Svarga-khaṇḍa · Chapter 45
Sourceयुधिष्ठिर उवाच- एतच्छ्रुत्वा प्रयागस्य यत्त्वया कीर्तनं कृतम् । विशुद्धमेतद्धृदयं प्रयागस्य च कीर्तनात् । अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् १। मार्कंडेय उवाच- शृणु राजन्प्रयागे तु अनाशकफलं विभो । प्राप्नोति पुरुषो धीमान्श्रद्दधानश्च यादृशम् २। अहीनांगो विरोगश्च पंचेंद्रियसमन्वितः । अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ३। कुलानि तारयेद्राजन्दशपूर्वान्दशापरान् । मुच्यते सर्वपापेभ्यो गच्छेत परमं पदम् ४। युधिष्ठिर उवाच- महाभागोसि धर्मज्ञ दानं वदसि मे प्रभो । अल्पेनैव प्रधानेन बहून्धर्मानवाप्नुयात् ५। अश्वमेधस्तु बहुभिः सुकृतैः प्राप्यते इह । एतन्मे संशयं ब्रूहि परं कौतूहलं हि मे ६। मार्कंडेय उवाच- शृणु राजन्महावीर युदुक्तं पद्मयोनिना । ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया श्रुतम् ७। पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम् । प्रविशंस्तस्य तद्भूमावश्वमेधं पदे पदे ८। व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश । नरस्तारयते सर्वान्यस्तु प्राणान्परित्यजेत् ९। एवं ज्ञात्वा तु राजेंद्र सदा श्रद्धापरो भवेत् । अश्रद्दधानाः पुरुषाः पापोपहतचेतसः । न प्राप्नुवंति तत्स्थानं प्रयागं देवनिर्मितम् १०। युधिष्ठिर उवाच- स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः । कथं तीर्थफलं तेषां कथं पुण्यमवाप्नुयुः ११। विक्रयं सर्वभांडानां कार्याकार्यमजानतः । प्रयागे का गतिस्तस्य एवं ब्रूहि महामुने १२। मार्कंडेय उवाच- शृणु राजन्महागुह्यं सर्वपापप्रणाशनम् । मासं वसंस्तु राजेंद्र प्रयागे नियतेंद्रियः १३। मुच्यते सर्वपापेभ्यः यथादिष्टं स्वयंभुवा । शुचिस्तु प्रयतो भूत्वाऽहिंसकः श्रद्धयान्वितः १४। मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम् । विश्रंभघातकानां तु प्रयागे शृणु तत्फलम् १५। त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत् । त्रिभिर्मासैः प्रमुच्येत प्रयागात्तु न संशयः १६। प्रज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् । सर्वकामसमृद्धस्तु स्वर्गलोके महीयते १७। स्थानं स लभते नित्यं धनधान्यसमाकुलम् । एवं ज्ञानेन संपूर्णः सदा भवति भोगवान् १८। तारिताः पितरस्तेन नरकात्प्रपितामहाः । धर्मानुसारे तत्त्वज्ञ पृच्छतस्ते पुनः पुनः । त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम् १९। युधिष्ठिर उवाच- अद्य मे सफलं जन्म अद्य मे सफलं कुलम् । प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेव तेऽद्य वै । त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं सर्वपातकैः २०। मार्कंडेय उवाच- दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम् । कीर्तनाद्वर्द्धते पुण्यं श्रुतं पापप्रणाशनम् २१। युधिष्ठिर उवाच- यमुनायां तु किं पुण्यं किं फलं तु महामुने । एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम् २२। मार्कंडेय उवाच-। तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा २३। येनैव निःसृता गङ्गा तेनैव यमुना गता । योजनानां सहस्रेषु कीर्तनात्पापनाशिनी २४। तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर । कीर्त्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति २५। अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम् । प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् २६ अग्नितीर्थमिति ख्यातं यमुना दक्षिणे तटे । पश्चिमे धर्मराजस्य तीर्थं हरवरं स्मृतम् २७। तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः । एवं तीर्थसहस्राणि यमुना दक्षिणे तटे २८। उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः । तीर्थं तु विरजं नाम यत्र देवाः सवासवाः २९। उपासते स्म संध्यां तु नित्यकालं युधिष्ठिर । देवाः सेवंति तत्तीर्थं ये चान्ये विदुषो जनाः ३०। श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम् । अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः ३१। तेषु स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः । गंगा च यमुना चैव उभे तुल्यफले स्मृते ३२। केवलं श्रेष्ठभावेन गंगा सर्वत्र पूज्यते । एवं कुरुष्व कौंतेय स्वर्गतीर्थाभिषेचनम् ३३। यावज्जीवकृतं पापं तत्क्षणादेव नश्यति । यस्त्विदं कल्य उत्थाय पठते च शृणोति वा ३४। मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति ३५। इति श्रीपाद्मे महापुराणे स्वर्गखंडे यमुनामाहात्म्ये पंचचत्वारिंशोऽध्यायः ४५। कुरुक्षेत्रसमा गंगा यत्र तत्रावगाहिता ।। तस्माद्दशगुणा प्रोक्ता यत्र विंध्येन संगता ।। ६३-२ ।। तस्माच्छतगुणा प्रोक्ता काश्यामुत्तरवाहिनी ।। काश्याः शतगुणा प्रोक्ता गंगा यत्रार्कजान्विता ।। ६३-३ ।। सहस्रगुणिता सापि भवेत्पश्चिमवाहिनी ।। सा देवि दर्शनादेव ब्रह्महत्यादिहारिणी ।। ६३-४ ।। पश्चिमाभिमुखी गंगा कालिंद्या सह संगता ।। हंति कल्पशतं पापं सा माघे देवि दुर्लभा ।।नारदपु. १.६३-५ ।। पुराणेषु पश्चिमदिशायाः कार्यं स्वपापानां भस्मीकरणं, श्मशानकरणं, शून्यस्थितिप्रापणं अस्ति। किन्तु प्रयागतीर्थे पश्चिमदिशायाः कृत्यं शून्यत्वप्राप्तिरेव नास्ति। शून्यत्वप्राप्त्यनन्तरं रसानां, भक्तीनां क्षेत्रस्य आरम्भं भवति। अनेन कारणेन प्रयागे पश्चिमदिशायां ललितादेव्याः एवं कम्बलाश्वतरस्य स्थानमस्ति। पुराणेषु कम्बलाश्वतरौ नागौ संगीतविद्याप्राप्ति हेतु सरस्वत्याः देव्याः आराधनं कुर्वन्ति(इदानीं सैनीग्रामे कम्बलाश्वतरनागानां स्थानं निर्धारितमस्ति। बहिर्वेदी परिक्रमायाः द्वितीयदिवसे अस्य स्थलस्य दर्शनं करणीयम्)। पश्चिम दिशातः विपरीत दिशा प्राची दिशा अस्ति। यथा अष्टसखी शब्दस्य [http://puranastudy.angelfire.com/pur_index2/ashta_sakhi1.htm टिप्पण्यां] उल्लेखमस्ति, प्राची दिशा विशाखादेव्याः दिशा अस्ति। वैशाखमासस्य संज्ञा माधवः अस्ति। पुराणेषु प्रयागे यमुनायाः दक्षिण एवं उत्तरकूलानां उल्लेखमस्ति - अग्नितीर्थमितिख्यातं यमुनादक्षिणे तटे। पश्चिमे धर्मराजस्य तीर्थन्तु नरकं स्मृतम्।। २७ ।। तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः। एवं तीर्थसहस्राणि यमुनादक्षिणे तटे।। २८ ।। उत्तरेण प्रवक्ष्याणि आदित्यस्य महात्मनः। तीर्थं निरञ्जनं नाम यत्र देवाः सवासवाः।।