Skip to main content

Uttara-khaṇḍa · Chapter 250

Chapter 250

Unit 662 of 693Uttara-khaṇḍa · Chapter 250Uttara-khaṇḍa · Chapter 2501 source entries

Uttara-khaṇḍa · Chapter 250

Source

श्रीरुद्र उवाच- रुक्मिण्यां कृष्णस्य प्रद्युम्नो मदनांशेन जज्ञे १। असौ मदनसंभूतो महाबलः शंबरं जघ्निवान् २। तस्य रुक्मिणः सुतायामनिरुद्धो जज्ञे ३। सोऽपि बाणपुत्रीमुषां नाम कन्यामुपयेमे ४। सा तु स्वप्ने नीलोत्पलदलश्यामं पुंडरीकनिभेक्षणं महाबाहुं विचित्राभरणोपेतं षोडशसमायथावदुपभुज्य प्रबुध्य तं पुरतो न दृष्ट्वा मदनेनपीडिता भ्रांतचित्ता मां तु त्यक्त्वा वयस्कं रक्तारविंदवक्त्रं क्वासि क्व यासीति बहुधा विललाप ५। ततस्तस्याः सखी चित्रलेखेति नाम कन्यां तादृशीमवस्थां गतां विलोक्य किंनिमित्त विभ्रांतचित्तासीति पप्रच्छ ६। सापि स्वप्नलब्धं पतिं यथावदाचष्ट ७। सापि सकलदेवमानुषादिश्रेष्ठान्पटे विलिख्य तस्यै दर्शयामास ८। यदुवंशसंभूतान्कृष्णसंकर्षणप्रद्युम्नानिरुद्धादीनपि सम्यङिनवेदयामास ९। सा तेषां कृष्णमनुमान्य प्रद्युम्नानंतरमनिरुद्धं दृष्ट्वा स इत्येष इत्यालिलिंग १०। अथ चित्रलेखा बह्वीभिर्मायावतीभिर्दैत्यस्त्रीभिर्द्वारवतीं गत्वा रात्रावंतःपुरे सुप्तमनिरुद्धं। दृष्ट्वा गृहीत्वा मोहयित्वा माहिष्मत्यां बाणस्यांतःपुरे चैत्यप्रासादादियुक्ते तस्या बाणपुत्र्याः शय्यायां चिक्षेप ११। सोऽपि प्रबुद्धोतिरम्येऽनंगपावके संस्थितामुषां सर्वलक्षणलक्षितां विचित्राभरणवसनगंधमाल्यालंकृतां कांचनवर्णां सुकेशीं सुजातस्तनीं दृष्ट्वा गाढमालिंग्य करिण्या गंधहस्तीव तयातिप्रीतिसंयुक्तया यथासुखं रमयामास १२। एवं मासमात्रं निरंतरतयानिरुद्धं रममाणं कदाचिदंतःपुरनिवासिन्यो वृद्धा दैत्यस्त्रियो ज्ञात्वा राज्ञे निवेदयामासुः १३। स राजा क्रोधताम्राक्षः परं विस्मयं गत्वा तमिहानयतेति पुरः किंकरान्प्रेषयामास १४। तेऽपि तूर्णं नृपप्रासादमारुह्य राजपुत्र्याः शयने संस्थितमनिरुद्धं ग्रहीतुमाजग्मुः १५। स तान्समारब्धान्दृष्ट्वा प्रासादस्तंभमेकं हेलयोत्पाट्य नियुतसंख्याकान् किंकरान्मुहूर्तमात्रणैव स्तंभेन चूर्णितमात्रं चकार १६। अथ दैत्यपतिर्निहतान्किंकरान्दृष्ट्वा कौतूहलं गत्वा असौ श्रीकृष्णपौत्र इति देवर्षिणा प्रोक्तो धनुरादाय स्वयमेवानिरुद्धं ग्रहीतुं तत्समीपमाजगाम १७। अनिरुद्धोऽपि योद्भुमायांतं सहस्रबाहुं राजानं दृष्ट्वा तत्परिघं भ्रामयित्वा बाणस्योपरि चिक्षेप १८। स्वचापनिर्मुक्तेन बाणेन तं परिघं चिच्छेद १९। अनंतरमुरगास्त्रेण अनिरुद्धं निबिडं बद्ध्वा स्वांतःपुरे निवेशयामास २०। अथ कृष्णोप्येवंविधमेव देवर्षिणा ज्ञात्वा बलदेवप्रद्युम्नसहितः स्वसेनया विहंगमेंद्रमारुह्य तस्यबाणस्य भुजवनं छेत्तुमाजगाम २१। बलिपुत्रेण पुरा शंकरोऽर्चितः प्रसन्नो वरं वृणीष्वेत्युवाच २२। तमीश्वरं बाणो मम पुरद्वारिरक्षार्थं सर्वदोपविश्य समागतं परसैन्यं जहीत्येवं वरमयाचत२३। तं तथेत्युक्त्वा शंकरोऽपि तस्य पुरद्वारि सायुधः सपुत्रः सगणः समासीनस्तस्मिन्नेव काले रुषा स्वसेनया समागतं वासुदेवं दृष्ट्वा वृषमारुह्य सर्वायुधोपेतः स्वपुत्रगणसंवृतो योद्धुं निश्चक्राम २४। कृष्णोऽपि तं भूतपतिं गजचर्मकपालभस्मधरं ज्वलितोरगाकल्पं पिंगलं त्रिलोचनं त्रिशूलधरं सर्वभूतगणसंहृतिकर्त्तारं सर्वभूतभयावहं संवर्त्ताग्निप्रभं पुत्रद्वयसमन्वितं समस्तगणावृतं त्रिपुरांतकं दृष्ट्वा सेनां सुदूरे पृष्ठतो निवेश्य बलभद्र प्रद्युम्नसहितस्तेन रुद्रे ण सह