Skip to main content

Sṛṣṭi-khaṇḍa · Chapter 11

Chapter 11

Unit 11 of 693Sṛṣṭi-khaṇḍa · Chapter 11Sṛṣṭi-khaṇḍa · Chapter 111 source entries

Sṛṣṭi-khaṇḍa · Chapter 11

Source

भीष्म उवाच। कस्मिन्वासरभागे तु श्राद्धी श्राद्धं समाचरेत्। तीर्थेषु केषु वै श्राद्धं कृतं बहुफलं द्विज१। पुलस्त्य उवाच। तीर्थं तु पुष्करं नाम यत्तु श्रेष्ठतमं स्मृतम्। सर्वेषां द्विजमुख्यानां मनोरथमिव स्थितम्२। तत्र दत्तं हुतं जप्तमनन्तं भवति ध्रुवम्। पितॄणां वल्लभं नित्यमृषीणां परमं मतम्३। नंदाथ ललिता तद्वत्तीर्थं मायापुरी शुभा। तथा मित्रपदं राजंस्ततः केदारमुत्तमम्४। गंगासागरमित्याहुः सर्वतीर्थमयं शुभम्। तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिलं शुभम्५। तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम्। गंगोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः६। तथा यज्ञवराहस्तु देवदेवश्च शूलधृक्। यत्र तत्कांचनं दानमष्टादशभुजो हरः७। नेमिस्तु धर्मचक्रस्य शीर्णा यत्राभवत्पुरा। तदेतन्नैमिशारण्यं सर्वतीर्थनिषेवितम्८। देवदेवस्य तत्रापि वराहस्य च दर्शनम्। यः प्रयाति स पूतात्मा नारायणपुरं व्रजेत्९। कोकामुखं परं तीर्थमिन्द्रमार्गोपि लक्ष्यते। अथापि पितृतीर्थं तु ब्रह्मणोव्यक्तजन्मनः१०। पुष्करारण्यसंस्थोसौ यत्र देवः पितामहः। विरिंचिदर्शनं श्रेष्ठमपवर्गफलप्रदम्११। कृतं नाम महापुण्यं सर्वपापनिषूदनम्। यत्राद्यो नारसिंहस्तु स्वयमेव जनार्दनः१२। तीर्थमिक्षुमतीनाम पितॄणां च शुभावहा। तुष्यन्ति पितरो नित्यं गंगायमुनसंगमे१३। कुरुक्षेत्रं महापुण्यं यत्र मार्गोपि लक्ष्यते। अद्यापि पितृतीर्थं तु सर्वकामफलप्रदम्१४। नीलकण्ठमिति ख्यातं पितृतीर्थं नराधिप। तथा भद्रसरः पुण्यं सरो मानसमेव च१५। मंदाकिनी तथाऽच्छोदा विपाशा च सरस्वती। सर्वमित्रपदं तद्वद्वैद्यनाथं महाफलम्१६। क्षिप्रा नदी तथा पुण्या तथा कालञ्जरं शुभम्। तीर्थोद्भेदं हरोद्भेदं गर्भभेदं महालयम्१७। भद्रेश्वरं विष्णुपदं नर्मदा द्वारमेव च। गयापिंडप्रदानेन समान्याहुर्महर्षयः१८। एतानि पितृतीर्थानि सर्वपापहराणि च। स्मरणादपि लोकानां किमु श्राद्धप्रदायिनाम्१९। ॐकारं पितृतीर्थं तु कावेरीकपिलोदकम्। संभेदश्चण्डवेगायां तथैवामरकंटकम्२०। कुरुक्षेत्राच्चद्विगुणं तस्मिन्स्नानादिकं भवेत्। शुक्लतीर्थं तु विख्यातं तीर्थं सोमेश्वरं परम्२१। सर्वव्याधिहरंपुण्यंफलंकोटिगुणाधिकम्। श्राद्धेदानेतथाहोमेस्वाध्यायेचापिसन्निधौ२२। कायावारोहणं नाम देवदेवस्य शूलिनः। अवतारं रोचमानं ब्राह्मणावसथे शुभे२३। जातं तत्सुमहापुण्यं तथा चर्मण्वती नदी। शूलतापी पयोष्णी च पयोष्णीसंगमस्तथा२४। महौषधी चारणा च नागतीर्थप्रवर्त्तिनी। महावेणा नदी पुण्या महाशालस्तथैव च२५। गोमती वरुणा तद्वत्तीर्थं हौताशनं परम्। भैरवं भृगुतुंगं च गौरीतीर्थमनुत्तमम्२६। तीर्थं वैनायकं नाम वस्त्रेश्वरमनुत्तमम्। तथा पापहरं नाम पुण्या वेत्रवती नदी२७। महारुद्रं महालिंगं दशार्णा च महानदी। शतरुद्रा शताह्वा च तथा पितृपदं पुरम्२८। अंगारवाहिका तद्वन्नदौ द्वौ शोणघर्घरौ। कालिका च नदी पुण्या पितरा च नदी शुभा२९। एतानि पितृतीर्थानि शस्यंते स्नानदानयोः। श्राद्धमेतेषु यद्दत्तं तदनंतफलं स्मृतम्३०। शतावटा नदी ज्वाला शरद्वी च नदी तथा। द्वारका कृष्णतीर्थं च तथा ह्युदक्सरस्वती३१। नदी मालवती नाम तथा च गिरिकर्णिका। धूतपापं तथा तीर्थं समुद्रे