Skip to main content

Uttara-khaṇḍa · Chapter 180

Chapter 180

Unit 592 of 693Uttara-khaṇḍa · Chapter 180Uttara-khaṇḍa · Chapter 1801 source entries

Uttara-khaṇḍa · Chapter 180

Source

तु. स्कन्दपुराणम् [https://sa.wikisource.org/s/fsk ३.१.२६]श्रीभगवानुवाच। षष्ठाध्यायस्य माहात्म्यं प्रवक्ष्यामि वरानने । यदाकर्णयतां नॄणां मुक्तिः करतले स्थिता १। अस्ति गोदावरी तीरे प्रतिष्ठानं पुरं महत् । पिप्पलेशाभिधानोऽहं यत्रास्मि स्मेरलोचने २। यत्र गोदावरी तीर शीकरैरवशीतलैः । हंसाः पक्षपुटैः कीर्णैर्हरंति यमिनां श्रमम् ३। स्फुरत्पद्मावलीकोशपरागसुरभीकृतम् । श्लाघ्यं गोदावरीतोयं येन ते निर्जरा नराः ४। धिक्सुधामौषधीशस्य विकृत्क्षयविधायिनीम् । महाराष्ट्रवधूकानां मज्जंतीनां मुनीश्वराः ५। स्पृशंति यत्र वक्त्राणि फुल्लपंकजशंकया । यत्रखेलन्महाराष्ट्राः क्वणत्कंकणसुंदराः ६। हरंति ध्वनयो लीनां मनांस्यपि तपस्विनाम् । अत्युच्चसौधशिखरविहारि वनितामुखम् ७। पश्यन्ननुदिनं यत्र क्षीयते मृगलांच्छनः । अत्युच्चसौधवलभी महामणिमरीचिभिः ८। चुंब्यंते मुनिगंधर्वैर्दूर्वाचंदनचंचलैः । यस्मिन्नाधूयमानानां पताकानां समीरणैः ९। गतश्रमा रवेर्याने भवंति रथवाजिनः । राशीकृतैर्मलयजैरसंख्यातैर्वणिग्गणैः १०। यस्मिन्नुपलशेषोऽसौ लक्ष्यते मलयाचलः । पुंजीकृतानि दृश्यंते यत्र मुक्ताफलान्यपि ११। नगरीदेवता हास्य स्तबका इव सर्वतः । तत्र ज्ञानश्रुतिर्नाम्ना मेदिनीवल्लभोऽभवत् १२। यस्मिन्नुद्धरति क्षोणीं शेषोऽयं मणिसंनिभां । अपि प्रतापमार्तंडमंडली तीव्रतेजसि १३। नित्यमध्वरधूमेन श्यामलाः कल्पशाखिनः । असाधारणदातृत्वं पश्यंत इव लज्जया १४। यदध्वरपुरोडाश चर्वणास्वादलंपटाः । न तत्यजुः सुपर्वाणः प्रतिष्ठानपुरं मनाक् १५। यस्यदानांबुधाराभिः प्रतापज्योत्स्नयानिशम् । मखधूमैश्च संपुष्टा ववृषुः समये घनाः १६। स्वल्पमात्रमपि क्वापि न पदं प्रापुरीतयः । नीतयः प्रसरंति स्म यस्मिन्शासति मेदिनीम् १७। वापिकूपतडागानां च्छद्मना योऽनुवासरम् । हृदयस्थानि मेदिन्या निधानानि व्यलोकयत् १८। पांडुराभिः पताकाभिः प्रासादो यस्य राजते । वियद्गंगातरंगोघैर्हिमाद्रिरिव सानुमान् १९। दानैस्तपोभिर्यज्ञैश्च प्रजानां पालनेन च । तुष्टाः स्वर्गौकसस्तस्मै वरं दातुं समागमन् २०। ततोंतरिक्षमार्गेण धुन्वानाः पक्षसंहतीः । मृणालधवला देवी देवहंसा विनिर्गताः २१। त्वरया गच्छतां तेषामन्योन्यं तत्र भाषिणाम् । भद्राश्वप्रमुखा द्वित्राः पुरस्तान्निर्ययुर्जवात् २२। सर्वैर्मिलद्भिरूचुस्ते पुरस्ताद्गच्छतो जवात् । कथं वेगेन निर्याता भवंतः पुरतः स्थिताः २३। सर्वैर्मिलित्वा गंतव्यमस्मिन्नध्वनि दुर्गमे । प्रकाशमानं पुरतस्तेजःपुंजं न पश्यथ २४। ज्ञानश्रुतेर्महीभर्तुः पुण्यमूर्त्तेरतिस्फुटम् । निशम्येति वचः सम्यक्पाश्चात्याना पुरः स्थिताः २५। हंसा हसित्वा सावज्ञमूचुर्वचनमुच्चकैः । [https://vedastudy.tripod.com/pur_index25/raikva.htm रैक्योपरि टिप्पणी]रैक्याभिधस्य दुर्द्धर्ष तेजसो ब्रह्मवादिनः २६। किं नु ज्ञानश्रुतेरस्य राज्ञस्तीव्रतरं महः । इति शुश्राव हंसानां गिरो ज्ञानश्रुतिर्नृपः २७। अत्युच्चसौधभवनमारुह्य च सुखं स्थितः । ततः सारथिमाहूय भूपालो विस्मयान्वितः २८। संदिदेश महात्माऽसौ रैक्य आनीयतामिति । ततोऽवधार्य भूपालवचः पीयूषगर्भितम् २९। निर्जगाममहो नाम्ना सारथिः प्रथयन्मुदम् । यत्र वाराणसीनाम नगरी मुक्तिदायिनी ३०। यत्र विश्वेश्वरो नाम ह्युपदेष्टा जगत्पतिः । ततो गयाभिधे क्षेत्रे यत्र देवो गदाधरः ३१। उद्धर्तुमखिलान्लोकान्वसत्युत्फुल्ललोचनः । ततो गौरीगुरोः पार्श्वे सर्वैस्तीर्थैरनेकधा ३२। पर्यटन्गतवान्यत्र केदारः पापदारणः । यमालोक्य सकृन्मर्त्या मुक्ताः स्युर्नात्र संशयः ३३। महापापविर्निमुक्ता भुक्त्वा