa) the enemy of serpents heard a sound. After having gone near he saw the illusive lord of beings (i.e. Śiva). After having put into his mouth the pill, Garuḍa was not illusioned. He knew and understood that he was a demon and not Śiva. “Oh, (how) painful!” Saying so and weeping, he, having come (back) to the ocean, narrated the account to the enemy of Kaiṭabha (i.e. Viṣṇu):

17b-22. “O god, Jālandhara has imitated god Śiva. He, the sinful one, disguised (as Śiva) has deceived Pārvatī. Therefore, O Viṣṇu, if you are a god, (then now) go to the battlefield. O lord of gods, (please) fight deceitfully with Jālandhara. I have seen his queen on the auspicious seat at Jālandhara. She was sporting by playing upon musical instruments and songs on the ground of the palace. She is more beautiful than Pārvatī and a hundred (nymphs like) Rambhā and Urvaśī . Now neither in the human world nor in the nether world is there a wife like her. Therefore, O Viṣṇu, she is fit to be associated with. What then can be said about (other) ladies. A man, who would touch her with his body would be blessed. And she is the wife of your wife’s brother. Kidnap her who is dear to Lakṣmī . Do a good turn to Śiva and please yourself.”

Nārada said :

23-27. Having heard the words of Garuḍa (Viṣṇu) dear to Lakṣmī, properly designed a remedy, and quickly sent away the bird. Having deceived Lakṣmī, and having covered her with a yellow garment (as she lay) on the bed, he went out with (i.e. after having taken up) another form and through his divine magical power Viṣṇu was fascinated by the love for Vṛndārikā. Seeing Hari (i.e. Viṣṇu) going (after) having covered himself, O Yudhiṣṭhira , Śeṣa also came in another form to Viṣṇu, and devoutly said to him: “You (please) wait. Allow me (to go). O Viṣṇu, tell me what I should do, where I should go. (Tell me) the mission. It would be a pleasure (if) I shall always eat after seeing your face.”

The lord said :

28-32. I shall after covering my body, kidnap the charming wife of Jālandhara for Śiva and for helping Pārvatī. O brother, come on. We shall go to the impassable forest for accomplishing the seduction of Vṛndā .

After he said so, they both went to the forest. There Viṣṇu and Śeṣa who had matted hair and bark-garments, put up a hermitage which was auspicious and gave the fruits of all desires (i.e. gave the desired objects). They had disciples and disciples’ disciples, taking any form they liked of tigers, lions, boars, bears, monkeys and apes. Then in that forest, Viṣṇu attracted Vṛndā with a spell. He, the killer of Madhu , caused torment in her heart.

33-38. In the meantime the queen had a terrible torment. She caused the chowries to be waved by divine ladies. The slim lady, repeatedly thinking about the arrival of her lover, and with her body smeared with sandal, quickly fainted. The queen saw a dream in the fourth watch on the fourteenth (night of the month), which caused fear, and indicated the fear of widowhood. (She saw) the head of Jālandhara, which was dry, was smeared with white ash, the eyes of which were drawn out by a vulture, and the tips of the hair were loose. Kālī whose face was fierce, complexion was dark, garments were tawny, mouth was red, who had held a skull in her hand was eating him. She saw a dream like this and herself mortified. The queen saw the demon having the qualities (i.e. signs) of destruction.

39-40. Then the wife of the demon-king awoke due to songs and (the sound of) the musical instruments of the bards, so also by continuous singing, eulogies, words, praises of the race recited by kinnaras . Then having given all of them who were tired, wealth as a result of her favour, she warded them off (i.e. dismissed them), called brāhmaṇas and told them about the dream that she had seen. The brāhmaṇas, who had mastered sacred texts, said, after having heard the dream:

The brāhmaṇas said :

41-47. O queen, it is a bad dream; it is very fierce; it is inconceivable and causes fear. Give gifts which would destroy the inconceivable fear, to brāhmaṇas. (Give them) cows, garments, gems, elephants and ornaments.