दक्षिणे तथा३२। गोकर्णो गजकर्णश्च तथा चक्रनदी शुभा। श्रीशैलं शाकतीर्थं च नारसिंहमतः परम्३३। महेंद्रं च तथा पुण्या पुण्या चापि महानदी। एतेष्वपि सदा श्राद्धमनंतफलदं स्मृतम्३४। दर्शनादपि पुण्यानि सद्यः पापहराणि वै। तुंगभद्रा नदी पुण्या तथा चक्ररथीति च३५। भीमेश्वरं कृष्णवेणा कावेरी चांजना नदी। नदी गोदावरी पुण्या त्रिसंध्या पूर्णमुत्तमम्३६। तीर्थं त्रैयंबकं नाम सर्वतीर्थनमस्कृतम्। यत्रास्ते भगवान्भीमः स्वयमेव त्रिलोचनः३७। श्राद्धमेतेषु सर्वेषु दत्तं कोटिगुणं भवेत्। स्मरणादपि पापानि व्रजंति शतधा नृप३८। श्रीपर्णा च नदी पुण्या व्यासतीर्थमनुत्तमम्। तथा मत्स्यनदी कारा शिवधारा तथैव च३९। भवतीर्थं च विख्यातं पुण्यतीर्थं च शाश्वतम्। पुण्यं रामेश्वरं तद्वद्वेणापुरमलंपुरम्४०। अंगारकं च विख्यातमात्मदर्शमलंबुषम्। वत्सव्रातेश्वरं तद्वत्तथागोकामुखं परम्४१। गोवर्द्धनं हरिश्चंद्रं पुरश्चन्द्रं पृथूदकम्। सहस्राक्षं हिरण्याक्षं तथा च कदलीनदी४२। नामधेयानि च तथा तथा सौमित्रिसंगतम्। इंद्रनीलं महानादं तथा च प्रियमेलकम्४३। एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि च। एतेषु सर्वदेवानां सांनिध्यं पठ्यते यतः४४। दानमेतेषु सर्वेषु भवेत्कोटिशताधिकम्। बाहुदा च नदी पुण्या तथा सिद्धवटं शुभम्४५। तीर्थं पाशुपतं चैव नदी पर्यटिका तथा। श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्४६। तथैव पंचतीर्थं च यत्र गोदावरी नदी। युता लिंगसहस्रेण सव्येतर जलावहा४७। जामदग्न्यस्य तत्तीर्थं मोदायतनमुत्तमम्। प्रतीकस्य भयात्सिद्धा यत्र गोदावरी नदी४८। तीर्थं तद्धव्यकव्यानामप्सरोगणसंयुतम्। श्राद्धाग्नि दानकार्यं च तत्र कोटिशताधिकम्४९। तथा सहस्रलिंगं च राघवेश्वरमुत्तमम्। सेन्द्रकाला नदी पुण्या तत्र शक्रो गतः पुरा५० 1.11.50। निहत्य नमुचिं मित्रं तपसा स्वर्गमाप्तवान्। तत्र दत्तं नरैः श्राद्धमनंतफलदं भवेत् ५१। पुष्करं नाम वै तीर्थं शालग्रामं तथैव च। शोणपातश्च विख्यातो यत्र वैश्वानराशयः ५२। तीर्थं सारस्वतं चैव स्वामितीर्थं तथैव च। मलंदरा नदी पुण्या कौशिकी चंद्रका तथा ५३। विदर्भा चाथ वेगा च पयोष्णी प्राङ्मुखा परा। कावेरी चोत्तरांगा च तथा जालंधरो गिरिः ५४। एतेषु श्राद्धतीर्थेषु श्राद्धमानंत्यमश्नुते। लोहदंडं तथा तीर्थं चित्रकूटस्तथैव च ५५। दिव्यं सर्वत्र गंगायास्तथा नद्यास्तटं शुभम्। कुब्जाम्रकं तथा तीर्थमुर्वशीपुलिनं तथा ५६। संसारमोचनं तीर्थं तथैव ऋणमोचनम्। एतेषु पितृतीर्थेषु श्राद्धमानंत्यमश्नुते ५७। अट्टहासं तथा तीर्थं गौतमेश्वरमेव च। तथा वसिष्ठतीर्थं च भारतं च ततः परम् ५८। ब्रह्मावर्तं कुशावर्तं हंसतीर्थं तथैव च। पिंडारकं च विख्यातं शंखोद्धारं तथैव च ५९। भांडेश्वरं बिल्वकं च नीलपर्वतमेव च। तथा च बदरीतीर्थं सर्वतीर्थेश्वरेश्वरम् ६०। वसुधाराह्वयं तीर्थं रामतीर्थं तथैव च। जयंती विजया चैव शुक्लतीर्थं तथैव च ६१। एषु श्राद्धप्रदातारः प्रयांति परमं पदम्। तीर्थं मातृगृहं नाम करवीरपुरं तथा ६२। सप्तगोदावरीनाम सर्वतीर्थेश्वरेश्वरम्। तत्र श्राद्धं प्रदातव्यमनंतफलमीप्सुभिः ६३। कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्। च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना ६४। विषयाराधनं पुण्यं नदी या तु पुनःपुना। यत्र गाथा विचरति ब्रह्मणा परिकीर्तिता ६५। एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्। यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ६६। एषा गाथा विचरति तीर्थेष्वायतनेषु च। सर्वे मनुष्या राजेंद्र कीर्त्तयंतः समागताः ६७। किमस्माकं कुले कश्चिद्गयां यास्यति यः सुतः। प्रीणयिष्यति तान्गत्वा सप्तपूर्वांस्तथापरान् ६८। मातामहानामप्येवं श्रुतिरेषा चिरंतनी। गंगायामस्थिनिचयं गत्वा क्षेप्स्यति यः सुतः ६९। तिलैः सप्ताष्टभिर्वापि दास्यते च जलांजलिम्। अरण्यत्रितये वापि पिंडदानं करिष्यति ७०। प्रथमं पुष्करारण्ये नैमिषे तदनंतरं। धर्मारण्यं पुनः प्राप्य श्राद्धं भक्त्या प्रदास्यति ७१। गयायां धर्मपृष्ठे वा सरसि ब्रह्मणस्तथा। गयाशीर्षवटे चैव पितॄणां दत्तमक्षयम् ७२। व्रजन्कृत्वा निवापं यस्त्वध्वानं परिसर्पति। नरकस्थान्पितॄन्सोपि स्वर्गं नयति सत्वरं ७३। कुले तस्य न राजेंद्र प्रेतो भवति कश्चन। प्रेतत्वं मोक्षभावं च पिंडदानाच्च गच्छति ७४। एको मुनिस्ताम्रकराग्रहस्तो ह्याम्रेषु मूले सलिलं ददाति। आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ७५। गयायां पिण्डदानस्य नान्यद्दानं विशिष्यते। एकेन पिंडदानेन तृप्तास्ते मोक्षगामिनः ७६। धान्यप्रदानं प्रवरं वदंति वसुप्रदानं च तथामुनींद्राः। गया सुतीर्थेषु नरैः प्रदत्तं तद्धर्महेतुं प्रवरं वदंति ७७। सर्वात्मना सुरुचिना महाचल महानदी। ये तु पश्यंति तां गत्वा मानसे दक्षिणोत्तरे ७८। प्रणम्य द्विजमुख्येभ्यः प्राप्तं तैर्जन्मनः फलं। यद्यदिच्छति वै मर्त्यस्तत्तदाप्नोत्यसंशयम् ७९। एष तूद्देशतः प्रोक्तस्तीर्थानां सग्रहो मया। वागीशोपि न शक्नोति विस्तरात्किमु मानुषः ८०। सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः। वर्णाश्रमाणां गेहेपि तीर्थं शम उदाहृतम् ८१। येषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते। गयायां यत्तु वै श्राद्धं तच्छ्राद्धमपवर्गदम् ८२। यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं विधीयते। प्रातःकालो मुहूर्तांस्त्रीन्संगवस्तावदेव तु ८३। मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम्। सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ८४। राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु। अह्नो मुहूर्ता व्याख्याता दशपंच च सर्वदा ८५। तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः। मध्याह्नात्सर्वदा यस्मान्मंदी भवति भास्करः ८६। तस्मादनंतफलदस्तत्रारंभो विशिष्यते। खड्गपात्रं च कुतपस्तथा नैपालकंबलम् ८७। रुक्मं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः। पापं कुत्सितमित्याहुस्तस्य तत्तापकारिणः ८८। अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः। ऊर्ध्वं मुहुर्त्तात्कुतपान्महूर्त्तं च चतुष्टयम् ८९। मुहूर्त्तपंचकं चैव स्वधावाचनमिष्यते। विष्णुदेहसमुद्भूताः कुशाः कृष्णतिलास्तथा ९०। श्राद्धस्य लक्षणं कालमिति प्राहुर्मनीषिणः। तिलोदकांजलिर्देयो जलांते तीर्थवासिभिः ९१। सदर्भहस्तेनैकेन गृहे श्राद्धं गमिष्यति। पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम् ९२। ब्रह्मणा चैव कथितं तीर्थश्राद्धानुकीर्तनम्। शृणोति यः पठेद्वापि श्रीमान्संजायते नरः ९३। श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः। सर्वपापोपशांन्त्यर्थमलक्ष्मीनाशनं मतं ९४। इदं पवित्रं यशसो निधानमिदं महापातकनाशनं च। ब्रह्मार्करुद्रैरभिपूजितं च श्राद्धस्य माहात्म्यमुशंति तज्ज्ञाः ९५।