भोगान्यथेप्सितान् । ततो गौडेषु निर्यातो यत्रास्ते पुरुषोत्तमः ३४। यस्यावलोकनादेव नराः स्वर्लोकगामिनः । ततो द्वारावतीं प्रागान्नगरीं मुक्तिदायिनीम् ३५। यत्रास्ते गोमती तीरे रुक्मिणीवल्लभो हरिः । स्नात्वा च गोमतीतीर्थे पंचकृष्णान्विलोक्य च ३६। मर्त्यो मुक्तिमवाप्नोति भुक्त्वा भोगान्यथेप्सितान् । ततः समुद्रमासाद्य सोमनाथं विलोक्य च ३७। भुक्तिमुक्तिप्रदं देवं ततो निरगमन्सुधीः । अवंतिकां पुरीं प्राप्तो भुक्तिमुक्तिप्रदायिनीम् ३८। यत्रोमया सुखं क्रीडन्महाकालोस्ति शंकरः । अथोंकारं समासाद्य शर्मदं नर्मदातटे । भुक्तिमुक्तिप्रदातारं त्वरया निर्गतस्ततः ३९। अश्वमेधकरं नाम्ना नगरं पर्यटंस्ततः । यत्र शार्ङ्गधरः साक्षादास्ते लक्ष्मीपतिः स्वयम् ४०। ततो विष्णुगयां प्राप्तः कुण्डं लोणारसंज्ञितम् । यत्र स्नात्वा च पीत्वा च मुच्यते बन्धनान्नरः ४१। ततः कोल्हापुरं नाम गतो रुद्रगयां प्रति । आस्ते भगवती यत्र लक्ष्मीर्भक्तिप्रदायिनी ४२। पञ्चनद्यां नरः स्नात्वा महालक्ष्मीं विलोक्य च । भुक्त्वा भोगान्यथाकामं भक्तिं च प्रतिपद्यते ४३। ततोऽमलगिरिं नाम नगरीं प्रतिपद्य च । नन्दिकेश्वरमारुह्य सोमनाथोऽस्ति यत्र तु ४४। दृष्ट्वा चतुर्भुजं देवं वरदानोद्यतं शिवम् । सोमनाथं नृणां मुक्तिर्भवत्येव न संशयः ४५। तुङ्गभद्रानदी तीरे दृष्ट्वा हरिहरं ततः । युगेयुगे भुजा यस्य पतन्त्यवनिमण्डले ४६। यद्विलोक्य नराः सर्वे रम्यं हरिहरं वपुः । भुक्त्वा भोगान्यथाकामं मुच्यन्ते बन्धनान्नराः ४७। स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबन्धनाः । ततः स्वामिनमालोक्य लोकानां स्वामिनं विभुम् ४८। यमालोक्य न पश्यन्ति निरयं जातुचिन्नराः । स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारवासनाः ४९। मुक्तिं च प्रतिदद्यन्ते नात्र कार्या विचारणा । ततः श्रीशैलमासाद्य सिद्धगन्धर्वसेवितम् 6.180.५०। गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः । उद्धर्तुमखिलाँल्लोकान्संसाराम्भोधिमध्यतः ५१। स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबंधनाः । मुक्तिं च प्रतिपद्यंते नात्र कार्या विचारणा ५२। ततः श्रीशैलमासाद्य सिद्धगंधर्वसेवितम् । गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः ५३। उद्धर्तुमखिलाँल्लोकान्संसारांबुधिमध्यतः । कालेकाले परं ज्योतिर्यः संदर्शयते स्वयम् ५४। अवलोकयतां नॄणां यमनुस्मरतामपि । दूरे तिष्ठंति संत्रस्ता दूरं निरययातनाः ५५। स्वर्गे लोके सुखं भुक्त्वा मुक्तसंसारबंधनाः । मुक्तिं च प्रतिपद्यंते मानवा नात्र संशयः ५६। रामोस्ति सानुजः सार्द्धं जानक्यापि ततो गतः । तत्र स्नात्वा च पीत्वा च मुच्यते नरकाद्ध्रुवम् ५७। कल्पकोटिशतं भुक्त्वा स्वर्गलोकसुखं नराः । मुक्तसंसारवर्त्मानो मुक्तिं यांति न संशयः ५८। ततो निवृत्य आयातः पश्यन्भीमरथी तटे । द्विभुजं विठ्ठलं देवं भुक्तिमुक्तिप्रदायकम् ५९। यत्र गोदावरीजन्मस्थानं ब्रह्मगिरिर्महान् । गौतमालयमासाद्य यत्रास्ते त्र्यंबको हरः ६०। अरुणावरुणयोर्मध्ये यत्र गोदावरी नदी । तत्र स्नात्वा च पीत्वा च ब्रह्महत्या विलीयते ६१। असंख्यतीर्थसंपन्नं दृष्ट्वा ब्रह्मगिरिं नराः । मुक्तिमेव प्रपद्यंते मुक्ताः संसारदुःखतः ६२। गौतम्युभयतीरस्थ तीर्थान्वेषणकौतुकी । ततो जगाम सूतस्तु मथुरां पापनाशिनीम् ६३। यत्र स्वायंभुवं देवं भजंति सुरमानवाः । आद्यं भगवतः स्थानं महन्मुक्तिप्रदायकम् ६४। त्रैलोक्येश जनिस्थानं विख्यातं वेदशास्त्रयोः । नानादेवगणैर्जुष्टं द्विजर्षिगणसेवितम् ६५। कालिंदीकूलसंशोभि ह्यर्द्धचंद्र प्रभाकृति । सर्वतीर्थनिवासैक पूर्णमानंदसुंदरम् ६६। गोवर्द्धनगिरिप्रख्यं पुण्यद्रुमलतावृतम् । द्विषड्वनं महापुण्यं विश्रांति श्रुतिसारभृत् ६७। ततः काश्मीरनगरमपश्यत्प्रत्यगुत्तरम् । दृष्ट्वा