Skip to main content

Uttara-khaṇḍa · Chapter 241

Chapter 241

Unit 653 of 693Uttara-khaṇḍa · Chapter 241Uttara-khaṇḍa · Chapter 2411 source entries

Uttara-khaṇḍa · Chapter 241

Source

ईश्वर उवाच- भृगुपुत्रो महानासीज्जमदग्निर्द्विजोत्तमः । समस्तवेदवेदांगपारगश्च महातपाः १। तपस्तेपे सुधर्मात्मा महेंद्रं प्रति भामिनि । सहस्रवर्षपर्य्यंतं गंगायाः पुलिने शुभे २। ततः प्रसन्नः प्राहेदं भगवान्पाकशासनः । इंद्र उवाच- वरं वृणीष्व विप्रेंद्र यत्ते मनसि वर्त्तते ३। ईश्वर उवाच- ततः प्रोवाच विप्रर्षिः परितुष्टं शतक्रतुम् । जमदग्निरुवाच- सुरभिं देहि मे देव सर्वकामदुघां सदा ४। ईश्वर उवाच- ततः प्रसन्नो देवेशस्तस्मै विप्राय गोत्रभित् । प्रददौ सुरभिं देवीं सर्वकामदुघां तदा ५। स लब्ध्वा सुरभीं देवीं जमदग्निर्महातपाः । उवास महदैश्वर्यः शतक्रतुरिवापरः ६। रेणुकस्य सुतां रम्यां रेणुकां नामनामतः । उपयेमे विधानेन जमदग्निर्महातपाः ७। तया सह स धर्मात्मा रेमे वर्षाण्यनेकशः । पौलोम्या शुभया देव्या यथा संक्रन्दनो विभुः ८। ततः स पुत्रकामत्वादिष्टिं चक्रे सुधार्म्मिकः । इष्ट्या संतोषयामास पाकशासनमीश्वरम् ९। परितुष्टः शचीभर्त्ता तस्मै पुत्रं महाबलम् । महौजसं महाबाहुं सर्वशत्रुप्रतापनम् १०। अथ कालेन विप्रेंद्रो रेणुकायां शुचिस्मिते । पुत्रमुत्पादयामास महावीर्य्यं बलान्वितम् ११। विष्णोरंशांशभागेन सर्वलक्षणलक्षिणम् । तस्मिन्सुते महावीर्य्ये भृगुस्तस्य पितामहः १२। नाम चास्मै ददौ हर्षाद्विष्णोरंशोपलक्षितम् । चक्रेऽथ नामधेयं तु राम इत्यस्य शोभनम् १३। जमदग्नेः समुत्पन्नो जामदग्न्य इतीरितः । तद्भार्गवान्वयः सोऽपि ववृधे द्विजपुंगवः १४। उपनीतं स्तुतो येन सर्वविद्याविशारदः । तपस्तप्तुं जगामाथ शालग्रामाचलं प्रति १५। ददर्श कश्यपं तत्र ब्रह्मर्षिममितौजसम् । हर्षेण पूरितस्तस्मिन्मरीचितनयो द्विजः १६। विधिना प्रददौ तस्मै मंत्रं वैष्णवमव्ययम् । लब्धमंत्रस्तदा रामं कश्यपात्तु महात्मनः १७। पूजयामास विधिना स तदा कमलापतिम् । षडक्षरं महामंत्रं जपन्नेव दिवानिशम् १८। ध्यायन्कमलपत्राक्षं विष्णुं सर्वगतं हरिम् । तपस्तेपे स धर्मात्मा बहुवर्षाणि भार्गवः १९। जितेंद्रियस्तु यतवाक्तदा तस्थौ महातपाः । जमदग्निस्तु विप्रर्षिः स्थितो गंगातटे शुभे २०। चकार विधिवद्धर्म्यं यज्ञदानादिकं महत् । धेन्वाः प्रसादादिंद्रस्य संपूर्णास्तस्य सम्पदः २१। कस्यचित्त्वथकालस्य हैहयाधिपतिः प्रभुः । विजित्वा सर्वराष्ट्राणि सर्वसैन्यसमावृतः २२। भार्गवस्याश्रमं प्राप्य जमदग्नेर्महीपतिः । समीक्ष्य तं महाभागं ववंदे मुनिसत्तमम् २३। पृष्ट्वा तु कुशलं तस्य महर्षेर्भावितात्मनः । प्रददौ नृपतिस्तस्मै वस्त्राण्याभरणानि च २४। स च संपूजयामास राजानं गृहमागतम् । मधुपर्केण विधिना पूजयित्वा नृपोत्तमम् २५। ससैन्याय नृपेंद्राय भोजनं प्रददौ मुनिः । प्रार्थिता सुरभिस्तेन भार्गवेण सुधीमता २६। संपूर्णमन्नपानादि ससर्ज शबला तदा । अक्षय्यमन्नपानादि तया सृष्टं महातपाः २७। ससैन्याय नृपेंद्राय प्रददौ मुनिसत्तमः । तां दृष्ट्वा शबलां राजा कुतूहलसमन्वितः २८। स्पृहां चकारयामास तस्यां गवि सुदुर्म्मतिः । अयाचत्सुरभिं तत्र जमदग्निं नृपोत्तमः २९। कार्त्तवीर्य उवाच- शबलां देहि मे विप्र कपिलां सर्वकामदाम् । अन्यधेनुसहस्राणि दास्यामि तव सुव्रत ३०। ईश्वर उवाच- इत्युक्तस्तेन राज्ञाथ जमदग्निर्महातपाः । जमदग्निरुवाच-। न देया शबला राजन्मया तव महीपते ३१। इयं च देवदेवेन शक्रेण परिपालिता । देवतानां धनं राजन्दातव्यं स्यात्कथं मया ३२। ईश्वर उवाच- इत्युक्तः स तदा राजा क्रोधेन कलुषीकृतः । बलाज्जग्राह शबलां सर्वसैन्यसमावृतः ३३। ततः क्रुद्धा महाभागा शबला वरवर्णिनि । जघान तस्य सैन्यानि शृंगैः खुरतलैरपि ३४। घातयित्वा मुहूर्त्तेन तत्सैन्यं शबला बलात् । अंतर्द्धानं गता देवी ययौ शक्रांतिकं क्षणात् ३५। स्वसैन्यं निहतं दृष्ट्वा सोऽर्जुनः क्रोधमूर्च्छितः । मुष्टिना ताडयामास भार्गवं द्विजसत्तमम् ३६। ताडितस्तेन बहुशो विकलांगः प्रकल्पितः । पपात सहसा भूमौ ममार द्विजसत्तमः ३७। हत्वा मुनिवरं तत्र पापत्मा हैहयाधिपः । महासैन्यपरीवारो विवेश नगरं स्वकम् ३८। रामस्तु देवदेवेशं पूजयामास भार्गवः । तेन संपूजितो देवः प्रसन्नः प्राह केशवः ३९। श्रीभगवानुवाच- प्रीतोस्मि तपसा वत्स भवतो नियतात्मनः । संप्रदास्यामि ते विप्र मच्छक्तिं परमां शुभाम् ४०। आवेशितोऽथ मच्छक्त्या जहि दुष्टान्नृपोत्तमान् । भूभारकविनाशाय देवतानां हिताय वै ४१। ईश्वर उवाच- इत्युक्त्वा प्रददौ देवः परशुं शत्रुधर्षणम् । वैष्णवं च महच्चापं दिव्यान्यस्त्राण्यनेकशः । दत्वा प्रोवाच भगवाञ्जामदग्निं जनार्द्दनः ४२। श्रीभगवानुवाच- मदोत्कटान्नृपान्हत्वा बहुशः परवीरहा । गृहाण पृथिवीं सर्वां सागरान्तां द्विजोत्तम ४३। पालयस्व च धर्मेण वीर्य्येण महता वृतः । कालेन मत्पदं चापि मत्प्रसादाद्गमिष्यसि ४४। ईश्वर उवाच- इत्युक्त्वांतर्हितो देवो वरं दत्वा द्विजन्मने । रामोऽपि चाथ सहसा प्रययौ पितुराश्रमम् ४५। पितरं निहतं दृष्ट्वा भार्गवः क्रोधमूर्च्छितः । निष्क्षत्रां कर्तुमन्विच्छन्महीं नृपसमाकुलाम् ४६। जगाम हैहयपतेर्नगरं नृपसंवृतम् । क्रोधावेशज्वलद्गात्रो द्वार्य्यतिष्ठदुदायुधः ४७। तं दृष्ट्वा तत्पुरजना जामदग्न्यं महौजसम् । जाज्वल्यमानं वपुषा कालाग्निमिव मेनिरे ४८। भयार्ता विद्रुताः सर्वे राजानं हैहयाधिपम् । शशंसुस्तं महासत्वं सर्वायुधसमन्वितम् ४९। श्रुत्वा स राजा तद्वाक्यं प्राह विस्मितचेतसा । हैहयाधिप उवाच- कोऽसौ मम पुरद्वारि सायुधः संस्थितो बलात् ५०। महेंद्रो वा यमो वापि रुद्रो वा धनदोऽपि वा । सायुधो मत्पुरद्वारि स्थातुं शक्तो न कर्हिचित् ५१। महादेव उवाच- इत्युक्त्वा पार्थिवेंद्रो ऽसौ किंकरान्सुमहाबलान् । प्रेरयामास तं द्रष्टुं गृह्णीतेत्याह दुर्मतिः ५२। ते गत्वा ददृशुर्वीरं पुरद्वारि महाबलम् । ज्वलंतमिव कालाग्निं दुर्निरीक्ष्यं स्वतेजसा ५३। तस्य संदर्शनेऽप्यत्र न शक्तास्ते महाबलाः । ग्रहीतुकामस्तं वीरं समंतात्प्रययुर्भृशम् ५४। तान्दृष्ट्वा