bhīṣma uvāca| kasminvāsarabhāge tu śrāddhī śrāddhaṃ samācaret| tīrtheṣu keṣu vai śrāddhaṃ kṛtaṃ bahuphalaṃ dvija1| pulastya uvāca| tīrthaṃ tu puṣkaraṃ nāma yattu śreṣṭhatamaṃ smṛtam| sarveṣāṃ dvijamukhyānāṃ manorathamiva sthitam2| tatra dattaṃ hutaṃ japtamanantaṃ bhavati dhruvam| pitṝṇāṃ vallabhaṃ nityamṛṣīṇāṃ paramaṃ matam3| naṃdātha lalitā tadvattīrthaṃ māyāpurī śubhā| tathā mitrapadaṃ rājaṃstataḥ kedāramuttamam4| gaṃgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham| tīrthaṃ brahmasarastadvacchatadrusalilaṃ śubham5| tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam| gaṃgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ6| tathā yajñavarāhastu devadevaśca śūladhṛk| yatra tatkāṃcanaṃ dānamaṣṭādaśabhujo haraḥ7| nemistu dharmacakrasya śīrṇā yatrābhavatpurā| tadetannaimiśāraṇyaṃ sarvatīrthaniṣevitam8| devadevasya tatrāpi varāhasya ca darśanam| yaḥ prayāti sa pūtātmā nārāyaṇapuraṃ vrajet9| kokāmukhaṃ paraṃ tīrthamindramārgopi lakṣyate| athāpi pitṛtīrthaṃ tu brahmaṇovyaktajanmanaḥ10| puṣkarāraṇyasaṃsthosau yatra devaḥ pitāmahaḥ| viriṃcidarśanaṃ śreṣṭhamapavargaphalapradam11| kṛtaṃ nāma mahāpuṇyaṃ sarvapāpaniṣūdanam| yatrādyo nārasiṃhastu svayameva janārdanaḥ12| tīrthamikṣumatīnāma pitṝṇāṃ ca śubhāvahā| tuṣyanti pitaro nityaṃ gaṃgāyamunasaṃgame13| kurukṣetraṃ mahāpuṇyaṃ yatra mārgopi lakṣyate| adyāpi pitṛtīrthaṃ tu sarvakāmaphalapradam14| nīlakaṇṭhamiti khyātaṃ pitṛtīrthaṃ narādhipa| tathā bhadrasaraḥ puṇyaṃ saro mānasameva ca15| maṃdākinī tathā'cchodā vipāśā ca sarasvatī| sarvamitrapadaṃ tadvadvaidyanāthaṃ mahāphalam16| kṣiprā nadī tathā puṇyā tathā kālañjaraṃ śubham| tīrthodbhedaṃ harodbhedaṃ garbhabhedaṃ mahālayam17| bhadreśvaraṃ viṣṇupadaṃ narmadā dvārameva ca| gayāpiṃḍapradānena samānyāhurmaharṣayaḥ18| etāni pitṛtīrthāni sarvapāpaharāṇi ca| smaraṇādapi lokānāṃ kimu śrāddhapradāyinām19| oṃkāraṃ pitṛtīrthaṃ tu kāverīkapilodakam| saṃbhedaścaṇḍavegāyāṃ tathaivāmarakaṃṭakam20| kurukṣetrāccadviguṇaṃ tasminsnānādikaṃ bhavet| śuklatīrthaṃ tu vikhyātaṃ tīrthaṃ someśvaraṃ param21| sarvavyādhiharaṃpuṇyaṃphalaṃkoṭiguṇādhikam| śrāddhedānetathāhomesvādhyāyecāpisannidhau22| kāyāvārohaṇaṃ nāma devadevasya śūlinaḥ| avatāraṃ rocamānaṃ brāhmaṇāvasathe śubhe23| jātaṃ tatsumahāpuṇyaṃ tathā carmaṇvatī nadī| śūlatāpī payoṣṇī ca payoṣṇīsaṃgamastathā24| mahauṣadhī cāraṇā ca nāgatīrthapravarttinī| mahāveṇā nadī puṇyā mahāśālastathaiva ca25| gomatī varuṇā tadvattīrthaṃ hautāśanaṃ param| bhairavaṃ bhṛgutuṃgaṃ ca gaurītīrthamanuttamam26| tīrthaṃ vaināyakaṃ nāma vastreśvaramanuttamam| tathā pāpaharaṃ nāma puṇyā vetravatī nadī27| mahārudraṃ mahāliṃgaṃ daśārṇā ca mahānadī| śatarudrā śatāhvā ca tathā pitṛpadaṃ puram28| aṃgāravāhikā tadvannadau dvau śoṇaghargharau| kālikā ca nadī puṇyā pitarā ca nadī śubhā29| etāni pitṛtīrthāni śasyaṃte snānadānayoḥ| śrāddhameteṣu yaddattaṃ tadanaṃtaphalaṃ smṛtam30| śatāvaṭā nadī jvālā śaradvī ca nadī tathā| dvārakā kṛṣṇatīrthaṃ ca tathā hyudaksarasvatī31| nadī mālavatī nāma tathā ca girikarṇikā| dhūtapāpaṃ tathā tīrthaṃ samudre dakṣiṇe tathā32| gokarṇo gajakarṇaśca tathā cakranadī śubhā| śrīśailaṃ śākatīrthaṃ ca nārasiṃhamataḥ param33| maheṃdraṃ ca tathā puṇyā puṇyā cāpi mahānadī| eteṣvapi sadā śrāddhamanaṃtaphaladaṃ smṛtam34| darśanādapi puṇyāni sadyaḥ pāpaharāṇi vai| tuṃgabhadrā nadī puṇyā tathā cakrarathīti ca35| bhīmeśvaraṃ kṛṣṇaveṇā kāverī cāṃjanā nadī| nadī godāvarī puṇyā trisaṃdhyā pūrṇamuttamam36| tīrthaṃ traiyaṃbakaṃ nāma sarvatīrthanamaskṛtam| yatrāste bhagavānbhīmaḥ svayameva trilocanaḥ37| śrāddhameteṣu sarveṣu dattaṃ koṭiguṇaṃ bhavet| smaraṇādapi pāpāni vrajaṃti śatadhā nṛpa38| śrīparṇā ca nadī puṇyā vyāsatīrthamanuttamam| tathā matsyanadī kārā śivadhārā tathaiva ca39| bhavatīrthaṃ ca vikhyātaṃ puṇyatīrthaṃ ca śāśvatam| puṇyaṃ rāmeśvaraṃ tadvadveṇāpuramalaṃpuram40| aṃgārakaṃ ca vikhyātamātmadarśamalaṃbuṣam| vatsavrāteśvaraṃ tadvattathāgokāmukhaṃ param41| govarddhanaṃ hariścaṃdraṃ puraścandraṃ pṛthūdakam| sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalīnadī42| nāmadheyāni ca tathā tathā saumitrisaṃgatam| iṃdranīlaṃ mahānādaṃ tathā ca priyamelakam43| etānyapi sadā śrāddhe praśastānyadhikāni ca| eteṣu sarvadevānāṃ sāṃnidhyaṃ paṭhyate yataḥ44| dānameteṣu sarveṣu bhavetkoṭiśatādhikam| bāhudā ca nadī puṇyā tathā siddhavaṭaṃ śubham45| tīrthaṃ pāśupataṃ caiva nadī paryaṭikā tathā| śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram46| tathaiva paṃcatīrthaṃ ca yatra godāvarī nadī| yutā liṃgasahasreṇa savyetara jalāvahā47| jāmadagnyasya tattīrthaṃ modāyatanamuttamam| pratīkasya bhayātsiddhā yatra godāvarī nadī48| tīrthaṃ taddhavyakavyānāmapsarogaṇasaṃyutam| śrāddhāgni dānakāryaṃ ca tatra koṭiśatādhikam49| tathā sahasraliṃgaṃ ca