धर्मधुरं क्षेत्रं कुरुक्षेत्रं समंततः ६८। यत्राभ्रंलिहगेहानां पंक्तयः शंखपाण्डुराः । ता जाता धूर्जटेः स्पष्ट अट्टहासदशा इव ६९। भक्तिप्रसादमालानां सुवर्णकलशैर्वृतम् । स्वः सिंधोः पतितानीव हेमपद्मानि मारुतैः ७०। यत्र प्रासादशिखरे नीलपट्टपताकिकाः । शैवालवलयाभांति स्वः सिंधोर्लतिका इव ७१। यत्र काश्मीरमाश्रित्य नित्यं वसति भारती । नौचेद्युगपदेवेदं कथं लिखति वाङ्मयम् ७२। विश्रामंत्याः सरस्वत्याश्चिरं यत्र मदालसाः । मृणालचंचवो हंसा वाहनानि चरंत्यमी ७३। कलाविशेषं प्रहिता यत्र बोद्धुं विरंचिना । तारा इव विराजंते हंसा याताः समंततः ७४। स्थलपद्मानि दृश्यंते करस्पर्शसुखानि च । शयनाय नितंबिन्या यस्मिन्दानववैरिणा ७५। उपन्यासैर्द्विजातीनां यत्र न श्रूयते स्फुटम् । मूकोऽपि निर्जरो वाचा पदकल्लोलडंबरः ७६। यस्मिन्नध्वरधूमेन व्याप्तं गगनमंडलम् । अपि च क्षालितं मेघैः कालिमानं न मुंचति ७७। गलितायाः सुधायास्तु यत्राध्वरमहार्चिषा । लांछितं छद्मनास्थानं दृश्यते तुहिनत्विषि ७८। जन्माभ्यासवशादेव पठंति बटवः स्वयम् । यत्रोपाध्यायसान्निध्यमाश्रित्य सकलाः कलाः ७९। यत्र ब्राह्मणपत्नीनां कंकणध्वनि हुंकृतिः । लुंपत्यनुदिनं भ्राम्यद्भ्रमराणां च गर्जितम् ८०। यत्र ब्राह्मणपत्नीनां कपोलफलकं मुहुः । स्पृशन्समीरणो मंदं वाति शापभयादिव ८१। माणिक्येश्वरनामासौ यत्र शीतांशुशेखरः । वसत्यनुदिनं देवो वरदानाय देहिनाम् ८२। अर्चितो भूपतीन्जित्वा मणिकेशेन चादृतः । माणिक्येश्वर इत्याख्यां तदाप्रभृति यो दधौ ८३। राज्ञा काश्मीरदेवेश दिग्जयोत्सवकारिणा । असौ सुपूजितो यस्मान्माणिक्यैर्भूरिभूतिभिः ८४। संसेवमानं तद्वारि छायां शकटिकोपरि । कंडूयमानमंगानि यंता रैक्यमपश्यत ८५। राज्ञापि कथितैस्तैस्तैश्चिह्नैः परिचितं जवात् । प्रणतः सारथी रैक्यं प्रणम्य तमभाषत ८६। सारथिरुवाच। कस्मिन्ब्रह्मन्किन्नामासि स्वछंदोऽसि निरंतरम् । किमर्थमत्र विश्रांतः किं च कर्तुं चिकीर्षसि ८७। इत्याकर्ण्य च तद्वाक्यं परमानंदनिर्भरः । स्मृत्वा सारथिमित्यूचे वयं पूर्णमनोरथाः ८८। परं केनापि बहुना परिचर्याविधायिना । भवितव्यं मनोवृत्तिं जानतास्माकमेव हि ८९। हृदयस्थितमादाय रैक्याभिप्रायमादरात् । शनैर्निरगमद्यंता यत्रास्ते वसुधाधिपः ९०। ततः प्रणम्य भूपालं यथावृत्तं न्यवेदयत् । बद्धांजलिपुटो हृष्टः सारथिः स्वामिदर्शनात् ९१। ततो निशम्य तद्वाक्यं विस्मयस्मेरलोचनः । श्रद्धालुरभवद्भूपो रैक्यसंभावनाविधौ ९२। आदायाश्वतरीयुग्मयुक्तां शकटिकामगात् । मुक्ताहारदुकूलानि सहस्रं च गवां नृपः ९३। गतोऽसौ तत्र यत्रास्ते योगी काश्मीरमंडले । तन्निवेद्य पुरो राजा दंडवत्पतितो भुवि ९४। आनम्य परया भक्त्या रैक्यो राज्ञे चुकोप ह । रे शूद्र मामकं वृत्तं न जानासि दुरीश्वर ९५। गृहाण शकटीमेतामुत्थाप्याश्वतरी युताम् । वस्त्राणि मुक्ताहारांश्च गाश्च दोग्ध्रीरपि स्वयम् ९६। इत्थमाज्ञतवान्भूपो रैक्यस्य भयमादधे । ततः शापभयाद्राजा तत्पदांभोरुहद्वयम् ९७। गृह्णन्भक्त्या प्रसीदेति ब्रह्मन्नित्यूचिवान्स्वयम् ९८। राजोवाच। भगवंस्तव माहात्म्यमेतदत्युद्भुतं कुतः । प्रसन्नीभूय भगवन्नाख्याहि मम तत्त्वतः ९९। रैक्य उवाच। गीतानां षष्ठमध्यायं जपामि प्रत्यहं नृप । तेनैव तेजोराशिर्मे सुराणामपि दुःसहः 6.180.१००। गीतानां षष्ठमध्यायं रैक्यादभ्यस्य यत्नतः । ज्ञानश्रुतिर्महीपालो मुक्तिमाप ततः सुधीः १०१। रैक्योऽपि सुखमालेभे माणिक्येश्वरसन्निधौ । गीतानां षष्ठमध्यायं जपन्मोक्षप्रदायकम् १०२। मरालवेषमास्थाय वरदानार्थमागताः । दिवौकसोऽपि निर्जग्मुः स्वैरं विस्मयकारिताः१०३। इममध्यायमप्येकं यो जपेत्सततं नरः । सोऽपि तत्पदवीमेति विष्णोरेव न संशयः १०४। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीता। माहात्म्ये अशीत्यधिकशततमोऽध्यायः १८०।