प्रहसन्निव योद्धुमारेभे २५। प्रथमं तदभूद्घोरं कृष्णशंकरयोस्तदा । पिनाकशार्ङ्गनिर्मुक्तैर्बाणैः संवर्त्तकोपमैः २६। रामोऽपि चक्रे बाणेन प्रद्युम्नः षण्मुखेन च । युयुधाते महावीर्यौ सिंहाविव बलोत्कटौ २७। विनायकः स्वदंतेन जघानोरसि यादवम् । रामो मुशलमादाय तस्य दंतमताडयत् २८। निर्भिन्नदंतः सहसा प्रदुद्रावाखुवाहनः । तदाप्रभृति लोकेऽस्मिन्हतदंतो गणेश्वरः २९। देवदानवगंधर्वैरेकदंतइतीरितः । प्रद्युम्नेन समं युद्धं चकार शिखिवाहनः ३०। गणान्विद्रावयामास मुशलेन हलायुधः । कृष्णेन सुचिरं कालं युद्धासौ नीललोहितः ३१। तापज्वरं महादीप्तमस्मिन्संयोज्य सायके । कोपान्मुमोच तदसौ भृशं संरक्तलोचनः ३२। तदस्त्रं वारयामास कृष्णः शीतज्वरेण तु । ताभ्यां हरिहराभ्यां तु विसृष्टौ ताविमौ ज्वरौ ३३। विशतुर्मानुषे लोके तयोरेवाज्ञया भृशम् । हरिशंकरयोर्युद्धं ये तु शृण्वंति मानवाः ३४। ते सर्वे ज्वरनिर्मुक्ताः प्राप्नुवंति निरामयम् । ततः स तु हृषीकेशो मोहनास्त्रं दुरासदम् ३५। नियुज्य बाणं भूतेशे मुमोच मधुसूदनः । मुहुर्मुहुर्व्यजृंभद्वै तेनास्त्रेण विमोहितः ३६। पपात मूर्च्छितो भूमौ शंकरस्त्रिदशेश्वरः । पितरं मोहितं दृष्ट्वा शक्तिमुद्यम्य वीर्यवान् ३७। योद्धुमभ्याययौ कृष्णं षण्मुखः शिखिवाहनः । हुंकारेणैव तं कृष्णश्चकारात्र पराङ्मुखम् ३८। एवं जित्वा यदुश्रेष्ठः शूलपाणिं त्रिलोचनम् । महास्वनं पांचजन्यं शंखं दध्मौ प्रतापवान् ३९। कृष्णेन निर्जितं श्रुत्वा सात्मजं शंकरं तदा । बाणः स्यंदनमास्थाय ययौ युद्धाय केशवम् ४०। स दृष्ट्वा सहसा कृष्णं गरुडोपरिसंस्थितम् । छादयामास गोविंदं बहुशस्त्रास्त्रवृष्टिभिः ४१। गदाभिः परिघैः शूलैः शक्तिभिस्तोमरैरपि । भिंडिपालैश्च खङ्गैश्च चक्रैर्बाणैर्निरंतरम् ४२। तानि सर्वाणि चिच्छेद चक्रेणैव जनार्दनः । ससर्ज तस्य बाहूनां छेदनार्थं सुदर्शनम् ४३। मुक्तं दनुजराजस्य सहस्रारं सुदर्शनम् । तद्बाहुकाननं तूर्णं छिन्नं चक्रे सहस्रधा ४४। एतस्मिन्नंतरे देवि पार्वती संशितव्रता । हरेः समीपमागत्य कृतांजलिरभाषत ४५। पार्वत्युवाच- कृष्णकृष्ण जगन्नाथ नारायण दयानिधे । दास्यस्मि तव देवेश पूर्वभावे यदूत्तम ४६। त्वया दत्तं वरं मह्यं तदा कौशलपर्वते । सौभाग्यं शाश्वतं सौम्य प्रसन्नेन महात्मना ४७। तव मुख्यं सहस्रस्य नाम्नामन्यतमं विभो । गौरीसौभाग्यदातेति मुनिभिः परिकीर्तितम् ४८। तत्सत्यं कुरु गोविंद गरुडारूढ शाश्वत । तस्मान्मम पतिं देव त्वं जीवयितुमर्हसि ४९। रुद्र उवाच- एवमुक्तस्ततो देव्या कृष्णः कमललोचनः । अस्त्रं संहारयामास येनासौ मोहितः पतिः ५० 6.250.50। कृष्णास्त्रेण विनिर्मुक्तः सर्वभूतपतिः शिवः । उत्थाय प्रांजलिर्भूत्वा तुष्टाव जगतां पतिम् ५१। शंकर उवाच- कृष्णकृष्ण जगन्नाथ भगवन्पुरुषोत्तम । परेश परमेशान अनादिनिधनाव्यय ५२। तीव्रवीर्यं मनुष्येषु शरीरग्रहणात्मिका । सर्वस्य तव चेष्टेयं मानलक्षणमेव तत् ५३। प्रसीद मे नमस्तुभ्यं प्रसीद मम शाश्वत । प्रसीद मे जगत्स्वामिन्प्रसीदाच्युत केशव ५४। त्वमेव जगतां स्रष्टा धाता हर्त्ता जगद्गुरुः । त्वमेव चिदचिद्वस्तुरूपं ब्रह्म सुरेश्वर ५५। त्वमादिस्त्वमनादिस्त्वमीश्वरः शेष एव च । त्वं महत्त्वं परं ब्रह्म प्रत्यगात्मा त्वमेव हि ५६। समस्तामरवर्य्यस्त्वममर्त्यस्त्वं सुरेश्वर । त्वं मर्त्त्येशः सयोनिस्त्वं सौशील्येन तव प्रभो ५७। तव श्वाससमुत्पन्नौ परजीवौ सनातनौ । ततश्च पाल्यते चैव तव वात्सल्यगौरवात् ५८। क्षराक्षरे परे धाम्नि