सायुधान्सर्वान्पार्थिवेन्द्रस्य किंकरान् । प्रहसन्प्राह विप्रेन्द्रो जामदग्निर्महाबलः ५५। परशुराम उवाच- भार्गवस्य सुतो रामः संप्राप्तोऽहं नराधमाः । स्वपितुर्निधनात्सर्वान्हनिष्यामि नृपोत्तमान् ५६। कार्तवीर्यस्य रुधिरं मत्पित्रे तिलसंयुतम् । दास्यामि पिण्डदानं च तच्छिरः कमलेन वै ५७। महादेव उवाच- इत्युक्तास्ते महावीर्य्याः किंकरास्तस्य भूपतेः । शरैः स्म ताडयामासुः पलालैरिव पावकम् ५८। ततः क्रुद्धो महावीर्यो रामस्सत्यपराक्रमः । वैष्णवं चापमाकृष्य ज्यानिनादमथाकरोत् ५९। तेन नादेन महता पूरितं भुवनत्रयम् । देवानामपि संत्रासो बभूव महदद्भुतम् ६०। ततः पावकसंकाशैराशुगैः सुमहाबलः । ताडयामास तान्वीरान्किंकरान्वै महाबलान् ६१। हत्वा तु किंकरास्तस्य पार्थिवस्य महात्मनः । कालाग्निरिव संतस्थौ सर्वभूतभयंकरः ६२। श्रुत्वा तु किंकरान्स्वस्य हतान्रामेण धीमता । हैहयाधिपतिर्वीरः क्रोधसंरक्तलोचनः ६३। निर्य्ययौ सहसैन्येन यत्रास्ते भागवोऽव्ययः । तं दृष्ट्वा घोरसंकाशं ज्वलंतं स्वेन तेजसा ६४। त्रस्ताः सर्वे जनास्तत्र शंकमाना जनक्षयम् । ततो युद्धं महाघोरं रामस्य नृपतेस्तदा ६५। शस्त्रास्त्रपातनैर्भीमैर्मेघयोरिव वर्षतोः । ततो रामो महातेजास्तत्सैन्यं नृपतेस्तदा ६६। निर्ददाह क्षणात्सर्वं वैष्णवास्त्रेण लीलया । ततः परशुना रामस्तीक्ष्णेनामितविक्रमः ६७। चिच्छेद बाहुसाहस्रं कार्त्तवीर्यस्य दुर्मतेः । न शशाक महावीर्यो योद्धुं रामेण भूपतिः ६८। नष्टवीर्य्यो बभूवात्र पापेन स्वेन दुर्म्मतिः । चिच्छेद तच्छिरः क्रुद्धो रेणुकातनयो बली ६९। महाद्रिशृड्गंवज्रेण यथा देवपतिर्बली । हत्वा सहस्रबाहुं तं जामदग्न्यः प्रतापवान् ७०। जघान पार्थिवान्सर्वान्क्रुद्धः परशुना मृधे । रामं दृष्ट्वा महारौद्रं पार्थिवाः पृथिवीतले ७१। भयार्त्ता विद्रुताः सर्वे मातंगा इव केसरिम् । विद्रुतानपि भूपालान्पितुर्निधनमन्युना ७२। जघान भार्गवः क्रुद्धो नागानिव खगेश्वरः । निःक्षत्रं कृतवान्सर्वं जामदग्निः प्रतापवान् ७३। ररक्ष भगवानेकमिक्ष्वाकोः सुमहत्कुलम् । मातामहस्यान्वयत्वाद्रेणुकावचनादथ ७४। तान्भ्रष्टराज्यान्कृत्वा वै मातामहकुलोद्भवान् । न हत्वा मनुवंशांस्तान्रामो नृपकुलांतकः ७५। सर्वं तु भूभृतां वंशं नाशयामास वीर्य्यवान् । कृत्वा चोर्वीं तु निःक्षत्रां जमदग्निसुतो बली ७६। अश्वमेधं महायज्ञं चकार विधिवद्द्विजः । प्रददौ विप्रमुख्येभ्यः सप्तद्वीपवतीं महीम् ७७। दत्वा महीं स विप्रेभ्यो जामदग्न्यः प्रतापवान् । तपस्तप्तुं ययौ सोऽथ नरनारायणाश्रमम् ७८। एतत्ते कथितं देवि जामदग्नेर्महात्मनः । शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ७९। नोपास्यं हि भवेत्तस्य शक्त्यावेशान्महात्मनः । उपास्यौ भगवद्भक्तैर्विप्रमुख्यैर्महात्मभिः ८०। रामकृष्णावतारौ तु परिपूर्णौ हि सद्गुणैः । उपास्यमानावृषिभिरपवर्गप्रदौ नृणाम् ८१। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे परशुरामचरितंनामैकचत्वारिंशदधिकद्विशततमोऽध्यायः २४१ ।