tu. skandapurāṇam [https://sa.wikisource.org/s/fsk 3.1.26]śrībhagavānuvāca| ṣaṣṭhādhyāyasya māhātmyaṃ pravakṣyāmi varānane | yadākarṇayatāṃ nṝṇāṃ muktiḥ karatale sthitā 1| asti godāvarī tīre pratiṣṭhānaṃ puraṃ mahat | pippaleśābhidhāno'haṃ yatrāsmi smeralocane 2| yatra godāvarī tīra śīkarairavaśītalaiḥ | haṃsāḥ pakṣapuṭaiḥ kīrṇairharaṃti yamināṃ śramam 3| sphuratpadmāvalīkośaparāgasurabhīkṛtam | ślāghyaṃ godāvarītoyaṃ yena te nirjarā narāḥ 4| dhiksudhāmauṣadhīśasya vikṛtkṣayavidhāyinīm | mahārāṣṭravadhūkānāṃ majjaṃtīnāṃ munīśvarāḥ 5| spṛśaṃti yatra vaktrāṇi phullapaṃkajaśaṃkayā | yatrakhelanmahārāṣṭrāḥ kvaṇatkaṃkaṇasuṃdarāḥ 6| haraṃti dhvanayo līnāṃ manāṃsyapi tapasvinām | atyuccasaudhaśikharavihāri vanitāmukham 7| paśyannanudinaṃ yatra kṣīyate mṛgalāṃcchanaḥ | atyuccasaudhavalabhī mahāmaṇimarīcibhiḥ 8| cuṃbyaṃte munigaṃdharvairdūrvācaṃdanacaṃcalaiḥ | yasminnādhūyamānānāṃ patākānāṃ samīraṇaiḥ 9| gataśramā raveryāne bhavaṃti rathavājinaḥ | rāśīkṛtairmalayajairasaṃkhyātairvaṇiggaṇaiḥ 10| yasminnupalaśeṣo'sau lakṣyate malayācalaḥ | puṃjīkṛtāni dṛśyaṃte yatra muktāphalānyapi 11| nagarīdevatā hāsya stabakā iva sarvataḥ | tatra jñānaśrutirnāmnā medinīvallabho'bhavat 12| yasminnuddharati kṣoṇīṃ śeṣo'yaṃ maṇisaṃnibhāṃ | api pratāpamārtaṃḍamaṃḍalī tīvratejasi 13| nityamadhvaradhūmena śyāmalāḥ kalpaśākhinaḥ | asādhāraṇadātṛtvaṃ paśyaṃta iva lajjayā 14| yadadhvarapuroḍāśa carvaṇāsvādalaṃpaṭāḥ | na tatyajuḥ suparvāṇaḥ pratiṣṭhānapuraṃ manāk 15| yasyadānāṃbudhārābhiḥ pratāpajyotsnayāniśam | makhadhūmaiśca saṃpuṣṭā vavṛṣuḥ samaye ghanāḥ 16| svalpamātramapi kvāpi na padaṃ prāpurītayaḥ | nītayaḥ prasaraṃti sma yasminśāsati medinīm 17| vāpikūpataḍāgānāṃ cchadmanā yo'nuvāsaram | hṛdayasthāni medinyā nidhānāni vyalokayat 18| pāṃḍurābhiḥ patākābhiḥ prāsādo yasya rājate | viyadgaṃgātaraṃgoghairhimādririva sānumān 19| dānaistapobhiryajñaiśca prajānāṃ pālanena ca | tuṣṭāḥ svargaukasastasmai varaṃ dātuṃ samāgaman 20| tatoṃtarikṣamārgeṇa dhunvānāḥ pakṣasaṃhatīḥ | mṛṇāladhavalā devī devahaṃsā vinirgatāḥ 21| tvarayā gacchatāṃ teṣāmanyonyaṃ tatra bhāṣiṇām | bhadrāśvapramukhā dvitrāḥ purastānniryayurjavāt 22| sarvairmiladbhirūcuste purastādgacchato javāt | kathaṃ vegena niryātā bhavaṃtaḥ purataḥ sthitāḥ 23| sarvairmilitvā gaṃtavyamasminnadhvani durgame | prakāśamānaṃ puratastejaḥpuṃjaṃ na paśyatha 24| jñānaśrutermahībhartuḥ puṇyamūrtteratisphuṭam | niśamyeti vacaḥ samyakpāścātyānā puraḥ sthitāḥ 25| haṃsā hasitvā sāvajñamūcurvacanamuccakaiḥ | [https://vedastudy.tripod.com/pur_index25/raikva.htm raikyopari ṭippaṇī]raikyābhidhasya durddharṣa tejaso brahmavādinaḥ 26| kiṃ nu jñānaśruterasya rājñastīvrataraṃ mahaḥ | iti śuśrāva haṃsānāṃ giro jñānaśrutirnṛpaḥ 27| atyuccasaudhabhavanamāruhya ca sukhaṃ sthitaḥ | tataḥ sārathimāhūya bhūpālo vismayānvitaḥ 28| saṃdideśa mahātmā'sau raikya ānīyatāmiti | tato'vadhārya bhūpālavacaḥ pīyūṣagarbhitam 29| nirjagāmamaho nāmnā sārathiḥ prathayanmudam | yatra vārāṇasīnāma nagarī muktidāyinī 30| yatra viśveśvaro nāma hyupadeṣṭā jagatpatiḥ | tato gayābhidhe kṣetre yatra devo gadādharaḥ 31| uddhartumakhilānlokānvasatyutphullalocanaḥ | tato gaurīguroḥ pārśve sarvaistīrthairanekadhā 32| paryaṭangatavānyatra kedāraḥ pāpadāraṇaḥ | yamālokya sakṛnmartyā muktāḥ syurnātra saṃśayaḥ 33| mahāpāpavirnimuktā bhuktvā bhogānyathepsitān | tato gauḍeṣu niryāto yatrāste puruṣottamaḥ 34| yasyāvalokanādeva narāḥ svarlokagāminaḥ | tato dvārāvatīṃ prāgānnagarīṃ muktidāyinīm 35| yatrāste gomatī tīre rukmiṇīvallabho hariḥ | snātvā ca gomatītīrthe paṃcakṛṣṇānvilokya ca 36| martyo muktimavāpnoti bhuktvā bhogānyathepsitān | tataḥ samudramāsādya somanāthaṃ vilokya ca 37| bhuktimuktipradaṃ devaṃ tato niragamansudhīḥ | avaṃtikāṃ purīṃ prāpto bhuktimuktipradāyinīm 38| yatromayā sukhaṃ krīḍanmahākālosti śaṃkaraḥ | athoṃkāraṃ samāsādya śarmadaṃ narmadātaṭe | bhuktimuktipradātāraṃ tvarayā nirgatastataḥ 39| aśvamedhakaraṃ nāmnā nagaraṃ paryaṭaṃstataḥ | yatra śārṅgadharaḥ sākṣādāste lakṣmīpatiḥ svayam 40| tato viṣṇugayāṃ prāptaḥ kuṇḍaṃ loṇārasaṃjñitam | yatra snātvā ca pītvā ca mucyate bandhanānnaraḥ 41| tataḥ kolhāpuraṃ nāma gato rudragayāṃ prati | āste bhagavatī yatra lakṣmīrbhaktipradāyinī 42| pañcanadyāṃ naraḥ snātvā mahālakṣmīṃ vilokya ca | bhuktvā bhogānyathākāmaṃ bhaktiṃ ca pratipadyate 43| tato'malagiriṃ nāma nagarīṃ pratipadya ca | nandikeśvaramāruhya somanātho'sti yatra tu 44| dṛṣṭvā caturbhujaṃ devaṃ varadānodyataṃ śivam | somanāthaṃ nṛṇāṃ muktirbhavatyeva na saṃśayaḥ 45| tuṅgabhadrānadī tīre dṛṣṭvā hariharaṃ tataḥ | yugeyuge bhujā yasya patantyavanimaṇḍale 46| yadvilokya narāḥ sarve ramyaṃ hariharaṃ vapuḥ | bhuktvā bhogānyathākāmaṃ mucyante bandhanānnarāḥ 47| svarge kalpaśataṃ sthitvā muktasaṃsārabandhanāḥ | tataḥ svāminamālokya lokānāṃ svāminaṃ vibhum 48| yamālokya na paśyanti nirayaṃ jātucinnarāḥ | svarge kalpaśataṃ sthitvā muktasaṃsāravāsanāḥ 49| muktiṃ ca pratidadyante nātra kāryā vicāraṇā | tataḥ śrīśailamāsādya siddhagandharvasevitam 6.180.50| girijāvallabho yatra mallinātho'bhidhānataḥ | uddhartumakhilā~llokānsaṃsārāmbhodhimadhyataḥ 51| svarge kalpaśataṃ sthitvā muktasaṃsārabaṃdhanāḥ | muktiṃ ca pratipadyaṃte nātra kāryā vicāraṇā 52| tataḥ śrīśailamāsādya siddhagaṃdharvasevitam | girijāvallabho yatra mallinātho'bhidhānataḥ 53| uddhartumakhilā~llokānsaṃsārāṃbudhimadhyataḥ | kālekāle paraṃ jyotiryaḥ saṃdarśayate svayam 54| avalokayatāṃ nṝṇāṃ yamanusmaratāmapi | dūre tiṣṭhaṃti saṃtrastā dūraṃ nirayayātanāḥ 55| svarge loke sukhaṃ bhuktvā muktasaṃsārabaṃdhanāḥ | muktiṃ ca pratipadyaṃte mānavā nātra saṃśayaḥ 56| rāmosti sānujaḥ sārddhaṃ jānakyāpi tato gataḥ | tatra snātvā ca pītvā ca mucyate narakāddhruvam 57| kalpakoṭiśataṃ bhuktvā svargalokasukhaṃ narāḥ | muktasaṃsāravartmāno muktiṃ yāṃti na saṃśayaḥ 58| tato nivṛtya āyātaḥ paśyanbhīmarathī taṭe | dvibhujaṃ viṭhṭhalaṃ devaṃ bhuktimuktipradāyakam 59| yatra godāvarījanmasthānaṃ brahmagirirmahān | gautamālayamāsādya yatrāste tryaṃbako haraḥ 60| aruṇāvaruṇayormadhye yatra godāvarī nadī | tatra snātvā ca pītvā ca brahmahatyā vilīyate 61| asaṃkhyatīrthasaṃpannaṃ dṛṣṭvā brahmagiriṃ narāḥ | muktimeva prapadyaṃte muktāḥ saṃsāraduḥkhataḥ 62| gautamyubhayatīrastha tīrthānveṣaṇakautukī | tato jagāma sūtastu mathurāṃ pāpanāśinīm 63| yatra svāyaṃbhuvaṃ devaṃ bhajaṃti suramānavāḥ | ādyaṃ bhagavataḥ sthānaṃ mahanmuktipradāyakam 64| trailokyeśa janisthānaṃ vikhyātaṃ vedaśāstrayoḥ | nānādevagaṇairjuṣṭaṃ dvijarṣigaṇasevitam 65| kāliṃdīkūlasaṃśobhi hyarddhacaṃdra prabhākṛti | sarvatīrthanivāsaika pūrṇamānaṃdasuṃdaram 66| govarddhanagiriprakhyaṃ puṇyadrumalatāvṛtam | dviṣaḍvanaṃ mahāpuṇyaṃ viśrāṃti śrutisārabhṛt 67| tataḥ kāśmīranagaramapaśyatpratyaguttaram | dṛṣṭvā dharmadhuraṃ kṣetraṃ kurukṣetraṃ samaṃtataḥ 68| yatrābhraṃlihagehānāṃ paṃktayaḥ śaṃkhapāṇḍurāḥ | tā jātā dhūrjaṭeḥ spaṣṭa aṭṭahāsadaśā iva 