Skip to main content

Uttara-khaṇḍa · Chapter 228

Chapter 228

Unit 640 of 693Uttara-khaṇḍa · Chapter 228Uttara-khaṇḍa · Chapter 2281 source entries

Uttara-khaṇḍa · Chapter 228

Source

श्रीमहादेव उवाच- त्रिपाद्विभूतेर्लोकास्तु असंख्याताः प्रकीर्तिताः । शुद्धसत्वमयाः सर्वे ब्रह्मानंदसुखाह्वयाः १। सर्वे नित्या निर्विकारा हेयरागादिवर्जिताः । सर्वे हिरण्मयाश्शुद्धाः कोटिसूर्य्यसमप्रभाः २। सर्वे वेदमयार्दिव्याः काम क्रोधविवर्जिताः । नारायणपदांभोज भक्त्येकरससेविताः ३। निरंतरं सामगानपरिपूर्णसुखं श्रिताः । सर्वे पंचोपनिषद स्वरूपा वेदवर्चसः ४। सर्वे वेदमयैर्दिव्यैःपुरुषैः स्त्रीभिरावृताः । वेदैकरसतोयाढ्यैस्सरोभिरुपशोभिताः ५। श्रुतिस्मृतिपुराणादि रूपस्थावरसंयुताः । सर्वं वर्णयितुं शक्यं न मया लोकविस्तृतम् ६। विरजा परमव्योम्नोरंतरंकेवलं स्मृतम् । तत्स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम् ७। स्वात्मानुभवजानंदसुखदं केवलं पदम् । निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ८। श्रीशांघ्रिभक्तिसेवैकरसभोगविवर्धिताः तम् । तदिच्छन्त्यल्पमतयो मोक्षं सुखविवर्जितम् । महात्मानो महाभागा भगवत्पादसेवकाः ९। तद्विष्णोः परमं धाम यांति ब्रह्मसुखप्रदम् । नानाजनपदाकीर्णं वैकुंठं तद्धरेः पदम् १०। प्राकारैश्च विमानैश्च सौधैरत्नमयैर्वृतम् । तन्मध्ये नगरी दिव्या साऽयोध्येति प्रकीर्तिता ११। मणिकांचनचित्राढ्य प्राकारैस्तोरणैर्वृता । चतुर्द्वारसमायुक्ता रत्नगोपुरसंवृता १२। चंडादिद्वारपालैश्च कुमुदाद्यैश्च रक्षिता । चंडप्रचंडौ प्राग्द्वार याम्ये भद्रसुभद्रकौ १३। वारुण्यां जयविजयौ सौम्ये धातृविधातरौ । कुमुदः कुमुदाक्षश्च पुंडरीकोऽथ वामनः १४। शंकुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः । एते दिक्पतयः प्रोक्ताः पुर्य्यामत्र शुभानने १५। कोटिवैश्वानरप्रख्य गृहपंक्तिभिरावृता । आरूढयौवनैर्नित्यैर्दिव्यनारीनरैर्युता १६। अन्तःपुरं तु देवस्य मध्ये पुर्याम्मनोहरम् । मणिप्राकारसंयुक्तं रत्नतोरणशोभितम् १७। विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्युतम् । दिव्याप्सरोगणैः स्त्रीभिस्सर्वतस्समलंकृतम् १८। मध्ये तु मंडपं दिव्यं राजस्थानं महोच्छ्रयम् । माणिक्यस्तंभसाहस्रजुष्टं रत्नमयं शुभम् १९। दिव्यैर्मुक्तैः समाकीर्णं सामगानोपशोभितम् । मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् २०। धर्मादिदैवतैर्नित्यैर्वृंतवैदमयात्मकैः । धर्म्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः २१। ऋग्यजुःसामचाथर्वैरूपैर्नित्यं वृतं क्रमात् । शक्तिराधारशक्तिश्च चिच्छक्तिश्च सदाशिवा २२। धर्मादिदेवतानां च शक्तयः परिकीर्तिताः । वसंति मध्यमे तत्र वह्निसूर्यसुधांशवः २३। कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः । छंदासि सर्वमंत्राश्च पीठरूपत्वमास्थिताः २४। सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम् । तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम् २५। तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने । ईश्वर्य्या सह देवेशस्तत्रासीनः परः पुमान् २६। इंदीवरदलश्यामः कोटिसूर्यप्रकाशवान् । युवाकुमारः स्निग्धश्च कोमलावयवैर्वृतः २७। फुल्लरक्तांबुजनिभः कोमलांघ्रिसरोजवान् । प्रबुद्धः पुंडरीकाक्षः सुभ्रू लतायुगाङ्कितः २८। सुनासस्सुकपोलाढ्यस्सुश्रोत्रमुखपंकजः । मुक्ताफलाभदन्ताढ्यः सस्मिताधरविद्रुमः २९। परिपूर्णेदुसंकाशः सुस्मिताननपंकजः । तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विराजितः ३०। सस्निग्धनीलकुटिलकुन्तलैरुपशोभितः । मन्दारपारिजाताढ्य कबरीकृतकेशवान् ३१। प्रातरुद्यत्सहस्रांशुनिभकौस्तुभशोभितः । हारस्वर्णस्रगासक्त कम्बुग्रीवो विराजितः ३२। सिंहस्कंधनिभैः प्रोच्चैः पीनैरंसैर्विराजितः । पीनवृत्तायतभुजैश्चतुर्भिरुपशोभितः ३३। अङ्गुलीयैश्च कटकैः केयूरैः परिमण्डितः । बालार्ककोटिसंकाशैः कौस्तुभाद्यैः सुभूषणैः ३४। विराजितमहावक्षो वनमालाविभूषितः । विधातृजननस्थान नाभिपङ्कजशोभितः ३५। बालातपनिभश्लक्ष्ण पीतवस्त्रसमन्वितः । नानारत्नविचित्रांघ्रिः कटकाभ्यां विराजितः ३६। सज्योत्स्नचंद्रप्रतिम नखपंक्तिसमन्वितः । कोटिकंदर्पलावण्य सौंदर्य्यनिधिरच्युतः ३७। दिव्यचंदनलिप्तांगो दिव्यमालाविभूषितः । गृहीतशंखचक्राभ्यामुद्बाहुभ्यां विराजितः ३८। वरदाभयहस्ताभ्यामितराभ्यां तथैव च । वामाङ्के संस्थिता देवी महालक्ष्मीर्महेश्वरी ३९। हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा । सर्वलक्षणसंपन्ना यौवनारंभविग्रहा ४०। रत्नकुंडलसंयुक्ता नीला कुंचितशीर्षजा । दिव्यचंदनलिप्तांगी दिव्यपुष्पोपशोभिता ४१। मंदारकेतकी जाती पुष्पाञ्चितसुकुंतला । सुभ्रूस्सुनासा सुश्रोणी पीनोन्नतपयोधरा ४२। परिपूंर्णेंदुसंकाशा सुस्मिताननपंकजा । तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विराजिता ४३। तप्तकांचनवर्णाभा तप्तकांचनभूषणा । हस्तैश्चतुर्भिः संयुक्ता कनकांबुजभूषिता ४४। नानाविचित्ररत्नाढ्या कनकांबुजमालया । हारकेयूरकटकैरंगुलीयैश्च शोभिता ४५। भुजद्वयघृतोदग्र पद्मयुग्मोपशोभिता । गृहीतमातुलुंगाख्य जांबूनदकराञ्चिता ४६। एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः । मोदते परमे व्योम्नि शाश्वते सर्वदा प्रभुः ४७। पार्श्वयोर्धरणी नीले समासीने शुभासने । अष्टदिक्षु दलाग्रेषु विमलाद्याश्च शक्तयः ४८। विमलोत्कर्षिणी ज्ञानाक्रियायोगा तथैव च । प्रह्वी सत्या तथेशाना शक्तयः परमात्मनः ४९। गृहीत्वा चामरान्दिव्यान्सुधाकरसमप्रभान् । सर्वलक्षणसंपन्ना मोदंते पतिमच्युतम् ५०। दिव्याप्सरोगणाः पंच शतसंख्याश्च योषितः । अंतःपुरनिवासिन्यः सर्वाभरणभूषिताः ५१। पद्महस्ताश्च ताः सर्वाः कोटिवैश्वानरप्रभाः । सर्वलक्षणसंपन्नाः शीतांशुसदृशाननाः ५२। ताभिः परिवृतो राजा शुशुभे परमः पुमान् । अनंतविहगाधीश