īśvara uvāca- bhṛguputro mahānāsījjamadagnirdvijottamaḥ | samastavedavedāṃgapāragaśca mahātapāḥ 1| tapastepe sudharmātmā maheṃdraṃ prati bhāmini | sahasravarṣaparyyaṃtaṃ gaṃgāyāḥ puline śubhe 2| tataḥ prasannaḥ prāhedaṃ bhagavānpākaśāsanaḥ | iṃdra uvāca- varaṃ vṛṇīṣva vipreṃdra yatte manasi varttate 3| īśvara uvāca- tataḥ provāca viprarṣiḥ parituṣṭaṃ śatakratum | jamadagniruvāca- surabhiṃ dehi me deva sarvakāmadughāṃ sadā 4| īśvara uvāca- tataḥ prasanno deveśastasmai viprāya gotrabhit | pradadau surabhiṃ devīṃ sarvakāmadughāṃ tadā 5| sa labdhvā surabhīṃ devīṃ jamadagnirmahātapāḥ | uvāsa mahadaiśvaryaḥ śatakraturivāparaḥ 6| reṇukasya sutāṃ ramyāṃ reṇukāṃ nāmanāmataḥ | upayeme vidhānena jamadagnirmahātapāḥ 7| tayā saha sa dharmātmā reme varṣāṇyanekaśaḥ | paulomyā śubhayā devyā yathā saṃkrandano vibhuḥ 8| tataḥ sa putrakāmatvādiṣṭiṃ cakre sudhārmmikaḥ | iṣṭyā saṃtoṣayāmāsa pākaśāsanamīśvaram 9| parituṣṭaḥ śacībharttā tasmai putraṃ mahābalam | mahaujasaṃ mahābāhuṃ sarvaśatrupratāpanam 10| atha kālena vipreṃdro reṇukāyāṃ śucismite | putramutpādayāmāsa mahāvīryyaṃ balānvitam 11| viṣṇoraṃśāṃśabhāgena sarvalakṣaṇalakṣiṇam | tasminsute mahāvīryye bhṛgustasya pitāmahaḥ 12| nāma cāsmai dadau harṣādviṣṇoraṃśopalakṣitam | cakre'tha nāmadheyaṃ tu rāma ityasya śobhanam 13| jamadagneḥ samutpanno jāmadagnya itīritaḥ | tadbhārgavānvayaḥ so'pi vavṛdhe dvijapuṃgavaḥ 14| upanītaṃ stuto yena sarvavidyāviśāradaḥ | tapastaptuṃ jagāmātha śālagrāmācalaṃ prati 15| dadarśa kaśyapaṃ tatra brahmarṣimamitaujasam | harṣeṇa pūritastasminmarīcitanayo dvijaḥ 16| vidhinā pradadau tasmai maṃtraṃ vaiṣṇavamavyayam | labdhamaṃtrastadā rāmaṃ kaśyapāttu mahātmanaḥ 17| pūjayāmāsa vidhinā sa tadā kamalāpatim | ṣaḍakṣaraṃ mahāmaṃtraṃ japanneva divāniśam 18| dhyāyankamalapatrākṣaṃ viṣṇuṃ sarvagataṃ harim | tapastepe sa dharmātmā bahuvarṣāṇi bhārgavaḥ 19| jiteṃdriyastu yatavāktadā tasthau mahātapāḥ | jamadagnistu viprarṣiḥ sthito gaṃgātaṭe śubhe 20| cakāra vidhivaddharmyaṃ yajñadānādikaṃ mahat | dhenvāḥ prasādādiṃdrasya saṃpūrṇāstasya sampadaḥ 21| kasyacittvathakālasya haihayādhipatiḥ prabhuḥ | vijitvā sarvarāṣṭrāṇi sarvasainyasamāvṛtaḥ 22| bhārgavasyāśramaṃ prāpya jamadagnermahīpatiḥ | samīkṣya taṃ mahābhāgaṃ vavaṃde munisattamam 23| pṛṣṭvā tu kuśalaṃ tasya maharṣerbhāvitātmanaḥ | pradadau nṛpatistasmai vastrāṇyābharaṇāni ca 24| sa ca saṃpūjayāmāsa rājānaṃ gṛhamāgatam | madhuparkeṇa vidhinā pūjayitvā nṛpottamam 25| sasainyāya nṛpeṃdrāya bhojanaṃ pradadau muniḥ | prārthitā surabhistena bhārgaveṇa sudhīmatā 26| saṃpūrṇamannapānādi sasarja śabalā tadā | akṣayyamannapānādi tayā sṛṣṭaṃ mahātapāḥ 27| sasainyāya nṛpeṃdrāya pradadau munisattamaḥ | tāṃ dṛṣṭvā śabalāṃ rājā kutūhalasamanvitaḥ 28| spṛhāṃ cakārayāmāsa tasyāṃ gavi sudurmmatiḥ | ayācatsurabhiṃ tatra jamadagniṃ nṛpottamaḥ 29| kārttavīrya uvāca- śabalāṃ dehi me vipra kapilāṃ sarvakāmadām | anyadhenusahasrāṇi dāsyāmi tava suvrata 30| īśvara uvāca- ityuktastena rājñātha jamadagnirmahātapāḥ | jamadagniruvāca-| na deyā śabalā rājanmayā tava mahīpate 31| iyaṃ ca devadevena śakreṇa paripālitā | devatānāṃ dhanaṃ rājandātavyaṃ syātkathaṃ mayā 32| īśvara uvāca- ityuktaḥ sa tadā rājā krodhena kaluṣīkṛtaḥ | balājjagrāha śabalāṃ sarvasainyasamāvṛtaḥ 33| tataḥ kruddhā mahābhāgā śabalā varavarṇini | jaghāna tasya sainyāni śṛṃgaiḥ khuratalairapi 34| ghātayitvā muhūrttena tatsainyaṃ śabalā balāt | aṃtarddhānaṃ gatā devī yayau śakrāṃtikaṃ kṣaṇāt 35| svasainyaṃ nihataṃ dṛṣṭvā so'rjunaḥ krodhamūrcchitaḥ | muṣṭinā tāḍayāmāsa bhārgavaṃ dvijasattamam 36| tāḍitastena bahuśo vikalāṃgaḥ prakalpitaḥ | papāta sahasā bhūmau mamāra dvijasattamaḥ 37| hatvā munivaraṃ tatra pāpatmā haihayādhipaḥ | mahāsainyaparīvāro viveśa nagaraṃ svakam 38| rāmastu devadeveśaṃ pūjayāmāsa bhārgavaḥ | tena saṃpūjito devaḥ prasannaḥ prāha keśavaḥ 39| śrībhagavānuvāca- prītosmi tapasā vatsa bhavato niyatātmanaḥ | saṃpradāsyāmi te vipra macchaktiṃ paramāṃ śubhām 40| āveśito'tha macchaktyā jahi duṣṭānnṛpottamān | bhūbhārakavināśāya devatānāṃ hitāya vai 41| īśvara uvāca- ityuktvā pradadau devaḥ paraśuṃ śatrudharṣaṇam | vaiṣṇavaṃ ca mahaccāpaṃ divyānyastrāṇyanekaśaḥ | datvā provāca bhagavāñjāmadagniṃ janārddanaḥ 42| śrībhagavānuvāca- madotkaṭānnṛpānhatvā bahuśaḥ paravīrahā | gṛhāṇa pṛthivīṃ sarvāṃ sāgarāntāṃ dvijottama 43| pālayasva ca dharmeṇa vīryyeṇa mahatā vṛtaḥ | kālena matpadaṃ cāpi matprasādādgamiṣyasi 44| īśvara uvāca- ityuktvāṃtarhito devo varaṃ datvā dvijanmane | rāmo'pi cātha sahasā prayayau piturāśramam 45| pitaraṃ nihataṃ dṛṣṭvā bhārgavaḥ krodhamūrcchitaḥ | niṣkṣatrāṃ kartumanvicchanmahīṃ nṛpasamākulām 46| jagāma haihayapaternagaraṃ nṛpasaṃvṛtam | krodhāveśajvaladgātro dvāryyatiṣṭhadudāyudhaḥ 47| taṃ dṛṣṭvā tatpurajanā jāmadagnyaṃ mahaujasam | jājvalyamānaṃ vapuṣā kālāgnimiva menire 48| bhayārtā vidrutāḥ sarve rājānaṃ haihayādhipam | śaśaṃsustaṃ mahāsatvaṃ sarvāyudhasamanvitam 49| śrutvā sa rājā tadvākyaṃ prāha vismitacetasā | haihayādhipa uvāca- ko'sau mama puradvāri sāyudhaḥ saṃsthito balāt 50| maheṃdro vā yamo vāpi rudro vā dhanado'pi vā | sāyudho matpuradvāri sthātuṃ śakto na karhicit 51| mahādeva uvāca- ityuktvā pārthiveṃdro 'sau kiṃkarānsumahābalān | prerayāmāsa taṃ draṣṭuṃ gṛhṇītetyāha durmatiḥ 52| te gatvā dadṛśurvīraṃ puradvāri mahābalam | jvalaṃtamiva kālāgniṃ durnirīkṣyaṃ svatejasā 53| tasya saṃdarśane'pyatra na śaktāste mahābalāḥ | grahītukāmastaṃ vīraṃ samaṃtātprayayurbhṛśam 54| tāndṛṣṭvā sāyudhānsarvānpārthivendrasya