मत्स्य १०८.२९ ।। पश्चिमाभिमुखी गंगा कालिंद्या सह संगता ।। हंति कल्पशतं पापं सा माघे देवि दुर्लभा ।।नारदपु. [https://sa.wikisource.org/s/4y2 १.६३-५] ।। अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च । आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ।। २.९१.११ ।। आह्वये विश्वकर्माणमहं त्वष्टारमेव च । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.१२ ।। आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.१३ ।। प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च । पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ।। वा.रामायणम् २.९१.१४ ।। सरस्वती रजोरूपा तमोरूपा कलिन्दजा। सत्त्वरूपा च गङ्गाऽत्र नयन्ति ब्रह्म निर्गुणम्।। इयं वेणी हि निःश्रेणी ब्रह्मणो वर्त्म यास्यतः। जन्तोर्विशुद्धदेहस्य श्रद्धाश्रद्धा प्लुतस्य च।। ओमित्येकाक्षरं ब्रह्म परब्रह्माभिधायकम्। तदेव वेणी विज्ञेया सर्वसौख्यप्रदायिनी।। अकारः शारदा प्रोक्ता प्रद्युम्नस्तत्र जायते। उकारो यमुना प्रोक्ताऽनिरुद्धस्तज्जलात्मकः।। मकारो जाह्नवी गङ्गा तत्र संकर्षणो हरिः। एवं त्रिवेणी विख्याता वेदबीजं प्रकीर्तिता।। वेदमाता तु सावित्री त्रिपदी या चतुष्पदा। स एव तीर्थराजोऽयं त्रिवेण्या यत्र सङ्गमः।। कम्बलाश्वतरा नागौ यमुना दक्षिणे तटे। पूर्वपार्श्वे तु गङ्गायास्त्रैलोक्ये ख्यातिमान्नृप। अवटः सर्वसामुद्रः प्रतिष्ठानं च विश्रुतम्।। उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः। हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम्।। यामुने चोत्तरे तीरे प्रयागस्य तु दक्षिणे। ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम्।। ऋग्वेदमूर्तिर्गङ्गा स्याद्यमुना च यजुर्ध्रुवा। नर्मदा साममूर्तिस्तु स्यादथर्वा सरस्वती।। अक्षयवटः ब्राह्मे – मूलं विष्णुः स्वयं साक्षात्स्कन्धा लक्ष्मीः स्वयं शुभा। पत्राणि भारती देवी पुष्पाणि विबुधेश्वरः।। ब्रह्मा फलानि सर्वाणि सर्वाधारो हरिः प्रभुः।। कालिन्द्यां स्वर्धुनी या तु पञ्चक्रोशावधिर्नृप। पुण्यपूर्णाऽपि सा देवी विकीर्णा लीलया हरेः।। तस्मात्तु विकिरं प्रोक्तं तीर्थं त्रैलोक्यविश्रुतम्। विकिरं ये समासाद्य कुर्वन्ति ब्रह्मवित्तमाः। विकिरं विष्णवे तत्र पूजां मन्त्रविधानतः। नमः परपुरुषाय नमस्ते शार्ङ्गपाणये। इमां विकिरपूजां तु गृहाण मधुसूदन। विकिरे पुण्यतीर्थे तु ये कुर्वन्ति सकृन्नराः। पितॄनुद्दिश्य श्राद्धं ते पुनन्त्याकोटि पूर्वजान्।। (द्र. बहिर्वेदि परिक्रमायाः तृतीयदिवसे वीकर/बीकर/बिकर - देवरिया ग्रामे यमुनातटोपरि रात्रिनिवासः एवं श्राद्धकरणम्) गङ्गायाः पूर्वभागे तु देवगोष्ठेति विश्रुता। तत्राहं सततं वत्स वसे देवैः समन्वितः।। गङ्गाया दक्षिणे तीरे माधवोऽनन्तमाधवः। वर्तते विबुधैः सार्धमनन्तोऽनन्तशक्तिभिः।। गङ्गायमुनयोर्यत्र सङ्गमः पुण्यसङ्गमः। तत्र माधवदेवेशो वर्त्तते जगदीश्वरः।। गङ्गायाः पश्चिमे तीरे ब्रह्मकुण्डोस्ति शोभनः। तत्राहं