Skip to main content

Uttara-khaṇḍa · Chapter 244

Chapter 244

Unit 656 of 693Uttara-khaṇḍa · Chapter 244Uttara-khaṇḍa · Chapter 2441 source entries

Uttara-khaṇḍa · Chapter 244

Source

शंकर उवाच- अथ रामस्तु वैदेह्या राज्यभोगान्मनोरमान् । बुभुजे वर्षसाहस्रं पालयन्सर्वतोदिशः १। अंतःपुरजनास्सर्वे राक्षसस्य गृहे स्थिताम् । गर्हयंति स्म वैदेहीं तथा जानपदा जनाः २। लोकापवादभीत्या च रामः शत्रुनिवारकः । दर्शयन्मानुषं धर्ममंतर्वत्नीं नृपात्मजाम् ३। वाल्मीकेराश्रमे पुण्ये गंगातीरे महावने । विससर्ज महातेजा गर्भिणीं मुनिसंसदि ४। सा भर्तुः परतंत्रा हि उवास मुनिवेश्मनि । अर्चिता मुनिपत्नीभिर्वाल्मीकमुनि रक्षिता ५। तत्रैवासूत यमलौ नाम्ना कुशलवौ सुतौ । तौ च तत्रैव मुनिना संस्कृतौ च ववर्धतुः ६। रामोऽपि भ्रातृभिस्सार्द्धं पालयामास मेदिनीम् । यमादिगुणसम्पन्नस्सर्वभोगविवर्जितः ७। अर्चयन्सततं विष्णुमनादिनिधनं हरिम् । ब्रह्मचर्यपरो नित्यं शशास पृथिवीं नृपः ८। शत्रुघ्नो लवणं हत्वा मथुरां देवनिर्मिताम् । पालयामास धर्मात्मा पुत्राभ्यां सह राघवः ९। गंधर्वान्भरतो हत्वा सिंधोरुभयपार्श्वतः । स्वात्मजौ स्थापयामास तस्मिन्देशे महाबलौ १०। पश्चिमे मद्रदेशे तु मद्रान्हत्वा च लक्ष्मणः । स्वसुतौ च महावीर्यौ अभिषिच्य महाबलः ११। गत्वा पुनरयोध्यां तु रामपादावुपस्पृशत् । ब्राह्मणस्य मृतं बालं कालधर्ममुपागतम् १२। जीवयामास काकुत्स्थः शूद्रं हत्वा च तापसम् । ततस्तु गौतमीतीरे नैमिषे जनसंसदि १३। इयाज वाजिमेधं च राघवः परवीरहा । कांचनीं जानकीं कृत्वा तया सार्द्धं महाबलः १४। चकार यज्ञान्बहुशो राघवः परमार्थवित् । अयुतान्यश्वमेधानि वाजपेयानि च प्रभुः १५। अग्निष्टोमं विश्वजितं गोमेधं च शतक्रतुम् । चकार विविधान्यज्ञान्परिपूर्णसदक्षिणान् १६। एतस्मिन्नंतरे तत्र वाल्मीकिः सुमहातपाः । सीतामानीय काकुत्स्थमिदं वचनमब्रवीत् १७। वाल्मीकिरुवाच- अपापां मैथिलीं राम त्यक्तुं नार्हसि सुव्रत । इयं तु विरजा साध्वी भास्करस्य प्रभा यथा । अनन्या तव काकुत्स्थ कस्मात्त्यक्ता त्वयानघ १८। राम उवाच- अपापां मैथिलीं ब्रह्मन्जानामि वचनात्तव । रावणेन हृता साध्वी दण्डके विजने पुरा १९। तं हत्वा समरे सीतां शुद्धामग्निमुखागताम् । पुनर्यातोस्म्ययोध्यायां सीतामादाय धर्मतः २०। लोकापवादः सुमहानभूत्पौरजनेषु च । त्यक्ता मया शुभाचारा तद्भयात्तव सन्निधौ २१। तस्माल्लोकस्य संतुष्ट्यै सीता मम परायणा । पार्थिवानां महर्षीणां प्रत्ययं कर्तुमर्हति २२। महेश्वर उवाच- एवमुक्ता तदा सीता मुनिपार्थिवसंसदि । चकारप्रत्ययं देवी लोकाश्चर्यकरं सती २३। दर्शयंस्तस्य लोकस्य रामस्यानन्यतां सती । अब्रवीत्प्रांजलिः सीता सर्वेषां जनसंसदि २४। सीतोवाच- यथाऽहं राघवादन्यं मनसापि न चिंतये । तथा मे धरणी देवी विवरन्दातुमर्हति २५। यथैव सत्यमुक्तं मे वेद्मि रामात्परं न च । तथा स्वपुत्र्यां वैदेह्यां धरणी सहसा इयात् २६। महेश्वर उवाच- ततो रत्नमयं पीठं पृष्ठे धृत्वा खगेश्वरः । रसातलात्तदा वीरो विज्ञाय जननीं तदा २७। ततस्तु धरणीदेवी हस्ताभ्यां गृह्य मैथिलीम् । स्वागतेनाभिनंद्यैनामासने संन्यवेशयत् २८। सीतां समागतां दृष्ट्वा दिवि देवगणा भृशम् । पुष्पवृष्टिमविच्छिन्नां दिव्यां सीतामवाकिरन् २९। सापि दिव्याप्सरोभिस्तु पूज्यमाना सनातनी । वैनतेयं समारुह्य तस्मान्मार्गाद्दिवं ययौ ३०। दासीगणैः पूर्वभागे संवृता जगदीश्वरी । संप्राप्य परमं धाम योगिगम्यं सनातनम् ३१। रसातलप्रविष्टां तु तां दृष्ट्वा सर्वमानुषाः । साधुसाध्विति सीतेयमुच्चैः सर्वे प्रचुक्रुशुः ३२। रामः शोकसमाविष्टः