रुचो नित्यं सुराश्रये । अधि विश्वे निधेषि त्वां दास्यकर्मणि नान्यथा ५९। यस्त्वां न वेदलोकेऽस्मिन्स मूढः सर्वभावनः । परावरेश्वरं धाम विदुर्दास्ये मनीषिणः ६०। ते वै समासते युक्तास्तत्पदं त्रिदशैः समम् । सामान्यो भजते दूरेनंतुं नित्यं पदं तव ६१। तस्य तुर्या चारुकेशी चावस्था घटते तव । मिथुनानि तवाध्यक्ष ब्रुवते यदुशाश्वत ६२। तव नामानि कर्माणि गुणानि शाश्वतानि च । ऐश्वर्याणि गुणातीत ब्रुवते चोत्तमे इमे ६३। कर्मज्ञानमये रूपे इमे पूर्वोत्तरे श्रुते । ससुतौ युवतीशस्य स्तोतारौ तव केशव ६४। त्वं प्रज्ञानं परं ब्रह्म त्वया प्राज्ञेन शाश्वत । जीवयैतेन प्रज्ञेन परेणैवात्मना त्वया ६५। तस्माच्छरीरादुत्क्रम्य कृपया तव केवलम् । आमुष्मिके परे स्वर्गे त्वया दत्तात्मबोधवान् ६६। प्रज्ञानं चैव विज्ञानं मेधां दृष्टिं तथा धृतिम् । सर्वान्कामानवाप्नोति अमृतं स भवेत्तदा ६७। एतत्संज्ञानमात्मानं यदेतद्धृदि यन्मनः । मनीषा चैव युक्तिश्च स्मृतिः संकल्प एव च ६८। तपश्च क्रतवः कामो दश इत्यादि ते प्रभो । भवंति नामधेयानि प्रज्ञानस्य घृणानिधेः ६९। एष त्वं परमं ब्रह्म एष त्वं वै प्रजापतिः । एष त्वमिंद्रो रुद्रश्च एष त्वं सर्वदेवताः ७०। एतानि सर्वभूतानि त्वमेव परमेश्वर । सुत मित्राणि जीवायुस्तथान्यानि सनातन ७१। जरायुजाण्डजातानि स्वेदजोद्भिद्यजानि च । अश्वा गावश्च पुरुषा हस्तिनश्चेतराणि च ७२। यत्किंचित्प्राणिजातं च जंगमाश्चैव जंतवः । स्थावरा ये च वै नाथ सर्वे त्वत्तो भवंति च ७३। त्वां हि सर्वं गतं चेत्थं वदंति श्रुतयो हरिम् । त्वयैव प्रेरिता लोकाश्चेष्टंते साध्वसाधुषु ७४। तस्मान्मया कृतं यच्च अपराधमिदं प्रभो । क्षमस्व करुणासिंधो गुणैः शुभतमैस्तव ७५। नमस्ते पुंडरीकाक्ष गोविंदाच्युत माधव । वासुदेव जगद्वंद्य नारायण नमोस्तु ते ७६। नमस्यामि जगत्स्वामिन्नृसिंहकरुणाकर । श्रीश सर्वगत श्रीमन्परमात्मन्नमोस्तु ते ७७। निजावसथवैकुंठ नित्यमुक्तार्चितप्रभो । त्रयीनाथ नमस्तुभ्यं रामराजीवलोचन ७८। भूभारकविनाशाय कृष्णानंदस्वरूपिणे । विष्णवे जिष्णवे तुभ्यं नमस्ते यदुनंदन ७९। एवं स्तुत्वाथ गोविंदं प्रणिपत्य उमापतिः । प्रांजलिः प्राह भूतेशो वाक्यं गंभीरया गिरा ८०। रुद्र उवाच- मया दत्तवरो ह्येष बाणो बलिसुतः प्रभो । अहं च दत्तवांस्तस्मै पुरानेनार्थितो वरम् ८१। अमरत्वं यदुश्रेष्ठ सर्वं कर्तुं त्वमर्हसि । तस्मादेनं बलिसुतं त्रातुमर्हसि मे प्रियम् ८२। तथेत्युक्त्वा च भगवान्बाणं बलिसुतं तदा । प्राणसंशयमापन्नं च्छिन्नबाहुमसृक्चितम् ८३। संहृत्य चक्रं गोविंदो मुमोच करुणानिधिः । मोचयित्वा बलिसुतं शंकरः संशितव्रतः ८४। वृषभेंद्रं समारुह्य पार्वत्यासहितः प्रभुः । ययौ च वसतिस्थानं कैलासं धरणीधरम् ८५। स तु बाणो नमस्कृत्य रामकृष्णौ महाबलौ । ताभ्यां वै नगरीं गत्वा मुमोच मदनात्मजम् ८६। वस्त्रैराभरणैर्दिव्यैः पूजयित्वा यथार्हतः । उषां संप्रददौ तस्मै कृष्णपौत्राय शौरये ८७। उद्वाह्य रामकृष्णौ तमनिरुद्धं यथाविधि । बाणेन पूजितौ तत्र प्रद्युम्नसहितौ तदा ८८। उषयासहितं तत्रानिरुद्धं वै जनार्दनः । आरोप्य स्यंदने दिव्ये ययौ द्वारवतीं तदा ८९। रामप्रद्युम्नसहितः सेनया सहितो हरिः । प्रविवेश पुरीं रम्यां त्रिदशैर्मघवानिव ९०। अनिरुद्धो बाणपुत्र्या नानारत्नमये गृहे । अनिशं रमयामास नानाभोगैर्मुदान्वितः ९१। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे बाणासुरसंग्रामकथनंनाम पंचाशदधिकद्विशततमोऽध्यायः२५०।