The brāhmaṇas who were pleased (with the gifts) sprinkled (with holy water) the king’s wife. Though sprinkled (like that) Vṛnḍā was tormented with affliction. Dismissing the excellent brāhmaṇas, she then went to the palace. Even (after) remaining there, the lady saw her own city burning. Then being attracted by Viṣṇu due to her own acts, she could not, O king, remain in her house. So the queen went to a forest. The slim lady, having got into a chariot to which female mules were yoked and which was driven by her friend Smaradūtī , she quickly reached an auspicious forest which was having many trees and was full of various groups of birds, which was endowed with a stream of flowers, was adorned with divine ladies. There only gentle breezes could enter and nothing else.

48-52. Seeing that forest, Vṛndā remembered her husband. ‘Now shall I see the hero Jālandhara that has come in front of me?’ She did not get pleasure there. So she, with the chariot brought by her friend, and fascinated by Viṣṇu’s illusion, entered another forest. Then the fawn-eyed lady saw the forest which was crowded with trees, was blocked by large rocks, created fear, was full of the fear due to lions and tigers, was resorted to by wolves and serpents, in which the trees with their branches touching the sky filled the caves with darkness. Seeing the fearful forest, the lady of unsteady eyes was frightened. Vṛndā said to her friend Smaradūtī who was driving the chariot: “O Smaradūtī, quickly drive home my chariot.”

Smaradūtī said :

53-57a. O friend, I do not know the direction. Where should I take the chariot? The tired female mules are proceeding; and here there is no path. Let the chariot driven by destiny go anywhere. Here some flesh-eater will devour (us); (and this will) not be falsified.

Speaking like this, she who was very wonderful, quickly drove the chariot. The chariot reached (the place) where there were delighted siddhas . The siddhas were seen there, and the forest was fearful. The wind was not strong there, nor was the sound of birds (heard there). There was no lustre, no light. There was no water. There were not (seen) quarters and sub-quarters.

57b-60. Even in the characteristic of the chariot that reached there a change took place. The female mules did not neigh. There was no sound of the fellies of the wheels. The banners did not move. The bells did not tinkle. The great bells placed on the pillar of the flag did not make a sound. Seeing (things) like this, Vṛndā said to her friend: “O Smaradūtī, where shall we go? The forest is full of the fear from tigers and lions. O friend, I did not have happiness in my house, in my kingdom, and in the forest.”

Smaradūtī said :

61-66. O Queen, listen. In front (of us) see a very fearful mountain. Seeing (it) the female mules, perturbed by fear, do not go ahead.

Hearing those words of her the queen was frightened. Seeing the necklace round her neck, she quickly got up from the chariot. In the meanwhile there came a demon of a fierce form. He had three feet, five hands and seven eyes. He was extremely fearful. He was tawny; his eyes were like those of a tiger. His shoulders and his face were like those of a lion. His hair red like blood hung like the lord of birds. Seeing him, Vṛndā, having a (tender) body like the calyx of a lotus, was suddenly frightened. Having covered her eyes with her hands, she trembled like a plantain tree. Throwing the whip, the doorkeeper said to the queen: “O Queen, protect me who am frightened. This (demon) runs to eat me.”

67-71. In the meanwhile the demon reached the vicinity of the chariot. He tossed up the chariot and whirled it with the female mules (yoked to it). The queen fell on the ground like a female deer through the fear of a tiger. Smaradūtī was wounded (and lay) like an aśoka -creeper. Then the demon devoured all the female mules. He. seized the queen by her hand as a lion seizes a female young deer. Then the demon spoke to her: “I have heard that your husband is killed by Śiva in the battle. If you want to live, then taking me as your husband live long and without fear from anywhere. Also drink sweet liquor along with good flesh.” Hearing these words, the queen was as it were lifeless.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 44603, revision 336259 (2022-04-20T15:18:48Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365445.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.