rāghaveśvaramuttamam| sendrakālā nadī puṇyā tatra śakro gataḥ purā50 1.11.50| nihatya namuciṃ mitraṃ tapasā svargamāptavān| tatra dattaṃ naraiḥ śrāddhamanaṃtaphaladaṃ bhavet 51| puṣkaraṃ nāma vai tīrthaṃ śālagrāmaṃ tathaiva ca| śoṇapātaśca vikhyāto yatra vaiśvānarāśayaḥ 52| tīrthaṃ sārasvataṃ caiva svāmitīrthaṃ tathaiva ca| malaṃdarā nadī puṇyā kauśikī caṃdrakā tathā 53| vidarbhā cātha vegā ca payoṣṇī prāṅmukhā parā| kāverī cottarāṃgā ca tathā jālaṃdharo giriḥ 54| eteṣu śrāddhatīrtheṣu śrāddhamānaṃtyamaśnute| lohadaṃḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca 55| divyaṃ sarvatra gaṃgāyāstathā nadyāstaṭaṃ śubham| kubjāmrakaṃ tathā tīrthamurvaśīpulinaṃ tathā 56| saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam| eteṣu pitṛtīrtheṣu śrāddhamānaṃtyamaśnute 57| aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca| tathā vasiṣṭhatīrthaṃ ca bhārataṃ ca tataḥ param 58| brahmāvartaṃ kuśāvartaṃ haṃsatīrthaṃ tathaiva ca| piṃḍārakaṃ ca vikhyātaṃ śaṃkhoddhāraṃ tathaiva ca 59| bhāṃḍeśvaraṃ bilvakaṃ ca nīlaparvatameva ca| tathā ca badarītīrthaṃ sarvatīrtheśvareśvaram 60| vasudhārāhvayaṃ tīrthaṃ rāmatīrthaṃ tathaiva ca| jayaṃtī vijayā caiva śuklatīrthaṃ tathaiva ca 61| eṣu śrāddhapradātāraḥ prayāṃti paramaṃ padam| tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā 62| saptagodāvarīnāma sarvatīrtheśvareśvaram| tatra śrāddhaṃ pradātavyamanaṃtaphalamīpsubhiḥ 63| kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhaṃ vanam| cyavanasyāśramaṃ puṇyaṃ nadī puṇyā punaḥpunā 64| viṣayārādhanaṃ puṇyaṃ nadī yā tu punaḥpunā| yatra gāthā vicarati brahmaṇā parikīrtitā 65| eṣṭavyā bahavaḥ putrā yadyekopi gayāṃ vrajet| yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet 66| eṣā gāthā vicarati tīrtheṣvāyataneṣu ca| sarve manuṣyā rājeṃdra kīrttayaṃtaḥ samāgatāḥ 67| kimasmākaṃ kule kaścidgayāṃ yāsyati yaḥ sutaḥ| prīṇayiṣyati tāngatvā saptapūrvāṃstathāparān 68| mātāmahānāmapyevaṃ śrutireṣā ciraṃtanī| gaṃgāyāmasthinicayaṃ gatvā kṣepsyati yaḥ sutaḥ 69| tilaiḥ saptāṣṭabhirvāpi dāsyate ca jalāṃjalim| araṇyatritaye vāpi piṃḍadānaṃ kariṣyati 70| prathamaṃ puṣkarāraṇye naimiṣe tadanaṃtaraṃ| dharmāraṇyaṃ punaḥ prāpya śrāddhaṃ bhaktyā pradāsyati 71| gayāyāṃ dharmapṛṣṭhe vā sarasi brahmaṇastathā| gayāśīrṣavaṭe caiva pitṝṇāṃ dattamakṣayam 72| vrajankṛtvā nivāpaṃ yastvadhvānaṃ parisarpati| narakasthānpitṝnsopi svargaṃ nayati satvaraṃ 73| kule tasya na rājeṃdra preto bhavati kaścana| pretatvaṃ mokṣabhāvaṃ ca piṃḍadānācca gacchati 74| eko munistāmrakarāgrahasto hyāmreṣu mūle salilaṃ dadāti| āmrāśca siktāḥ pitaraśca tṛptā ekā kriyā dvyarthakarī prasiddhā 75| gayāyāṃ piṇḍadānasya nānyaddānaṃ viśiṣyate| ekena piṃḍadānena tṛptāste mokṣagāminaḥ 76| dhānyapradānaṃ pravaraṃ vadaṃti vasupradānaṃ ca tathāmunīṃdrāḥ| gayā sutīrtheṣu naraiḥ pradattaṃ taddharmahetuṃ pravaraṃ vadaṃti 77| sarvātmanā surucinā mahācala mahānadī| ye tu paśyaṃti tāṃ gatvā mānase dakṣiṇottare 78| praṇamya dvijamukhyebhyaḥ prāptaṃ tairjanmanaḥ phalaṃ| yadyadicchati vai martyastattadāpnotyasaṃśayam 79| eṣa tūddeśataḥ proktastīrthānāṃ sagraho mayā| vāgīśopi na śaknoti vistarātkimu mānuṣaḥ 80| satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ| varṇāśramāṇāṃ gehepi tīrthaṃ śama udāhṛtam 81| yeṣu tīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate| gayāyāṃ yattu vai śrāddhaṃ tacchrāddhamapavargadam 82| yasmāttasmātprayatnena tīrthe śrāddhaṃ vidhīyate| prātaḥkālo muhūrtāṃstrīnsaṃgavastāvadeva tu 83| madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param| sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet 84| rākṣasī nāma sā velā garhitā sarvakarmasu| ahno muhūrtā vyākhyātā daśapaṃca ca sarvadā 85| tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ| madhyāhnātsarvadā yasmānmaṃdī bhavati bhāskaraḥ 86| tasmādanaṃtaphaladastatrāraṃbho viśiṣyate| khaḍgapātraṃ ca kutapastathā naipālakaṃbalam 87| rukmaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ| pāpaṃ kutsitamityāhustasya tattāpakāriṇaḥ 88| aṣṭāvete yatastasmātkutapā iti viśrutāḥ| ūrdhvaṃ muhurttātkutapānmahūrttaṃ ca catuṣṭayam 89| muhūrttapaṃcakaṃ caiva svadhāvācanamiṣyate| viṣṇudehasamudbhūtāḥ kuśāḥ kṛṣṇatilāstathā 90| śrāddhasya lakṣaṇaṃ kālamiti prāhurmanīṣiṇaḥ| tilodakāṃjalirdeyo jalāṃte tīrthavāsibhiḥ 91| sadarbhahastenaikena gṛhe śrāddhaṃ gamiṣyati| puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam 92| brahmaṇā caiva kathitaṃ tīrthaśrāddhānukīrtanam| śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ 93| śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ| sarvapāpopaśāṃntyarthamalakṣmīnāśanaṃ mataṃ 94| idaṃ pavitraṃ yaśaso nidhānamidaṃ mahāpātakanāśanaṃ ca| brahmārkarudrairabhipūjitaṃ ca śrāddhasya māhātmyamuśaṃti tajjñāḥ 95|