śrīrudra uvāca- rukmiṇyāṃ kṛṣṇasya pradyumno madanāṃśena jajñe 1| asau madanasaṃbhūto mahābalaḥ śaṃbaraṃ jaghnivān 2| tasya rukmiṇaḥ sutāyāmaniruddho jajñe 3| so'pi bāṇaputrīmuṣāṃ nāma kanyāmupayeme 4| sā tu svapne nīlotpaladalaśyāmaṃ puṃḍarīkanibhekṣaṇaṃ mahābāhuṃ vicitrābharaṇopetaṃ ṣoḍaśasamāyathāvadupabhujya prabudhya taṃ purato na dṛṣṭvā madanenapīḍitā bhrāṃtacittā māṃ tu tyaktvā vayaskaṃ raktāraviṃdavaktraṃ kvāsi kva yāsīti bahudhā vilalāpa 5| tatastasyāḥ sakhī citralekheti nāma kanyāṃ tādṛśīmavasthāṃ gatāṃ vilokya kiṃnimitta vibhrāṃtacittāsīti papraccha 6| sāpi svapnalabdhaṃ patiṃ yathāvadācaṣṭa 7| sāpi sakaladevamānuṣādiśreṣṭhānpaṭe vilikhya tasyai darśayāmāsa 8| yaduvaṃśasaṃbhūtānkṛṣṇasaṃkarṣaṇapradyumnāniruddhādīnapi samyaṅinavedayāmāsa 9| sā teṣāṃ kṛṣṇamanumānya pradyumnānaṃtaramaniruddhaṃ dṛṣṭvā sa ityeṣa ityāliliṃga 10| atha citralekhā bahvībhirmāyāvatībhirdaityastrībhirdvāravatīṃ gatvā rātrāvaṃtaḥpure suptamaniruddhaṃ| dṛṣṭvā gṛhītvā mohayitvā māhiṣmatyāṃ bāṇasyāṃtaḥpure caityaprāsādādiyukte tasyā bāṇaputryāḥ śayyāyāṃ cikṣepa 11| so'pi prabuddhotiramye'naṃgapāvake saṃsthitāmuṣāṃ sarvalakṣaṇalakṣitāṃ vicitrābharaṇavasanagaṃdhamālyālaṃkṛtāṃ kāṃcanavarṇāṃ sukeśīṃ sujātastanīṃ dṛṣṭvā gāḍhamāliṃgya kariṇyā gaṃdhahastīva tayātiprītisaṃyuktayā yathāsukhaṃ ramayāmāsa 12| evaṃ māsamātraṃ niraṃtaratayāniruddhaṃ ramamāṇaṃ kadācidaṃtaḥpuranivāsinyo vṛddhā daityastriyo jñātvā rājñe nivedayāmāsuḥ 13| sa rājā krodhatāmrākṣaḥ paraṃ vismayaṃ gatvā tamihānayateti puraḥ kiṃkarānpreṣayāmāsa 14| te'pi tūrṇaṃ nṛpaprāsādamāruhya rājaputryāḥ śayane saṃsthitamaniruddhaṃ grahītumājagmuḥ 15| sa tānsamārabdhāndṛṣṭvā prāsādastaṃbhamekaṃ helayotpāṭya niyutasaṃkhyākān kiṃkarānmuhūrtamātraṇaiva staṃbhena cūrṇitamātraṃ cakāra 16| atha daityapatirnihatānkiṃkarāndṛṣṭvā kautūhalaṃ gatvā asau śrīkṛṣṇapautra iti devarṣiṇā prokto dhanurādāya svayamevāniruddhaṃ grahītuṃ tatsamīpamājagāma 17| aniruddho'pi yodbhumāyāṃtaṃ sahasrabāhuṃ rājānaṃ dṛṣṭvā tatparighaṃ bhrāmayitvā bāṇasyopari cikṣepa 18| svacāpanirmuktena bāṇena taṃ parighaṃ ciccheda 19| anaṃtaramuragāstreṇa aniruddhaṃ nibiḍaṃ baddhvā svāṃtaḥpure niveśayāmāsa 20| atha kṛṣṇopyevaṃvidhameva devarṣiṇā jñātvā baladevapradyumnasahitaḥ svasenayā vihaṃgameṃdramāruhya tasyabāṇasya bhujavanaṃ chettumājagāma 21| baliputreṇa purā śaṃkaro'rcitaḥ prasanno varaṃ vṛṇīṣvetyuvāca 22| tamīśvaraṃ bāṇo mama puradvārirakṣārthaṃ sarvadopaviśya samāgataṃ parasainyaṃ jahītyevaṃ varamayācata23| taṃ tathetyuktvā śaṃkaro'pi tasya puradvāri sāyudhaḥ saputraḥ sagaṇaḥ samāsīnastasminneva kāle ruṣā svasenayā samāgataṃ vāsudevaṃ dṛṣṭvā vṛṣamāruhya sarvāyudhopetaḥ svaputragaṇasaṃvṛto yoddhuṃ niścakrāma 24| kṛṣṇo'pi taṃ bhūtapatiṃ gajacarmakapālabhasmadharaṃ jvalitoragākalpaṃ piṃgalaṃ trilocanaṃ triśūladharaṃ sarvabhūtagaṇasaṃhṛtikarttāraṃ sarvabhūtabhayāvahaṃ saṃvarttāgniprabhaṃ putradvayasamanvitaṃ samastagaṇāvṛtaṃ tripurāṃtakaṃ dṛṣṭvā senāṃ sudūre pṛṣṭhato niveśya balabhadra pradyumnasahitastena rudre ṇa saha prahasanniva yoddhumārebhe 25| prathamaṃ tadabhūdghoraṃ kṛṣṇaśaṃkarayostadā | pinākaśārṅganirmuktairbāṇaiḥ saṃvarttakopamaiḥ 26| rāmo'pi cakre bāṇena pradyumnaḥ ṣaṇmukhena ca | yuyudhāte mahāvīryau siṃhāviva balotkaṭau 27| vināyakaḥ svadaṃtena jaghānorasi yādavam | rāmo muśalamādāya tasya daṃtamatāḍayat 28| nirbhinnadaṃtaḥ sahasā pradudrāvākhuvāhanaḥ | tadāprabhṛti loke'sminhatadaṃto gaṇeśvaraḥ 29| devadānavagaṃdharvairekadaṃtaitīritaḥ | pradyumnena samaṃ yuddhaṃ cakāra śikhivāhanaḥ 30| gaṇānvidrāvayāmāsa muśalena halāyudhaḥ | kṛṣṇena suciraṃ kālaṃ yuddhāsau nīlalohitaḥ 31| tāpajvaraṃ mahādīptamasminsaṃyojya sāyake | kopānmumoca tadasau bhṛśaṃ saṃraktalocanaḥ 32| tadastraṃ vārayāmāsa kṛṣṇaḥ śītajvareṇa tu | tābhyāṃ hariharābhyāṃ tu visṛṣṭau tāvimau jvarau 33| viśaturmānuṣe loke tayorevājñayā bhṛśam | hariśaṃkarayoryuddhaṃ ye tu śṛṇvaṃti mānavāḥ 34| te sarve jvaranirmuktāḥ prāpnuvaṃti nirāmayam | tataḥ sa tu hṛṣīkeśo mohanāstraṃ durāsadam 35| niyujya bāṇaṃ bhūteśe mumoca madhusūdanaḥ | muhurmuhurvyajṛṃbhadvai tenāstreṇa vimohitaḥ 36| papāta mūrcchito bhūmau śaṃkarastridaśeśvaraḥ | pitaraṃ mohitaṃ dṛṣṭvā śaktimudyamya vīryavān 37| yoddhumabhyāyayau kṛṣṇaṃ ṣaṇmukhaḥ śikhivāhanaḥ | huṃkāreṇaiva taṃ kṛṣṇaścakārātra parāṅmukham 38| evaṃ jitvā yaduśreṣṭhaḥ śūlapāṇiṃ trilocanam | mahāsvanaṃ pāṃcajanyaṃ śaṃkhaṃ dadhmau pratāpavān 39| kṛṣṇena nirjitaṃ śrutvā sātmajaṃ śaṃkaraṃ tadā | bāṇaḥ syaṃdanamāsthāya yayau yuddhāya keśavam 40| sa dṛṣṭvā sahasā kṛṣṇaṃ garuḍoparisaṃsthitam | chādayāmāsa goviṃdaṃ bahuśastrāstravṛṣṭibhiḥ 41| gadābhiḥ parighaiḥ śūlaiḥ śaktibhistomarairapi | bhiṃḍipālaiśca khaṅgaiśca cakrairbāṇairniraṃtaram 42| tāni sarvāṇi ciccheda cakreṇaiva janārdanaḥ | sasarja tasya bāhūnāṃ chedanārthaṃ sudarśanam 43| muktaṃ danujarājasya sahasrāraṃ sudarśanam | tadbāhukānanaṃ tūrṇaṃ chinnaṃ cakre sahasradhā 44| etasminnaṃtare devi pārvatī saṃśitavratā | hareḥ samīpamāgatya kṛtāṃjalirabhāṣata 45| pārvatyuvāca- kṛṣṇakṛṣṇa jagannātha nārāyaṇa dayānidhe | dāsyasmi tava deveśa pūrvabhāve yadūttama 46| tvayā dattaṃ varaṃ mahyaṃ tadā kauśalaparvate | saubhāgyaṃ śāśvataṃ saumya prasannena mahātmanā 47| tava mukhyaṃ sahasrasya nāmnāmanyatamaṃ vibho | gaurīsaubhāgyadāteti munibhiḥ parikīrtitam 48| tatsatyaṃ kuru goviṃda garuḍārūḍha śāśvata | tasmānmama patiṃ deva tvaṃ jīvayitumarhasi 49| rudra uvāca- evamuktastato devyā kṛṣṇaḥ kamalalocanaḥ | astraṃ saṃhārayāmāsa yenāsau mohitaḥ patiḥ 50 6.250.50| kṛṣṇāstreṇa vinirmuktaḥ sarvabhūtapatiḥ śivaḥ | utthāya prāṃjalirbhūtvā tuṣṭāva jagatāṃ patim 51| śaṃkara uvāca- kṛṣṇakṛṣṇa jagannātha bhagavanpuruṣottama | pareśa parameśāna anādinidhanāvyaya 52| tīvravīryaṃ manuṣyeṣu śarīragrahaṇātmikā | sarvasya tava ceṣṭeyaṃ mānalakṣaṇameva tat 53| prasīda me namastubhyaṃ prasīda mama śāśvata | prasīda me jagatsvāminprasīdācyuta keśava 54| tvameva jagatāṃ sraṣṭā dhātā harttā jagadguruḥ | tvameva cidacidvasturūpaṃ brahma sureśvara 55| tvamādistvamanādistvamīśvaraḥ śeṣa eva ca | tvaṃ mahattvaṃ paraṃ brahma pratyagātmā tvameva hi 56| samastāmaravaryyastvamamartyastvaṃ sureśvara | tvaṃ marttyeśaḥ sayonistvaṃ sauśīlyena tava prabho 57| tava śvāsasamutpannau parajīvau sanātanau | tataśca pālyate caiva tava vātsalyagauravāt 58| kṣarākṣare pare dhāmni ruco nityaṃ surāśraye | adhi viśve nidheṣi tvāṃ dāsyakarmaṇi nānyathā 59| yastvāṃ na vedaloke'sminsa mūḍhaḥ sarvabhāvanaḥ | parāvareśvaraṃ dhāma vidurdāsye manīṣiṇaḥ 60| te vai samāsate yuktāstatpadaṃ tridaśaiḥ samam | sāmānyo bhajate dūrenaṃtuṃ nityaṃ padaṃ tava 61| tasya turyā cārukeśī cāvasthā ghaṭate tava | mithunāni tavādhyakṣa bruvate yaduśāśvata 62| tava nāmāni karmāṇi guṇāni śāśvatāni ca | aiśvaryāṇi guṇātīta bruvate cottame ime 63| karmajñānamaye rūpe ime pūrvottare śrute | sasutau yuvatīśasya stotārau tava keśava 64| tvaṃ prajñānaṃ paraṃ brahma tvayā prājñena śāśvata | jīvayaitena prajñena pareṇaivātmanā tvayā 65| tasmāccharīrādutkramya kṛpayā tava kevalam | āmuṣmike pare svarge tvayā dattātmabodhavān 66| prajñānaṃ caiva vijñānaṃ medhāṃ dṛṣṭiṃ tathā dhṛtim | sarvānkāmānavāpnoti amṛtaṃ sa bhavettadā 67| etatsaṃjñānamātmānaṃ yadetaddhṛdi yanmanaḥ | manīṣā caiva yuktiśca smṛtiḥ saṃkalpa eva ca 68| tapaśca kratavaḥ kāmo daśa ityādi te prabho | bhavaṃti nāmadheyāni prajñānasya ghṛṇānidheḥ 69| eṣa tvaṃ paramaṃ brahma eṣa tvaṃ vai prajāpatiḥ | eṣa tvamiṃdro rudraśca eṣa tvaṃ sarvadevatāḥ 70| etāni sarvabhūtāni tvameva parameśvara | suta mitrāṇi jīvāyustathānyāni sanātana 71| jarāyujāṇḍajātāni svedajodbhidyajāni ca | aśvā gāvaśca puruṣā hastinaścetarāṇi ca 72| yatkiṃcitprāṇijātaṃ ca jaṃgamāścaiva jaṃtavaḥ | sthāvarā ye ca vai nātha sarve tvatto bhavaṃti ca 73| tvāṃ hi sarvaṃ gataṃ cetthaṃ vadaṃti śrutayo harim | tvayaiva preritā lokāśceṣṭaṃte sādhvasādhuṣu 74| tasmānmayā kṛtaṃ yacca aparādhamidaṃ prabho | kṣamasva karuṇāsiṃdho guṇaiḥ śubhatamaistava 75| namaste puṃḍarīkākṣa goviṃdācyuta mādhava | vāsudeva jagadvaṃdya nārāyaṇa namostu te 76| namasyāmi jagatsvāminnṛsiṃhakaruṇākara | śrīśa sarvagata śrīmanparamātmannamostu te 77| nijāvasathavaikuṃṭha nityamuktārcitaprabho | trayīnātha namastubhyaṃ rāmarājīvalocana 78| bhūbhārakavināśāya kṛṣṇānaṃdasvarūpiṇe | viṣṇave jiṣṇave tubhyaṃ namaste yadunaṃdana 79| evaṃ stutvātha goviṃdaṃ praṇipatya umāpatiḥ | prāṃjaliḥ prāha bhūteśo vākyaṃ gaṃbhīrayā girā 80| rudra uvāca- mayā dattavaro hyeṣa bāṇo balisutaḥ prabho | ahaṃ ca dattavāṃstasmai purānenārthito varam 81| amaratvaṃ yaduśreṣṭha sarvaṃ kartuṃ tvamarhasi | tasmādenaṃ balisutaṃ trātumarhasi me priyam 82| tathetyuktvā ca bhagavānbāṇaṃ balisutaṃ tadā | prāṇasaṃśayamāpannaṃ cchinnabāhumasṛkcitam 83| saṃhṛtya cakraṃ goviṃdo mumoca karuṇānidhiḥ | mocayitvā balisutaṃ śaṃkaraḥ saṃśitavrataḥ 84| vṛṣabheṃdraṃ samāruhya pārvatyāsahitaḥ prabhuḥ | yayau ca vasatisthānaṃ kailāsaṃ dharaṇīdharam 85| sa tu bāṇo namaskṛtya rāmakṛṣṇau mahābalau | tābhyāṃ vai nagarīṃ gatvā mumoca madanātmajam 86| vastrairābharaṇairdivyaiḥ pūjayitvā yathārhataḥ | uṣāṃ saṃpradadau tasmai kṛṣṇapautrāya śauraye 87| udvāhya rāmakṛṣṇau tamaniruddhaṃ yathāvidhi | bāṇena pūjitau tatra pradyumnasahitau tadā 88| uṣayāsahitaṃ tatrāniruddhaṃ vai janārdanaḥ | āropya syaṃdane divye yayau dvāravatīṃ tadā 89| rāmapradyumnasahitaḥ senayā sahito hariḥ | praviveśa purīṃ ramyāṃ tridaśairmaghavāniva 90| aniruddho bāṇaputryā nānāratnamaye gṛhe | aniśaṃ ramayāmāsa nānābhogairmudānvitaḥ 91| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde bāṇāsurasaṃgrāmakathanaṃnāma paṃcāśadadhikadviśatatamo'dhyāyaḥ250|