अयजं देवमश्वमेधैर्दशोन्मितैः।। - - - - तस्माद्विंशतिहस्तेषु शंखतीर्थं तु पावनम्। शङ्खेन स्नापितो देवो मया तत्र जनार्दनः।। तस्य दक्षिणतो विप्र तार्क्ष्यकेतुर्विराजते। तस्माद्याम्ये मुनिश्रेष्ठ चक्रतीर्थं सुशोभनम्। तत्र साक्षाच्छ्रियःकान्त क्षेत्ररक्षाविधायकः। सुदर्शनेन चक्रेण भक्तविघ्नविनाशनः। - - - - - - -- - -- - -- - - - - [http://www.abhivyakti-hindi.org/snibandh/sanskriti/2010/akshayvat.htm तीर्थदीपिकायां] वटवृक्षाः वृन्दावने वटो वंशी प्रयागेय मनोरथा:। गयायां अक्षय ख्यातः कल्पस्तु पुरुषोत्तमे ।। निष्कुंभ खलु लंकायां मूलैकः पंचधा वटः । स्तेषु वटमूलेषु सदा तिष्ठति माधवः ।।
yudhiṣṭhira uvāca- etacchrutvā prayāgasya yattvayā kīrtanaṃ kṛtam | viśuddhametaddhṛdayaṃ prayāgasya ca kīrtanāt | anāśakaphalaṃ brūhi bhagavaṃstatra kīdṛśam 1| mārkaṃḍeya uvāca- śṛṇu rājanprayāge tu anāśakaphalaṃ vibho | prāpnoti puruṣo dhīmānśraddadhānaśca yādṛśam 2| ahīnāṃgo virogaśca paṃceṃdriyasamanvitaḥ | aśvamedhaphalaṃ tasya gacchatastu pade pade 3| kulāni tārayedrājandaśapūrvāndaśāparān | mucyate sarvapāpebhyo gaccheta paramaṃ padam 4| yudhiṣṭhira uvāca- mahābhāgosi dharmajña dānaṃ vadasi me prabho | alpenaiva pradhānena bahūndharmānavāpnuyāt 5| aśvamedhastu bahubhiḥ sukṛtaiḥ prāpyate iha | etanme saṃśayaṃ brūhi paraṃ kautūhalaṃ hi me 6| mārkaṃḍeya uvāca- śṛṇu rājanmahāvīra yuduktaṃ padmayoninā | ṛṣīṇāṃ sannidhau pūrvaṃ kathyamānaṃ mayā śrutam 7| paṃcayojanavistīrṇaṃ prayāgasya tu maṃḍalam | praviśaṃstasya tadbhūmāvaśvamedhaṃ pade pade 8| vyatītānpuruṣānsapta bhaviṣyāṃśca caturdaśa | narastārayate sarvānyastu prāṇānparityajet 9| evaṃ jñātvā tu rājeṃdra sadā śraddhāparo bhavet | aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ | na prāpnuvaṃti tatsthānaṃ prayāgaṃ devanirmitam 10| yudhiṣṭhira uvāca- snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ | kathaṃ tīrthaphalaṃ teṣāṃ kathaṃ puṇyamavāpnuyuḥ 11| vikrayaṃ sarvabhāṃḍānāṃ kāryākāryamajānataḥ | prayāge kā gatistasya evaṃ brūhi mahāmune 12| mārkaṃḍeya uvāca- śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam | māsaṃ vasaṃstu rājeṃdra prayāge niyateṃdriyaḥ 13| mucyate sarvapāpebhyaḥ yathādiṣṭaṃ svayaṃbhuvā | śucistu prayato bhūtvā'hiṃsakaḥ śraddhayānvitaḥ 14| mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam | viśraṃbhaghātakānāṃ tu prayāge śṛṇu tatphalam 15| trikālameva snāyīta āhāraṃ bhaikṣyamācaret | tribhirmāsaiḥ pramucyeta prayāgāttu na saṃśayaḥ 16| prajñānena tu yasyeha tīrthayātrādikaṃ bhavet | sarvakāmasamṛddhastu svargaloke mahīyate 17| sthānaṃ sa labhate nityaṃ dhanadhānyasamākulam | evaṃ jñānena saṃpūrṇaḥ sadā bhavati bhogavān 18| tāritāḥ pitarastena narakātprapitāmahāḥ | dharmānusāre tattvajña pṛcchataste punaḥ punaḥ | tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam 19| yudhiṣṭhira uvāca- adya me saphalaṃ janma adya me saphalaṃ kulam | prīto'smyanugṛhīto'smi darśanādeva te'dya vai | tvaddarśanāttu dharmātmanmukto'haṃ sarvapātakaiḥ 20| mārkaṃḍeya uvāca- diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam | kīrtanādvarddhate puṇyaṃ śrutaṃ pāpapraṇāśanam 21| yudhiṣṭhira uvāca- yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune | etanme sarvamākhyāhi yathādṛṣṭaṃ yathāśrutam 22| mārkaṃḍeya uvāca-| tapanasya sutā devī triṣu lokeṣu viśrutā | samāgatā mahābhāgā yamunā yatra nimnagā 23| yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā | yojanānāṃ sahasreṣu kīrtanātpāpanāśinī 24| tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira | kīrttanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati 25| avagāḍhā ca pītvā ca punātyāsaptamaṃ kulam | prāṇāṃstyajati yastatra sa yāti paramāṃ gatim 26 agnitīrthamiti khyātaṃ yamunā dakṣiṇe taṭe | paścime dharmarājasya tīrthaṃ haravaraṃ smṛtam 27| tatra snātvā divaṃ yāṃti ye mṛtāste'punarbhavāḥ | evaṃ tīrthasahasrāṇi yamunā dakṣiṇe taṭe 28| uttareṇa pravakṣyāmi ādityasya mahātmanaḥ | tīrthaṃ tu virajaṃ nāma yatra devāḥ savāsavāḥ 29| upāsate sma saṃdhyāṃ tu nityakālaṃ yudhiṣṭhira | devāḥ sevaṃti tattīrthaṃ ye cānye viduṣo janāḥ 30| śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam | anye ca bahavastīrthāḥ sarvapāpaharāḥ śubhāḥ 31| teṣu snātvā divaṃ yāṃti ye mṛtāste'punarbhavāḥ | gaṃgā ca yamunā caiva ubhe tulyaphale smṛte 32| kevalaṃ śreṣṭhabhāvena gaṃgā sarvatra pūjyate | evaṃ kuruṣva kauṃteya svargatīrthābhiṣecanam 33| yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati | yastvidaṃ kalya utthāya paṭhate ca śṛṇoti vā 34| mucyate sarvapāpebhyaḥ svargalokaṃ ca gacchati 35| iti śrīpādme mahāpurāṇe svargakhaṃḍe yamunāmāhātmye paṃcacatvāriṃśo'dhyāyaḥ 45| kurukṣetrasamā gaṃgā yatra tatrāvagāhitā || tasmāddaśaguṇā proktā yatra viṃdhyena saṃgatā || 63-2 || tasmācchataguṇā proktā kāśyāmuttaravāhinī || kāśyāḥ śataguṇā proktā gaṃgā yatrārkajānvitā || 63-3 || sahasraguṇitā sāpi bhavetpaścimavāhinī || sā devi darśanādeva brahmahatyādihāriṇī || 63-4 || paścimābhimukhī gaṃgā kāliṃdyā saha saṃgatā || haṃti kalpaśataṃ pāpaṃ sā māghe devi durlabhā ||nāradapu. 