kiṃkarān | prahasanprāha viprendro jāmadagnirmahābalaḥ 55| paraśurāma uvāca- bhārgavasya suto rāmaḥ saṃprāpto'haṃ narādhamāḥ | svapiturnidhanātsarvānhaniṣyāmi nṛpottamān 56| kārtavīryasya rudhiraṃ matpitre tilasaṃyutam | dāsyāmi piṇḍadānaṃ ca tacchiraḥ kamalena vai 57| mahādeva uvāca- ityuktāste mahāvīryyāḥ kiṃkarāstasya bhūpateḥ | śaraiḥ sma tāḍayāmāsuḥ palālairiva pāvakam 58| tataḥ kruddho mahāvīryo rāmassatyaparākramaḥ | vaiṣṇavaṃ cāpamākṛṣya jyāninādamathākarot 59| tena nādena mahatā pūritaṃ bhuvanatrayam | devānāmapi saṃtrāso babhūva mahadadbhutam 60| tataḥ pāvakasaṃkāśairāśugaiḥ sumahābalaḥ | tāḍayāmāsa tānvīrānkiṃkarānvai mahābalān 61| hatvā tu kiṃkarāstasya pārthivasya mahātmanaḥ | kālāgniriva saṃtasthau sarvabhūtabhayaṃkaraḥ 62| śrutvā tu kiṃkarānsvasya hatānrāmeṇa dhīmatā | haihayādhipatirvīraḥ krodhasaṃraktalocanaḥ 63| niryyayau sahasainyena yatrāste bhāgavo'vyayaḥ | taṃ dṛṣṭvā ghorasaṃkāśaṃ jvalaṃtaṃ svena tejasā 64| trastāḥ sarve janāstatra śaṃkamānā janakṣayam | tato yuddhaṃ mahāghoraṃ rāmasya nṛpatestadā 65| śastrāstrapātanairbhīmairmeghayoriva varṣatoḥ | tato rāmo mahātejāstatsainyaṃ nṛpatestadā 66| nirdadāha kṣaṇātsarvaṃ vaiṣṇavāstreṇa līlayā | tataḥ paraśunā rāmastīkṣṇenāmitavikramaḥ 67| ciccheda bāhusāhasraṃ kārttavīryasya durmateḥ | na śaśāka mahāvīryo yoddhuṃ rāmeṇa bhūpatiḥ 68| naṣṭavīryyo babhūvātra pāpena svena durmmatiḥ | ciccheda tacchiraḥ kruddho reṇukātanayo balī 69| mahādriśṛḍgaṃvajreṇa yathā devapatirbalī | hatvā sahasrabāhuṃ taṃ jāmadagnyaḥ pratāpavān 70| jaghāna pārthivānsarvānkruddhaḥ paraśunā mṛdhe | rāmaṃ dṛṣṭvā mahāraudraṃ pārthivāḥ pṛthivītale 71| bhayārttā vidrutāḥ sarve mātaṃgā iva kesarim | vidrutānapi bhūpālānpiturnidhanamanyunā 72| jaghāna bhārgavaḥ kruddho nāgāniva khageśvaraḥ | niḥkṣatraṃ kṛtavānsarvaṃ jāmadagniḥ pratāpavān 73| rarakṣa bhagavānekamikṣvākoḥ sumahatkulam | mātāmahasyānvayatvādreṇukāvacanādatha 74| tānbhraṣṭarājyānkṛtvā vai mātāmahakulodbhavān | na hatvā manuvaṃśāṃstānrāmo nṛpakulāṃtakaḥ 75| sarvaṃ tu bhūbhṛtāṃ vaṃśaṃ nāśayāmāsa vīryyavān | kṛtvā corvīṃ tu niḥkṣatrāṃ jamadagnisuto balī 76| aśvamedhaṃ mahāyajñaṃ cakāra vidhivaddvijaḥ | pradadau vipramukhyebhyaḥ saptadvīpavatīṃ mahīm 77| datvā mahīṃ sa viprebhyo jāmadagnyaḥ pratāpavān | tapastaptuṃ yayau so'tha naranārāyaṇāśramam 78| etatte kathitaṃ devi jāmadagnermahātmanaḥ | śaktyāveśāvatārasya caritaṃ śārṅgiṇaḥ prabhoḥ 79| nopāsyaṃ hi bhavettasya śaktyāveśānmahātmanaḥ | upāsyau bhagavadbhaktairvipramukhyairmahātmabhiḥ 80| rāmakṛṣṇāvatārau tu paripūrṇau hi sadguṇaiḥ | upāsyamānāvṛṣibhirapavargapradau nṛṇām 81| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde paraśurāmacaritaṃnāmaikacatvāriṃśadadhikadviśatatamo'dhyāyaḥ 241 |