English translation

Śrī Rudra said :

1-3. On Rukmiṇī was born Pradyumna , Madana ’s (Cupid’s) portion, from Kṛṣṇa . He, the very mighty one born of Cupid, killed Śambara . Aniruddha was born from him on Rukmin’s daughter.

4-10. He too married Bāṇa ’s daughter by name Uṣā. In her dream she, aged sixteen, having enjoyed properly (Aniruddha), dark like the petals of a dark lotus, having lotus-like eyes, of large arms, wearing beautiful ornaments, got up. Not seeing him after being awake, she, tormented by passion of love, with her mind confused, saying “O you having a face like a red lotus, where are you going?” lamented in many ways. Then her friend, named Citralekhā , seeing the girl reduced to that condition, asked her, “Why is your mind confused?” She too told her about the husband obtained in her dream. She too drew the pictures of all the best human beings and gods on a piece of cloth and showed them to her. She even properly showed her (the pictures of) Kṛṣṇa, Saṃkarṣaṇa , Pradyumna, Aniruddha, born in the Yadu family. Having approved out of the pictures that of Kṛṣṇa, she, seeing Aniruddha after Pradyumna, embraced it, saying: “This is he.”

11-15. Then with many illusory demonesses Citralekhā at night went to Dvāravatī . She saw Aniruddha sleeping in the harem. She enticed him, seized him, and put him on the bed of Bāṇa’s daughter in the harem of Bāṇa, full of many sanctuaries and mansions. He too became awake and on seeing Uṣā who lay on the soft couch, was marked with all (good) characteristics, adorned with beautiful ornaments, garments, sandal, flowers, who had a golden complexion, fine hair, well-developed breasts, embraced her who was full of love, and happily dallied with her. Old demonesses residing in the harem, having come to know about Aniruddha thus confined and continuously dallying (with Uṣā) for just a month, reported it to the king. The king, with his eyes red with anger, being very much amazed, sent the city-servants ordering them: “Bring him here”. They too quickly went up the king’s palace to arrest Aniruddha lying on the bed of the princess.

16-20. He, seeing them agitated, easily took out a pillar of the palace and in a very short time only smashed the servants numbering a million with the pillar. Then the lord of the demons, seeing his servants destroyed, became curious, and deciding ‘This is Śrī Kṛṣṇa’s grandson as told by the divine sage’, he took his bow and himself came near Aniruddha to arrest him. Aniruddha too, seeing the king with a thousand arms having come to fight, whirling his iron club, hurled it at Bāṇa. He cut off that iron club with an arrow discharged from his bow: Then having tightly bound Aniruddha with the missile of serpent he placed him in his own harem.

21-25. Then Kṛṣṇa too, having learnt through the royal sage that it was just like that, mounted upon the best bird (i.e. Garuḍa ), and along with Baladeva , Pradyumna and his army came to cut off the cluster of Bāṇa’s arms. Formerly Bali ’s son (Bāṇa) had adored Śaṅkara . He had said to (Bāṇa): “Choose a boon.” Bāṇa had asked for this boon from that lord: “Always be seated at the gate of my city for (its) protection, and kill the army of the enemy that might come there.” Śaṃkara too, saying, “All right” to him, remained at the gate of his city with weapons, his sons and attendants. Just at that time, seeing Kṛṣṇa to have angrily come along with his army, he got on his bull, and equipped with all weapons, and surrounded by his sons and attendants went out to fight (with Kṛṣṇa). Kṛṣṇa too seeing that lord of beings, who had held elephant’s hide, a skull, who was decorated with blazing serpents, was tawny, had three eyes, had held the trident, was (capable of) destroying the entire host of beings, caused fear to all beings, resembled the fire of destruction, who was accompanied by his two sons, was surrounded by all his attendants, and who had destroyed Tripura , kept his army far behind, and accompanied by Balabhadra and Pradyumna started with a smile to fight with Rudra .

26-38. First a fierce (battle) took place between Kṛṣṇa and Śaṃkara, with arrows resembling the fire of destruction discharged from (Śaṃkara’s bow called) Pināka and ( Viṣṇu ’s bow called) Śārṅga . Rāma too had (a fight) with Bāṇa, and Pradyumna with Kārtikeya . The two great heroes fought like two haughty lions. Gajānana struck Yādava on his chest with his tusk. Rāma took a pestle and struck at his tusk. (Gajānana) havingthe rat as his vehicle, with his tusk broken, suddenly fled. Since then the lord of the attendants has his tusk broken in the world. He is called Ekadanta by gods, demons and gandharvas . (Kārtikeya) having the peacock as his vehicle fought with Pradyumna. Balarāma caused ( Śiva ’s) attendants to run away. Śaṃkara, with his eyes very red, having fought with Kṛṣṇa for a very long time, put on his arrow a very blazing great fever, and discharged it. Kṛṣṇa by means of cold fever warded off that missile. The two fevers discharged by those two, Kṛṣṇa and Śiva, speedily entered the human world by their order. Those men who listen to (the account of) the battle between Kṛṣṇa and Śiva, are free from fever (or torment) and reach (Viṣṇu) the infallible one. Then that Hṛṣīkeśa (i.e. Kṛṣṇa), putting the deluding weapon on his arrow, discharged it at Śiva. Deluded by that missile, he yawned again and again; and he, Śaṅkara, the lord of gods, fell down on the ground in a swoon. Seeing his father unconscious, the powerful Kārtikeya, Ṣaṇmukha (literally, having six faces), raised the (missile called) Śakti and went to fight with Kṛṣṇa. Merely by the ‘hum’ sound, Kṛṣṇa turned him away.

39-45. Having thus vanquished the three-eyed god Śiva, having the trident in his hand, the brave and the best of the Yadus blew his loud-sounding conch. Hearing that Śaṃkara, along with his sons, was vanquished by Kṛṣṇa, Bāṇa, getting into a chariot, himself came to fight with Kṛṣṇa. Suddenly seeing Kṛṣṇa seated on Garuḍa, he covered him with showers of many weapons and missiles, with maces, iron bars, lances, (missiles called) Śakti, iron clubs, swords, and discs continuously. Kṛṣṇa cut them off with his disc only. He discharged his (disc) Sudarśana to cut off his arms. The Sudarśana having a thousand spokes discharged at the king of demons quickly cut off the forest (i.e. the large number) of his arms in a thousand ways. In the meanwhile, O goddess, Pārvatī who had fulfilled her vow, came near Kṛṣṇa, and with the palms of her hands joined, said:

Pārvatí said :

46-49. O Kṛṣṇa, Kṛṣṇa, O lord of the world, O Nārāyaṇa , O treasure of compassion, O best of the Yadus, O lord of gods, I was your female servant in a former existence. At that time you, the pleased noble one, had granted me a boon about the perpetual state of having my husband living, O gentle one. O lord, the sages have declared that one principal name of your thousand names has given good fortune to Gaurī . O Govinda , O eternal one mounted on Garuḍa, make it true. Therefore, please give life to my husband.