1.63-5 || purāṇeṣu paścimadiśāyāḥ kāryaṃ svapāpānāṃ bhasmīkaraṇaṃ, śmaśānakaraṇaṃ, śūnyasthitiprāpaṇaṃ asti| kintu prayāgatīrthe paścimadiśāyāḥ kṛtyaṃ śūnyatvaprāptireva nāsti| śūnyatvaprāptyanantaraṃ rasānāṃ, bhaktīnāṃ kṣetrasya ārambhaṃ bhavati| anena kāraṇena prayāge paścimadiśāyāṃ lalitādevyāḥ evaṃ kambalāśvatarasya sthānamasti| purāṇeṣu kambalāśvatarau nāgau saṃgītavidyāprāpti hetu sarasvatyāḥ devyāḥ ārādhanaṃ kurvanti(idānīṃ sainīgrāme kambalāśvataranāgānāṃ sthānaṃ nirdhāritamasti| bahirvedī parikramāyāḥ dvitīyadivase asya sthalasya darśanaṃ karaṇīyam)| paścima diśātaḥ viparīta diśā prācī diśā asti| yathā aṣṭasakhī śabdasya [http://puranastudy.angelfire.com/pur_index2/ashta_sakhi1.htm ṭippaṇyāṃ] ullekhamasti, prācī diśā viśākhādevyāḥ diśā asti| vaiśākhamāsasya saṃjñā mādhavaḥ asti| purāṇeṣu prayāge yamunāyāḥ dakṣiṇa evaṃ uttarakūlānāṃ ullekhamasti - agnitīrthamitikhyātaṃ yamunādakṣiṇe taṭe| paścime dharmarājasya tīrthantu narakaṃ smṛtam|| 27 || tatra snātvā divaṃ yānti ye mṛtāste punarbhavāḥ| evaṃ tīrthasahasrāṇi yamunādakṣiṇe taṭe|| 28 || uttareṇa pravakṣyāṇi ādityasya mahātmanaḥ| tīrthaṃ nirañjanaṃ nāma yatra devāḥ savāsavāḥ||matsya 108.29 || paścimābhimukhī gaṃgā kāliṃdyā saha saṃgatā || haṃti kalpaśataṃ pāpaṃ sā māghe devi durlabhā ||nāradapu. [https://sa.wikisource.org/s/4y2 1.63-5] || agniśālāṃ praviśyātha pītvāpa: parimṛjya ca | ātithyasya kriyāhetorviśvakarmāṇamāhvayat || 2.91.11 || āhvaye viśvakarmāṇamahaṃ tvaṣṭārameva ca | ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām || 2.91.12 || āhvaye lokapālāṃstrīn devān śakramukhāṃstathā | ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām || 2.91.13 || prāksrotasaśca yā nadya: pratyaksrotasa eva ca | pṛthivyāmantarikṣe ca samāyāntvadya sarvaśa: || vā.rāmāyaṇam 2.91.14 || sarasvatī rajorūpā tamorūpā kalindajā| sattvarūpā ca gaṅgā'tra nayanti brahma nirguṇam|| iyaṃ veṇī hi niḥśreṇī brahmaṇo vartma yāsyataḥ| jantorviśuddhadehasya śraddhāśraddhā plutasya ca|| omityekākṣaraṃ brahma parabrahmābhidhāyakam| tadeva veṇī vijñeyā sarvasaukhyapradāyinī|| akāraḥ śāradā proktā pradyumnastatra jāyate| ukāro yamunā proktā'niruddhastajjalātmakaḥ|| makāro jāhnavī gaṅgā tatra saṃkarṣaṇo hariḥ| evaṃ triveṇī vikhyātā vedabījaṃ prakīrtitā|| vedamātā tu sāvitrī tripadī yā catuṣpadā| sa eva tīrtharājo'yaṃ triveṇyā yatra saṅgamaḥ|| kambalāśvatarā nāgau yamunā dakṣiṇe taṭe| pūrvapārśve tu gaṅgāyāstrailokye khyātimānnṛpa| avaṭaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam|| uttareṇa pratiṣṭhānādbhāgīrathyāstu pūrvataḥ| haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam|| yāmune cottare tīre prayāgasya tu dakṣiṇe| ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam|| ṛgvedamūrtirgaṅgā syādyamunā ca yajurdhruvā| narmadā sāmamūrtistu syādatharvā sarasvatī|| akṣayavaṭaḥ brāhme – mūlaṃ viṣṇuḥ svayaṃ sākṣātskandhā lakṣmīḥ svayaṃ śubhā| patrāṇi bhāratī devī