Skip to main content

Uttara-khaṇḍa · Chapter 184

Chapter 184

Unit 596 of 693Uttara-khaṇḍa · Chapter 184Uttara-khaṇḍa · Chapter 1841 source entries

Uttara-khaṇḍa · Chapter 184

Source

[https://www.youtube.com/watch?v=feyg2d2t3sM हिन्दी रूपान्तरणम् (यूट्यूब)], [https://www.youtube.com/watch?v=g57iiUR3q8M हिन्दीरूपान्तरणम् (यूट्यूब)]देव्युवाच। सर्वज्ञ सर्वचैतन्य सर्वेश्वर गिरां गुरो । धन्यास्मि शिवमान्येन दृश्यमानेन यत्त्वया १। निरूपितमिदं पुण्यं नवमाध्यायवैभवम् । अनेकविस्मयस्वादु कथानकमयं मधु २। शृण्वंत्या मम देवेश न तृप्तिर्जातु जायते । अकुंठाश्रवणोत्कंठा वर्द्धते वृषभध्वज ३। आसीन्ममहिमांभोधे गीतानां श्रुतिजीवितम् । तत्रापि दशमाध्यायं प्रधानं मुनयो जगुः ४। तमुद्दिश्य महाध्यायमभिधेहि कथानकम् । शिव उवाच। शृणु सुश्रोणि निश्रेणीं स्वर्गदुर्गस्य दुर्ल्लभाम् ५। सीमामिव प्रभावानां पावनीं परमां कथाम् । आसीत्काशीपुरे विप्रः पुण्यकीर्त्तिपरायणः ६। प्रशांतचेता निर्मुक्त हिंसाकार्कश्यसाहसः । निवृत्तिनिरतो नित्यं जितेंद्रियतया तथा ७। धीरधीरिति विख्यातो नंदीव मयि भक्तिमान् । निस्तीर्णनिगमांभोधिः सर्वशास्त्रार्थकोविदः ८। तस्य ध्यानपराधीन चेतसः प्रतिगच्छतः । अंतरात्मनि निर्मग्न मनसस्तत्त्वचक्षुषः ९। करावलंबनं तस्य धावन्प्रीत्या ददाम्यहम् । कदाचन चमत्कारकारकं विमना मुनिः १०। आचांतः किंच नासाग्रपरमानंदमेदुराम् । दृशमासाद्य निद्राणकरणोयमिवास्थितः ११। उपाधास्य विशालाक्षि विशालां द्वारदेहलीम् । अशेत निशि निःशंकं तावल्लंबेक्षणः क्षणम् १२। मामपृच्छद्भृंगिरिटिः प्रणम्यपादपंकजम् । अनेन विधिना केन विहितं तव दर्शनम् १३। तपस्तप्तं हुतं जप्तं किमनेन महात्मना । दत्ते प्रतिपदं देवो यस्य हस्तावलंबनम् १४। अयं न लभते गंतुं कस्मादस्मात्पुराद्बहिः । यदृच्छया यदा काशी सीमामुल्लंघ्य गच्छति १५। न पश्यति तदा सर्वान्पार्श्वस्थानपि देहिनः । अत्र हेतुमहं ज्ञातुमिच्छामि स्वामिभाषिताम् १६। अनुग्राह्योस्मि चेद्वक्तुं युक्तं चेत्तदुदीरय । भृंगिरिटेरिमं प्रश्नं समाकर्ण्याहमूचिवान् १७। कदाचिदासं कैलासं पार्श्वे पुन्नागकानने[http://puranastudy.freeoda.com/pur_index18/punnaga.htm पुन्नागोपरि टिप्पणी] । रणत्खेचरसुश्रोणि पूर्णस्तबककानने १८। कलकंठकुलालाप कल्लोलितदिगंतरे । गरुत्मदादिदात्यूह समूहस्वरसंकुले १९। भ्रमद्दारुघटीयंत्र प्रोल्लसद्बिंदुदंतुरे । प्रबुद्धसारणिप्रांत कदलीकंदलालसे २०। कस्तूरीहरिणोपेते किंनरस्वरमोहिते । रोमंथमंथरापांगैर्मृगैः क्वापि निषेविते २१। हंसैः कीरेषु पांडित्यं कुर्वाणैः संकुले शुकैः । निर्हृदिक्वणिनीरंध्र समीरणविलोडिते २२। माधवीपुष्पनिर्यासशीधुक्षीबमधुव्रते । उन्मीलित्त्रिवलीपुष्पगुच्छसौरभनिर्भरे २३। प्रोत्फुल्लबकुलामोदमदमंथरषट्पदे । सोमादुद्भूतपीयूषक्षालितक्षितिमंडले २४। अध्यास्य वेदिकामेकामहं क्षणमवस्थितः । उद्दंडशाखिसंघट्टस्फुटन्मंथामुखोत्करैः २५। प्रकंपिता चलच्छायो ववौ चंडसमीरणः । पश्चादभून्महाघोषो निर्घोषित दरीतटः २६। अवातरत्ततः कश्चित्पक्षी गगनगह्वरात् । शारदानरिदच्छायः कज्जलानामिवोच्चयः २७। तमसामिव संघातः पक्षच्छेदीव पर्वतः । अवष्टभ्य क्षितिं पद्मां पक्षी मां प्रणनाम सः२८। आनीय पद्ममम्लानमसौ मत्पादयोर्व्यधात् । अथासौ स्पष्टया वाचा पक्षी स्तोत्रमुदीरयत् २९। जयदेव चिदानंद सुधासिंधो जगत्पते । सदा सद्भावना संग कल्लोलानंतविग्रह ३०। अद्वैतवासना