सेनान्याद्यैस्सुरेश्वरे ५३। अन्यैः परिजनैर्नित्यैर्मुक्तैश्च परिसंवृतः । मोदते रमया सार्द्धं भोगैश्वर्यरतः पुमान् ५४। एवं वैकुंठनाथोऽसौ राजते परमे पदे । तद्व्यूहभेदाँल्लोकांश्च वक्ष्यामि गिरिजे शुभे ५५। प्राच्यां वैकुंठलोकस्य वासुदेवस्य मंदिरम् । आग्नेय्यां लक्ष्म्यालोकस्तु याम्यां संकर्षणालयः ५६। सारस्वतस्तु नैरृत्या प्राद्युम्नः पश्चिमे तथा । रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः ५७। ऐशान्यां शांतिलोकः स्यात्प्रथमावरणं स्मृतम् । केशवादिचतुर्विंशत्यमी लोकास्ततः क्रमात् ५८। द्वितीयावरणं प्रोक्तं वैकुंठस्य शुभाह्वयम् । मत्स्यकूर्मादिलोकास्तु तृतीयावरणं शुभम् ५९। सत्याच्युतानंत दुर्गा विष्वक्सेन गजाननाः । शंखपद्मनिधीलोकाश्चतुर्थावरणं शुभम् ६०। ऋग्यजुः सामाथर्वाणो लोका दिक्षु महत्सु च । सावित्र्या विहगेशस्य धर्मस्य च मखस्य च ६१। पंचमावरणं प्रोक्तमक्षयं सर्ववाङ्मयम् । शंखचक्रगदापद्मखड्गशार्ङ्गहलं तथा ६२। मौशलं च तथा लोकाः सर्वशस्त्रास्त्रसंयुताः । षष्ठमावरणं प्रोक्तं मंत्रास्त्रमयमक्षरम् ६३। ऐंद्र पावकयाम्यानि नैरृतं वारुणं तथा । वायव्यं सौम्यमैशानं सप्तमं मुनिभिः स्मृतम् ६४। साध्या मरुद्गणाश्चैव विश्वेदेवास्तथैव च । नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ६५। ते वै प्राकृतलोकेस्मिन्न नित्यास्त्रिदशेश्वराः । ते ह नाकं महिमानः सचंत इति वै श्रुतिः ६६। एवं परं पदं नित्यैर्मुक्तैर्भोगपरायणैः । दिव्याभिर्महिषीभिश्च राजते विभुरीश्वरः ६७। न तद्भासयते सूर्यो न शंशांको न पावकः । यद्गत्वा न निवर्त्तंते योगिनः संशितव्रताः ६८। द्वयैकमंत्रनिष्ठा ये ते वै यांति तदव्ययम् । न वेदयज्ञाध्ययनैर्न दानैर्न व्रतैः शुभैः ६९। न तपोभिर्निराहारैर्न च साधनकर्मभिः । एकेन द्वयमंत्रेण तथा भक्त्या त्वनन्यथा ७०। तद्गम्यं शाश्वतं स्थानं प्रपत्त्या वै सनातनम् । पार्वत्युवाच- साधूक्तं परमं स्वर्गस्वरूपं भवता प्रभो ७१। परव्योम्नि स्थितो नित्यं कथं प्रकृतिमण्डले । स्थितवान्किं निमित्तेन लीलया किं प्रयोजनम् ७२। शुद्धसत्वमये लोके संस्थितः परमेश्वरः । कथं रजस्तमोमिश्र विभूत्या स्थिवान्प्रभुः ७३। रुद्र उवाच- त्रिपाद्विभूतौ भगवानीश्वर्य्या परमेश्वरः । नित्यमुक्त्यैकभोग्योऽसौ मोदते सततं विभुः ७४। तमीश्वरं महामाया प्रकृतिर्जगदाश्रया । कृतांजलिपुटा भूत्वा तुष्टाव परमेश्वरम् ७५। महामायोवाच-। नमस्ते त्रिजगद्धाम्ने नमस्ते विश्वरूपिणे । पुराणाय नमस्तुभ्यं जगदुत्पत्तिहेतवे ७६। श्रीभूलीलाधिपतये नमो नारायणाय च । नमो भगवते तुभ्यं वासुदेवाय शार्ङ्गिणे ७७। सर्वदेवस्वरूपाय विष्णवे जिष्णवे नमः । सहस्रमूर्तये तुभ्यमनंताय नमोस्तु ते ७८। अच्युताय विकाराय शुद्धसत्त्वस्वरूपिणे । अदिमध्यांतरहित स्वरूपाय नमो नमः ७९। नमो हिरण्यगर्भाय ज्ञानाय परमात्मने । सर्वभूतात्मने तुभ्यं सर्वभूताश्रयाय च ८०। ब्रह्मणे ज्योतिषे तुभ्यं नमस्ते विश्वरूपिणे । नमः शुचिषदे तुभ्यं हंसाय परमाय च ८१। संकर्षणाय रुद्राय सर्वभूतधराय च । हयग्रीवाय दीप्ताय कालाय हरये नमः । नमस्ते यज्ञपुरुष हव्यकव्यस्वरूपिणे ८२। नमः प्रजापतये तस्मै सूर्याय शुभवर्चसे । अग्नये हव्यभोक्त्रे च तस्मै यज्ञात्मने नमः ८३। नमस्ते प्रसवित्रे च सर्गस्थित्यंतहेतवे । नमो वेदांतवेद्याय चतुरात्मस्वरूपिणे ८४। ब्रह्मणे विष्णवे तुभ्यं नमस्ते शंकाराय च । त्रिगुणाय नमस्तुभ्यं सर्गस्थित्यंतहेतवे ८५। निर्गुणाय नमस्तुभ्यं सर्वात्मान्तरवर्तिने । अव्यक्ताय नमस्तस्मै विष्णवे लोकसाक्षिणे ८६। नारायणाय श्रीशाय पूर्णषाड्गुण्यमूर्त्तये । अनंतगुणपूर्णाय नमः सर्वार्थदायिने ८७। नमस्ते वासुदेवाय पंचावस्थस्वरूपिणे । नमः पंचनवव्यूह भेदरूपाय ते नमः ८८। नमो यज्ञवराहाय गोविंदाय नमो नमः । अविकाराय शुद्धाय हेयप्रतिभटाय च ८९। नमो रामाय कृष्णाय नरसिंहाय ते नमः । केशवाय नमस्तुभ्यं जगतां क्लेशहारिणे ९०। त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः । प्रसीद देवदेवेश सर्वलोकहिताय वै ९१। मत्संस्थाश्चेतनास्सर्वे निराधारा निराश्रयाः । हीनदेहा निराकाराः सर्वेन्द्रियविवर्जिताः ९२। सर्वानुष्ठानरहिताः सततं दुःखभोगिनः । तेषां लोकांश्च देहांश्च दातुमर्हसि केशव ९३। लीलाविभूतिं सर्वज्ञ यथापूर्वं प्रकल्पय । चेतनाचेतनं कृत्स्नं जगत्स्थावरजंगमम् ९४। मया संमोहितं पश्य लीलार्थंपरमेश्वर । प्राकृताण्डं मया सार्धं सृजस्व पुरुषोत्तम ९५। धर्म्माधर्म्मौ सुखं दुःखं तस्मिन्निक्षिप्य संसृतौ । मामधिष्ठाय लीलां वै कर्तुमर्हसि मा चिरम् ९६। श्रीमहादेव उवाच- एवमुक्तस्तया देव्या मायया परमेश्वरः । तस्यां निवेश्य मायायां जगत्स्रष्टुं प्रचक्रमे ९७। योऽसौ प्रकृतिपुरुषः प्रोच्यते स इहाच्युतः । स एव भगवान्विष्णुः प्रकृत्यां प्रविवेश ह ९८। असृजत्प्रकृतौ ब्रह्मभूतादिमहदाश्रयम् । महतः पुरुषादस्मादहंकारोऽभ्यजायत ९९। अहंकारात्तु वै तस्माद्गुणत्रयमजायत । त्रिभ्यो गुणेभ्यस्तन्मात्रामसृजद्विश्वभावनः १००। तन्मात्रेभ्योभ्यजायंत महाभूतानि तत्क्षणात् । ॐकारः प्रथमं जातो ब्रह्मणस्त्रिगुणात्मनः १०१। आकाशादभवद्वायुर्वायोरग्निरजायत । अग्नेरापः समुद्भूता अद्भ्यश्च पृथिवी मता १०२। आकाशादीनि भूतानि सृष्टान्येकोत्तराणि वै । शब्दस्पर्शश्च रूपं च रसो गंधश्च तद्गुणाः १०३। एकोत्तरगुणान्सृष्ट्वा तानादाय महाप्रभुः । तेषां विमिश्रणं कृत्वा जगदंडं महत्तरम् । असृजत्तत्रलान्वै संख्यया ये चतुर्दश १०४। ब्रह्मादित्रिदशांस्तस्मिन्नसृजत्पुरुषोत्तमः । दैवतिर्य्यक्तथा मर्त्यं स्थावरं च चतुर्व्विधम् १०५। तथा सृष्टो महासर्गन्तेन वै जलजेक्षणे। तत्र कर्मानुरूपेण त्रिदशादिषु योनिषु १०६। संस्थिताः प्रकृतौ पूर्व आत्मनः प्रभवंति हि १०७। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे परमव्योमादिवर्णनंनाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः २२८ ।