English translation

Bhīṣma said :

I. During which portion of the day should the performer of a Śrāddha perform it? O brāhmaṇa , what are the sacred places in which Śrāddha performed gives abundant fruit?

Pulastya spoke :

2-3. The sacred place named Puṣkara , is said to be the greatest. Presents or offerings made there, or muttering done there certainly becomes endless. It is always dear to the manes and is regarded as great by the sages.

4. So also, O king, Nandā , Lalitā , so also the sacred place, viz. the auspicious Māyāpurī , so also Mitrapada ; Kedāra is still better.

5. Gaṅgāsāgara is also said to be an aupsicious sacred place composed of all sacred places; similarly Brahma-tīrtha is auspicious having the water of Śatadru .

6-7. There is a sacred place named Naimiṣa giving the fruit of all sacred places. On (the bank of) Gomatī there is a sacred place called Gaṅgodbheda , where Brahmā , Viṣṇu and ( Śiva ) the trident-holder came up; where golden gifts are offered, and Hara with eighteen arms (lives).

8. That is the Naimiṣa forest where formerly the rim of the wheel of Dharma wore out. It is waited upon by all (other) Tīrthas .

9. There also one can have the sight of (Viṣṇu in his) Varāha (incarnation). One who goes there, goes, with his soul purified, to the city of Nārāyaṇa .

10. Another sacred place is Kokāmukha ; Indramārga is also noted (as a Tīrtha ). Another Tirtha is Pitṛ-tīrtha (sacred to) Brahmā, manifesting his existence.

11. That lord Brahmā resides in Puṣkara forest. The sight of Brahmā is most prosperous and gives the fruit in the form of final release.

12. Kṛta is (one more) sacred place of great religious merit and it destroys all sins; where Janārdana , the first Narasiṃha (resides).

13. Īkṣumati is a sacred place auspicious to the manes; at the confluence of the Ganges and Jumna the manes are always pleased.

14. Kurukṣetra has great religious merit; where the path (to heaven) is also noticed. Even now (this) tīrtha , sacred to the manes, fulfils all desires.

15-16. O King, (there is another sacred place) called Nīlakaṇṭha , sacred to the manes. Similarly other tīrthas are: Bhadrasaras , Puṇyasaras, and Mānasa . So also Mandākinī , Acchodā , Vipāsā, and Sarasvatī , Sarvamitrapada, Vaidyanātha giving great fruit.

17. River Kṣiprā is similarly sacred; so also Kālañjara is auspicious; (other tīrthas are) Tīrthodbheda, Harodbheda, Garbhabheda, Mahālaya .

18. Bhadreśvara , Viṣṇupada and Narmadādvāra, Gayā ; the great sages say that they resemble (one another) (are equally meritorious) because of the offering of piṇḍas i.e. as far as offering of piṇḍas goes.

19. These places sacred to the manes remove all sins, even of those people who remember them; then what about those who offer Śrāddha (at these places)?