मत्या मलत्रयविवर्जित । जितेंद्रिय पराधीन समाधिप्राप्यविग्रह ३१। निरुपाधिविनिर्मुक्त निराकार निरामय । निःसीम निरहंकार निरावरणनिर्गुण ३२। शरणागतसंत्राण प्रवीण चरणांबुज । भीममाल महाव्याल ज्वालादग्धमनोभव ३३। कुठारभिन्नदैत्येंद्र गंडूषित महाविभो । त्रिपुरप्रमदाभाल सिंदूरोद्धूलिमार्जन ३४। कात्यायनीकुचांभोज वरकुंकुमचर्चित । नमः प्रमाणदूराय नमः प्रमतिरूपिणे ३५। नमश्चैतन्यनाथाय नमस्त्रैलोक्यरूपिणे । वंदे तव पदांभोजं योगिप्रवरचुंबितम् ३६। अपारभवपाथोऽधि पारावतरणाद्भुतम् । वाचस्पतिरपि स्तोत्रे भवतो न प्रगल्भते ३७। सहस्रवदनस्यापि फणींद्रस्य न चातुरी । त्वद्वर्णने महादेव कोऽहंमल्पमतिः खगः ३८। स्तोत्रमेतत्समाकर्ण्य कृतं तेन पतत्रिणा । तमवोचमहं कोऽसि कुतस्त्योसि विहंगम ३९। हंसेन सदृशः कायो वर्णः काकेन संनिभः । प्रयोजनं कमुद्दिश्य प्राप्तोसीह तदुच्यताम् ४०। इति पक्षी मया पृष्टः प्रश्रयानतकंधरः । जगाद श्लक्ष्णया वाचा पक्षीवाक्यविदांवरः ४१। देवेश धूर्जटे विद्धि मां मरालं स्वयंभुवः । कर्मणा येन मे कार्ष्ण्यं जातमाधुनिकं विभो ४२। तदाकर्णय सर्वज्ञ पृष्टं यदि तदुच्यते । मानसात्सरसः पृथ्वीं यातः प्राप्तोस्मि संकटम् ४३। सौराष्ट्रनगरादारात्सरसि स्फुटदंबुजे । बालेंदुखंडधवलान्मृणालकवलानहम् ४४। आदाय बलमाश्रित्य निरगां गगनं द्रुतम् । विहायसस्ततस्तस्मादकस्मादपतं भुवि ४५। अथ मोहपरीतात्मा सर्वथा विकलेंद्रियः । वेपमानवपुर्मोहात्स्पृष्टः शीतैः समीरणैः ४६। प्रबुद्धः पतने हेतुमपश्यन्नात्मनस्तदा । अहो किमेतदापन्नमद्य पातः कथं मम ४७। कालिमा येन कायेस्मिन्पक्वकर्पूरपांडुरे । इत्यहं विस्मयाविष्टो यावत्कुर्वे विचारणम् ४८। तावदंबुरुहाद्वाणीमश्रौषमहमीदृशीम् । उत्तिष्ठ हंस वक्ष्यामि कारणं पातकार्ष्ण्ययोः ४९। अथोत्थाय समागत्य मया मध्ये सरोवरे । दृष्टराजीविनीरम्या राजीवैः पंचभिर्युता 6.184.५०। कारणं प्रष्टुमारेभे कार्ष्ण्यस्य पतनस्य च । अथ तत्र घनश्यामान्स्वर्णवर्णांबरावृतान् ५१। चतुर्भुजान्गदाशंखचक्रपंकेरुहायुधान् । किरीटहारकेयूरकुंडलद्युतिचित्रितान् ५२। अद्राक्षमंतरिक्षस्थान्पुरुषानयुतानि षट् । नत्वा प्रदक्षिणीकृत्य पंचपद्मां सरोजिनीम् ५३। आत्मीयं पातमारभ्य पृष्टं तदखिलं मया । पद्मिन्युवाच। कलहंस गतोऽसि त्वं मां विलंघ्य विहायसा ५४। तेन पातकयोगेन पतितोऽसि महीतले । तेनैव कालिमा काये पक्षिसत्तम लक्ष्यते ५५। भवंतं पतितं वीक्ष्य कृपापूर्णेन चेतसा । मध्यमेनामुनाब्जेन वदता जातसौरभम् ५६। आघ्राय षट्पदाः षष्टिसहस्राणि दिवं ययुः । एते ये भवतां दृष्टाः नीलोत्पलसमत्विषः ५७। सर्वे ते सप्तमेऽतीते जन्मन्यासन्मुनेः सुताः । अस्यैव सरसस्तीरे तेपुस्ते परमं तपः ५८। कदाचित्कामिनी काचिच्चंपकस्तबकस्तनी । चलापांगकालाकांततरंगित रसालिनी ५९। नासा मुक्ताफलज्योत्स्ना चुंबितस्मित दीधितिः । वीणां विन्यस्य कुचयोर्वनेऽस्मिन्मधुरं जगौ ६०। गायंत्या स्वरमाकर्ण्य ब्राह्मणा हरिणा इव । तां समागत्य ते सर्वे सममेव व्यलोकयन् ६१। मया दृष्टा ममैवेयमित्यूचुस्ते परस्परम् । मुष्टामुष्टि ततस्तेषां भ्रातॄणामभवद्रणः ६२। अन्योन्यमुष्टिनिष्पिष्ट वक्षसस्त्यक्तजीविताः । ते भुक्त्वा निरयान्घोरान्बभूवुः सारसा भुवि ६३। तदा ते श्वापदान्जघ्नुर्दग्धावन्येन वह्निना । ततो मातंगतामेत्य पथिपांथानघातयन् ६४। वने विषोदकं पीत्वा ते ययुर्यममंदिरम् । खरोष्ट्रकपिमार्जार जन्मान्यासाद्य च क्रमात् ६५। ततो मधुव्रता जाता