śrīmahādeva uvāca- tripādvibhūterlokāstu asaṃkhyātāḥ prakīrtitāḥ | śuddhasatvamayāḥ sarve brahmānaṃdasukhāhvayāḥ 1| sarve nityā nirvikārā heyarāgādivarjitāḥ | sarve hiraṇmayāśśuddhāḥ koṭisūryyasamaprabhāḥ 2| sarve vedamayārdivyāḥ kāma krodhavivarjitāḥ | nārāyaṇapadāṃbhoja bhaktyekarasasevitāḥ 3| niraṃtaraṃ sāmagānaparipūrṇasukhaṃ śritāḥ | sarve paṃcopaniṣada svarūpā vedavarcasaḥ 4| sarve vedamayairdivyaiḥpuruṣaiḥ strībhirāvṛtāḥ | vedaikarasatoyāḍhyaissarobhirupaśobhitāḥ 5| śrutismṛtipurāṇādi rūpasthāvarasaṃyutāḥ | sarvaṃ varṇayituṃ śakyaṃ na mayā lokavistṛtam 6| virajā paramavyomnoraṃtaraṃkevalaṃ smṛtam | tatsthānamupabhoktavyamavyaktabrahmasevinām 7| svātmānubhavajānaṃdasukhadaṃ kevalaṃ padam | niḥśreyasaṃ ca nirvāṇaṃ kaivalyaṃ mokṣa ucyate 8| śrīśāṃghribhaktisevaikarasabhogavivardhitāḥ tam | tadicchantyalpamatayo mokṣaṃ sukhavivarjitam | mahātmāno mahābhāgā bhagavatpādasevakāḥ 9| tadviṣṇoḥ paramaṃ dhāma yāṃti brahmasukhapradam | nānājanapadākīrṇaṃ vaikuṃṭhaṃ taddhareḥ padam 10| prākāraiśca vimānaiśca saudhairatnamayairvṛtam | tanmadhye nagarī divyā sā'yodhyeti prakīrtitā 11| maṇikāṃcanacitrāḍhya prākāraistoraṇairvṛtā | caturdvārasamāyuktā ratnagopurasaṃvṛtā 12| caṃḍādidvārapālaiśca kumudādyaiśca rakṣitā | caṃḍapracaṃḍau prāgdvāra yāmye bhadrasubhadrakau 13| vāruṇyāṃ jayavijayau saumye dhātṛvidhātarau | kumudaḥ kumudākṣaśca puṃḍarīko'tha vāmanaḥ 14| śaṃkukarṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭhitaḥ | ete dikpatayaḥ proktāḥ puryyāmatra śubhānane 15| koṭivaiśvānaraprakhya gṛhapaṃktibhirāvṛtā | ārūḍhayauvanairnityairdivyanārīnarairyutā 16| antaḥpuraṃ tu devasya madhye puryāmmanoharam | maṇiprākārasaṃyuktaṃ ratnatoraṇaśobhitam 17| vimānairgṛhamukhyaiśca prāsādairbahubhiryutam | divyāpsarogaṇaiḥ strībhissarvatassamalaṃkṛtam 18| madhye tu maṃḍapaṃ divyaṃ rājasthānaṃ mahocchrayam | māṇikyastaṃbhasāhasrajuṣṭaṃ ratnamayaṃ śubham 19| divyairmuktaiḥ samākīrṇaṃ sāmagānopaśobhitam | madhye siṃhāsanaṃ ramyaṃ sarvavedamayaṃ śubham 20| dharmādidaivatairnityairvṛṃtavaidamayātmakaiḥ | dharmmajñānamahaiśvaryavairāgyaiḥ pādavigrahaiḥ 21| ṛgyajuḥsāmacātharvairūpairnityaṃ vṛtaṃ kramāt | śaktirādhāraśaktiśca cicchaktiśca sadāśivā 22| dharmādidevatānāṃ ca śaktayaḥ parikīrtitāḥ | vasaṃti madhyame tatra vahnisūryasudhāṃśavaḥ 23| kūrmaśca nāgarājaśca vainateyastrayīśvaraḥ | chaṃdāsi sarvamaṃtrāśca pīṭharūpatvamāsthitāḥ 24| sarvākṣaramayaṃ divyaṃ yogapīṭhamiti smṛtam | tanmadhye'ṣṭadalaṃ padmamudayārkasamaprabham 25| tanmadhye karṇikāyāṃ tu sāvitryāṃ śubhadarśane | īśvaryyā saha deveśastatrāsīnaḥ paraḥ pumān 26| iṃdīvaradalaśyāmaḥ koṭisūryaprakāśavān | yuvākumāraḥ snigdhaśca komalāvayavairvṛtaḥ 27| phullaraktāṃbujanibhaḥ komalāṃghrisarojavān | prabuddhaḥ puṃḍarīkākṣaḥ subhrū latāyugāṅkitaḥ 28| sunāsassukapolāḍhyassuśrotramukhapaṃkajaḥ | muktāphalābhadantāḍhyaḥ sasmitādharavidrumaḥ 29| paripūrṇedusaṃkāśaḥ susmitānanapaṃkajaḥ | taruṇādityavarṇābhyāṃ kuṃḍalābhyāṃ virājitaḥ 30| sasnigdhanīlakuṭilakuntalairupaśobhitaḥ | mandārapārijātāḍhya kabarīkṛtakeśavān 31| prātarudyatsahasrāṃśunibhakaustubhaśobhitaḥ | hārasvarṇasragāsakta kambugrīvo virājitaḥ 32| siṃhaskaṃdhanibhaiḥ proccaiḥ pīnairaṃsairvirājitaḥ | pīnavṛttāyatabhujaiścaturbhirupaśobhitaḥ 33| aṅgulīyaiśca kaṭakaiḥ keyūraiḥ parimaṇḍitaḥ | bālārkakoṭisaṃkāśaiḥ kaustubhādyaiḥ subhūṣaṇaiḥ 34| virājitamahāvakṣo vanamālāvibhūṣitaḥ | vidhātṛjananasthāna nābhipaṅkajaśobhitaḥ 35| bālātapanibhaślakṣṇa pītavastrasamanvitaḥ | nānāratnavicitrāṃghriḥ kaṭakābhyāṃ virājitaḥ 36| sajyotsnacaṃdrapratima nakhapaṃktisamanvitaḥ | koṭikaṃdarpalāvaṇya sauṃdaryyanidhiracyutaḥ 37| divyacaṃdanaliptāṃgo divyamālāvibhūṣitaḥ | gṛhītaśaṃkhacakrābhyāmudbāhubhyāṃ virājitaḥ 38| varadābhayahastābhyāmitarābhyāṃ tathaiva ca | vāmāṅke saṃsthitā devī mahālakṣmīrmaheśvarī 39| hiraṇyavarṇā hariṇī suvarṇarajatasrajā | sarvalakṣaṇasaṃpannā yauvanāraṃbhavigrahā 40| ratnakuṃḍalasaṃyuktā nīlā kuṃcitaśīrṣajā | divyacaṃdanaliptāṃgī divyapuṣpopaśobhitā 41| maṃdāraketakī jātī puṣpāñcitasukuṃtalā | subhrūssunāsā suśroṇī pīnonnatapayodharā 42| paripūṃrṇeṃdusaṃkāśā susmitānanapaṃkajā | taruṇādityavarṇābhyāṃ kuṃḍalābhyāṃ virājitā 43| taptakāṃcanavarṇābhā taptakāṃcanabhūṣaṇā | hastaiścaturbhiḥ saṃyuktā kanakāṃbujabhūṣitā 44| nānāvicitraratnāḍhyā kanakāṃbujamālayā | hārakeyūrakaṭakairaṃgulīyaiśca śobhitā 45| bhujadvayaghṛtodagra padmayugmopaśobhitā | gṛhītamātuluṃgākhya jāṃbūnadakarāñcitā 46| evaṃ nityānapāyinyā mahālakṣmyā maheśvaraḥ | modate parame vyomni śāśvate sarvadā prabhuḥ 47| pārśvayordharaṇī nīle samāsīne śubhāsane | aṣṭadikṣu dalāgreṣu vimalādyāśca śaktayaḥ 48| vimalotkarṣiṇī jñānākriyāyogā tathaiva ca | prahvī satyā tatheśānā śaktayaḥ paramātmanaḥ 49| gṛhītvā cāmarāndivyānsudhākarasamaprabhān | sarvalakṣaṇasaṃpannā modaṃte patimacyutam 50| divyāpsarogaṇāḥ paṃca śatasaṃkhyāśca yoṣitaḥ | aṃtaḥpuranivāsinyaḥ sarvābharaṇabhūṣitāḥ 51| padmahastāśca tāḥ sarvāḥ koṭivaiśvānaraprabhāḥ | sarvalakṣaṇasaṃpannāḥ śītāṃśusadṛśānanāḥ 52| tābhiḥ parivṛto rājā śuśubhe paramaḥ pumān | anaṃtavihagādhīśa senānyādyaissureśvare 53| anyaiḥ parijanairnityairmuktaiśca parisaṃvṛtaḥ | modate ramayā sārddhaṃ bhogaiśvaryarataḥ pumān 54| evaṃ vaikuṃṭhanātho'sau rājate parame pade | tadvyūhabhedā~llokāṃśca vakṣyāmi girije śubhe 55| prācyāṃ vaikuṃṭhalokasya vāsudevasya maṃdiram | āgneyyāṃ lakṣmyālokastu yāmyāṃ saṃkarṣaṇālayaḥ 56| sārasvatastu nairṛtyā prādyumnaḥ paścime tathā | ratilokastu vāyavyāmudīcyāmaniruddhabhūḥ 57| aiśānyāṃ śāṃtilokaḥ syātprathamāvaraṇaṃ smṛtam | keśavādicaturviṃśatyamī lokāstataḥ kramāt 58| dvitīyāvaraṇaṃ proktaṃ vaikuṃṭhasya śubhāhvayam | matsyakūrmādilokāstu tṛtīyāvaraṇaṃ śubham 59| satyācyutānaṃta durgā viṣvaksena gajānanāḥ | śaṃkhapadmanidhīlokāścaturthāvaraṇaṃ śubham 60| ṛgyajuḥ sāmātharvāṇo lokā dikṣu mahatsu ca | sāvitryā vihageśasya dharmasya ca makhasya ca 61| paṃcamāvaraṇaṃ proktamakṣayaṃ sarvavāṅmayam | śaṃkhacakragadāpadmakhaḍgaśārṅgahalaṃ tathā 62| mauśalaṃ ca tathā lokāḥ sarvaśastrāstrasaṃyutāḥ | ṣaṣṭhamāvaraṇaṃ proktaṃ maṃtrāstramayamakṣaram 63| aiṃdra pāvakayāmyāni nairṛtaṃ vāruṇaṃ tathā | vāyavyaṃ saumyamaiśānaṃ saptamaṃ munibhiḥ smṛtam 64| sādhyā marudgaṇāścaiva viśvedevāstathaiva ca | nityāḥ sarve pare dhāmni ye cānye ca divaukasaḥ 65| te vai prākṛtalokesminna nityāstridaśeśvarāḥ | te ha nākaṃ mahimānaḥ sacaṃta iti vai śrutiḥ 66| evaṃ paraṃ padaṃ nityairmuktairbhogaparāyaṇaiḥ | divyābhirmahiṣībhiśca rājate vibhurīśvaraḥ 67| na tadbhāsayate sūryo na śaṃśāṃko na pāvakaḥ | yadgatvā na nivarttaṃte yoginaḥ saṃśitavratāḥ 68| dvayaikamaṃtraniṣṭhā ye te vai yāṃti tadavyayam | na vedayajñādhyayanairna dānairna vrataiḥ śubhaiḥ 69| na tapobhirnirāhārairna ca sādhanakarmabhiḥ | ekena dvayamaṃtreṇa tathā bhaktyā tvananyathā 70| tadgamyaṃ śāśvataṃ sthānaṃ prapattyā vai sanātanam | pārvatyuvāca- sādhūktaṃ paramaṃ svargasvarūpaṃ bhavatā prabho 71| paravyomni sthito nityaṃ kathaṃ prakṛtimaṇḍale | sthitavānkiṃ nimittena līlayā kiṃ prayojanam 72| śuddhasatvamaye loke saṃsthitaḥ parameśvaraḥ | kathaṃ rajastamomiśra vibhūtyā sthivānprabhuḥ 73| rudra uvāca- tripādvibhūtau bhagavānīśvaryyā parameśvaraḥ | nityamuktyaikabhogyo'sau modate satataṃ vibhuḥ 74| tamīśvaraṃ mahāmāyā prakṛtirjagadāśrayā | kṛtāṃjalipuṭā bhūtvā tuṣṭāva parameśvaram 75| mahāmāyovāca-| namaste trijagaddhāmne namaste viśvarūpiṇe | purāṇāya namastubhyaṃ jagadutpattihetave 76| śrībhūlīlādhipataye namo nārāyaṇāya ca | namo bhagavate tubhyaṃ vāsudevāya śārṅgiṇe 77| sarvadevasvarūpāya viṣṇave jiṣṇave namaḥ | sahasramūrtaye tubhyamanaṃtāya namostu te 78| acyutāya vikārāya śuddhasattvasvarūpiṇe | adimadhyāṃtarahita svarūpāya namo namaḥ 79| namo hiraṇyagarbhāya jñānāya paramātmane | sarvabhūtātmane tubhyaṃ sarvabhūtāśrayāya ca 80| brahmaṇe jyotiṣe tubhyaṃ namaste viśvarūpiṇe | namaḥ śuciṣade tubhyaṃ haṃsāya paramāya ca 81| saṃkarṣaṇāya rudrāya sarvabhūtadharāya ca | hayagrīvāya dīptāya kālāya haraye namaḥ | namaste yajñapuruṣa havyakavyasvarūpiṇe 82| namaḥ prajāpataye tasmai sūryāya śubhavarcase | agnaye havyabhoktre ca tasmai yajñātmane namaḥ 83| namaste prasavitre ca sargasthityaṃtahetave | namo vedāṃtavedyāya caturātmasvarūpiṇe 84| brahmaṇe viṣṇave tubhyaṃ namaste śaṃkārāya ca | triguṇāya namastubhyaṃ sargasthityaṃtahetave 85| nirguṇāya namastubhyaṃ sarvātmāntaravartine | avyaktāya namastasmai viṣṇave lokasākṣiṇe 86| nārāyaṇāya śrīśāya pūrṇaṣāḍguṇyamūrttaye | anaṃtaguṇapūrṇāya namaḥ sarvārthadāyine 87| namaste vāsudevāya paṃcāvasthasvarūpiṇe | namaḥ paṃcanavavyūha bhedarūpāya te namaḥ 88| namo yajñavarāhāya goviṃdāya namo namaḥ | avikārāya śuddhāya heyapratibhaṭāya ca 89| namo rāmāya kṛṣṇāya narasiṃhāya te namaḥ | keśavāya namastubhyaṃ jagatāṃ kleśahāriṇe 90| tvameva sarvalokānāmāśrayaḥ puruṣottamaḥ | prasīda devadeveśa sarvalokahitāya vai 91| matsaṃsthāścetanāssarve nirādhārā nirāśrayāḥ | hīnadehā nirākārāḥ sarvendriyavivarjitāḥ 92| sarvānuṣṭhānarahitāḥ satataṃ duḥkhabhoginaḥ | teṣāṃ lokāṃśca dehāṃśca dātumarhasi keśava 93| līlāvibhūtiṃ sarvajña yathāpūrvaṃ prakalpaya | cetanācetanaṃ kṛtsnaṃ jagatsthāvarajaṃgamam 94| mayā saṃmohitaṃ paśya līlārthaṃparameśvara | prākṛtāṇḍaṃ mayā sārdhaṃ sṛjasva puruṣottama 95| dharmmādharmmau sukhaṃ duḥkhaṃ tasminnikṣipya saṃsṛtau | māmadhiṣṭhāya līlāṃ vai kartumarhasi mā ciram 96| śrīmahādeva uvāca- evamuktastayā devyā māyayā parameśvaraḥ | tasyāṃ niveśya māyāyāṃ jagatsraṣṭuṃ pracakrame 97| yo'sau prakṛtipuruṣaḥ procyate sa ihācyutaḥ | sa eva bhagavānviṣṇuḥ prakṛtyāṃ praviveśa ha 98| asṛjatprakṛtau brahmabhūtādimahadāśrayam | mahataḥ puruṣādasmādahaṃkāro'bhyajāyata 99| ahaṃkārāttu vai tasmādguṇatrayamajāyata | tribhyo guṇebhyastanmātrāmasṛjadviśvabhāvanaḥ 100| tanmātrebhyobhyajāyaṃta mahābhūtāni tatkṣaṇāt | oṃkāraḥ prathamaṃ jāto brahmaṇastriguṇātmanaḥ 101| ākāśādabhavadvāyurvāyoragnirajāyata | agnerāpaḥ samudbhūtā adbhyaśca pṛthivī matā 102| ākāśādīni bhūtāni sṛṣṭānyekottarāṇi vai | śabdasparśaśca rūpaṃ ca raso gaṃdhaśca tadguṇāḥ 103| ekottaraguṇānsṛṣṭvā tānādāya mahāprabhuḥ | teṣāṃ vimiśraṇaṃ kṛtvā jagadaṃḍaṃ mahattaram | asṛjattatralānvai saṃkhyayā ye caturdaśa 104| brahmāditridaśāṃstasminnasṛjatpuruṣottamaḥ | daivatiryyaktathā martyaṃ sthāvaraṃ ca caturvvidham 105| tathā sṛṣṭo mahāsargantena vai jalajekṣaṇe| tatra karmānurūpeṇa tridaśādiṣu yoniṣu 106| saṃsthitāḥ prakṛtau pūrva ātmanaḥ prabhavaṃti hi 107| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe paramavyomādivarṇanaṃnāma aṣṭāviṃśatyadhikadviśatatamo'dhyāyaḥ 228 |

English translation

Śrī Mahādeva said :

1-6. The worlds of the vibhūti of Tripād are said to be innumerable. All they are made of pure sattva , and are called bliss and happiness. All they are eternal, free from change, and void of attachment etc. that are worthy of being abandoned. All are golden, pure, and have the lustre of crores of suns. They are full of all Vedas , are divine, and free from lust and anger. They are resorted to by those who take joy only in devotion to the lotus-like feet of Viṣṇu . They are completely happy due to continuous chanting of the Sāmans . All are of the nature of the five Upaniṣads and have the lustre of the Vedas. All of them are covered with divine men and women full of the Vedas. They are adorned with lakes having water in the form of only the flavour of the Vedas. They have the immobile objects in the form of the holy texts, the codes of law and the Purāṇas . It is not possible for me to describe the full expanse of (these) worlds.

7-13. Only the distance between Virajā and the highest heaven is said (to be covered by them). That place should be enjoyed by those who resort to the unmanifest Brahman . That absolute position which gives joy and happiness due to the experience of one’s own self is called Niśśreyas , Nirvāṇa , Kaivalya and Mokṣa . Those who are nourished by the happiness due to their interest in devoutly serving the lotus-like feet of the lord of Śrī, and whose intellect is small, desire mokṣa, void of happiness. (But) the high-souled, noble ones who serve the feet of the lord go to that highest abode of Viṣṇu which gives pleasure (derived) from Brahman. That place of Viṣṇu (called) Vaikuṇṭha is crowded with diverse communities. It is covered with ramparts, splendid rooms and great mansions. In it is a divine city called Ayodhyā . It is covered with ramparts rich in gems, gold and pictures, and with portals. It has four gates and is covered with jewelled principal gates. It is protected by door-keepers like Caṇḍa and Kumuda . At the eastern gate there are Caṇḍa and Pracaṇḍa , and at the western there are Bhadra and Subhadraka .

14-18. Jaya and Vijaya are in the west, and Dhātṛ and Vidhātṛ are at the northern (gate). The other doorkeepers are: Kumuda, Kumudākṣa . Puṇḍarīka and Vāmana . (So also) Śankukarṇa, Sarvanetra , Sumukha , Supratiṣṭhita . These are said to be the regents of the quarters in this city, O you of an auspicious face. It is covered with crores of rows of houses resembling fire (brightness). It is endowed with eternal divine women and men, who have mounted (i.e. stepped into) youth. In the centre of the city there is the charming harem of the god. It is possessed of jewelled ramparts, and adorned with jewelled arched doorways. It has many splendid rooms, principal mansions, and palaces. On all sides it is adorned with bevies of divine celestial nymphs and ladies.

19-24. In the centre is an open hall with a high royal place. It is furnished with a thousand pillars (decked) with rubies, is full of gems and is beautiful. It is full of divine pearls and is adorned with chanting of Sāmans. At its centre is a charming, beautiful throne full of all Vedas. It is always surrounded by deities like Dharma (i.e. Righteousness), full of the Vedas, and by Piety, Knowledge, Great Affluence and Detachment having shining bodies. It is also surrounded by Ṛg, Yajus , Sāman and Atharvan (Vedas) in (due) order, and in a bodily form. Śakti (i.e. power), Ādhāraśakti (i.e. supporting power), Cicchakti (i.e. power of mind) always auspicious, so also the powers of the deities like Dharma are called Śakti. In the centre of it live the rays of Fire, the Sun, and the Moon. So also (there live) Kūrma , the king of serpents, Vainateya (i.e. Garuḍa ) and the lord of the triad (of the Vedas). All the Vedas and the hymns have resorted to the condition of a seat?

25. The divine seat, full of all syllables is known as the seat of practice in abstract meditation. At its centre is an eight-petal-led lotus, bright like the rising sun.

26-39a. In it in a bright pericarp the Supreme Being, the lord of gods, is seated with the goddess, O you of a beautiful appearance. He is dark like the petal ofa blue lotus. He has the light like that of a crore of suns. He is a young boy, is glossy (or affectionate) and is covered with (i.e. has) delicate limbs. He resembles a full-blown red lotus. He has delicate, lotus-like feet. His eyes are like the full-blown lotuses; is marked with a couple of fine, creeper-like (arched) eye-brows. His nose is good; he is endowed with good cheeks; he has good ears and a lotus-like face. He has teeth resembling pearls. His coral-like lips have a smile on them. He resembles the full moon; his lotus-like face has a charming smile on it. He shines with ear-rings resembling the colour of the young sun. He is adorned with very glossy, dark and curly hair. His hair is tied into a braid having (the flowers of) mandara and pārijātaka . He is adorned with the Kaustubha (jewel) resembling the rising, morning sun. He shines with a conch-like neck to which garlands and golden wreaths are attached. He shines with very high, large shoulders resembling those of a lion. He is adorned with four plump, round and long arms. He is adorned with rings, bracelets and armlets. His large chest is adorned with good ornaments like the Kaustubha, resembling crores of young suns. He is adorned with a garland of wood-flowers. He has a lovely navel which is the place of origin of the Creator. He is endowed with (i.e. has put on) a soft yellow garment resembling the morning sunshine. His feet are beautiful due to various gems. He shines with two bracelets. He has a row of nails resembling the moon with the moonlight. Acyuta is the treasure of the handsomeness and beauty of a crore of Cupids. He (i.e. his body) is smeared with divine sandal. He is adorned with a divine garland. He shines with his raised arms that have held the conch and the disc. So also (he shines) with the other two hands granting boons.

39b-46. On his left thigh is seated goddess Mahālakṣmī , the great deity. She has a golden complexion and is deer-eyed. She has (put on) a wreath of gold and silver. She is endowed with all (auspicious) marks; and her body has (just) the commencement of youth (i.e. the body is youthful). She has (put on) jewelled ear-rings. Her hair is dark and curly. Her body is smeared with divine sandal, and she shines with divine flowers. Her fine hair is decked with flowers of mandāra , ketakī and jasmine; her eyebrows are good; her nose is fine; her buttocks are good (i.e. plump); her breasts are plump and raised. She resembles the full moon. Her lotus-like face has a charming smile on it. She is adorned with ear-rings resembling the colour of the young sun. Her complexion resembles gold purified with fire. Her ornaments are made of gold purified by fire. She is endowed with four hands. She is adorned with a golden lotus. She is abounding in various beautiful gems. She is also adorned with necklaces, armlets, bracelets and rings. She shines with a couple of big lotuses held in both her hands. Her hands are graced with golden ornaments called citrons.

47-50. In this way the lord, the great god, always shines in the highest heaven with Mahālakṣmī never leaving him. On his two sides are seated the auspicious Dharaṇī and Nīlā on an auspicious seat. And on the tips of the petals in the eight directions are seated the Śaktis (i.e. the powers embodied) like Vimalā . Vimalā, Utkarṣiṇī, Jñānā, Kriyā , Yogā , so also Prahvī, Satya and Īśānā, are the (eight) powers of the highest soul. Endowed with all (auspicious) marks, they, holding divine chowries, having moon-like lustre, delight their lord, Acyuta.

51-54. (There are also) bevies of celestial nymphs, and five hundred women. They live in the harem and are adorned with all ornaments. All they have lotuses in their hands, and have lustre like that of crores of fires. They are endowed with all (auspicious) marks, and have faces resembling the moon. The king, the Highest Being, surrounded by them shines. He is also surrounded by Ananta , Garuḍa, and other principal gods like Kārtikeya . He is also surrounded by other servants, eternally liberated. The highest Being, fond of enjoyments and affluence, delights with Ramā .

55-57. O auspicious Girijā, in this way the lord of Vaikuṇṭha shines in the highest place. I shall explain to you his vyūhas (manifestations) and worlds. In the east of the Vaikuṇṭhaloka is the abode of Viṣṇu. In the southeast is Lakṣmī ’s abode. In the south is Saṃkarṣaṇa ’s abode. In the southwest is (the abode) of Sarasvatī . In the west is the abode of Pradyumna . In the northwest is the place of Rati . The land of Aniruddha is in the north.

58. In the northeast is the Śānti - loka . This is the first covering. Then there are twenty-four worlds in a sequence beginning with Keśava .