69| bhaktiprasādamālānāṃ suvarṇakalaśairvṛtam | svaḥ siṃdhoḥ patitānīva hemapadmāni mārutaiḥ 70| yatra prāsādaśikhare nīlapaṭṭapatākikāḥ | śaivālavalayābhāṃti svaḥ siṃdhorlatikā iva 71| yatra kāśmīramāśritya nityaṃ vasati bhāratī | naucedyugapadevedaṃ kathaṃ likhati vāṅmayam 72| viśrāmaṃtyāḥ sarasvatyāściraṃ yatra madālasāḥ | mṛṇālacaṃcavo haṃsā vāhanāni caraṃtyamī 73| kalāviśeṣaṃ prahitā yatra boddhuṃ viraṃcinā | tārā iva virājaṃte haṃsā yātāḥ samaṃtataḥ 74| sthalapadmāni dṛśyaṃte karasparśasukhāni ca | śayanāya nitaṃbinyā yasmindānavavairiṇā 75| upanyāsairdvijātīnāṃ yatra na śrūyate sphuṭam | mūko'pi nirjaro vācā padakallolaḍaṃbaraḥ 76| yasminnadhvaradhūmena vyāptaṃ gaganamaṃḍalam | api ca kṣālitaṃ meghaiḥ kālimānaṃ na muṃcati 77| galitāyāḥ sudhāyāstu yatrādhvaramahārciṣā | lāṃchitaṃ chadmanāsthānaṃ dṛśyate tuhinatviṣi 78| janmābhyāsavaśādeva paṭhaṃti baṭavaḥ svayam | yatropādhyāyasānnidhyamāśritya sakalāḥ kalāḥ 79| yatra brāhmaṇapatnīnāṃ kaṃkaṇadhvani huṃkṛtiḥ | luṃpatyanudinaṃ bhrāmyadbhramarāṇāṃ ca garjitam 80| yatra brāhmaṇapatnīnāṃ kapolaphalakaṃ muhuḥ | spṛśansamīraṇo maṃdaṃ vāti śāpabhayādiva 81| māṇikyeśvaranāmāsau yatra śītāṃśuśekharaḥ | vasatyanudinaṃ devo varadānāya dehinām 82| arcito bhūpatīnjitvā maṇikeśena cādṛtaḥ | māṇikyeśvara ityākhyāṃ tadāprabhṛti yo dadhau 83| rājñā kāśmīradeveśa digjayotsavakāriṇā | asau supūjito yasmānmāṇikyairbhūribhūtibhiḥ 84| saṃsevamānaṃ tadvāri chāyāṃ śakaṭikopari | kaṃḍūyamānamaṃgāni yaṃtā raikyamapaśyata 85| rājñāpi kathitaistaistaiścihnaiḥ paricitaṃ javāt | praṇataḥ sārathī raikyaṃ praṇamya tamabhāṣata 86| sārathiruvāca| kasminbrahmankinnāmāsi svachaṃdo'si niraṃtaram | kimarthamatra viśrāṃtaḥ kiṃ ca kartuṃ cikīrṣasi 87| ityākarṇya ca tadvākyaṃ paramānaṃdanirbharaḥ | smṛtvā sārathimityūce vayaṃ pūrṇamanorathāḥ 88| paraṃ kenāpi bahunā paricaryāvidhāyinā | bhavitavyaṃ manovṛttiṃ jānatāsmākameva hi 89| hṛdayasthitamādāya raikyābhiprāyamādarāt | śanairniragamadyaṃtā yatrāste vasudhādhipaḥ 90| tataḥ praṇamya bhūpālaṃ yathāvṛttaṃ nyavedayat | baddhāṃjalipuṭo hṛṣṭaḥ sārathiḥ svāmidarśanāt 91| tato niśamya tadvākyaṃ vismayasmeralocanaḥ | śraddhālurabhavadbhūpo raikyasaṃbhāvanāvidhau 92| ādāyāśvatarīyugmayuktāṃ śakaṭikāmagāt | muktāhāradukūlāni sahasraṃ ca gavāṃ nṛpaḥ 93| gato'sau tatra yatrāste yogī kāśmīramaṃḍale | tannivedya puro rājā daṃḍavatpatito bhuvi 94| ānamya parayā bhaktyā raikyo rājñe cukopa ha | re śūdra māmakaṃ vṛttaṃ na jānāsi durīśvara 95| gṛhāṇa śakaṭīmetāmutthāpyāśvatarī yutām | vastrāṇi muktāhārāṃśca gāśca dogdhrīrapi svayam 96| itthamājñatavānbhūpo raikyasya bhayamādadhe | tataḥ śāpabhayādrājā tatpadāṃbhoruhadvayam 97| gṛhṇanbhaktyā prasīdeti brahmannityūcivānsvayam 98| rājovāca| bhagavaṃstava māhātmyametadatyudbhutaṃ kutaḥ | prasannībhūya bhagavannākhyāhi mama tattvataḥ 99| raikya uvāca| gītānāṃ ṣaṣṭhamadhyāyaṃ japāmi pratyahaṃ nṛpa | tenaiva tejorāśirme surāṇāmapi duḥsahaḥ 6.180.100| gītānāṃ ṣaṣṭhamadhyāyaṃ raikyādabhyasya yatnataḥ | jñānaśrutirmahīpālo muktimāpa tataḥ sudhīḥ 101| raikyo'pi sukhamālebhe māṇikyeśvarasannidhau | gītānāṃ ṣaṣṭhamadhyāyaṃ japanmokṣapradāyakam 102| marālaveṣamāsthāya varadānārthamāgatāḥ | divaukaso'pi nirjagmuḥ svairaṃ vismayakāritāḥ103| imamadhyāyamapyekaṃ yo japetsatataṃ naraḥ | so'pi tatpadavīmeti viṣṇoreva na saṃśayaḥ 104| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe gītā| māhātmye aśītyadhikaśatatamo'dhyāyaḥ 180|