वर्तंतेऽत्र सरोवरे । अद्य मे गंधमाघ्राय प्रापुस्ते वैष्णवं पदम् ६६। शृणु पक्षींद्र वक्ष्यामि येन मय्यस्ति वैभवम् । एतस्माज्जन्मनः पूर्वे तृतीये जन्मनि क्षितौ ६७। सरोजवदनानाम द्विजातेः कन्यकाऽभवम् । पातिव्रत्यैकनिरता गुरुशुश्रूषणे रता ६८। कदाचित्सारिकामेकां पाठयंत्याविलंबितम् । सारिका भव पापे त्वं पत्या शप्तास्मि कुप्यता ६९। प्रेत्य सारित्वमासाद्य पातिव्रत्यप्रसादतः । मुनीनामेव सदने कन्या काचित्पुपोष माम् ७०। गीतानां दशमाध्यायं विभूतिरिति विश्रुतम् । प्रातः पठति विप्रोसावश्रौषं तमघापहम् ७१। कालेन सारिकादेहमहं हित्वा विहंगम । दशमाध्यायमाहात्म्यादप्सराश्चाभवं दिवि ७२। पद्मावतीति विख्याता पद्माया दयिता सुखी । कदाचन मया यांत्या विमानेन विहायसा ७३। एतत्सरोवरं रम्यं विलोक्य विमलांबुजम् । अवतीर्य जलक्रीडायावदारभ्यते मया ७४। दुर्वासास्तावदायातो विवस्त्रा तेन वीक्षिता । तद्भयात्पद्मिनीरूपं धृतमेतन्मया स्वयम् ७५। पद्भ्यां पद्मद्वयं चैव द्वयं हस्तद्वयेन च । मुखेन पंचमांभोजमिति पंचांबुजास्म्यहम् ७६। दृष्टा तेन मुनींद्रेण कोपज्वलित चक्षुषा । अनेनैव स्वरूपेण तिष्ठ पापे शतं समाः ७७। इति शापं समुत्सृज्य स चैवांतर्दधे क्षणात् । विभूत्यध्यायमाहात्म्याद्वाणी मे न विलीयते ७८। मद्विलंघनमात्रेण पतितोसि महीतले । अद्य शापनिवृत्तिर्मे तिष्ठतस्ते खगोत्तम ७९। निशामय मया गीयमानमध्यायमुत्तमम् । यस्याकर्णनमात्रेण त्वमद्यैव विमोक्ष्यसे ८०। इत्यसौ दशमाध्यायं पपाठ श्लक्ष्णया गिरा । तमाकर्ण्य तया दत्तमादाय च सरोरुहम् ८१। मया समर्पितं तुभ्यं पद्मिन्या पद्ममुत्तमम् । इत्युक्त्वा स जहौ देहं तदद्भुतमिवाभवत् ८२। भृंगिरिटिरुवाच। पुरातने भवे कोऽयं ब्रह्म हंसोऽभवत्कथं । तवाग्रतः कुतो हेतोरुत्ससर्ज कलेवरम् ८३। इति भृंगिरिटिर्वाक्यमाकर्ण्याहं तदाब्रुवम् । द्विजवेश्मनि पूर्वस्मिन्जन्मन्ययमजायत ८४। सुतपा इति विख्यातो ब्रह्मचारी जितेंद्रियः । वसन्गुरुकुले कुर्वन्वेदाध्ययनमन्वहम् ८५। गुरुशुश्रूषणं सम्यग्विदधाति च भक्तितः । शयानस्य गुरोः शय्यां निद्रितः सपदा स्पृशत् ८६। तेन पापेन तिर्यक्त्वमयं स्वर्गेऽपि लब्धवान् । पद्मयोनिमरालानां मध्ये जातस्ततो द्विजः ८७। अस्मिञ्जन्मन्यमुष्येह पुरास्मल्लोकनावधि । गीतानां दशमाध्यायं नलिन्या कथितं ततः ८८। आकर्ण्य विहगो लेभे ब्रह्मज्ञानमनुत्तमम् । सोऽयं विप्रकुले जातो दशमाध्यायवैभवात् ८९। जन्माभ्यासवशादस्य शिशोरपि मुखांबुजात् । गीतानां दशमाध्यायः समुल्लसति सर्वदा ९०। तदर्थपरिणामेन सर्वभूतेष्ववस्थितम् । शंखचक्रधरं देवमयं पश्यति सर्वदा ९१। यस्मिन्यस्मिन्यदैवास्य दृष्टिः स्निग्धा शरीरिणः । स स मुक्तो भवेत्सर्वः सुरापो ब्रह्महाऽपि वा ९२। तद्विज्ञाय मया विप्रः परमात्मस्वरूपिणा । इदं नगरमानीतो मुक्तिक्षेत्रं स्वभावतः ९३। अत्रत्यानां मनुष्याणां मुक्तिः करतले स्थिता । तेनास्य दृष्टिपातेन विशेषोऽन्यो न जायते ९४। न ददामि बहिर्गंतुमहमस्य पुरा कृतम् । दशमाध्यायमहात्म्यात्तत्वज्ञानं सुदुर्लभम् ९५। लब्धमेतेन मुनिना जीवन्मुक्तिरियं तथा । तेनास्य चलतो हस्तं ददामि पथि गच्छतः ९६। दशमाध्यायमहिमा भृंगिरिटे महानयम् । इति भृंगिरिटेरग्रे कथितं यत्कथानकम् ९७। तवेदमत्र कथितं सर्वपापप्रणाशनम् । नरो वाप्यथवा नारी यापि कोऽपि च वा पुनः ९८। अस्य श्रवणमात्रेण सर्वाश्रमफलं लभेत् ९९। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये चतुरशीत्यधिकशततमोध्यायः १८४। ।