English translation

The lord said :

1-3a. Bhṛgu ’s son was the great, best brāhmaṇa (named) Jamadagni . He had mastered all Vedas and Vedāṅgas and had practised a severe penance. O you beautiful lady, on the auspicious sandy bank of Gaṅgā the religious-minded one practised penance (in honour) of Indra for a thousand years. Then lord Indra, being pleased, said these (words):

Indra said :

3b. O best brāhmaṇa, ask for a boon that is (i.e. that you have) in your mind.

The lord said :

4a. Then the brāhmaṇa sage spoke to Indra who was pleased:

Jamadagni said :

4b. O god, give me (the desire-yielding cow) Surabhi always fulfilling one’s desires.

The lord said :

5-8. Then Indra, the lord of gods, being pleased, gave him the divine Surabhi fulfilling all desires. That Jamadagni of a great penance (to his credit), having obtained Surabhi lived with great grandeur like another Indra. Jamadagni, of a great penance (to his credit) married in the proper manner, Reṇukā , Reṇuka ’s daughter. The pious-minded one for many years enjoyed with her as Indra with Paulomī , his auspicious queen.

9-17a. Then the very pious one, with a desire for having a son, performed a sacrifice. With (that) sacrifice he pleased god Indra. (Indra) Śacī ’s husband, being pleased, (promised) him a very strong, very powerful, mighty-armed son, tormentor of all enemies. Then in course of time the best brāhmaṇa generated a very strong and powerful son with a part of a portion of Viṣṇu and having all (good) marks, on Reṇukā, O you of a bright smile. When the very powerful son (was born), his grandfather joyfully gave him a name indicating Viṣṇu’s portion. He gave him a very auspicious name ( Paraśu -) Rāma . Being born from Jamadagni he was called Jāmadagnya . The best brāhmaṇa of the family of Bhṛgu grew. His thread ceremony was performed; he was proficient in all sciences and arts. To practise penance he went to the Śālagrāma mountain. There he saw the brāhmaṇa-sage Kaśyapa of unlimited splendour. The brāhmaṇa, Marīci ’s son, was full of delight with (i.e. on seeing) him. In the proper manner he gave him the indestructible formula of Viṣṇu.

17b-23. Having received the formula from Kaśyapa, the high-souled one, (Paraśu-)Rāma, muttering day and night the great six-syllabled formula, worshipped the lord of Laksṃī. That pious Bhārgava (i.e. Paraśurāma ) meditating upon Viṣṇu. having eyes like lotus-petals and the omniscient one, practised penance for many years. He, with senses subdued and speech controlled, and (practising) great penance, remained (there). The brāhmaṇa-sage Jamadagni remained on the auspicious bank of Gaṅgā. He performed pious acts according to the precepts like sacrifices and gifts. By the favour of Indra’s cow his wealth was full. Sometime the king, the lord of Haihaya , surrounded by his entire army, having conquered all countries, reached the hermitage of Jamadagni, the son of Bhṛgu. Seeing the glorious, best sage, he saluted him.

24-29. The king, having asked the devout great sage about his well-being, gave him garments and ornaments. He too honoured the king that had come to his house. Having honoured according to the precept the king with madhuparka [1] the sage fed the best king along with his army. The very intelligent son of Bhṛgu (i.e. Jamadagni) solicited Surabhi. She, the cow of plenty, produced food, drink etc. at that time. The best sage, of a great penance, gave the inexhaustible food, drink etc. produced by her to the king along with his army. Seeing that cow of plenty, the king was full of curiosity. The very wicked-minded (king) longed for the cow. The best king then begged Jamadagni for Surabhi.

Kārtavīrya said :

30. O brāhmaṇa, give me this tawny cow of plenty, giving all desired objects. O you of a good vow, I shall give you thousands of other cows.

The lord said :

31-32. Thus addressed by the king, Jamadagni of a great penance (to his credit) said (to him): “O king, this cow of plenty cannot be given to you by me. This one was protected by Indra, the god of gods. O king, how should the wealth of deities be given by me?”

33-36. The king, thus addressed, was then excited with anger. He, surrounded by the entire army, seized the cow of plenty forcibly. Then, O you of an excellent complexion, the glorious cow of plenty became angry, and with her horns and soles of her hoofs struck his huge army. Then that goddess, the cow of plenty, having, in a short time, struck that army, vanished, and in a moment went near Indra. Then ( Kārtavīrya ) Arjuna , seeing his army struck, was overcome by anger. With his fist he struck Bhārgava, the best brāhmaṇa.

37-39. Being struck by him in many ways, he was weakened. The best brāhmaṇa suddenly fell on the ground and died. The lord of Haihaya, the wicked-minded one, having killed there the best sage, and surrounded by a great army entered his own city. Rāma Bhārgava worshipped the god of gods. Pleased by his worship Viṣṇu said:

God Viṣṇu said :

40-41. O child, with the penance of you of a controlled mind, I am pleased. O brāhmaṇa, I shall give you a very auspicious power. Possessed of my power, kill the wicked great kings for destroying those who cause a burden to the earth and for the good of the deities.

Mahādeva said :

42-44. Speaking like this, the god gave him an axe capable of killing the enemies, so also the great bow of Viṣṇu and many divine missiles. Lord Viṣṇu, having given (these) to Jamadagni, said: “O best brāhmaṇa, you, the killer of the enemy’s soldiers, having killed many arrogant kings repeatedly, take this entire earth bound by the ocean. Full of piety and great heroism you protect it. In course of time, you will reach my position by my grace.”