puṣpāṇi vibudheśvaraḥ|| brahmā phalāni sarvāṇi sarvādhāro hariḥ prabhuḥ|| kālindyāṃ svardhunī yā tu pañcakrośāvadhirnṛpa| puṇyapūrṇā'pi sā devī vikīrṇā līlayā hareḥ|| tasmāttu vikiraṃ proktaṃ tīrthaṃ trailokyaviśrutam| vikiraṃ ye samāsādya kurvanti brahmavittamāḥ| vikiraṃ viṣṇave tatra pūjāṃ mantravidhānataḥ| namaḥ parapuruṣāya namaste śārṅgapāṇaye| imāṃ vikirapūjāṃ tu gṛhāṇa madhusūdana| vikire puṇyatīrthe tu ye kurvanti sakṛnnarāḥ| pitṝnuddiśya śrāddhaṃ te punantyākoṭi pūrvajān|| (dra. bahirvedi parikramāyāḥ tṛtīyadivase vīkara/bīkara/bikara - devariyā grāme yamunātaṭopari rātrinivāsaḥ evaṃ śrāddhakaraṇam) gaṅgāyāḥ pūrvabhāge tu devagoṣṭheti viśrutā| tatrāhaṃ satataṃ vatsa vase devaiḥ samanvitaḥ|| gaṅgāyā dakṣiṇe tīre mādhavo'nantamādhavaḥ| vartate vibudhaiḥ sārdhamananto'nantaśaktibhiḥ|| gaṅgāyamunayoryatra saṅgamaḥ puṇyasaṅgamaḥ| tatra mādhavadeveśo varttate jagadīśvaraḥ|| gaṅgāyāḥ paścime tīre brahmakuṇḍosti śobhanaḥ| tatrāhaṃ ayajaṃ devamaśvamedhairdaśonmitaiḥ|| - - - - tasmādviṃśatihasteṣu śaṃkhatīrthaṃ tu pāvanam| śaṅkhena snāpito devo mayā tatra janārdanaḥ|| tasya dakṣiṇato vipra tārkṣyaketurvirājate| tasmādyāmye muniśreṣṭha cakratīrthaṃ suśobhanam| tatra sākṣācchriyaḥkānta kṣetrarakṣāvidhāyakaḥ| sudarśanena cakreṇa bhaktavighnavināśanaḥ| - - - - - - -- - -- - -- - - - - [http://www.abhivyakti-hindi.org/snibandh/sanskriti/2010/akshayvat.htm tīrthadīpikāyāṃ] vaṭavṛkṣāḥ vṛndāvane vaṭo vaṃśī prayāgeya manorathā:| gayāyāṃ akṣaya khyātaḥ kalpastu puruṣottame || niṣkuṃbha khalu laṃkāyāṃ mūlaikaḥ paṃcadhā vaṭaḥ | steṣu vaṭamūleṣu sadā tiṣṭhati mādhavaḥ ||
English translation
Yudhiṣṭhira said :
1. Having heard this description of Prayāga which you have given, my heart has become very pure. O revered Sir, tell me what kind of fruit (a man gets) by fasting.
Mārkaṇḍeya said :
2-4. O king, O lord, listen to the fruit of fasting which a wise man who has faith, obtains. He becomes one who has no defect in any limb, is free from diseases, and endowed with (i.e. has his) five senses (intact). When he walks, at every step he gets the fruit of a horse sacrifice. O king, he liberates his ten predecessors and ten successors in the family. He is freed from all sins and would go to the highest position.
Yudhiṣṭhira said :
5-6. O pious one, you are illustrious. O lord, (please) tell me (about) gifts. By small, but the best (gift) a man would obtain many virtues (i.e. much religious merit). In this world a man gets (an opportunity to perform) the horse sacrifice due to great religious merit. Please remove this doubt of mine. I have a great curiosity.