[https://www.youtube.com/watch?v=feyg2d2t3sM hindī rūpāntaraṇam (yūṭyūba)], [https://www.youtube.com/watch?v=g57iiUR3q8M hindīrūpāntaraṇam (yūṭyūba)]devyuvāca| sarvajña sarvacaitanya sarveśvara girāṃ guro | dhanyāsmi śivamānyena dṛśyamānena yattvayā 1| nirūpitamidaṃ puṇyaṃ navamādhyāyavaibhavam | anekavismayasvādu kathānakamayaṃ madhu 2| śṛṇvaṃtyā mama deveśa na tṛptirjātu jāyate | akuṃṭhāśravaṇotkaṃṭhā varddhate vṛṣabhadhvaja 3| āsīnmamahimāṃbhodhe gītānāṃ śrutijīvitam | tatrāpi daśamādhyāyaṃ pradhānaṃ munayo jaguḥ 4| tamuddiśya mahādhyāyamabhidhehi kathānakam | śiva uvāca| śṛṇu suśroṇi niśreṇīṃ svargadurgasya durllabhām 5| sīmāmiva prabhāvānāṃ pāvanīṃ paramāṃ kathām | āsītkāśīpure vipraḥ puṇyakīrttiparāyaṇaḥ 6| praśāṃtacetā nirmukta hiṃsākārkaśyasāhasaḥ | nivṛttinirato nityaṃ jiteṃdriyatayā tathā 7| dhīradhīriti vikhyāto naṃdīva mayi bhaktimān | nistīrṇanigamāṃbhodhiḥ sarvaśāstrārthakovidaḥ 8| tasya dhyānaparādhīna cetasaḥ pratigacchataḥ | aṃtarātmani nirmagna manasastattvacakṣuṣaḥ 9| karāvalaṃbanaṃ tasya dhāvanprītyā dadāmyaham | kadācana camatkārakārakaṃ vimanā muniḥ 10| ācāṃtaḥ kiṃca nāsāgraparamānaṃdamedurām | dṛśamāsādya nidrāṇakaraṇoyamivāsthitaḥ 11| upādhāsya viśālākṣi viśālāṃ dvāradehalīm | aśeta niśi niḥśaṃkaṃ tāvallaṃbekṣaṇaḥ kṣaṇam 12| māmapṛcchadbhṛṃgiriṭiḥ praṇamyapādapaṃkajam | anena vidhinā kena vihitaṃ tava darśanam 13| tapastaptaṃ hutaṃ japtaṃ kimanena mahātmanā | datte pratipadaṃ devo yasya hastāvalaṃbanam 14| ayaṃ na labhate gaṃtuṃ kasmādasmātpurādbahiḥ | yadṛcchayā yadā kāśī sīmāmullaṃghya gacchati 15| na paśyati tadā sarvānpārśvasthānapi dehinaḥ | atra hetumahaṃ jñātumicchāmi svāmibhāṣitām 16| anugrāhyosmi cedvaktuṃ yuktaṃ cettadudīraya | bhṛṃgiriṭerimaṃ praśnaṃ samākarṇyāhamūcivān 17| kadācidāsaṃ kailāsaṃ pārśve punnāgakānane[http://puranastudy.freeoda.com/pur_index18/punnaga.htm punnāgopari ṭippaṇī] | raṇatkhecarasuśroṇi pūrṇastabakakānane 18| kalakaṃṭhakulālāpa kallolitadigaṃtare | garutmadādidātyūha samūhasvarasaṃkule 19| bhramaddārughaṭīyaṃtra prollasadbiṃdudaṃture | prabuddhasāraṇiprāṃta kadalīkaṃdalālase 20| kastūrīhariṇopete kiṃnarasvaramohite | romaṃthamaṃtharāpāṃgairmṛgaiḥ kvāpi niṣevite 21| haṃsaiḥ kīreṣu pāṃḍityaṃ kurvāṇaiḥ saṃkule śukaiḥ | nirhṛdikvaṇinīraṃdhra samīraṇaviloḍite 22| mādhavīpuṣpaniryāsaśīdhukṣībamadhuvrate | unmīlittrivalīpuṣpagucchasaurabhanirbhare 23| protphullabakulāmodamadamaṃtharaṣaṭpade | somādudbhūtapīyūṣakṣālitakṣitimaṃḍale 24| adhyāsya vedikāmekāmahaṃ kṣaṇamavasthitaḥ | uddaṃḍaśākhisaṃghaṭṭasphuṭanmaṃthāmukhotkaraiḥ 25| prakaṃpitā calacchāyo vavau caṃḍasamīraṇaḥ | paścādabhūnmahāghoṣo nirghoṣita darītaṭaḥ 26| avātarattataḥ kaścitpakṣī gaganagahvarāt | śāradānaridacchāyaḥ kajjalānāmivoccayaḥ 27| tamasāmiva saṃghātaḥ pakṣacchedīva parvataḥ | avaṣṭabhya kṣitiṃ padmāṃ pakṣī māṃ praṇanāma saḥ28| ānīya padmamamlānamasau matpādayorvyadhāt | athāsau spaṣṭayā vācā pakṣī stotramudīrayat 29| jayadeva cidānaṃda sudhāsiṃdho jagatpate | sadā sadbhāvanā saṃga kallolānaṃtavigraha 30| advaitavāsanā matyā malatrayavivarjita | jiteṃdriya parādhīna samādhiprāpyavigraha 31| nirupādhivinirmukta nirākāra nirāmaya | niḥsīma nirahaṃkāra