संगृह्य तनयावुभौ । मुनिभिः पार्थिवेंद्रैश्च साकेतं प्रविवेश ह ३३। अथ कालेन महता मातरः संशितव्रताः । कालधर्मं समापन्ना भर्तुः स्वर्गं प्रपेदिरे ३४। दशवर्षसहस्राणि दशवर्षशतानि च । चकार राज्यं धर्मेण राघवः संशितव्रतः ३५। कस्यचित्त्वथकालस्य राघवस्य निवेशनम् । कालस्तापसरूपेण संप्राप्तो वाक्यमब्रवीत् ३६। काल उवाच- राम राम महाबाहो धात्रा संप्रेषितोऽस्म्यहम् । यद्ब्रवीमि रघुश्रेष्ठ तच्छृणुष्व महामते ३७। द्वन्द्वमेव हि कार्यं स्यादावयोः परिभाषितम् । तदंतरे प्रविष्टोयस्स वद्ध्यो हि भविष्यति ३८। महेश्वर उवाच- तथेति च प्रतिश्रुत्य रामो राजीवलोचनः । द्वास्थं कृत्वा तु सौमित्रिं कालो वाक्यमभाषत । वैवस्वतोऽब्रवीद्वाक्यं रामं दशरथात्मजम् ३९। काल उवाच- शृणु राम यथावृत्तं समागमनकारणात् । दशवर्षसहस्राणि दशवर्षशतानि च ४०। वसामि मानुषे लोके हत्वा राक्षसपुंगवौ । एवमुक्तः सुरगणैरवतीर्णोसि भूतले ४१। तदयं समयः प्राप्तः स्वर्लोकं गमितुं त्वया । सनाथा हि सुरास्सर्वे भवंत्वद्य त्वयानघ ४२। महेश्वर उवाच- एवमस्त्विति काकुत्स्थो रामः प्राह महामुनिम् । एतस्मिन्नंतरे तत्र दुर्वासास्तु महातपाः ४३। राजद्वारमुपागम्य लक्ष्मणं वाक्यमब्रवीत् । दुर्वासा उवाच- मां निवेदय काकुत्स्थं शीघ्रं गत्वा नृपात्मज ४४। महेश्वर उवाच- तमब्रवील्लक्ष्मणस्तु असांनिध्यमिति द्विज । ततः क्रोधसमाविष्टः प्राह तं मुनिसत्तमः ४५। दुर्वासा उवाच- शापं दास्यामि काकुत्स्थं रामं न यदि दर्शये । महेश्वर उवाच- तस्माच्छापभयाद्विप्रं राघवाय न्यवेदयत् । तत्रैवांतर्दधे कालः सर्वभूतभयावहः ४६। पूजयामास तं प्राप्तमृषिं दुर्वाससं नृपः । अग्रजस्य प्रतिज्ञा तं विज्ञाय रघुसत्तमः ४७। तत्याज मानुषं रूपं लक्ष्मणः सरयूजले । विसृज्य मानुषं रूपं प्रविवेश स्वकां तनुम् ४८। फणासहस्रसंयुक्तः कोटींदुसमवर्चसः । दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ४९। नागकन्यासहस्रैस्तु संवृतः समलंकृतः । विमानं दिव्यमारुह्य प्रययौ वैष्णवं पदम् ५० 6.244.50। लक्ष्मणस्य गतिं सर्वां विदित्वा रघुसत्तमः । स्वयमप्यथ काकुत्स्थः स्वर्गं गंतुमभीप्सितः ५१। अभिषिच्याथ काकुत्स्थः स्वात्मजौ च कुशीलवौ । विभज्य रथनागाश्वं सधनं प्रददौ तयोः ५२। कुशवत्यां कुशं तं च शरवत्यां लवं तथा । स्थापयामास धर्मेण राज्ये स्वे रघुसत्तमः ५३। अभिप्रायं तु विज्ञाय रामस्य विदितात्मनः । आजग्मुर्वानराः सर्वे राक्षसाः सुमहाबलाः ५४। विभीषणोऽथ सुग्रीवो जाम्बवान्मारुतात्मजः । नीलो नलः सुषेणश्च निषादाधिपतिर्गुहः ५५। अभिषिच्य सुतौ वीरौ शत्रुघ्नश्च महामनाः । सर्व एते समाजग्मुरयोध्यां रामपालिताम् ५६। ते प्रणम्य महात्मानमूचुः प्रांजलयस्तथा । वानरप्रभृतय ऊचुः - स्वर्लोकं गंतुमुद्युक्तं ज्ञात्वा त्वां रघुसत्तम ५७। आगताः स्म वयं सर्वे तवानुगमनं प्रति । न शक्ताः स्म क्षणं राम जीवितुं त्वां विना प्रभो । तस्मात्त्वया विशालाक्ष गच्छामस्त्रिदशालयम् ५८। महेश्वर उवाच- तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्ततः । अथोवाच महातेजा राक्षसेंद्रं विभीषणम् ५९। राम उवाच- राज्यं प्रशास धर्मेण मा प्रतिज्ञां वृथा कृथाः । यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । तावद्रमस्व सुप्रीतो काले मम पदं व्रज ६०। महेश्वर उवाच-। इत्युक्त्वाथ स काकुत्स्थः स्वाड्गं विष्णुं सनातनम् । श्रीरंगशायिनं सौम्यमिक्ष्वाकुकुलदैवतम् ६१। संप्रीत्या प्रददौ तस्मै रामो राजीवलोचनः । हनुमंतमथोवाच राघवः शत्रुसूदनः ६२। राम उवाच- मत्कथाः प्रचरिष्यंति यावल्लोके हरीश्वर । तावत्त्वमास मेदिन्यां काले मां व्रज सुव्रत ६३। महेश्वर उवाच- तमेवमुक्त्वा काकुत्स्थो जांबवंतमथाब्रवीत् । राम उवाच- द्वापरे समनुप्राप्ते यदूनामन्वये पुनः ६४। भूभारस्य विनाशाय समुत्पत्स्याम्यहं भुवि । करिष्ये तत्र संग्रामं स्वयं भल्लूकसत्तम ६५। महेश्वर उवाच- तमेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् । उवाच वाचा गच्छध्वमिति रामो महाबलः ६६। मंत्रिणो नैगमाश्चैव भरतः कैकयीसुतः । राघवस्यानुगमने निश्चितास्ते समाययुः ६७। ततः शुक्लांबरधरो ब्रह्मचारी ययौ परम् । कुशान्गृहीत्वा पाणिभ्यां संसक्तः प्रययौ परम् ६८। रामस्य दक्षिणे पार्श्वे पद्महस्ता रमा गता । तथैव धरणीदेवी दक्षिणेतरगा तथा ६९। वेदाः सांगाः पुराणानि सेतिहासानि सर्वतः । ॐकारोऽथ वषट्कारः सावित्री लोकपावनी ७०। अस्त्रशस्त्राणि च तदा धनुराद्यानि पार्वति । अनुजग्मुस्तथा रामं सर्वे पुरुषविग्रहाः ७१। भरतश्चैव शत्रुघ्नः सर्वे पुरनिवासिनः । सपुत्रदाराः काकुत्स्थमनुजग्मुः सहानुगाः ७२। मंत्रिणो भृत्यवर्गाश्च किंकरा नैगमास्तथा । वानराश्चैव ऋक्षाश्च सुग्रीवसहितास्तदा ७३। सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम् । पशवः पक्षिणश्चैव सर्वे स्थावरजंगमाः ७४। अनुजग्मुर्महात्मानं समीपस्था नरोत्तमाः । ये च पश्यंति काकुत्स्थं स्वपथांतर्गतं प्रभुम् ७५। ते तथानुगता रामं निवर्त्तंते न केचन । अथ त्रियोजनं गत्वा नदीं पश्चान्मुखीं स्थिताम् ७६। सरयूं पुण्यसलिलां प्रविवेश सहानुगः । ततः पितामहो ब्रह्मा सर्वदेवगणावृतः ७७। तुष्टाव रघुशार्दूलमृषिभिः सार्द्धमक्षरैः । अब्रवीत्तत्र काकुत्स्थं प्रविष्टं सरयूजले ७८। ब्रह्मोवाच- आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि मानद । भ्रातृभिस्सहदेवाभैः प्रविशस्व निजां तनुम् ७९। वैष्णवीं तां महातेजां देवाकारां सनातनीम् । त्वं हि लोकगतिर्देव न त्वां केचित्तु जानते ८०। त्वामचिंत्यं महात्मानमक्षरं सर्वसंग्रहम् । यमिच्छसि महातेजस्तां तनुं प्रविशस्व भोः ८१। महेश्वर उवाच- तस्मिन्सूर्यकराकीर्णे पुष्पवृष्टिनिपातिते । उत्सृज्य मानुषं रूपं स्वां तनुं प्रविवेश ह ८२। अंशाभ्यां शंखचक्राभ्यां शत्रुघ्नभरतावुभौ । तदा तेन महात्मानौ दिव्यतेजस्समन्वितौ ८३। शंखचक्रगदाशार्ङ्गपद्महस्तश्चतुर्भुजः । दिव्याभरणसम्पन्नो दिव्यगंधानुलेपनः ८४। दिव्यपीतांबरधरः पद्मपत्रनिभेक्षणः । युवा कुमारः सौम्यांगः कोमलावयवोज्ज्वलः ८५। सुस्निग्धनीलकुटिलकुंतलः शुभलक्षणः । नवदूर्वांकुरः श्यामः पूर्णचंद्र निभाननः ८६। देवीभ्यां सहितः श्रीमान्विमानमधिरुह्य च । तस्मिन्सिंहासने दिव्ये मूले कल्पतरोः प्रभुः ८७। निषसाद महातेजाः सर्वदेवैरभिष्टुतः । राघवानुगता ये च ऋक्षवानरमानुषाः ८८। स्पृष्ट्वैव सरयूतोयं सुखेन त्यक्तजीविताः । रामप्रसादात्ते सर्वे दिव्यरूपधराः शुभाः ८९। दिव्यमाल्यांबरधरा दिव्यमंगलवर्चसः । आरुरोह विमानं तदसंख्यास्तत्र देहिनः ९०। सर्वैः परिवृतः श्रीमान्रामो राजीवलोचनः । पूजितः सुरसिद्धौघैर्मुनिभिस्तु महात्मभिः ९१। आययौ शाश्वतं दिव्यमक्षरं स्वपदं विभुः । यः पठेद्रामचरितं श्लोकं श्लोकार्धमेव वा ९२। शृणुयाद्वा तथा भक्त्या स्मरेद्वा शुभदर्शने । कोटिजन्मार्जितात्पापाज्ज्ञानतोऽज्ञानतः कृतात् ९३। विमुक्तो वैष्णवं लोकं पुत्रदारसबांधवैः । समाप्नुयाद्योगगम्यमनायासेन वै नरः ९४। एतत्ते कथितं देवि रामस्य चरितं महत् । धन्योऽस्म्यहं त्वया देवि रामचंद्रस्य कीर्त्तनात् । किमन्यच्छ्रोतुकामासि तद्ब्रवीमि वरानने ९५। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीरामचरितकथनंनाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः२४४ ।

śaṃkara uvāca- atha rāmastu vaidehyā rājyabhogānmanoramān | bubhuje varṣasāhasraṃ pālayansarvatodiśaḥ 1| aṃtaḥpurajanāssarve rākṣasasya gṛhe sthitām | garhayaṃti sma vaidehīṃ tathā jānapadā janāḥ 2| lokāpavādabhītyā ca rāmaḥ śatrunivārakaḥ | darśayanmānuṣaṃ dharmamaṃtarvatnīṃ nṛpātmajām 3| vālmīkerāśrame puṇye gaṃgātīre mahāvane | visasarja mahātejā garbhiṇīṃ munisaṃsadi 4| sā bhartuḥ parataṃtrā hi uvāsa muniveśmani | arcitā munipatnībhirvālmīkamuni rakṣitā 5| tatraivāsūta yamalau nāmnā kuśalavau sutau | tau ca tatraiva muninā saṃskṛtau ca vavardhatuḥ 6| rāmo'pi bhrātṛbhissārddhaṃ pālayāmāsa medinīm | yamādiguṇasampannassarvabhogavivarjitaḥ 7| arcayansatataṃ viṣṇumanādinidhanaṃ harim | brahmacaryaparo nityaṃ śaśāsa pṛthivīṃ nṛpaḥ 8| śatrughno lavaṇaṃ hatvā mathurāṃ devanirmitām | pālayāmāsa dharmātmā putrābhyāṃ saha rāghavaḥ 9| gaṃdharvānbharato hatvā siṃdhorubhayapārśvataḥ | svātmajau sthāpayāmāsa tasmindeśe mahābalau 10| paścime madradeśe tu madrānhatvā ca lakṣmaṇaḥ | svasutau ca mahāvīryau abhiṣicya mahābalaḥ 11| gatvā punarayodhyāṃ tu rāmapādāvupaspṛśat | brāhmaṇasya mṛtaṃ bālaṃ kāladharmamupāgatam 12| jīvayāmāsa kākutsthaḥ śūdraṃ hatvā ca tāpasam | tatastu gautamītīre naimiṣe janasaṃsadi 13| iyāja vājimedhaṃ ca rāghavaḥ paravīrahā | kāṃcanīṃ jānakīṃ kṛtvā tayā sārddhaṃ mahābalaḥ 14| cakāra yajñānbahuśo rāghavaḥ paramārthavit | ayutānyaśvamedhāni vājapeyāni ca prabhuḥ 15| agniṣṭomaṃ viśvajitaṃ gomedhaṃ ca śatakratum | cakāra vividhānyajñānparipūrṇasadakṣiṇān 16| etasminnaṃtare tatra vālmīkiḥ sumahātapāḥ | sītāmānīya kākutsthamidaṃ vacanamabravīt 17| vālmīkiruvāca- apāpāṃ maithilīṃ rāma tyaktuṃ nārhasi suvrata | iyaṃ tu virajā sādhvī bhāskarasya prabhā yathā | ananyā tava kākutstha kasmāttyaktā tvayānagha 18| rāma uvāca- apāpāṃ maithilīṃ brahmanjānāmi vacanāttava | rāvaṇena hṛtā sādhvī daṇḍake vijane purā 19| taṃ hatvā samare sītāṃ śuddhāmagnimukhāgatām | punaryātosmyayodhyāyāṃ sītāmādāya dharmataḥ 20| lokāpavādaḥ sumahānabhūtpaurajaneṣu ca | tyaktā mayā śubhācārā tadbhayāttava sannidhau 21| tasmāllokasya saṃtuṣṭyai sītā mama parāyaṇā | pārthivānāṃ maharṣīṇāṃ pratyayaṃ kartumarhati 22| maheśvara uvāca- evamuktā tadā sītā munipārthivasaṃsadi | cakārapratyayaṃ devī lokāścaryakaraṃ satī 23| darśayaṃstasya lokasya rāmasyānanyatāṃ satī | abravītprāṃjaliḥ sītā sarveṣāṃ janasaṃsadi 24| sītovāca- yathā'haṃ rāghavādanyaṃ manasāpi na ciṃtaye | tathā me dharaṇī devī vivarandātumarhati 25| yathaiva satyamuktaṃ me vedmi rāmātparaṃ na ca | tathā svaputryāṃ vaidehyāṃ dharaṇī sahasā iyāt 26| maheśvara uvāca- tato ratnamayaṃ pīṭhaṃ pṛṣṭhe dhṛtvā khageśvaraḥ | rasātalāttadā vīro vijñāya jananīṃ tadā 27| tatastu dharaṇīdevī hastābhyāṃ gṛhya maithilīm | svāgatenābhinaṃdyaināmāsane saṃnyaveśayat 28| sītāṃ samāgatāṃ dṛṣṭvā divi devagaṇā bhṛśam | puṣpavṛṣṭimavicchinnāṃ divyāṃ sītāmavākiran 29| sāpi divyāpsarobhistu pūjyamānā sanātanī | vainateyaṃ samāruhya tasmānmārgāddivaṃ yayau 30| dāsīgaṇaiḥ pūrvabhāge saṃvṛtā jagadīśvarī | saṃprāpya paramaṃ dhāma yogigamyaṃ sanātanam 31| rasātalapraviṣṭāṃ tu tāṃ dṛṣṭvā sarvamānuṣāḥ | sādhusādhviti sīteyamuccaiḥ sarve pracukruśuḥ 32| rāmaḥ śokasamāviṣṭaḥ saṃgṛhya tanayāvubhau | munibhiḥ pārthiveṃdraiśca sāketaṃ praviveśa ha 33| atha kālena mahatā mātaraḥ saṃśitavratāḥ | kāladharmaṃ samāpannā bhartuḥ svargaṃ prapedire 34| daśavarṣasahasrāṇi daśavarṣaśatāni ca | cakāra rājyaṃ dharmeṇa rāghavaḥ saṃśitavrataḥ 35| kasyacittvathakālasya rāghavasya niveśanam | kālastāpasarūpeṇa saṃprāpto vākyamabravīt 36| kāla uvāca- rāma rāma mahābāho dhātrā saṃpreṣito'smyaham | yadbravīmi raghuśreṣṭha tacchṛṇuṣva mahāmate 37| dvandvameva hi kāryaṃ syādāvayoḥ paribhāṣitam | tadaṃtare praviṣṭoyassa vaddhyo hi bhaviṣyati 38| maheśvara uvāca- tatheti ca pratiśrutya rāmo rājīvalocanaḥ | dvāsthaṃ kṛtvā tu saumitriṃ kālo vākyamabhāṣata | vaivasvato'bravīdvākyaṃ rāmaṃ daśarathātmajam 39| kāla uvāca- śṛṇu rāma yathāvṛttaṃ samāgamanakāraṇāt | daśavarṣasahasrāṇi daśavarṣaśatāni ca 40| vasāmi mānuṣe loke hatvā rākṣasapuṃgavau | evamuktaḥ suragaṇairavatīrṇosi bhūtale 41| tadayaṃ samayaḥ prāptaḥ svarlokaṃ gamituṃ tvayā | sanāthā hi surāssarve bhavaṃtvadya tvayānagha 42| maheśvara uvāca- evamastviti kākutstho rāmaḥ prāha mahāmunim | etasminnaṃtare tatra durvāsāstu mahātapāḥ 43| rājadvāramupāgamya lakṣmaṇaṃ vākyamabravīt | durvāsā uvāca- māṃ nivedaya kākutsthaṃ śīghraṃ gatvā nṛpātmaja 44| maheśvara uvāca- tamabravīllakṣmaṇastu asāṃnidhyamiti dvija | tataḥ krodhasamāviṣṭaḥ prāha taṃ munisattamaḥ 45| durvāsā uvāca- śāpaṃ dāsyāmi kākutsthaṃ rāmaṃ na yadi darśaye | maheśvara uvāca- tasmācchāpabhayādvipraṃ rāghavāya nyavedayat | tatraivāṃtardadhe kālaḥ sarvabhūtabhayāvahaḥ 46| pūjayāmāsa taṃ prāptamṛṣiṃ durvāsasaṃ nṛpaḥ | agrajasya pratijñā taṃ vijñāya raghusattamaḥ 47| tatyāja mānuṣaṃ rūpaṃ lakṣmaṇaḥ sarayūjale | visṛjya mānuṣaṃ rūpaṃ praviveśa svakāṃ tanum 48| phaṇāsahasrasaṃyuktaḥ koṭīṃdusamavarcasaḥ | divyamālyāṃbaradharo divyagaṃdhānulepanaḥ 49| nāgakanyāsahasraistu saṃvṛtaḥ samalaṃkṛtaḥ | vimānaṃ divyamāruhya prayayau vaiṣṇavaṃ padam 50 6.244.50| lakṣmaṇasya gatiṃ sarvāṃ viditvā raghusattamaḥ | svayamapyatha kākutsthaḥ svargaṃ gaṃtumabhīpsitaḥ 51| abhiṣicyātha kākutsthaḥ svātmajau ca kuśīlavau | vibhajya rathanāgāśvaṃ sadhanaṃ pradadau tayoḥ 52| kuśavatyāṃ kuśaṃ taṃ ca śaravatyāṃ lavaṃ tathā | sthāpayāmāsa dharmeṇa rājye sve raghusattamaḥ 53| abhiprāyaṃ tu vijñāya rāmasya viditātmanaḥ | ājagmurvānarāḥ sarve rākṣasāḥ sumahābalāḥ 54| vibhīṣaṇo'tha sugrīvo jāmbavānmārutātmajaḥ | nīlo nalaḥ suṣeṇaśca niṣādādhipatirguhaḥ 55| abhiṣicya sutau vīrau śatrughnaśca mahāmanāḥ | sarva ete samājagmurayodhyāṃ rāmapālitām 56| te praṇamya mahātmānamūcuḥ prāṃjalayastathā | vānaraprabhṛtaya ūcuḥ - svarlokaṃ gaṃtumudyuktaṃ jñātvā tvāṃ raghusattama 57| āgatāḥ sma vayaṃ sarve tavānugamanaṃ prati | na śaktāḥ sma kṣaṇaṃ rāma jīvituṃ tvāṃ vinā prabho | tasmāttvayā viśālākṣa gacchāmastridaśālayam 58| maheśvara uvāca- tairevamuktaḥ kākutstho bāḍhamityabravīttataḥ | athovāca mahātejā rākṣaseṃdraṃ vibhīṣaṇam 59| rāma uvāca- rājyaṃ praśāsa dharmeṇa mā pratijñāṃ vṛthā kṛthāḥ | yāvaccaṃdraśca sūryaśca yāvattiṣṭhati medinī | tāvadramasva suprīto kāle mama padaṃ vraja 60| maheśvara uvāca-| ityuktvātha sa kākutsthaḥ svāḍgaṃ viṣṇuṃ sanātanam | śrīraṃgaśāyinaṃ saumyamikṣvākukuladaivatam 61| saṃprītyā pradadau tasmai rāmo rājīvalocanaḥ | hanumaṃtamathovāca rāghavaḥ śatrusūdanaḥ 62| rāma uvāca- matkathāḥ pracariṣyaṃti yāvalloke harīśvara | tāvattvamāsa medinyāṃ kāle māṃ vraja suvrata 63| maheśvara uvāca- tamevamuktvā kākutstho