59-65. The second covering of Vaikuṇṭha is called Śubha . The third auspicious covering consists of the worlds of Matsya , Kūrma, etc. The fourth auspicious covering has the worlds Satya, Acyuta, Ananta, Durgā , Viṣvaksena , Gajānana , Śaṃkha, Padma , Nidhi . In the great directions are the worlds of Ṛg, Yajus, Saman and Atharvan. So also of Sāvitrī , Garuḍa, Dharma and Sacrifice. The fifth covering is said to be inexhaustible and full of all Speech. So also (there are) the conch, the disc, the mace, the lotus, the sword, the bow, the plough also, and the pestle. The worlds are (thus) equipped with all weapons and missiles. The sixth indestructible covering is said to be consisting of hymns and missiles. Then (there are those) of Indra , Agni , Yama , Nirṛti , Varuṇa , Vayu , Soma , Īśāna . The seventh is said to be (occupied) by the sages. The Sadhyas , the hosts of Maruts , the Viśvedevas , all are eternal (residents) in the highest abode. So also are other gods.

66-71a. In the material world they are the transient gods. The holy text says: ‘The great ones sought out the heaven.’ Thus the highest place shines with those liberated, eternal ones fond of enjoyment. The powerful lord shines with the divine queens. The sun does not illumine it; nor does the moon, nor does the fire. Having reached it, the ascetics of acute vows do not return (to the earth). Those who are devoted to the formula consisting of two (divine names) only go to that immutable (place). (It is) not (reached) by means of Vedas, sacrifices, study, gifts, auspicious vows, austerities accompanied by fasts, and other expedients. That eternal, ancient place is to be reached by means of the formula of a couple of names only, so also by means of concentrated devotion or submission.

Pārvatī said :

71b-73. O lord, you have well explained the nature of heaven. How did he dwell in the highest heaven, in the whole territory? For what purpose did he dwell (there)? What is the purpose of (his) sport? How did the lord, the highest god, living in the world consisting of pure sattva live with his vibhūti mixed with rajas and tamas ?

Rudra said :

74-75. In his Tripād-vibhūti the glorious highest lord, living with the goddess, and always having his sole enjoyment, is delighted. That great illusion, Prakṛti , the resort of the world, having joined the palms of her hands, extolled the highest god.

Mahāmāyā ( the Great Illusion) said :

76-90. Salutation to you, the dwelling-place of the three worlds. Salutation to you of the form of the universe. Salutation to you, the ancient one. Salutation to you, the cause of the origin of the world. Salutation to (you) the lord of Śrī, Bhū, Līlā ; to Nārāyaṇa . Salutation to you the glorious one; to Viṣṇu, having the Śārṅga (bow). Salutation to you of the form of all gods, to Viṣṇu, to the triumphant one; to you of a thousand forms, and to you Ananta. Repeated salutations to Acyuta, the one having no modification, and of a pure, good form, and having a form that has no beginning, middle or end. Salutation to you, Hiraṇyagarbha , Yajña (i.e. Sacrifice), to the highest soul, to the soul of all beings, and to the refuge of all beings. Salutation to Brahman, to Light, to you of the form of the universe, to you of pure feet, to the supreme soul, the highest (being). Salutation to you, Saṃkarṣaṇa, Rudra , the prop of all beings, to Hayagrīva , to the blazing Kāla (i.e. Death), to Viṣṇu. Salutation to you, O man (i.e. the chief deity) of sacrifice, of the nature of the oblations made to deities and dead ancestors. Salutation to the lord of beings, to the Sun of auspicious] lustre, to Agni, enjoying oblations offered to gods, and to him, the soul (or of the nature) of sacrifice. Salutation to the procreator, to the cause of creation, maintenance and destruction. Salutation to him who is to be known by the Upaniṣads, and of the nature of four souls. Salutation to you, Brahma , Viṣṇu. Salutation to Śaṅkara (literally, doing good) also. Salutation to you having the three qualities and the cause of creation, maintenance and destruction. Salutation to you the qualityless one, living in the hearts of all. Salutation to that Viṣṇu, the unmanifest, watching the worlds. Salutation to Nārāyaṇa, the lord of Śrī, of the form of six qualities, to him full of unending qualities, and the giver of all objects. Salutation to Vāsudeva having the form of five states. Salutation to you having the five and nine different vyūhas (manifestations). Salutation to Yajña-varāha ; repeated salutations to Govinda , to the unchanging one, to the pure one, and to the adversary of what is fit to be abandoned. Salutation to you, Rāma , Kṛṣṇa , Narasiṃha . Salutation to you, Keśava, remover of the affliction of the worlds.

91-96. You, Viṣṇu, are the refuge of all the worlds. O lord of the god of gods, be pleased for the good of all worlds. All the sentient beings, having no support and shelter, stay in me. They are bodiless, formless and without all senses. They are without the practices of religious austerities, and always experience misery. O Keśava, please give them worlds and bodies. O omniscient one, create as before the vibhūti (glory) of your sport. O great lord, see, the entire sentient and insentient, mobile and immobile (world) is deluded by me for (your) sport. O Viṣṇu, create with me the material egg. Having put into the mundane existence, piety and impiety, pleasure, pain, and resorting to me, please indulge in sport. Do not tarry.

Śrī Mahādeva said :

97-101. The highest lord, thus addressed by the deity Māya , entered her, and started creating the world. He who is called Prakṛti- Puruṣa (Matter and Lord), here is Acyuta. He alone is lord Viṣṇu. He entered the Prakṛti. In the Prakṛti he created Brahmā and (other) beings, resorting to Mahat (i.e. intellect). From this Mahat, Ahaṃkāra (Ego) sprang up. From that Ahaṃkāra, the triad of the constituents ( guṇas ) came up. From the three constituents the creator of the universe produced the subtle elements. At that moment only the gross elements sprang up from the subtle elements. From Brahman, of the nature of the three constituents, Oṃkāra (i.e. the syllable Om) first came up.

102-107. Vāyu (i.e. air) sprang from Ākāśa (i.e. ether); from Vāyu, Agni (i.e. fire) came up. From Agni, water sprang up; and from water the earth is said to have sprung up. The elements—ether and others—were created one after another. Their qualities—sound, touch, colour, taste and odour (were produced). The great lord, having created and taken the guṇas one after another, and having mixed them up, created the very great egg of the world and those that merged there, which are fourteen in number. In it Viṣṇu created gods like Brahmā, divinities, lower animals, human beings and four kinds of immobile (objects). Then in him having lotus-like eyes he created the great creation. There, the former (souls) remaining in Prakṛti, are born from him in the stocks of gods etc. in accordance with their former deeds.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 45048, revision 336646 (2022-04-26T00:43:04Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365812.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.