nirāvaraṇanirguṇa 32| śaraṇāgatasaṃtrāṇa pravīṇa caraṇāṃbuja | bhīmamāla mahāvyāla jvālādagdhamanobhava 33| kuṭhārabhinnadaityeṃdra gaṃḍūṣita mahāvibho | tripurapramadābhāla siṃdūroddhūlimārjana 34| kātyāyanīkucāṃbhoja varakuṃkumacarcita | namaḥ pramāṇadūrāya namaḥ pramatirūpiṇe 35| namaścaitanyanāthāya namastrailokyarūpiṇe | vaṃde tava padāṃbhojaṃ yogipravaracuṃbitam 36| apārabhavapātho'dhi pārāvataraṇādbhutam | vācaspatirapi stotre bhavato na pragalbhate 37| sahasravadanasyāpi phaṇīṃdrasya na cāturī | tvadvarṇane mahādeva ko'haṃmalpamatiḥ khagaḥ 38| stotrametatsamākarṇya kṛtaṃ tena patatriṇā | tamavocamahaṃ ko'si kutastyosi vihaṃgama 39| haṃsena sadṛśaḥ kāyo varṇaḥ kākena saṃnibhaḥ | prayojanaṃ kamuddiśya prāptosīha taducyatām 40| iti pakṣī mayā pṛṣṭaḥ praśrayānatakaṃdharaḥ | jagāda ślakṣṇayā vācā pakṣīvākyavidāṃvaraḥ 41| deveśa dhūrjaṭe viddhi māṃ marālaṃ svayaṃbhuvaḥ | karmaṇā yena me kārṣṇyaṃ jātamādhunikaṃ vibho 42| tadākarṇaya sarvajña pṛṣṭaṃ yadi taducyate | mānasātsarasaḥ pṛthvīṃ yātaḥ prāptosmi saṃkaṭam 43| saurāṣṭranagarādārātsarasi sphuṭadaṃbuje | bāleṃdukhaṃḍadhavalānmṛṇālakavalānaham 44| ādāya balamāśritya niragāṃ gaganaṃ drutam | vihāyasastatastasmādakasmādapataṃ bhuvi 45| atha mohaparītātmā sarvathā vikaleṃdriyaḥ | vepamānavapurmohātspṛṣṭaḥ śītaiḥ samīraṇaiḥ 46| prabuddhaḥ patane hetumapaśyannātmanastadā | aho kimetadāpannamadya pātaḥ kathaṃ mama 47| kālimā yena kāyesminpakvakarpūrapāṃḍure | ityahaṃ vismayāviṣṭo yāvatkurve vicāraṇam 48| tāvadaṃburuhādvāṇīmaśrauṣamahamīdṛśīm | uttiṣṭha haṃsa vakṣyāmi kāraṇaṃ pātakārṣṇyayoḥ 49| athotthāya samāgatya mayā madhye sarovare | dṛṣṭarājīvinīramyā rājīvaiḥ paṃcabhiryutā 6.184.50| kāraṇaṃ praṣṭumārebhe kārṣṇyasya patanasya ca | atha tatra ghanaśyāmānsvarṇavarṇāṃbarāvṛtān 51| caturbhujāngadāśaṃkhacakrapaṃkeruhāyudhān | kirīṭahārakeyūrakuṃḍaladyuticitritān 52| adrākṣamaṃtarikṣasthānpuruṣānayutāni ṣaṭ | natvā pradakṣiṇīkṛtya paṃcapadmāṃ sarojinīm 53| ātmīyaṃ pātamārabhya pṛṣṭaṃ tadakhilaṃ mayā | padminyuvāca| kalahaṃsa gato'si tvaṃ māṃ vilaṃghya vihāyasā 54| tena pātakayogena patito'si mahītale | tenaiva kālimā kāye pakṣisattama lakṣyate 55| bhavaṃtaṃ patitaṃ vīkṣya kṛpāpūrṇena cetasā | madhyamenāmunābjena vadatā jātasaurabham 56| āghrāya ṣaṭpadāḥ ṣaṣṭisahasrāṇi divaṃ yayuḥ | ete ye bhavatāṃ dṛṣṭāḥ nīlotpalasamatviṣaḥ 57| sarve te saptame'tīte janmanyāsanmuneḥ sutāḥ | asyaiva sarasastīre tepuste paramaṃ tapaḥ 58| kadācitkāminī kāciccaṃpakastabakastanī | calāpāṃgakālākāṃtataraṃgita rasālinī 59| nāsā muktāphalajyotsnā cuṃbitasmita dīdhitiḥ | vīṇāṃ vinyasya kucayorvane'sminmadhuraṃ jagau 60| gāyaṃtyā svaramākarṇya brāhmaṇā hariṇā iva | tāṃ samāgatya te sarve samameva vyalokayan 61| mayā dṛṣṭā mamaiveyamityūcuste parasparam | muṣṭāmuṣṭi tatasteṣāṃ bhrātṝṇāmabhavadraṇaḥ 62| anyonyamuṣṭiniṣpiṣṭa vakṣasastyaktajīvitāḥ | te bhuktvā nirayānghorānbabhūvuḥ sārasā bhuvi 63| tadā te śvāpadānjaghnurdagdhāvanyena vahninā | tato mātaṃgatāmetya pathipāṃthānaghātayan 64| vane viṣodakaṃ pītvā te yayuryamamaṃdiram | kharoṣṭrakapimārjāra janmānyāsādya ca kramāt 65| tato madhuvratā jātā vartaṃte'tra sarovare | adya me gaṃdhamāghrāya prāpuste vaiṣṇavaṃ padam 66| śṛṇu pakṣīṃdra vakṣyāmi yena mayyasti vaibhavam | etasmājjanmanaḥ pūrve tṛtīye janmani kṣitau 67| sarojavadanānāma dvijāteḥ kanyakā'bhavam | pātivratyaikaniratā guruśuśrūṣaṇe ratā 68| kadācitsārikāmekāṃ pāṭhayaṃtyāvilaṃbitam | sārikā bhava pāpe tvaṃ patyā śaptāsmi kupyatā 69| pretya sāritvamāsādya pātivratyaprasādataḥ | munīnāmeva sadane kanyā kācitpupoṣa mām 70| gītānāṃ daśamādhyāyaṃ vibhūtiriti viśrutam | prātaḥ paṭhati viprosāvaśrauṣaṃ tamaghāpaham 71| kālena sārikādehamahaṃ hitvā vihaṃgama | daśamādhyāyamāhātmyādapsarāścābhavaṃ divi 72| padmāvatīti vikhyātā padmāyā dayitā sukhī | kadācana mayā yāṃtyā vimānena vihāyasā 73| etatsarovaraṃ ramyaṃ vilokya vimalāṃbujam | avatīrya jalakrīḍāyāvadārabhyate mayā 74| durvāsāstāvadāyāto vivastrā tena vīkṣitā | tadbhayātpadminīrūpaṃ dhṛtametanmayā svayam 75| padbhyāṃ padmadvayaṃ caiva dvayaṃ hastadvayena ca | mukhena paṃcamāṃbhojamiti paṃcāṃbujāsmyaham 76| dṛṣṭā tena munīṃdreṇa kopajvalita cakṣuṣā | anenaiva svarūpeṇa tiṣṭha pāpe śataṃ samāḥ 77| iti śāpaṃ samutsṛjya sa caivāṃtardadhe kṣaṇāt | vibhūtyadhyāyamāhātmyādvāṇī me na vilīyate 78| madvilaṃghanamātreṇa patitosi mahītale | adya śāpanivṛttirme tiṣṭhataste khagottama 79| niśāmaya mayā gīyamānamadhyāyamuttamam | yasyākarṇanamātreṇa tvamadyaiva vimokṣyase 80| ityasau daśamādhyāyaṃ papāṭha ślakṣṇayā girā | tamākarṇya tayā dattamādāya ca saroruham 81| mayā samarpitaṃ tubhyaṃ padminyā padmamuttamam | ityuktvā sa jahau dehaṃ tadadbhutamivābhavat 82| bhṛṃgiriṭiruvāca| purātane bhave ko'yaṃ brahma haṃso'bhavatkathaṃ | tavāgrataḥ kuto hetorutsasarja kalevaram 83| iti bhṛṃgiriṭirvākyamākarṇyāhaṃ tadābruvam | dvijaveśmani pūrvasminjanmanyayamajāyata 84| sutapā iti vikhyāto brahmacārī jiteṃdriyaḥ | vasangurukule kurvanvedādhyayanamanvaham 85| guruśuśrūṣaṇaṃ samyagvidadhāti ca bhaktitaḥ | śayānasya guroḥ śayyāṃ nidritaḥ sapadā spṛśat 86| tena pāpena tiryaktvamayaṃ svarge'pi labdhavān | padmayonimarālānāṃ madhye jātastato dvijaḥ 87| asmiñjanmanyamuṣyeha purāsmallokanāvadhi | gītānāṃ daśamādhyāyaṃ nalinyā kathitaṃ tataḥ 88| ākarṇya vihago lebhe brahmajñānamanuttamam | so'yaṃ viprakule jāto daśamādhyāyavaibhavāt 89| janmābhyāsavaśādasya śiśorapi mukhāṃbujāt | gītānāṃ daśamādhyāyaḥ samullasati sarvadā 90| tadarthapariṇāmena sarvabhūteṣvavasthitam | śaṃkhacakradharaṃ devamayaṃ paśyati sarvadā 91| yasminyasminyadaivāsya dṛṣṭiḥ snigdhā śarīriṇaḥ | sa sa mukto bhavetsarvaḥ surāpo brahmahā'pi vā 92| tadvijñāya mayā vipraḥ paramātmasvarūpiṇā | idaṃ nagaramānīto muktikṣetraṃ svabhāvataḥ 93| atratyānāṃ manuṣyāṇāṃ muktiḥ karatale sthitā | tenāsya dṛṣṭipātena viśeṣo'nyo na jāyate 94| na dadāmi bahirgaṃtumahamasya purā kṛtam | daśamādhyāyamahātmyāttatvajñānaṃ sudurlabham 95| labdhametena muninā jīvanmuktiriyaṃ tathā | tenāsya calato hastaṃ dadāmi pathi gacchataḥ 96| daśamādhyāyamahimā bhṛṃgiriṭe mahānayam | iti bhṛṃgiriṭeragre kathitaṃ yatkathānakam 97| tavedamatra kathitaṃ sarvapāpapraṇāśanam | naro vāpyathavā nārī yāpi ko'pi ca vā punaḥ 98| asya śravaṇamātreṇa sarvāśramaphalaṃ labhet 99| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe gītāmāhātmye caturaśītyadhikaśatatamodhyāyaḥ 184| |