jāṃbavaṃtamathābravīt | rāma uvāca- dvāpare samanuprāpte yadūnāmanvaye punaḥ 64| bhūbhārasya vināśāya samutpatsyāmyahaṃ bhuvi | kariṣye tatra saṃgrāmaṃ svayaṃ bhallūkasattama 65| maheśvara uvāca- tamevamuktvā kākutsthaḥ sarvāṃstānṛkṣavānarān | uvāca vācā gacchadhvamiti rāmo mahābalaḥ 66| maṃtriṇo naigamāścaiva bharataḥ kaikayīsutaḥ | rāghavasyānugamane niścitāste samāyayuḥ 67| tataḥ śuklāṃbaradharo brahmacārī yayau param | kuśāngṛhītvā pāṇibhyāṃ saṃsaktaḥ prayayau param 68| rāmasya dakṣiṇe pārśve padmahastā ramā gatā | tathaiva dharaṇīdevī dakṣiṇetaragā tathā 69| vedāḥ sāṃgāḥ purāṇāni setihāsāni sarvataḥ | oṃkāro'tha vaṣaṭkāraḥ sāvitrī lokapāvanī 70| astraśastrāṇi ca tadā dhanurādyāni pārvati | anujagmustathā rāmaṃ sarve puruṣavigrahāḥ 71| bharataścaiva śatrughnaḥ sarve puranivāsinaḥ | saputradārāḥ kākutsthamanujagmuḥ sahānugāḥ 72| maṃtriṇo bhṛtyavargāśca kiṃkarā naigamāstathā | vānarāścaiva ṛkṣāśca sugrīvasahitāstadā 73| saputradārāḥ kākutsthamanvagacchanmahāmatim | paśavaḥ pakṣiṇaścaiva sarve sthāvarajaṃgamāḥ 74| anujagmurmahātmānaṃ samīpasthā narottamāḥ | ye ca paśyaṃti kākutsthaṃ svapathāṃtargataṃ prabhum 75| te tathānugatā rāmaṃ nivarttaṃte na kecana | atha triyojanaṃ gatvā nadīṃ paścānmukhīṃ sthitām 76| sarayūṃ puṇyasalilāṃ praviveśa sahānugaḥ | tataḥ pitāmaho brahmā sarvadevagaṇāvṛtaḥ 77| tuṣṭāva raghuśārdūlamṛṣibhiḥ sārddhamakṣaraiḥ | abravīttatra kākutsthaṃ praviṣṭaṃ sarayūjale 78| brahmovāca- āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto'si mānada | bhrātṛbhissahadevābhaiḥ praviśasva nijāṃ tanum 79| vaiṣṇavīṃ tāṃ mahātejāṃ devākārāṃ sanātanīm | tvaṃ hi lokagatirdeva na tvāṃ kecittu jānate 80| tvāmaciṃtyaṃ mahātmānamakṣaraṃ sarvasaṃgraham | yamicchasi mahātejastāṃ tanuṃ praviśasva bhoḥ 81| maheśvara uvāca- tasminsūryakarākīrṇe puṣpavṛṣṭinipātite | utsṛjya mānuṣaṃ rūpaṃ svāṃ tanuṃ praviveśa ha 82| aṃśābhyāṃ śaṃkhacakrābhyāṃ śatrughnabharatāvubhau | tadā tena mahātmānau divyatejassamanvitau 83| śaṃkhacakragadāśārṅgapadmahastaścaturbhujaḥ | divyābharaṇasampanno divyagaṃdhānulepanaḥ 84| divyapītāṃbaradharaḥ padmapatranibhekṣaṇaḥ | yuvā kumāraḥ saumyāṃgaḥ komalāvayavojjvalaḥ 85| susnigdhanīlakuṭilakuṃtalaḥ śubhalakṣaṇaḥ | navadūrvāṃkuraḥ śyāmaḥ pūrṇacaṃdra nibhānanaḥ 86| devībhyāṃ sahitaḥ śrīmānvimānamadhiruhya ca | tasminsiṃhāsane divye mūle kalpataroḥ prabhuḥ 87| niṣasāda mahātejāḥ sarvadevairabhiṣṭutaḥ | rāghavānugatā ye ca ṛkṣavānaramānuṣāḥ 88| spṛṣṭvaiva sarayūtoyaṃ sukhena tyaktajīvitāḥ | rāmaprasādātte sarve divyarūpadharāḥ śubhāḥ 89| divyamālyāṃbaradharā divyamaṃgalavarcasaḥ | āruroha vimānaṃ tadasaṃkhyāstatra dehinaḥ 90| sarvaiḥ parivṛtaḥ śrīmānrāmo rājīvalocanaḥ | pūjitaḥ surasiddhaughairmunibhistu mahātmabhiḥ 91| āyayau śāśvataṃ divyamakṣaraṃ svapadaṃ vibhuḥ | yaḥ paṭhedrāmacaritaṃ ślokaṃ ślokārdhameva vā 92| śṛṇuyādvā tathā bhaktyā smaredvā śubhadarśane | koṭijanmārjitātpāpājjñānato'jñānataḥ kṛtāt 93| vimukto vaiṣṇavaṃ lokaṃ putradārasabāṃdhavaiḥ | samāpnuyādyogagamyamanāyāsena vai naraḥ 94| etatte kathitaṃ devi rāmasya caritaṃ mahat | dhanyo'smyahaṃ tvayā devi rāmacaṃdrasya kīrttanāt | kimanyacchrotukāmāsi tadbravīmi varānane 95| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde śrīrāmacaritakathanaṃnāma catuścatvāriṃśadadhikadviśatatamo'dhyāyaḥ244 |