The lord said :

45-5Oa. Having said like this, and having given the brāhmaṇa a boon, the god vanished. Rāma also suddenly went to his father’s hermitage. Seeing his father killed, Bhārgava (i.e. Paraśurāma) was filled with anger. He desired to make the earth, crowded with kings, clear of kṣatriyas . He went to the city of the king of Haihaya, which was full of kings. With his body burning with anger, he, with his weapons raised, stood at the gate. The citizens of his city seeing that very powerful Jāmadagnya, with a blazing body, looked upon him as the destructive fire at the end of the world. Being afflicted by fear, all ran to the king, the lord of Haihaya. They praised him of great energy and equipped with all weapons. Hearing their words, the king with an amazed mind, said:

King of Haihaya said :

50b-51. Who is that forcibly standing at the gate of my city with weapons? Even Indra, or Yama , or Rudra , or Kubera , can never stand with weapons at the gate of my city.

Mahādeva said :

52-55. Saying so, the lord of kings impelled his very strong servants to see him, and the wicked one said to them: “Arrest him.” Having gone, they saw at the gate a very strong hero burning like the destructive fire at the end of the world, and difficult to be seen due to his lustre. The mighty ones were not even able to look at him. From all sides they, desirous of seizing him, often went to him. Seeing all those servants of the lord of kings with weapons, the very powerful best brāhmaṇa, Jāmadagnya, said laughing:

Paraśurāma said :

56-57. O mean men, I, Rāma, the son of Bhārgava, have come (here). I shall kill all best kings for (i.e. as a revenge of) my father’s murder. To my (dead) father I shall offer Kārtavīrya’s blood mixed with sesamum-seeds, and shall offer the piṇḍa with his lotus-head.

Mahādeva said :

58-62. Thus addressed, the very powerful servants of the king struck him with arrows as fire with straws. Then the very brave Rāma of genuine valour was angry, and drawing the bow of Viṣṇu made the sound of the bow-string. With that great sound the three worlds were filled. Even gods were frightened. (Such) was the great wonder. Then the very strong Paraśurāma struck the very brave, very powerful servants with arrows resembling fire. Having killed the servants of the glorious king, he stood like the destructive fire at the end of the world, deadly to all beings.

63-68. Hearing that his servants were killed in the battle by the intelligent (Paraśu-) Rāma, the brave king of Haihaya, with his eyes red with anger, went out with his army to the place where Bhārgava stood. Seeing him appearing deadly and blazing with his own lustre, all the men there, suspecting the destruction of human beings were frightened. Then a very fierce battle took place between Rāma and the kings, with fearful strokes of weapons and missiles, as between two showering clouds. Then Rāma of a great lustre easily burnt the king’s army in a moment with the missile of Viṣṇu. Then Rāma of unlimited valour cut off the thousand arms of the wicked Kārtavīrya with his sharp axe. The very brave king could not fight with (Paraśu-) Rāma in the battle.

69-74. The wicked-minded one lost his valour due to his own sin. The mighty son of Reṇukā, being angry, cut off his head, as mighty Indra did the peak of a big mountain, and he who was brave and angry, killed Sahasrabāhu and all the kings with his axe in the battle. Seeing Rāma, the very fearful one, all kings on the earth, struck by fear, ran away as elephants do on seeing a lion. The angry Rāma killed the kings even though they had fled due to the resentment against his father’s murder, as the angry Garuḍa killed the serpents. The valorous Rāma made the entire (world) clear of the kṣatriyas, but protected (i.e. spared) only the very great family of Ikṣvāku , due to its being the family to which his maternal grandfather was related, and due to his mother’s words.

75-78. Rāma, the destroyer of the families of kings, deprived the kings of the family of his maternal grandfather of their kingdoms, but did not kill them belonging to Manu ’s dynasty. But the brave one destroyed the families of all (other) kings. The brāhmaṇa, the mighty son of Jamadagni, having made the earth clear of the kṣatriyas, duly performed the great horse-sacrifice. He gave the earth with the seven islands to chief brāhmaṇas . That brave son of Jamadagni, having given the earth to the brāhmaṇas, went to the hermitage of Nara-Nārāyaṇa to practise penance.

79-81. O goddess, I have told you this account of the incarnation of lord (Viṣṇu), holder of the Śārṅga bow, who had entered Rāma with his power. Due to the entrance of the power this (form) of the noble one cannot be worshipped. The chief, noble, brāhmaṇas, the devotees of the lord, should worship the incarnations of ( Dāśarathi ) Rāma and Kṛṣṇa , perfect with virtues, worshipped by sages, and giving salvation to human beings.

[1]: [1] : A preparation of curd, clarified butter, water, honey and sugar offered to guests.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 45060, revision 336701 (2022-04-26T10:32:28Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365825.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.