Rudra said :

50-51. Thus addressed by the goddess the lotus-eyed Kṛṣṇa withdrew the missile with which her husband was made unconscious. Freed from the missile of Kṛṣṇa, Śiva, the lord of all beings, got up and joining the palms of his hands, praised the lord of the worlds.

Śaṅkara said :

52-56. O Kṛṣṇa, O Kṛṣṇa, O lord of the world, O Supreme Being, O highest god, O highest lord, O you without a beginning and an end, O you immutable one, in the human beings there is a strong power. The action of taking up a body is due to you. It is the sign of honour. Be pleased with me. Salutation to you. O eternal one, be pleased with me. O lord of the world, favour me. Be gracious to me, O Acyuta , Keśava . You are the creator, the supporter, the destroyer of the worlds. You are the father of the worlds. O lord of gods, you alone are the Brahman of the nature of intelligence and the lack of it. You are the origin. You are without an origin. You are the lord and Śeṣa also. You are Mahat ; you are the highest Brahman; you alone are the individual soul.

57-61. O best of all gods, you are immortal; O lord of gods you are the lord of the mortals. Due to your extremely good character you have an origin. The two eternal highest souls have come up from your breath. So also the five elements (have come up from you) due to your great affection. You put yourself in the work of service (i.e. as a servant) in the perishable and the imperishable, in the highest abode resorted to by gods and the place of lustre, and in the universe. This is not otherwise. He who does not know you in the world, is a fool. You are the cause of everything. The wise ones know the abode of the lord of the low and high (to be good) for service ( obscure !). They, the diligent ones rest at the position equal to the gods. The common man remains away to bow down to your eternal position.

62-69. That fourth stage (Turyā: the state of liberation of the soul) of charming rays of light is possible in your case. O you eternal superintendent, the couples talk about you. These best ones, O you beyond qualities, narrate your names, deeds, eternal qualities and grandeurs. O Keśava, in the former and latter learning full of action and knowledge, the two, along with their sons are singing the praise of you, the lord of young ladies ( obscure !). You are wisdom; you are the highest Brahman; with your great knowledge only, O eternal one, you yourself, the wise one, give (him) life. Due to your grace only, he who knows the soul, obtains, in this world and the highest heaven, wisdom, proficiency, intellect, perception, so also courage, and all desired objects. Then he would be immortal. The self having this name is the heart. O lord, these ten are the names of the Wisdom, the treasure of compassion: ( Ātman , Hṛd=heart,) mind, desire, reasoning, recollection, volition, penance, sacrifices, and love.

70-80. This you are the highest Brahman; this you are the creator. This you are Indra , Rudra, and all the deities. O highest lord, you are all these beings—sons, friends, (other forms) of existence and others also, O eternal one. The viviparous, the oviparous, the beings generated by sweet sweat, plants, horses, cows, men, elephants and others, so whatever being there is, so also the movable beings, so also the immobile (objects)—all have sprung from you (only). The sacred texts describe you, Viṣṇu, as omnipresent. The people, impelled by you only act towards good or bad (things). Therefore, O ocean of pity, forgive by means of your most auspicious qualities this offence that I have committed. Salutation to you, O you lotus-eyed one, Govinda, Acyuta, Mādhava , Vāsudeva . O you fit to be saluted by the world, O Nārāyaṇa, salutation to you. O lord of the worlds, O Nṛsiṃha , O mine of pity, O lord of Lakṣmī , O omnipresent one, O glorious one, O highest soul, salutation to you. O lord, O you always worshipped by the liberated (souls) having Vaikuṇṭha as their dwelling place, O you lord of the three ( Vedas ), O Rāma, O you having lotus-like eyes, salutation to you. O you descendant of Yadu, salutation to you who destroy those that are a burden to the earth, who are of the form of Kṛṣṇa’s mirth, who are Viṣṇu, who are Jiṣṇu (the conqueror).

Having thus praised and saluted Govinda, the lord of Umā, the lord of beings, having, joined the palms of his hands, spoke in a grave voice:

Rudra said :

81-90. O lord, this Bāṇa, Bali’s son, is granted a boon by me. Formerly I had given him a boon that he had asked for, viz. immortality, O best of the Yadus. You deserve to do everything. Therefore, please protect this Bali’s son, dear to me.

Saying “All right”, the lord, Govinda, the ocean of compassion, withdrawing his disc, freed Bāṇa, Bali’s son, who ran the risk to his life, had his arms cut off, and was covered with blood. Śaṃkara, the lord who had fulfilled his vow, after having freed Bali’s son, having along with Pārvatī mounted the best bull ( Nandin ), went to his abode, the Kailāsa mountain. That Bāṇa, having saluted the very powerful Rāma and Kṛṣṇa, went with them to (his) city and freed (Aniruddha) Madana’s son. Having honoured them, as they deserved, with divine garments and ornaments, he gave Uṣā (in marriage) to Śauri , Kṛṣṇa’s grandson. Then Rāma and Kṛṣṇa got Aniruddha duly married. They, along with Pradyumna, were then worshipped by Bāṇa. Then Kṛṣṇa, having placed Aniruddha with Uṣā in a divine chariot, went to Dvāravatī. Like Indra with the gods, Rāmawith Pradyumna, and Kṛṣṇa with the army, entered the charming city. Aniruddha, full of joy, enjoyed day and night many pleasures in the company of Bāṇa’s daughter in a house full of many jewels.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 45093, revision 336710 (2022-04-26T10:46:56Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365835.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.