English translation

Śaṅkara said :

1-6. Rāma enjoyed with Sītā royal pleasures as desired while protecting directions on all sides for a thousand years. All inmates of the harem, so also the citizens, censured Sītā who had stayed in the demon’s house. Rāma who warded off his enemies, through fear of public scandal, and exhibiting human behaviour, abandoned the princess (Sītā) who was pregnant, in the assembly of sages in Vālmīki ’s holy hermitage in a large forest on the bank of Gaṅgā . Dependent upon her husband she stayed in the sage’s house. Taken care of by the sage Vālmīki, she was honoured by sages’ wives. There only she gave birth to twin sons named Kuśa and Lava . Educated and trained by the sage they grew there only.

7-13a. Rāma too, along with his brothers, protected the earth. He, the king, endowed with virtues like restraint, and free from all enjoyments, always worshipping Viṣṇu having no beginning or end, and highly devoted to celibacy, ruled over the earth. Śatrughna , the righteous descendant of Raghu , having killed Lavaṇa , ruled, along with his two sons, over Mathura created by gods. Bharata , having killed gandharvas on both the sides of Sindhu , installed his two very mighty sons in that country. The very powerful Lakṣmaṇa , having killed the Madras in the western Madra country, consecrated his two brave sons, and again going back to Ayodhyā , touched Rāma’s feet. (Rāma,) the descendant of Kakutstha brought back to life the son of a brāhmaṇa that had met death, and then killed a śūdra ascetic.

13b-17. Then Rāma, the killer of his enemy’s heroes performed a horse-sacrifice in the Naimiṣa (forest) in the assembly of people on the bank of Gautamī . Rāghava , knowing the highest truth, fashioned a golden (image of) Jānakī , and with that the very mighty one performed many sacrifices. The lord performed various sacrifices, complete with presents, like myriads of horse-sacrifices, Vājapeya sacrifices, Agniṣṭoma , Viśvajit , Gomedha and Śatakratu . In the meanwhile, Vālmīki of a very great (i.e. severe) penance (to his credit) brought Sītā there, and said these words to Rāma:

Vālmīki said :

18. O you of a good vow, you do not deserve to abandon (i.e. please do not abandon) sinless Sītā. This chaste one is free from passion and is like light to the sun. O descendant of Kakutstha, she is identical with you. O sinless one, why did you abandon her?

Rāma said :

19-22. O brāhmaṇa, from your words I understand that Sītā is sinless. The chaste lady was former]y kidnapped by Rāvaṇa in the secluded Daṇḍaka (forest). Having killed him in battle, and having properly taken Sītā who was purified and who came out of Agni ’s mouth, I came to Ayodhyā (again). There was a great public scandal among the citizens. Being afraid of it I abandoned her of a good conduct, near you. Therefore, for satisfying the people, Sītā who is highly devoted to me, must convince the kings and great sages (of her innocence).

Maheśvara said :

23-24. Thus addressed the chaste Sītā put forward a proof amazing the people in the assembly of sages and kings. Showing those people her sole devotion to Rāma, the chaste Sītā, with the palms of her hands folded, said in the assembly of all (people):

Sītā said :

25-26. Since I have not thought of anyone except Rāma, may goddess Earth give me a cavity. Since I spoke the truth that I do not know anyone else but Rāma, Dharaṇī (i.e. the Earth) would at once come to her daughter Vaidehī .

Maheśvara said :

27-32. Then the lord of birds, the hero, knowing the mother (had come) from below the earth, held a seat full of jewels. Then goddess Dharaṇī, holding Sītā with both her hands, greeted her with a welcome, and seated her on the seat. Seeing her seated on the seat, the hosts of gods in heaven profusely and continuously scattered a shower of flowers on divine Sītā. She too, the ancient one, being honoured by divine damsels mounted on Garuḍa , and went to heaven by that path. On her front the goddess of the world was surrounded by hosts of maids. She reached the highest ancient abode, accessible to the meditating saints. Seeing her entering the lower world, all men shouted loudly: “Well (done), well (done), This is Sītā.”

33-36. Rāma, overcome by grief, took both his sons and along with sages and best kings entered Sāketa . Then after a long time, (Rāma’s) mothers who had fulfilled their vows, died and went to the heaven of their husband (i.e. to the heaven where Daśaratha had gone). Rāma who had fulfilled his vows righteously, ruled over the kingdom for ten thousand and ten hundred years. Sometime the god of death came to Rama ’s abode in the guise of an ascetic and spoke (these) words:

Death (Kāla) said :

37-38. O Rāma, Rāma, O you of large arms, I am sent by the Creator. O best of Raghus , O very intelligent one, listen to what I say. We shall carry on a conversation (lit. wordy duel). He who enters in between (i.e. disturbs us) will merit death.

Maheśvara said :

39. Promising him with the words “All right” the lotuseyed Rāma placed Lakṣmaṇa at the door. Then Death spoke (these) words: Yama (Death) spoke to Rāma, Daśaratha’s son:

Kāla (Death) said :

40-42. O Rāma, listen to what led to my arrival. You descended on the mortal world, saying, after having killed the two best demons: “I would live in the mortal world for ten thousand and ten hundred years.” Thus (also) told by the hosts of gods (you have stayed for that much period). Now the time for you to go (back) to heaven has come. O sinless one, let the gods today have the lord in you.

Maheśvara said :

43. To the great sage Rāma said, “Let it be so”. In the meanwhile the great ascetic Durvāsas came to the gate of the royal palace and spoke (these) words to Lakṣmaṇa:

Durvāsas said :

44. O prince, O descendant of Kakutstha, go quickly and report to Rāma (about the arrival of) me.

Maheśvara said :

45. To him Lakṣmaṇa said: “O brāhmaṇa, (Rāma has ordered that) no person should be allowed near (him).” Then the best sage overcome by anger said:

Durvāsas said :

46a. I shall pronounce a curse if you do not present me to Rāma, the descendant of Kakutstha.

Maheśvara said :

46b-53. Due to the fear of the curse (Lakṣmaṇa) reported to Rāma (the arrival of) the sage. There only Death causing fear to all beings vanished. The king worshipped sage Durvāsas that had come (there). That best Raghu, Lakṣmaṇa, knowing that promise of his elder brother, gave up his human form in the water of Sarayū . Giving up the human form he entered his own body. He having a thousand hoods, and having a lustre of a crore of moons, having divine flowers and garments, smeared with divine sandal, surrounded by thousands of serpent-damsels, well-adorned, having got into a divine aeroplane, went to the abode of Viṣṇu. The best Raghu Kākutstha (i.e. Rāma) knowing Lakṣmaṇa’s going to heaven, also desired to go to heaven. Then Rāma, having consecrated his sons Kuśa and Lava, having divided wealth along with chariots, elephants and horses gave it to them. The best of Raghus installed righteously on his kingdom (i.e. throne) Kuśa at Kuśavatī and Lava at Śarasvatī.