20-21. Oṃkāra is (another) place sacred to the manes; so also Kāverī and Kapilodaka; Sambheda on (the bank of) the Caṇḍavegā (river); so also Amarakaṇṭaka ; bath etc. in it gives merit which is double that of Kurukṣetra. (Another) well-known sacred place is Śuklatīrtha ; Someśvara is a great Tīrtha .

22. It removes all ailments, is meritorious and gives a crore times greater fruit by (one’s) offering śrāddha , giving gifts, performing sacrifice or reciting sacred texts in its vicinity.

23. Another sacred place is by name Kāyāvārohaṇa where, in the auspicious dwelling place of Brāhmaṇas , there is a lovely form of the trident-holder, lord of gods.

24. It has become extremely meritorious; similarly the river Carmaṇvatī (is a tīrtha ); Śūlatāpī, Payoṣṇī and the confluence of Payoṣṇī (with Śūlatāpī).

25. Mahauṣadhī , Cāraṇā and the meritorious Mahāveṇā flowing to Nāgatīrtha ; so also Mahāśāla .

26. So also Gomatī. Varuṇā is a great sacred place of Agni . Bhairava , Bhṛgutuṅga and Gaurītīrtha are incomparably the best.

27. (Then there is) a sacred place by name Vaināyaka ; so also the best tīrtha Vastreśvara. Similarly (there is the tīrtha) named Pāpahara and there is the holy river Vetravatī .

28. (The tīrthas ) Mahārudra and Mahāliṅga (are other sacred places) and the great river Daśārṇā . So also Śatarudrā, Śatāhvā and the city called Pitṛpada.

29. (River) Aṅgāravāhikā and the two big rivers Śoṇa and Gharghara , the holy river Kālikā and the auspicious river Pitarā.

30. These are sacred places for manes which are recommended for bath and for making presents. śrāddha offered here is said to have an inexhaustible fruit.

31. The river Śatāvaṭā, so also Jvālā and Śaradvī. Dvārakā , Kṛṣṇatīrtha and the Northern Sarasvatī.

32. River Mālavatī; so also Girikarṇikā ; so also the Dhūtapāpatīrtha in the southern ocean.

33. Gokarṇa and Gajakarṇa ; similarly the auspicious river Cakra . Śrīśaila , Śākatīrtha and then Nārasiṃha .

34. So also Mahendra , Puṇya and the holy Mahānadī . A śrāddha offered at these places also is said to give unending fruit.

35. Even their sight gives religious merit and they instantly remove sin. Tuṅgabhadrā is a holy river; so also is Cakrarathī.

36. Bhīmeśvara , (and rivers) Kṛṣṇaveṇā , Kāverī and Añjanā . River Godāvarī is holy; Trisandhyāpūrṇa is the best.

37. The tīrtha named Tryambaka is a complete and excellent tīrtha and is respected by (i.e. superior to) all other sacred places. Here the terrible three-eyed lord (i.e. Śiva) himself resides.

38. Śrāddha offered at these places is a crore times meritgiving; O king, even by remembering these (places) sins go away in a hundred ways.

39. The river Śrīparṇā is holy, so also the Vyāsatīrtha is unparalleled. So, also Matsyanadī , Kārā and Śivadhārā.

40. There is the well-known Bhava -tīrtha and the eternal Puṇyatīrtha. Similarly there are the holy Rāmeśvara and Veṇāpura and Alaṃpura.

41. The famous Aṅgāraka , and Ātmadarśa and Alambuṣa ; so also Vatsavrāteśvara and the great Gokāmukha .

42. Govardhana , Hariścandra , Puraścandra, Pṛthūdaka , Sahasrākṣa , Hiraṇyākṣa , so also the river Kadalī .

43. The (other) names are: Lakṣmaṇa -tīrtha, Indranīla , Mahānāda ; so also Priyamelaka.

44. These also are very much recommended for the performance of śrāddha , since it is said that in these holy places all gods are present.

45. Presents made at all these become a crore times more

fruitful. Similarly there is the river Bāhudā , so also the auspicious Siddhavaṭa .

46. And the holy place Pāśupata , similarly river Paryaṭikā. Presents made at all these places become a crore times greater.

47. So also the Pañcatīrtha where the river Godāvarī, flowing towards left, comes in contact with Liṅga - sahasra .

48. The place sacred to Jāmadagnya is the best place for (getting) final release; where the river stands ready due to the fear of an adversary.

49. That is the holy place for making offerings to gods and manes and has a host of the celestial nymphs.

50. So also Sahasraliṅga and excellent Rāghaveśvara with the sacred river Indrakālā; there Śakra had formerly gone.

51. Having killed Namuci he reached heaven by (practising) penance. Śrāddha offered here by men gives inexhaustible fruit.

52. The sacred place Puṣkara, so also Śālagrāma ; then the well-knwon Śoṇapāta where there is the abode of Supreme Being.

53. Then (there are) the Sārasvatatīrtha, and Svāmitīrtha also; then the holy river Malandarā , so also Kauśikī and Candrakā.

54. Then (the river) Vidarbhā , and Vegā and Payoṣṇī flowing towards the east. Kāverī flowing in the northern direction; similarly the mountain Jālandhara .

55. Śrāddha offered at these holy places meant for offering Śrāddha becomes endless. Similarly Lohadaṇḍa is a tīrtha , so also Citrakūṭa .

56. Similarly the bank of the river Ganges is everywhere divine and auspicious. Then (there are the tīrthas ) Kubjā , Āmraka and Urvaśīpulina .