English translation

[ Note : this page corresponds to chapter 180 of the Book 6 (Uttarakhaṇḍa) of the translation of The Padmapurāṇa ]

The lord said :

1-20. O you of an excellent face, I shall tell you the importance of the sixth chapter, hearing which men have salvation on hand. On the bank of Godāvarī there is a great city Pratiṣṭhāna where, O you of smiling eyes, I, named Pippaleśa, dwell. There swans remove the fatigue of the self-controlled ones with cold sprays from the cavities in their wings on the bank of Godāvarī. The Godāvarī-water made fragrant with the pollen from the cups of throbbing lotuses is praiseworthy as it makes people free from old age. Fie upon the nectar of the lord of herbs (i.e. the Moon), destroying sins! There the best sages touch the faces of the Mahārāṣṭra women bathing (in Godāvarī), misunderstanding them to be fully bloomed lotuses. There the sporting Mahārāṣṭra beauties snatch (by surpassing) the humming of the bees the ascetics’ minds also. There the Moon everyday wanes on seeing the face of a woman sporting on the top of a very high mansion. The sloping roof of a very high mansion is touched by sages and gandharvas with rays of great gems unsteady due to breezes (blowing) over dūrvā and sandal(?). In it the horses of the Sun’s chariot when he is going, are free from fatigue due to the breezes from the banners that are tossed. In it the Malaya mountain appears to be left with stones, when the hosts of merchants collected innumerable (pieces of) sandal wood. In it even pearls are seen to be accumulated everywhere like the bunches of the laughter of the city-deity. There lived a king named Jñānaśruti. When he, of a strong lustre, lifted the earth like a gem, even Śeṣa , resembling the Sun in radiance, was (just) a snake in general ( obscure ). The desire-yielding trees were as it were darkened through shame on seeing his matchless generosity (manifested) by the continual smoke of the sacrifices. Gods greedy of eating the sacrificial oblations did not at all leave the city of Pratiṣṭhāna. Clouds, constantly well-nourished by the streams of water used for gifts and the moonlight of his valour and the smoke of sacrifices offered by him, showered in time. Calamities did not find even the smallest place anywhere. Right courses prevailed when he ruled the earth. He everyday looked upon wells, tanks and lakes as the treasures remaining in the heart of the earth. His palace shone with white banners, like the Himālaya mountain with the multitude of the ripples of Gaṅgā . The residents of heaven (i.e. the gods) pleased with his gifts, austerities, sacrifices, protection of his subjects, came (there) to give him a boon.

21-39. Then, tossing their masses of wings, divine female and male swans, white like lotus-stalks, went out along the path in the atmosphere. Two or three of them, led by Bhadrāśva , going quickly, and talking to one another, speedily moved ahead. All of them said together to them moving ahead speedily: “Why do you go speedily? Why do you remain ahead? Along this difficult path we should go together. Do you not see very clearly before you a mass of lustre, shining brightly of king Jñānaśruti, of a virtuous form? Hearing these words of those that lagged behind the swans that were ahead laughed and contemptuously uttered (these) words loudly: “Is the lustre of this king Jñānaśruti more severe than the dreadful lustre of Raikya, the teacher of the Vedas ?” King Jñānaśruti, comfortably seated on the top of his very lofty mansion, heard these words of the swans. Then, he, full of amazement, called his charioteer, and the noble one ordered him: “Bring Raikya”. The charioteer, Maha by name, having understood (these) words of the king containing nectar, manifesting joy, went out to the city Vārāṇasī , giving salvation, where god Viśveśvara , the lord of the world and the preceptor dwells. Then to the holy place called Gayā where god Gadādhara , of blooming eyes. lives to emancipate all people. Then near Śiva . Having moved many times to all holy places he went to (the holy place) Kedāra destroying sins, seeing which (even) once mortals undoubtedly are released. Enjoying desired pleasures they are freed from great sins. Then he went to the Gauḍa country where Puruṣottama dwells, by just seeing whom men go to heaven. From there he went to the city of Dvārāvatī , giving salvation, where Kṛṣṇa , dear to Rukmiṇī , lived. A mortal, having bathed at the holy place of Gomatī and having seen the five Kṛṣṇas (there), obtains salvation after having enjoyed pleasures as desired. Then the wise one having reached the sea and seen Somanātha , the god giving enjoyments and salvation, proceeded further. He reached the city of Avantikā giving pleasures and salvation, where Mahākāla Śaṅkara dwells happily sporting with Umā. Then having reached Oṃkāra , giving happiness and granting enjoyment and salvation on the bank of Narmadā , he quickly set out from there.

40-52. Then he travelled to the city named Aśvamedhakara where Lakṣmī ’s lord Viṣṇu , holder of Śārṅga , actually lives. Then he reached in Viṣṇugayā a tank called Loṇāra, having bathed where and drunk (water of which) a man is released from bondage. Then he went to (a city) named Kolhāpura in Rudragayā, where revered Lakṣmī, giving (i.e. causing) devotion, dwells. A man having bathed in Pañcanadī and seen Lakṣmī, enjoys pleasures as desired, and also obtains devotion. Then having visited the city named Amalagiri, and having seen Somanātha who dwells after mounting on (i.e. on the top of) Nandikeśvara , who is auspicious, has four hands, and is ready to give gifts, he would undoubtedly have salvation. Then he saw, on the bank of Tuṅgabhadrā , Harihara , whose arms fall on the globe of the earth in every yuga . All men seeing the charming Harihara-body, enjoy pleasures according to their desire and are freed from bondage. Having remained in heaven for a hundred kalpas and being free from the bondage of the worldly existence, they see the mighty lord of the worlds, seeing whom men never see hell. Having stayed in heaven for a hundred kalpas and being free from the desire for worldly existence, they obtain salvation. No doubt should be raised about this. Then a man should reach Śrīśaila resorted to by siddhas and gandharvas, where Girijā’s lover (i.e. Śiva) called Mallinātha (lives) to draw out all people from the ocean of worldly existence. Having lived in heaven for a hundred kalpas and being free from the bondage of worldly existence, they obtain salvation. No doubt should be raised about this.