English translation

[ Note : this page corresponds to chapter 184 of the Book 6 (Uttarakhaṇḍa) of the translation of The Padmapurāṇa ]

The goddess said :

1-5a. O you omniscient one, the life of all, the lord of all, the master of speech, O Śiva , I am lucky since you, respectable and visible, have explained this auspicious grandeur of the ninth chapter, the honey, full of many wonderful and sweet accounts. O lord of gods, I, hearing it, was not content. O Śiva, my desire to hear it is not dulled. (On the contrary) it increases. My life is listening to the Gītā , O you ocean of greatness. Even in that (Gītā) the sages declare the tenth chapter to be the principal. Tell me an account relating to that great chapter.

Śiva said :

5b-17. O beautiful one, listen to this ladder to the inaccessible heaven difficult to get. It is, as it were, the limit of grandeurs, highly purifying account. In the city of Kāśī , there was a brāhmaṇa devoted to pious fame. His mind was tranquil, free from mischief, cruelty and violence. With his senses controlled, he was always engaged in bliss. He was known as Dhīradhī , and was devoted to me like Nandin . He had crossed the ocean of the Vedas , and was proficient in the meaning of all holy texts. Once while he, subservient (i.e. given) to meditation, with his mind plunged in (the thought of) the internal soul, having the eyes of (i.e. perceiving) the Supreme Spirit, was going, I, through affection, ran, and gave support to his hand, causing wonder. The absent-minded one, having sipped water, having fixed his eyes full of great joy on the tip of his nose, remained, with his senses as it were sleepy. When he, of long (broad) eyes, slept for a while, without fear, at night, using as a pillow the large threshold of the door, O broad-eyed one, Bhṛṅgiriṭi, saluting my lotus-like feet, asked me: “Due to which rite has he secured your sight? What (kind of) penance has this noble one practised, what oblations has he made, what (hymns) has he muttered, that the god supports his hand at every step? Why is he not able to go out of this city? If, by chance, he crosses the boundary of Kāśī, he does not see even these people that are by his side. I wish to know the cause of this—(I wish to hear) the words of my master. If I deserve to be favoured then tell me what is proper.” Hearing this question of Bhṛṅgiriṭi, I said:

18-26. Once I was in the Punnāga forest which was near Kailāsa , the forest which was full of the hosts of the beautiful divine women making sounds, in which the quarters were joyful with the multitudes of the cooings of the cuckoos, which was full of the notes of (birds) like the eagle and the cātaka , which was bristling with the drops shining on the rotating, wooden machine for raising water, which was full of the bulbs of the plantain trees (growing) on the sides of the drains, which was full of musk-deer, which was stupefied with the sounds of kinnaras , which was at places resorted to by deer with the outer corners of their eyes dull due to rumination, which was full of parrots, where the swans showed their cleverness among them, which was stirred by the thick wind, with joyful sounds, in which the bees were intoxicated by the rum exuding from the Mādhavī flowers, which was full of the fragrance of the clusters of blooming trivalī flowers, in which the bees were slow due to the intoxication caused by the fragrance of blooming bakula flowers, in which the region of the earth was washed with the nectar oozing from the moon. Having sat on a seat I remained there for a while. The wind, by way of the churning sticks in the form of terrific branches breaking due to friction, blew under the pretext of a trembling mountain. Then there was a great sound which resounded at the sides of the valley.

27-38. Then from the cave of the sky a bird descended. He was like the autumnal cloud, and was as it were the mass of collyrium. He was as it were the mass of darkness, or a mountain with its wings cut off. Having rested on the earth, the bird saluted me. Having brought a fresh flower, he put it at my feet. Then the bird uttered (my) praise with distinct words: “Victory to you, O god, O Brahman , O joy, O ocean of nectar, O lord of the world, O billow of the continuous contact with good feelings, O you having infinite bodies, O you who are free from the three kinds of dirt due to your thought full of the feeling of uniqueness, O you who have conquered your senses, O you who are dependent, O you, whose body can be secured (only) by means of concentration, O you free from adjuncts, O you who are free, O formless one, O pure one, O limitless one, O you free from egotism, O you having no obstruction, O you qualityless one, O you protector of those who have submitted themselves to you, O you with skilful lotus-like feet, O you of a terrible garland, O you great tiger, O you who burnt Cupid with flames, O you who pierced the lord of demons with an axe, O you great lord, O you who wiped the sindūra on the forehead of the wife of Tripura , O you who applied excellent saffron to the lotus-like breasts of Kātyāyanī , salutation to (you), who are away from proofs, to (you) of the form of great intellect, to (you) the lord of life, to (you) of the form of the three worlds. I salute your lotus-like feet which are touched by the excellent meditating saints and which are wonderful in going to the other end of the unlimited ocean of the worldly existence. Even the lord of speech (i.e. Bṛhaspati ) is not able to praise you. Even ( Śeṣa ), the lord of serpents, does not have the skill in describing you, O great god; then what to say of me, a bird, with a small intelligence?”

39-54a. Having heard this praise made by the bird, I said to him: “O bird, who are you, wherefrom do you come? Your body is like that of a swan, and your colour is like that of a crow. Tell me for what purpose you have come here.” The bird, the best among speakers, thus asked by me, with his neck slightly bent in respect spoke with a soft voice: “O lord of gods, O Dhūrjaṭī, know me to be Brahmā ’s swan. (Know) due to which this blackness has recently come up, O lord. O you omniscient one, listen to what is said (in reply to) what is asked by you. When I came to the earth from the Mānasa lake, I landed into a danger. Near the Saurāṣṭra city, I, having taken mouthfuls of lotus-stalks, white like the young crescent moon, from a lake where the lotuses were blooming, resorted to my strength and quickly went into the sky. Then from the sky I suddenly fell on the ground. Then with my mind covered with swoon, with my senses fully weakened, with my body trembling, I, being touched by cool breezes, regained consciousness. I did not ascertain the cause of my fall. ‘Oh, what has this come? How had I a fall today due to which I have this blackness on my body, white like perfect camphor?’ Thus when I, full of wonder, thought (to myself), I heard, from the lotus, words like these: ‘O swan, get up; I shall tell you the cause of your fall and blackness.’ Then I got up and came to the middle of the lake. I saw a charming lotus-plant, having five lotuses. I commenced asking (it) the cause of (my) blackness and fall. Then I saw, in the sky, six myriad men who were dark like clouds, who had covered themselves with gold-coloured garments, who had four arms (each), the weapons (of each) of whom were a mace, a conch, a disc and a lotus, who were variegated with crowns, necklaces, armlets and ear-rings. Having saluted and gone round, keeping it to my right, the lotus-plant, I asked her everything beginning with my fall”.