Mārkaṇḍeya said :
7-10. O king, O great hero, listen to what formerly Brahmā told in the presence of (i.e. to) the sages, which I heard when it was being told. The region of Prayāga is five yojanas extensive. He who enters that region, has (performed) the horse sacrifice at every step. A man who would cast his life (there), liberates all the seven predecessors and fourteen successors of his. Knowing like this, O lord of kings, a man should be full of faith. Men who have no faith and whose hearts are smitten with sins, do not obtain (i.e. reach) the (holy) place Prayāga, fashioned by gods.
Yudhtṣṭhira said :
11-12. How would they who through affection, or through greed for wealth have gone under the sway of lust, obtain the fruit of (visiting) a holy place, and how would they obtain religious merit? O great sage, tell (me) what position will he who not knowing what ought and what ought not to be done, sells all (kinds of) wares, have at Prayāga.
Mārkaṇḍeya said :
13-19. O king, listen to the great secret which destroys all sins. O lord of kings, it is told by the self-born god (i.e. Brahmā) that a man who with his senses controlled lives in Prayāga for a month, is freed from all sins. He, being pure and controlled, being harmless and endowed with faith, is freed from all sins, and would go to the highest position (i.e. salvation). Listen to the fruit that those who murder those who confide in them, get at Prayāga. He should bathe three times a day; he should eat what is obtained by begging. There is no doubt that after three months he is liberated from Prayāga. He who would go on a pilgrimage knowingly, being endowed with all desired objects, is honoured in heaven. He secures a place which is full of wealth and grains. Thus perfect with knowledge he enjoys pleasures. He has liberated (i.e. he liberates) his manes and great-grandfathers from hell. O you who know the essential principle, I have told you, who are again and again asking me piously, the ancient secret for your good.
Yudhiṣṭhira said :
20. Today my existence is fruitful. Today my family is successful. Today, just by seeing you, I am pleased, I am favoured. O religious-minded one, merely by seeing you, I am freed from all sins.
Mārkaṇḍeya said :
21. Fortunately your existence is fruitful. Fortunately you have liberated your family. By narrating (the description of a holy place etc.) religious merit enhances. Hearing it destroys sins.
Yudhiṣṭhira said :
22. O great sage, tell me about the religious merit (obtained by bathing) in Yamunā . Tell me all this as you have seen and heard.
Mārkaṇḍeya said :
23-26. (The place) where Yamunā, the illustrious goddess, the daughter of the Sun, and well-known in the three worlds, has come (is holy). Yamunā goes (i.e. flows) along the same course as Gaṅgā has flowed out. Merely by mentioning her (name) within (a distance of) thousands of yojanas she destroys sins. Having bathed in that Yamunā and having drunk (her water), (and) by mentioning (her name) a man obtains religious merit, and by seeing her he sees (i.e. gets) good fortune. When (a man) bathes (in her stream) and drinks (her water), she purifies the family up to the seventh (descendant). He who casts his life there, goes to the highest position (i.e. salvation).
27-32a. On the right bank of Yamunā, there is (a holy place) called Agnitīrtha . To the west is the holy place of Dharmarāja known as Haravara. Having bathed there men go to heaven. Those who die there are not reborn. Thus there are thousands of holy places on the right bank of Yamunā. I shall tell you (about those that are situated) on the left (bank). Of the magnanimous Āditya the holy place is Virañjana, where, O Yudhiṣṭhira , gods along with Indra , always offer the daily prayer. Gods and other wise men resort to that holy place. Having great faith take a bath at the holy place. There are many other holy places. All remove sins and are auspicious. Having bathed there men go to heaven. Those who die there, are not reborn.
32b-36. The fruits of both Gaṅgā and Yamunā are equal. Gaṅgā is worshipped everywhere merely by her being senior. Thus, O son of Kuntī , have a bath at Svargatīrtha . Just at that moment (when a man bathes there), the sin committed by him during his life, perishes. He who getting up at daybreak recites or listens to (the description of the holy place), is freed from all sins, and goes to heaven.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 43207, revision 335711 (2022-04-13T10:13:19Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365264.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.