54-58. Knowing the intention of Rāma who had realised his soul all the very powerful monkeys and demons came there. (They were) Bibhīṣaṇa , Sugrīva , Jāmbavat, ( Māruti ) the Wind’s son, Nīla , Nala , Suṣeṇa , and Guha , the lord of the Niṣādas . Śatrughna also consecrated his brave sons as kings, and all of them came to Ayodhyā protected by Rama. Having saluted the noble one, with their palms joined they said to him:

The monkeys and others said :

O best of the Raghus, having come to know that you are ready to go to heaven, we have come (here) to follow you. O lord, O Rāma, we cannot live without you (even) for a moment. Therefore, O large-eyed one, with you we shall go to the abode of gods.

Maheśvara said :

59. Thus addressed by them the descendant of Kakutstha said: “All right.” Then the very lustrous one said to Bibhīṣaṇa, the lord of demons:

Rāma said :

60. Rule over your kingdom righteously. Do not falsify your promise. Being well pleased enjoy as long as the moon, the sun and the earth remain. Then at the (proper) time come to my place.

Maheśvara said :

61-62. Speaking like this the lotus-eyed Rāma affectionately gave to him his ancient (image of) Viṣṇu, gentle and lying (on Śeṣa ) and the family deity of the Ikṣvākus .To Hanūmat Rama. the killer of his enemies, said:

Rāma said :

63. O lord of monkeys, as long as my stories go on (being narrated) on the earth, remain on the earth. At the (proper) time. O you of a good vow, go to me..

Maheśvara said :

64a. Speaking like this to him, Rāma said to Jāmbavat:

Rāma said :

64b-65. When Dvāpara (age) will come, I shall again be born on the earth in the family of Yadus for destroying the burden of the earth. O best of bears, I shall (then) fight with you.

Maheśvara said :

66-72. The very powerful Rāma, the descendant of Kakutstha, having thus spoken to him, said to all the bears and monkeys (these words): “(Please) go.” Ministers, traders, Bharata, the son of Kaikayī, determined to follow Rāma, came (there). Then the celibate, wearing white garments, went to the Supreme Spirit. Holding kuśas in his hands the restrained one went to the Supreme Spirit. To Rāma’s right side was Ramā (i.e. Lakṣmī ) with a lotus in her hand. Similarly to the side other than the right (i.e. to the left side) was goddess Dharaṇī (i.e. the earth). O Pārvatī , in the same way Vedas with the Vedāṅgas , Purāṇas with Itihāsas , Oṃkāra , Vaṣaṭkāra , so also Sāvitrī purifying the world, followed Rāma. Missiles, weapons like bows etc., all having male bodies followed Rāma. Bharata and Śatrughna, so also all citizens with their sons, wives and attendants went after Rāma.

73-78. Ministers, hosts of attendants, servants, traders, so also monkeys, bears along with Sugrīva and with their sons, wives went after the very intelligent descendant of Kakutstha. Beasts and birds, so also all immobile and mobile objects went after the noble one. So also the best men who saw the descendant of Kakutstha going to heaven. They who thus followed Rāma, did not return. Then having gone over three yojanas he saw Sarayū on the western side. With his followers he entered Sarayū of auspicious water. Then Brahmā , the grandsire, surrounded by hosts of all gods, and along with sages praised the best among Raghus with (suitable) words. He said to Rāma who had entered the water of the Sarayū (river):

Brahmā said :

79-81. O Viṣṇu, come, prosperity to you. O you who honour (others), you have luckily come (here). With your brothers, lustrous like gods, enter your own body of Viṣṇu, which is very bright, divine and ancient. O god, you are the refuge of the world; only few do not take cognizance of you who are inconceivable, noble, immutable, and comprising everything. O you of great lustre, enter that body which you desire (to enter).

Maheśvara said :

82-91. When he was full of the sun’s rays, and when showers of flowers were dropped on him, he abandoned the human form and entered his own body. Both the noble Śatrughna and Bharata, endowed with divine lustre, were with him with the conch and the disc, his portions. He, the four-armed one, who had a conch, a disc, a mace, and the Śārṅga (bow) in his hands, who was possessed of divine ornaments, who had (his body) smeared with divine sandal, who had worn divine yellow garments, whose eyes were like lotus-leaves, who was a youth, whose-body was handsome, who was bright with delicate parts, whose hair was very glossy, dark and curly, who had auspicious marks, who was dark like fresh dūrvā -sprouts, whose face resembled the full moon, got along with the two goddesses into an aeroplane, and he, the lord, of a great lustre, praised by all gods, sat on the divine throne at the root of the desire-yielding tree. Those bears, monkeys and men, just on touching the water of Sarayū, happily cast their life. Due to Rama’s grace all they were handsome and had divine forms. They had worn divine flowers and garments; they had divine, auspicious lustre. There were innumerable men. Śrī Rāma , having lotus-like eyes, surrounded by all, worshipped by hosts of gods and siddhas , praised by all gods, got into the aeroplane.

92-95. The lord came to his own eternal, divine, imperishable place. O you of a beautiful appearance, one who would recite the (full) account of Rāma, or would listen to a verse or half a verse or would devoutly remember it, would, being free from sins committed knowingly or unknowingly during crores of existences, reach, along with his sons and wife, without any effort, Viṣṇu’s world, to be reached (only) through abstract meditation. O goddess, I have narrated to you this great account of Rāma. Due to the narration (of the account) of Rāma, I am blessed along with you, O goddess. O you of an excellent face, what else do you desire to know? I shall narrate all that.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 45080, revision 336704 (2022-04-26T10:38:03Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365828.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.