The lotus plant said :

54b-63a. O swan, you moved in the sky passing over me. Due to that sin you have fallen on the ground. O best bird, due to that only blackness is seen on your body. Sixty thousand bees, smelling the fragrance, produced by the middle lotus that was talking on seeing you falling with its mind full of compassion, went to heaven. Those whom you saw having a lustre like that of a blue lotus, were the sons of a sage in the seventh existence that has passed. On the bank of this very lake, they practised a very severe penance. Sometime, a beautiful lady, having breasts like clusters of campaka -ftowers, with the outer corners of her eyes unsteady and charming due to wavy hair, with the brightness of her smile being kissed by the moonlight released from the pearl of her nose, having put the lute between her breasts, sang in the forest. Hearing the sound of her who was singing, the brāhmaṇas , like deer, went to her, and saw her simultaneously. They said to one another: “I saw her (first), she is mine.” Then a pugilistic encounter took place among the brothers. With their chests pounded with one anothers’ fists, they died.

63b-82. Having enjoyed various fearful hells, they became cranes on the earth. Then they killed wild beasts and were burnt by wild fire. Then being born as cāṇḍālas they killed travellers on the way. Having drunk poisonous water in the forest, they went to Yama ’s abode. One by one they got the stock of an ass, a camel. a monkey, and a cat. Then they be came bees, and are (now) in the lake. Today having smelt my fragrance they have gone to the position of Viṣṇu . O best bird, listen, I shall tell you (that) by which there is grandeur in me. In the third birth that has passed (from this birth), I was a daughter of a brāhmaṇa named Sarojavadana. I was devoted only to fidelity, and was engaged in serving the elders. Once, while I was teaching a sārikā , there was a delay. My husband, who got angry, cursed me: “O sinful one, be a sārikā.” After death I got sārikāhood (i.e. was born as a sārikā), (but) due to the propitiousness of my fidelity, a girl in the sages’ house nourished me. It is well-known that the tenth chapter (of the Gītā) is power(-ful). The brāhmaṇa recited it in the morning; I listened to it removing sin. O bird, after (some) time, I cast the body of the sārikā, and became, due to the greatness of the tenth chapter, a celestial nymph in heaven. I was known as Padmavatī; and was the dear friend of Lakṣmī . Once when I was going in an aeroplane through the sky, I saw this charming lake containing spotless lotuses. After descending, when I started sporting in its water, Durvāsas came (there) and saw me without clothes. Then I myself took up this form of a lotus plant. I have five lotuses, two lotuses with my two feet (turned into them), two lotuses with my hands (turned into them) and the fifth lotus with my face (turned into that). The lord of sages looked at me with eyes blazing with anger. “O sinful one, with this form only stay for a hundred years.” Giving a curse like this, he vanished in a moment. Due to the greatness of the tenth chapter my (power of) speech has not vanished. By just going over me, you fell on the ground. O best bird, today, when you remain (by me) my curse will cease. Listen to the best chapter recited by me; by just hearning [hearing?] which you will be free from the curse today only.

Saying like this, she recited the tenth chapter in a soft voice. Having heard it, and having taken the lotus given by her, I offered it, the best lotus of the lotus plant, to you.

Speaking like this, he cast his body. It was wonderful.

Bhṛṅgiriṭi said .

83-99. Who was he in his former birth? How did he be come Brahmā’s swan? With what intention did he cast his body i n front of you?

Hearing these words of Bhṛṅgiriṭi, I said to him: “He was born in the former birth in a brāhmaṇa’s house. He was well known as Sutapas , was a celibate and had his senses controlled. Living in his preceptor’s house, he studied the Vedas everyday. He devoutly and properly served his preceptor. (Once) he while asleep touched, with his foot, his preceptor who was asleep. Due to that sin he obtained the state of a lower animal even in heaven. Then the brāhmaṇa was born among the swans of the Lotus-born (Brahmā). In this existence, when I was watching, the tenth chapter of the Gītā was narrated before him. Having heard it, the bird obtained excellent knowledge. Due to the grandeur of the tenth chapter he was born in a brāhmaṇa family. Due to practice from birth, from the lotus-like face of him even when a child the tenth chapter of the Gītā always flashes. As a result of its meaning he always sees the god holding a conch, a disc, living in all beings. He on whomsoever and whenever, he casts his affectionate glance, is released even though he is a drunkard or killer of a brāhmaṇa. Knowing that I, of the form of the Supreme Soul, brought the brāhmaṇa to this city which is naturally a holy place giving salvation. Salvation is (just) on the palm of people living here. Therefore, due to his seeing (them) no other special effect is produced. I do not allow his knowledge very difficult to get, whicḥ he formerly obtained due to the greatness of the tenth chapter, to go out of him. So also this sage obtained salvation while living. Therefore, I give him my hand when he moves and walks along the road. O Bḥṛṅgiriṭi, such is the great importance of the tenth chapter.

Thus I have told the same account destroying sins as was told before (i.e. to) Bḥṛṅgiriṭi. A man or a woman, whosoever (he or she may be) would obtain the fruit of all the stages of an life by merely listening to it.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 44903, revision 333373 (2022-03-05T10:23:00Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-bhagavad-gita-mahatmya/d/doc365764.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.