57. (Then there are) the Saṃsāramocana -tīrtha, so also Ṛṇamocana . Śrāddha offered at these places meant for offering Śrāddha is inexhaustible.

58. Similarly is the tīrtha Aṭṭahāsa ; so also Gautameśvara ; then is the Vasiṣṭha-tīrtha ; next one is Bhārata (tīrtha).

59. Similarly Brahmāvarta , Kuśāvarta and Haṃsatīrtha (are other tīrthas ), so also (are) the well-known Piṇḍāraka and Śaṃkhoddhāra.

60. So also Bhāṇḍeśvara, Bilvaka and Nīlaparvata ; Similarly (is) Badaritīrtha, the greatest of all holy places.

61. And (there is) the holy place called Vasudhārā , so also Rāmeśvara; then Jayantī , Vijayā and Śukla .

62. Those who offer Śrāddha at these places go to the highest place; (then there is) a sacred place named Mātṛgṛha ; also Karavīra .

63. (The tīrtha ) Sapta-godāvarī is the best among all the holy places; those desiring inexhaustible fruit should offer Śrāddha there.

64. The holy Gayā is in the Kīkaṭa country; the Rājagṛha forest is holy; so also (is) Cyavanāśrama ; the river Punaḥpunā is also holy.

65. The holy place Viṣayārādhana and the sacred river Punaḥpunā, where the (following) verse composed by Brahmā is (still) floating.

66. ‘If someone desires many sons he should go to Gayā; one should either perform a horse-sacrifice or should let loose a bull at the Nīla (mountain)’.

67. This is the verse floating at the sacred (and other) places; all men, O best king, came saying:

68. Will any son from our family go to Gayā, who, will propitiate the seven earlier and later (members of the family)?

69-70. Among the maternal grandfathers these words have become long-standing: (Will there be) a son, who, having gone (to the Ganges), will drop the collection (of the ashes) of the bones into the Ganges and offer water with even seven or eight sesamum seeds or offer piṇḍas in (one of) the three forests (viz. Puṣkara, Naimiṣa and Dharma)?

71. (Who) with devotion will offer a śrāddha , first in the Puṣkara- araṇya , then in the Naimiṣāraṇya and then in Dharmāraṇya ?

72. Whatever is offered to the manes at Gayā or in Dharmāraṇya or at Brahmasaras and at Gayāśīrṣavaṭa becomes inexhaustible.

73. One who going to these places and having made a libation moves round, quickly takes to heaven the manes residing in hell.

74. O best king, in his family no one becomes an evil spirit, (because) the evil spirit attains liberation due to the offering of piṇḍas .

75. A holy man with water in his right hand gives water at the root of mango (trees). (Thereby) the mango-trees are watered and the manes are propitiated; thus one action is known to serve two purposes.

76. There is no other offering surpassing that made at Gayā; those (manes) moving towards liberation are pleased by one offering of piṇḍas .

77. The best sages say that giving grains is (an) excellent (gift), so also giving wealth. They say that whatever is given by men at holy places like Gayā is a great source of religious merit.

78-79. Those who go to the south and north of the Mānasa lake and with all their heart and with love see Mahācala and Mahānadī after having saluted chief brāhmaṇas, get the fruit of their life. Whatever a mortal desires, he undoubtedly obtains it.

80. I have briefly stated this compendium of the holy places. Even the lord of speech cannot describe it in detail; then what about a human being?

81. Truth is a holy place; compassion is a holy place; restraint of senses is a holy place; in the houses of those (who observe) the castes and the four stages of life, tranquility is said to be a sacred place.

82-83. Since whatever Śrāddha is recommended at the holy places is laid down to (have) a crore-fold (fruit), and since, the Śrāddha offered at Gayā is the giver of final release, therefore an effort should be made to offer a Śrāddha at a holy place. The morning time has three muhūrtas (a muhurta = 48 minutes), the saṅgava (period after morning time) has a similar duration; fore-noon has three muhūrtas ; then afternoon follows.

84. The evening time has three muhūrtas ; a śrāddha should not be performed during that period.

85. That time is rākṣasī (demonish) and is condemned for all rites; the muhūrtas of the day are always said to be fifteen.

86. Among them the eighth period is said to be Kutapa ; since after noon the sun always becomes mild.

87-91. Therefore, the act during that period, is specified as the giver of eternal fruit. A sword, a vessel, the Kutapa (period), so also a blanket made in Nepal, gold, darbhas , sesamum seeds and cows (these are the seven necessary things for a Śrāddha ); and a daughter’s son is said to be the eighth. Sin is said to be Kutsita (condemned); since these eight torment it, they are known as Kutapa . After the Kutapa -period there are four muhūrtas ; so also is the fifth one (which) is laid down for the performance of a Śrāddha . Kuśas , so also black sesamum are said to have sprung up from Viṣṇu’s body. The wise say that black is the mark of a Śrāddha ; the residents of a holy place should offer water with sesamum seed after water is offered (to the manes).

92. With darbha inone hand one should offer in one’s house a Śrāddha (which is) meritorious and holy, gives (long) life, and destroys all sins.

93. And this glory of śrāddha is narrated by Brahmā too; a man who listens to or recites it becomes rich.

94. Similarly the residents of a holy place should, at the time of a Śrāddha , say it for the cessation of all sins (the following verse) which is regarded as the remover of poverty:

95. ‘This is pure, the treasure of fame; this is the destroyer of great sins; the greatness of Śrāddha is honoured by Brahmā, Arka and Rudra —(thus) declare the wise’.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 24478, revision 334446 (2022-04-04T02:05:18Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364131.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.