53-67. Then he reached Śrīśaila resorted to by siddhas and gandharvas, where Girijā’s lover named Mallinatha (lives) to draw out all people from the ocean of this worldly existence and at every opportune time shows his own lustre. Afflictions and tortures in hell of those men who see or even remember him, keep away. There is no doubt that men free from the bondage of the mundane existence enjoy happiness in heaven and obtain salvation. Here Rāma with his younger brother and accompanied by Sītā (dwells). Having bathed and drunk (water) there a man is certainly free from hell. Men having enjoyed happiness in heaven for crores of kalpas, men freed from the path of worldly existence undoubtedly go to salvation. Then returning from there, he came, seeing on the bank of Bhīmarathī the two-armed god Viṭṭhala , giving enjoyments and salvation, (to the place) where the source of Godāvarī, the great Brahmagiri , is situated. By reaching Gautamālaya where the three-eyed Śiva dwells and after bathing and drinking (water) there where there is river Godāvarī between Aruṇa and Varuṇa , (sin due to) the murder of a brāhmaṇa perishes. Men, seeing Brahmagiri, rich in many holy places, obtain salvation only (after) being freed from the agony of the worldly existence. Then the charioteer, delighted by seeing holy places on both the banks of Gautamī , went to Mathurā , destroyer of sins. There gods and men worship the self-born god. It is the first great place of the lord, which gives salvation. It is the birth-place of the lord of the three worlds, and is well-known to the Vedas and holy texts. It is resorted to by many hosts of gods and of brāhmaṇa sages. It is charming due to the bank of Kālindī ; has the form and lustre of the crescent moon; being full of the residence of all holy places it is delightfully beautiful. It is known as Govardhanagiri, Dviṣadvana, and is covered by auspicious trees and creepers. It is very holy. It has the essence of the holy texts resting (there).

68-86. Then to the north he saw the city of Kāśmīra , after seeing on all sides the holy place Kururkṣetra, foremost in piety, where the lines of houses white like conches and touching the sky, have become as it were the fringes of the distinct laughter of Śiva. It is covered with golden pitchers of the garlands of devotion and grace which are as it were golden lotuses fallen from the divine river due to wind. There the banners of blue straps like rings of moss on the tops of mansions appear like the strings of pearls of the divine river. There, resorting to Kāśmīra, Sarasvatī always lives. Otherwise, how does she simultaneously write the (entire) Vedic literature? These swans that are dull due to intoxication, that have lotus-stalks in their beaks and that are the vehicles of Sarasvatī, resting there for a long time, are moving. There the swans sent by Brahmā to know a special art, shone like stars and went on all sides. The land-growing lotuses, pleasing to the touch by hand, are seen (to be used) by the enemy of the demons for the bed of the beautiful lady. There due to the statements ( upanyāsaiḥ ?) of the brāhmaṇas distinct hearing was not possible. Even a dumb man, fresh in talk, had a mass of joyous words ( obscure ). There the sky pervaded by the smoke of sacrifices, though washed by clouds, did not give up its darkness. There the place of the nectar dropped due to the great lustre of the sacrifices was seen to be distinguished by its mark. There boys resorting to the vicinity of the preceptor recite all arts by themselves due to the practice right from their birth. There the ‘hum’ sound of the bracelets of the brāhmaṇa wives and the humming of the wandering bees got confused. There the breeze touching again and again the cheeks of the brāhmaṇa wives, blows gently as it were through the fear of a curse. There, this god Śiva called Māṇikyeśvara, lives to give boons to men day by day. Maṇikeśa, having conquered kings, worshipped and honoured him. Since then he took the name Māṇikyeśvara, as he was well worshipped with many majestic rubies by the Kāśmīra-king, desirous of conquest of the world. The charioteer saw at his door Raikya seated on a cart and enjoying shade and scratching his limbs. Having recognised him by the respective marks told by the king, the charioteer quickly bowed down to him and after having bowed down spoke to him.

The charioteer said :

87-98. O brāhmaṇa, in which (family are you born)? What is your name? You are constantly self-willed. Why are you resting here? What do you desire to do?

Hearing these words of him, he, full of great joy, remembered the charioteer, and said: “My desires are fulfilled. But there must be (something) as you, offering great adoration to me, are (trying to) know my mood.” Taking (i.e. understanding) respectfully the intention of Raikya remaining in his mind, the charioteer slowly set out to the place where the king was. Then the charioteer with his arms folded and delighted to see his master, bowed down, and told the king the account as it took place. Then hearing his words, the king with his eyes smiling (i.e. blooming) with wonder, had a strong desire to honour Raikya. Taking a cart to which a pair of female mules was yoked, a necklace, silken garments and a thousand cows, he went to the Kāśmīra country where the meditating saint lived. Offering those (articles) to him, the king fell (prostrate) like a staff on the ground after bending with great devotion. Raikya was angry with the king. (He said:) “O bad king, O śūdra , do you not know my conduct? Take (back) this cart; lift it to which female mules are yoked; so also (take back) the garments, pearl-necklaces and the milch cows.” The king, thus ordered, was afraid of Raikya. Then the king, afraid of a curse, devoutly seized the pair of his lotus-like feet, and himself said, “O brāhmaṇa, favour me.”

The king said :

99. O revered one, wherefrom is this very wonderful greatness of you? Being pleased, O illustrious one, tell me accurately.

Raikya said :

100-104. O king, everyday I mutter the sixth chapter of the Gītā Therefore, I have a heap of lustre, difficult to be borne even by gods.

Having carefully learnt from Raikya the sixth chapter of the Gita , the wise king Jñānaśruti then suddenly became free. Raikya too, muttering near Māṇikyeśvara the sixth chapter giving salvation, obtained happiness. Gods also, who had come there, after having disguised themselves as swans for (getting) gifts, were amazed, and went out at their free will. There is no doubt that a man who constantly mutters this chapter only goes to Viṣṇu's position.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 44900, revision 334283 (2022-03-31T00:47:23Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-bhagavad-gita-mahatmya/d/doc365760.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.